महायानसूत्रालंकार · अध्याय 17
एतेन यथोक्तासु षट्सु पारमितासु स्थितस्य बोधिसत्त्वस्य संग्रहवस्तुप्रयोगं दर्शयति स्वपरार्थसंपादनात् पारमिताभिः संग्रहवस्तुभिश्च यथाक्रमम् ।
॥ महायानसूत्रालंकारे पारमिताधिकारः [षोडशः] समाप्तः ॥
सप्तदशो ऽधिकारः ।
बुद्धपूजाविभागे सप्त श्लोकाः ।
संमुखं विमुखं पूजा बुद्धानां चीवरादिभिः ।
गाढप्रसन्नचित्तस्य संभारद्वयपूरये
अबन्ध्यबुद्धजन्मत्वे प्रणिधानवतः सतः ।
त्रयस्यानुपलम्भस्तु निष्पन्ना बुद्धपूजना
सत्त्वानामप्रमेयानां परिपाकाय चापरा ।
उपधेश्चित्ततश्चान्या अधिमुक्तेर्निधानतः
अनुकम्पाक्षमाभ्यां च समुदाचारतो ऽपरा ।
वस्त्वाभोगावबोधाच्च विमुक्तेश्च तथात्वतः
इत्येभिश्चतुर्भिः श्लोकैः ।
आश्रयाद्वस्तुतः पूजा निमित्तात्परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च प्रदर्शिता
वेदितव्या । तत्राश्रयः समक्षपरोक्षा बुद्धाः । वस्तु चीवरादयः । निमित्तं प्रगाढप्रसादसहगतं चित्तं । परिणामना पुण्यज्ञानसंभारपरिपूरये । हेतुरबन्ध्यो मे बुद्धोत्पादः स्यादिति पूर्वप्रणिधानं । ज्ञानं निर्विकल्पं पूजकपूज्यपूजानुपलम्भतः । क्षेत्रमप्रमेयाः सत्त्वाः । तत्परिपाचनाय तैस्तत्प्रयोजता[ना]त् तेषु तद्रोपणतः । निश्रय उपधिश्चित्तं च । तत्रोपधिं निश्रित्य पूजाचीवरादिभिश्चित्तं निश्रित्यास्वादनानुमोदनाभिनन्दनमनस्कारैः । त [य]थोक्तैश्चाधिमुक्त्यादिभिर्यदुत महायानधर्माधिमुक्तितः बोधिचित्तोत्पादतः । प्रणिधानमेव हि निधानमत्रोक्तं श्लोकवत्त्वा[बन्धा]नुरोधात् । सत्त्वानुकम्पनतः । दुष्करचर्या दुःखक्षमणतः पारमितासमुदाचारतः । योनिशो धर्ममनसिकारतः । स ह्यविपर्ययस्तत्त्वाद्वस्त्वाभोगः । सम्यग्दृष्टितो दर्शनमार्गे । स हि यथाभूतावबोधाद्वस्त्ववबोधः ।
विमुक्तितः क्लेशविमोक्षाच्छ्रावकाणां । तथात्वतो महाबोधिप्राप्तेरित्ययं पूजायाः प्रकारभेदः ।
हेतुतः फलतश्चैव आत्मना च परैरपि ।
लाभसत्कारतश्चैव प्रतिपत्तेर्द्विधा च सा
परीत्ता महती पूजा समानामानिका च सा ।
प्रयोगाद्गतितश्चैव प्रणिधानाच्च सा मता
इत्ययमर्था[ध्वा]दिभेदेनापरः प्रकारभेदः । तत्रातीता हेतुः प्रत्युत्पन्ना फलं प्रत्युत्पन्ना हेतुरनागता फलमित्येवं हेतुफलतो ऽतीतानागतप्रत्युत्पन्ना वेदितव्या । आत्मनेत्याध्यात्मिकी परैरिति बाह्या । लाभसत्कारतो औदारिकी । प्रतिपत्तितः सूक्ष्मा । परीत्ता हीना महती प्रणीता । पुनः समाना हीना निर्माना प्रणीता त्रिमण्डलाविकल्पनात् । कालान्तरप्रयोज्या दूरे । तत्कालप्रयोज्यान्तिके । पुनर्विछिन्नायां गतौ दूरे । समनन्तरायामन्तिके । पुनर्यां पूजामायत्यां प्रयोजयितुं प्रणिदधाति सा दूरे यां प्रणिहितः कर्तुं सान्तिके । कतमा पुनर्बुद्धपूजा परमा वेदितव्येत्याह ।
बुद्धेषु पूजा परमा स्वचित्तात् धर्माधिमुक्त्याशयतो विभुत्वात् ।
अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश्च
इत्येभिः पञ्चभिराकारैः स्वचित्तपूजा बुद्धेषु परमा वेदितव्या । यदुत पूजोपसंहितमहायानधर्माधिमुक्तितः । आशयतो नवभिराशयैः । आस्वादनानुमोदनाभिनन्दनाशयैः । अतृप्तविपुलमुदितोपकरनिर्लेपकल्याणाशयैश्च ये पारमिताभावनायां निर्दिष्टाः । विभुत्वतो गगनगञ्जादिसमाधिभिः । निर्विकल्पज्ञानोपायपरिग्रहतः । सर्वमहाबोधिसत्त्वैककार्यत्वप्रवेशतश्च मिश्रोपमिश्रकार्यत्वात् ।
कल्याणमित्रसेवाविभागे सप्त श्लोकाः । तत्रार्धपञ्चमैः श्लोकैः ।
आश्रयाद्वस्तुतः सेवा निमित्तात्परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च प्रदर्शिता
मित्रं श्रयेद्दान्तशमोपशान्तं गुणाधिकं सोद्यममागमाढ्यं ।
प्रबुद्धतत्वं वचसाभ्युपेतं कृपात्मकं खेदविवर्जितं च
इत्येवंगुणमित्रं सेवाया आश्रयः । दान्तं शीलयोगादिन्द्रियदमेन । शान्तं समाधियोगादध्यात्मं चेतः शमथेन । उपशान्तं प्रयोगा[प्रज्ञायोगा] (प्रज्ञात्वा)दुपस्थितक्लेशोपशमनतः । गुणैरधिकं न समं वा न्यूनं वा । सोद्यमं नोदसीनं परार्थे । आगमाढ्यं नाल्पश्रुतं । प्रबुद्धतत्वं तत्वाधिगमात् । वचसाभ्युपेतं वाक्करणेनोपेतं । कृपात्मकं निरामिषचित्तत्वात् । खेदविवर्जितं सातत्यसत्कृत्यधर्मदेशनात् ।
सत्कारलाभैः परिचर्यया च सेवेत मित्रं प्रतिपत्तितश्च ।
इति । सेवाया[व]स्तु ।
धर्मे तथाज्ञाशय एव धीमान् मित्रं प्रगच्छेत्समये नतश्च
इति त्रिविधं निमित्तं । आज्ञातुकामता । कालज्ञता । निर्मानता च ।
सत्कारलाभेषु गतस्पृहो ऽसौ प्रपत्तये तं परिणामयेच्च ।
इति परिणामना प्रतिपत्त्यर्थं सेवनान्न लाभसत्कारार्थं ।
यथानुशिष्टप्रतिपत्तितश्च संराधयेच्चित्तमतो ऽस्य धीरः
इति । यथानुशिष्टप्रतिपत्तिः सेवाहेतुः । तया तच्चित्ताराधनात् ।
यानत्रये कौशलमेत्य बुद्ध्या स्वस्यैव यानस्य यतेत सिद्धौ ।
इति यानत्रयकौशलात् ज्ञानं ।
सत्त्वानमेयान्परिपाचनाय क्षेत्रस्य शुद्धस्य च साधनाय
इति द्विविधं क्षेत्रं तत्सेवायाः । अप्रमेयाश्च सत्त्वाः परिशुद्धं च बुद्धक्षेत्रं । धर्मं श्रुत्वा येषु प्रतिष्ठापनात् । यत्र च स्थितेन ।
धर्मेषु दायादगुणेन युक्तो नैवामिषेण प्रवसेत्स मित्रम् ।
इति निश्रयः सेवायाः । धर्मदायादतां निश्रित्य कल्याणमित्रं सेवेत । नामिषदायादतां । अत ऊर्ध्वमध्यर्धेन श्लोकेन प्रकारभेदः सेवाया वेदितव्यः ।
हेतोः फलाद्धर्ममुखानुयानात्सेवेत मित्रं बहितश्च धीमान्
श्रुतश्रवाच्चेतसि योगतश्च समाननिर्मानमनो ऽनुयोगात् ।
हेतोः फलादित्यतीतादिभेदतः पूर्ववत् धर्ममुखानुयानात्सेवेत मित्रं बहितश्च धीमानित्याध्यात्मिकबाह्यभेदः । धर्ममुखस्त्रोतो हि धर्ममुखानुयानं बहिर्धा बहितः श्रुतश्रवाच्चेतसि योगतश्चेत्यौदारिकसूक्ष्मभेदः । श्रवणं ह्यौदारिकं चिन्तनभावनं सूक्ष्मंं । तदेव चेतसि योगः । समाननिर्मानमनो ऽनुयोगादिति हीनप्रणीतभेदः ।
गतिप्रयोगप्रणिधानतश्च कल्याणमित्रं हि भजेत धीमान्
इति दूरान्तिकभेदः पूर्ववद्योजयितव्यः । कतमा पुनः परमा सेवेति सप्तमः श्लोकः ।
सन्मित्रसेवा परमा स्वचित्ताद् धर्माधिमुक्त्याशयतो विभुत्वैः ।
अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश्च
इति पूर्ववत् ।
अप्रमाणविभागे द्वादशश्लोकाः ।
ब्राह्म्या विपक्षहीना ज्ञानेन गताश्च निर्विकल्पेन ।
त्रिविधालम्बनवृत्ताः सत्त्वानां पाचका धीरे
ब्राह्म्या विहाराश्चत्वार्यप्रमाणानि । मैत्री करुणा मुदितोपेक्षा च । ते पुनर्बोधिसत्त्वे चतुर्लक्षणा वेदितव्याः । विपक्षहानितः । प्रतिपक्षविशेषयोगतः । वृत्तिविशेषतस्त्रिविधालम्बनवृत्तित्वात् । तथा हि ते सत्त्वालम्बना धर्मालम्बनाश्च[धर्मालम्बना अनालम्बनाश्च] । कर्मविशेषतश्च । सत्त्वपरिपाचकत्वात् । सत्त्वधर्मालम्बनात् । पुनः कतमस्मिन् सत्त्वनिकाये धर्मे वा प्रवर्तन्ते । अनालम्बनाश्च कतमस्मिन्नालम्बने ।
सौख्यार्थिनि दुःखार्ते सुखिते क्लिष्टे च ते प्रवर्तन्ते ।
तद्देशिते च धर्मे तत्तथतायां च धीराणाम्
सत्त्वालम्बनाः सुखार्थिनि यावत् क्लिष्टे सत्त्वनिकाये प्रवर्तन्ते । तथा हि मैत्री सत्त्वेषु सुखसंयोगाकारा । करुणा दुःखवियोगाकारा । मुदिता सुखवियोगाकारा । उपेक्षासु वेदनासु तेषां सत्त्वानां निःक्लेशतोपसंहाराकारा । धर्मालम्बनास्तद्देशिते धर्मे । यत्र ते विहारा देशिताः । अनालम्बनास्तत्तथतायां । ते ह्यविकल्पत्वादनालम्बना इवेत्यनालम्बनाः । अपि खलु ।
तस्याश्च तथतार्थत्वात् क्षान्तिलाभाद्विशुद्धितः ।
कर्मद्वयादनालम्बा मैत्री क्लेशक्षयादपि
एभिश्चतुर्भिः कारणैरनालम्बना मैत्री वेदितव्या । तथतालम्बनत्वात् । अनुत्पत्तिकधर्मक्षान्तिलाभेनाष्टम्यां भूमौ । धातुपुष्ट्या तद्विशुद्धितः । कर्मद्वयतश्च । या मैत्री निष्पन्देन कायकर्मणा [वाक्कर्मणा?] च? संगृहीता क्लेशक्षयतश्च । तथा हि क्लेश आलम्बनमुक्तं । मनोमयानां ग्रन्थानां प्रहाणादुच्छिद्यते आलम्बनमिति वचनात् ।
ते निश्चलाश्च चलाश्च कृपणैरास्वादिता न च ज्ञेयाः ।
ते च ब्राह्म्या विहाराश्चतुर्विधा वेदितव्याः । तत्र चला हानभागीयाः परिहाणीयत्वात् । अचलाः स्थितिविशेषभागीया अपरिहाणीयत्वात् । आस्वादिताः क्लिष्टाः अनास्वादिता अक्लिष्टाः । कृपणैरिति सुखलोलैरनुदारचित्तैः । एष ब्राह्म्यविहाराणां हानभागीयादिप्रकारभेदः । तेषु पुनः ।
अचलेषु बोधिसत्त्वाः प्रतिष्ठिताः सक्तिविगतेषु
न चलेषु नाप्यास्वादितेषु ।
असमाहितस्वभावा मृदुमध्या हीनभूमिका ये ऽपि ।
हीनाशयाः समाना हीनास्ते ह्यन्यथा त्वधिकाः
एष मृद्वधिमात्रताभेदः । तत्र षड्विधा मृदुका असमाहितस्वभावाः । सर्वे समाहिता अपि । ये मृदुमध्याः । हीनभूमिका ये ऽपि उत्तरां बोधिसत्त्वभूमिमपेक्ष्य । हीनाशया अपि । श्रावकादीनां समाना अपि । ये ऽनुत्पत्तिकधर्मक्षान्तिरहिता हीनास्ते मृदुका इत्यर्थः । अन्यथा त्वधिका इति यथोक्तविपर्ययेणाधिमात्रता वेदितव्या ।
ब्राह्म्यैर्विहृतविहारः कामिषु संजायते यदा धीमान् ।
संभारान्पूरयते सत्त्वांश्च विपाचयति तेन
सर्वत्र चाविरहितो ब्राह्म्यै रहितश्च तद्विपक्षेण ।
तत्प्रत्ययैरपि भृशैर्न याति विकृतिं प्रमत्तो ऽपि
हेतुफललिङ्गभेदः । तत्र ब्राह्म्यैर्विहृतो विहारैरिति हेतुः । कामिषु सत्त्वेषु संजायत इति विपाकफलं । संभारान्पूरयत्यधिपतिफलं । सत्त्वान्परिपाचयतीति पुरुषकारफलं । सर्वत्र चाविरहितो ब्राह्म्यैर्विहारैर्जायत इति निष्पन्दफलं । रहितश्च तद्विपक्षेणेति विसंयोगफलं । भृशैरपि तत्प्रत्ययैरविकृतिगमनं लिङ्गं । प्रमत्तो ऽपीत्यसंमुखीभूते ऽपि प्रतिपक्षे । अन्येश्चतुर्भिः श्लोकैर्गुणदोषभेदः ।
व्यापादविहिंसाभ्यामरतिव्यापादकामरागैश्च ।
युक्तो हि बोधिसत्त्वो बहुविधमादीनवं स्पृशति
इति दोषः । ब्राह्म्यविहाराभावे तद्विपक्षयोगात् । तत्र व्यापादादयो मैत्र्यादीनां यथाक्रमं विपक्षाः । व्यापादकामरागावुपेक्षायाः । कथं बहुविधादीनवं स्पृशतीत्याह ।
क्लेशैर्हन्त्यात्मानं सत्त्वानुपहन्ति शीलमुपहन्ति ।
सविलेखलाभहीनो रक्षाहीनस्तथा शास्त्रा[ता]
साधिकरणो ऽशयस्वी परत्र संजायते ऽक्षणेषु स च ।
प्राप्ताप्राप्तविहीनो मनसि महद् दुःखमाप्नोति
तत्र प्रथमैस्त्रिभिः पदैरात्मव्याबाधाय चेतयते परव्याबाधायोभयव्याबाधायेत्येतमादीनवं दर्शयति । सविलेखादिभिः षड्भिः पदैर्दृष्टधार्मिकमवद्यं प्रसवतीति दर्शयति । कथं च प्रसवति । आत्मास्यापवदते । परे ऽपि देवता अपि । शास्ताप्यन्ये ऽपि विज्ञाः ( म्स_बग्छि 120 ) सब्रह्मचारिणो धर्मतया विगर्हन्ते । दिग्विदिक्षु चास्य पापको ऽवर्णशब्दश्लोको निश्चरतीत्येवं सविलेखो यावदयशस्वीत्येअनेन यथाक्रमं दर्शयति । शेषैस्त्रिभिः पदैर्यथाक्रमं सांपरायिकं दृष्टधर्मसांपरायिकमवद्यं प्रसवति । तज्जं चैतसिकं दुःख[खं] दौर्मनस्य प्रति संवेदयत इत्येतदादीनवं दर्शयति ।
एते सर्वे दोषा मैत्र्यादिषु सुस्थितस्य न भवन्ति ।
अक्लिष्टः संसारं सत्त्वार्थं नो च संत्यजति
इति । ब्राह्मविहारयोगे त्रि[द्वि]विधं गुणं दर्शयति । यथोक्तदोषाभावम् अक्लिष्टस्य सत्त्वहेतोः संसारापरित्यागं ।
न तथैकपुत्रकेष्वपि गुणवत्स्वपि भवति सर्वसत्त्वानां ।
मैत्र्यादिचेतनेयं सत्त्वेषु यथा जिनसुतानां
इत्येते[न?] च बोधिसत्त्वमैत्रादीनां तीव्रतां दर्शयति ।
करूणाविभागे तदालम्बनप्रभेदमारभ्य द्वौ श्लोकौ ।
प्रदीप्तान् शत्रुवशगान् दुःखाक्रान्तांस्तमोवृतान् ।
दुर्गमार्गसमारूढान्महाबन्धनसंयुतान्
महाशनविषाक्रान्तलोलान्मार्गप्रनष्टकान् ।
उत्पथप्रस्थितान् सत्त्वान्दुर्बलान् करुणायते
तत्र प्रदीप्ताः कामरागेण कामसुग्वभक्ताः । शत्रुवशगा मारकृतान्तरायाः कुशले ऽप्रयुक्ताः दुःखाक्रान्ताः दुःखा[भि?]भूता नरकादिषु । तमोवृता औरभ्रिकादयो दुश्चरितैकान्तिकाः । कर्मविपाकसंमूढत्वात् । दुर्गमार्गसमारूढा अपरिनिर्वाणधर्माणः संसारवर्त्मात्यन्तानुपच्छेदात् । महाबन्धनसंयुता अन्यतीर्थ्याः[र्थ्य]मोक्षसंप्रस्थिता नानाकुदृष्टिगाढबन्धनबद्धत्वात् । महाशनविषाक्रान्तलोलाः समापत्तिसुखसक्ताः । तेषां हि तत् क्लिष्टं समापत्तिसुखं । यथा मृष्टमशनं विषाक्रान्तं । ततः प्रच्यावनात् । मार्गप्रणष्टका अभिमानिका मोक्षमार्गभ्रान्तत्वात् । उत्पथप्रस्थिता हीनयानप्रयुक्ता अनियताः । दुर्बला अपरिपूर्णसंभारा बोधिसत्त्वाः । इत्येते दशविधाः सत्वा बोधिसत्त्वकरुणाया आलम्बनम् ।
पञ्चफलसंदर्शने करुणायाः श्लोकः ।
हेठापहं ह्युत्तमबोधिबीजं सुखावहं ताय[प]कमिष्टहेतुं ।
स्वभावदं धर्ममुपाश्रितस्य बोधिर्न दूरे जिनात्मजस्य
ततः हेठापहत्वेन तद्विपक्षविहिंसाप्रहाणाद्विसंयोगफलं दर्शयति । उत्तमबोधिबीजत्वेनाधिपतिफलं । परात्मनोर्यथाक्रमं सुखावहताय[प]कत्वेन पुरुषकारफलं । इष्टहेतुत्वेन विपाकफलं । स्वभावदत्वेन निष्पन्दफलमायत्यां विशिष्टकरुणाफलदानात् । एवं पञ्चविधां करुणामाश्रित्य बुद्धत्वमदूरे वेदितव्यं ।
अप्रतिष्ठितसंसारनिर्वाणत्वे श्लोकः ।
विज्ञाय संसारगतं समग्रं दुःखात्मकं चैव निरात्मकं च ।
नोद्वेगमायाति न चापि दोषैः प्रबाध्यते कारुणिको ऽग्रबुद्धिः
सर्वं संसारं यथाभूतं परिज्ञाय बोधिसत्त्वो नोद्वेगमायाति कारुणिकत्वात् । न दोषैर्बाध्यते ऽग्रबुद्धित्वात् । एवं निर्वाणे प्रतिष्ठितो भवति न संसारे यथाक्रमं । संसारपरिज्ञाने श्लोकः ।
दुःखात्मकं लोकमवेक्षमाणो दुःखायते वेत्ति च तद्यथावत् ।
तस्याभ्युपायं परिवर्जने च न खेदमायात्यपि वा कृपालुः
दुःखायत इति करुणायते । वेत्ति च तद्यथावदिति दुःखं यथाभूतं तस्य च दुःखस्य परिवर्जने ऽभ्युपायं । वेत्ति येनास्य दुःखं निरुध्यते । एतेन जानन्नपि संसारदुःखं यथाभूतं तत्परित्यागोपायं च न खेदमापद्यते बोधिसत्त्वः करुणाविशेषादिति प्रदर्शयति ।
करूणाप्रभेदे द्वौ श्लोकौ ।
कृपा प्रकृत्या प्रतिसंख्यया च पूर्वं तदभ्यासविधानयोगात् ।
विपक्षहीना च विशुद्धिलाभात् चतुर्विधेयं करुणात्मकानां
सेयं यथाक्रमं गोत्रविशेषतः गुणदोषपरीक्षणतः । जन्मान्तरपरिभावनतः । वैराग्यलाभतश्च वेदितव्याः । तद्विपक्षविहिंसाप्रहाणे सति विशुद्धिलाभत इति वैराग्यलाभतः ।
न सा कृपा या न समा सदा वा नाध्याशयाद्वा प्रतिपत्तितो वा ।
वैराग्यतो नानुपलम्भतो वा न बोधिसत्त्वो ह्यकृपस्तथा यः
तत्र समा सुखितादिषु यत्किंचिद्वेदितमिदमत्र दुःखस्येति विदित्वा । सदा निरूपधिशेषनिर्वाणे तदक्षयात् । अध्याशयाद्भूमिप्रविष्टानामात्मपरसमताशयलाभात् । ( म्स_बग्छि 122 ) प्रतिपत्तितो दुःखपरित्राणक्रियया । वैराग्यतस्तद्विपक्षविहिंसाप्रहाणात् । अनुपलम्भतो ऽनुत्पत्तिकधर्मक्षान्तिलाभात् ।
करुणावृक्षप्रतिबिम्बके पञ्च श्लोकाः ।
करुणा क्षान्तिश्चिन्ता प्रणिधानं जन्मसत्त्वपरिपाकः ।
करुणातरुरेष महान्मूलादिः पुष्पपत्र[पश्चिमाग्र](पश्चिमान्त)फलः
इत्येष मूलस्कन्धशाखापत्रपुष्पफलावस्थः करुणावृक्षो वेदितव्यः । एतस्य करुणा मूलं । क्षान्तिः स्कन्धः । सत्त्वार्थचिन्ता शाखा । प्रणिधानं शोभनेषु जन्मसु पत्राणि । शोभनं जन्म पुष्पं । सत्त्वपरिपाकः फलं ।
मूलं करुणा न भवेद् दुष्करचर्यासहिष्णुता न भवेत् ।
दुःखाक्षमश्च धीमान् सत्वार्थं चिन्तयेन्नैव
चिन्ताविहीनबुद्धिः प्रणिधानं शुक्लजन्मसु न कुर्यात् ।
शुभजन्माननुगच्छन्सत्त्वान्परिपाचयेन्नैव
आभ्यां श्लोकाभ्यां पूर्वोत्तरप्रसवसाधर्म्यात्करुणादीनां मूलादिभावं साधयति ।
करुणासेको मैत्री तद्दुःखे सौख्यतो विपुलपुष्टिः ।
शाखावृद्धिर्विशदा योनिमनस्कारतो ज्ञेया
पर्णत्यागादानं प्रणिधीनां संततेरनुच्छेदात् ।
द्विविधप्रत्ययसिद्धेः पुष्पमबन्ध्यं फलं चास्मात्
एताभ्यां श्लोकाभ्यां वृक्षमूलसेकादिसाधर्म्यं करुणावृक्षस्य दर्शयति । करुणा हि मूलवृक्षा[मूलमित्युक्ता] । तस्याः सेको मैत्री तया तदाप्यायनात् । मैत्रचित्तो हि परदुःखेन दुःखायते । ततश्च करुणोद्भव[करुणातो यद्]दुःखमुत्पद्यते बोधिसत्त्वस्यस्वा[सत्त्वा]र्थप्रयुक्तस्य तत्र सौख्योत्पादाद्विपुलपुष्टिः क्षान्तिपुष्टिरित्यर्थः । सा हि स्कन्ध इत्युक्ता । स्कन्धश्च विपुलः । योनिशोमनस्काराद् बहुविधा महायाने शाखावृद्धिः । चिन्ता हि शाखेत्युक्ता । पूर्वापरनिरोधोत्पादक्रमेण प्रणिधानसंतानस्यानुच्छेदात् । पर्णत्यागादानसाधर्म्यं प्रणीधानानां वेदितव्यम् । आध्यात्मिकप्रत्ययसिद्धितः स्वसंतानपरिपाकात्पुष्पमिव जन्माबन्ध्यं वेदितव्यम् । बाह्यप्रत्ययसिद्धितः परसंतानपरिपाकात् फलभूतः सत्त्वपरिपाको [ऽबन्ध्यो?] वेदितव्यः ।
करुणानुशंसे श्लोकः ।
कः कुर्वीत न करुणां सत्त्वेषु महाकृपागुणकरेषु ।
दुःखे ऽपि सौख्यमतुलं भवति यदेषां कृपाजनितं
अत्र महाकरुणागुण उत्तरार्धेन संदर्शितः । शेषो गतार्थः । करुणानिःसङ्गतायां श्लोकः ।
आविष्टानां कृपया न तिष्ठति मनः शमे कृपालूनां ।
कुत एव लोकसौख्ये स्वजीविते वा भवेत्स्नेहः
सर्वस्य हि लोकस्य लौकिके सौख्ये स्वजीविते च स्नेहः । तत्रापि च निःस्नेहानां श्रावकप्रत्येकबुद्धानां सर्वदुःखोपशमे निर्वाणे प्रतिष्ठितं मनः । बोधिसत्त्वानां तु करुणाविष्टत्वान्निर्वाणे ऽपि मनो न प्रतिष्ठितं । कुत एव तयोः स्नेहो भविष्यति । करुणास्नेहवैशेष्ये त्रयः श्लोकाः ।
स्नेहो न विद्यते ऽसौ यो निरवद्यो न लौकिको यश्च ।
धीमत्सु कृपास्नेहो निरवद्यो लोकसमतीतः
मातापितृप्रभृतीनां हि तृष्णामयः स्नेहः सावद्यः । लौकिककरूणाविहारिणां निरवद्यो ऽपि लौकिकः । बोधिसत्त्वानां तु करूणामयः । स्नेहो निरवद्यश्च लौकिकातिक्रान्तश्च । कथं च पुनर्निरवद्य इत्याह ।
दुःखाज्ञानमहौघे महान्धकारे च निश्रितं लोकं ।
उद्धर्तुं य उपायः कथमिव न स्यात्स निरवद्यः
दुःखमहौघ अज्ञानमहान्धकारे चेति योज्यं । शेषं गतार्थं । कथं लोकातिक्रान्त इत्याह ।
स्नेहो न सो ऽत्स्यरिहतां लोके प्रत्येकबोधिबुद्धानां ।
प्रागेव तदन्येषां कथमिव लोकोत्तरो न स्यात्
प्रत्येकां बोधिं बुद्धाः । शेषं गतार्थम् ।
त्रासाभिनन्दननिमित्तत्वे श्लोकः ।
दुःखाभावे दुःखं यत्कृपया भवति बोधिसत्त्वानां ।
संत्रासयति तदादौ स्पृष्टं त्वभिनन्दयति गाढं
दुःखाभावे इति दुःखाभावो निमित्तं सत्त्वेषु करुणया बोधिसत्त्वानां यद् दुःखमुत्पद्यते तदादौ संत्रासयति अधिमुक्तिचर्याभूमौ । आत्मपरसमतया दुःखस्य यथाभूतमस्पृष्टत्वात् । स्पृष्टं तु शुद्धाध्याशयभूमावभिनन्दयत्येवेत्यर्थः ।
करुणादुःखेन सुखाभिभवे श्लोकः ।
किमतः परमाश्चर्यं यद् दुःखं सौख्यमभिभवति सर्वं ।
कृपया जनितं लौक्यं येन विमुक्तो अपि कृतार्थः
नास्यत आश्चर्यतरं यद् दुःखमेव करुणाजनितं बोधिसत्त्वानां तथा सुखं भवति । यत्सर्वं लौकिकं सुखमभिभवति । येन सुखेन विमुक्ता अर्हन्तो ऽपि कृतार्थाः प्रागेवान्ये ।
कृपाकृतदानानुशंसे श्लोकः ।
कृपया सहितं दानं यद्दानसुखं करोति धीराणां ।
त्रैधातुकमुपभोगैर्न तत्सुखं तत्कलां स्पृशति
यच्च त्रैधातुकं सुखमुपभोगै कृतं न तत्सुखं तस्य सुखस्य कलां स्पृशतीत्ययमुत्तरार्धस्यार्थः । शेषं गतार्थम् ।
कृपया दुःखाभ्युपगमे श्लोकः ।
दुःखमयं संसारं यत्कृपया न त्यजति सत्त्वार्थं ।
परहितहेतोर्दुःखं किं कारुणिकैर्न समुपेतम्
सर्वं हि दुःखं संसारदुःखे ऽन्तर्भूतं । तस्याभ्युपगमात् सर्वं दुःखमभ्युपगतं भवति ।
तत्र तत्फलवृद्धौ श्लोकः ।
करूणा दानं भोगाः सदा कृपालोर्विवुद्धिमुपयान्ति ।
स्नेहानुग्रहजनितं तच्छक्तिकृतं सुखं चास्मात्
त्रयं बोधिसत्त्वानां सर्वजन्मसु वर्धते करूणायोगात् । करूणा तदभ्यासात् । दानं करुणावशात् । भोगाश्च दानवशात् । तस्माच्च त्रयात्फलं त्रिविधं सुखं भवति । स्नेहजनितं करुणातः । सत्त्वानुग्रहजनितं दानात् । तदनुग्रहक्रियाशक्तिकृतं भोगेभ्यः ।
दानप्रोत्साहनायां श्लोकः ।
वर्धे च वर्धयामि च दाने परिपाचयामि सुखयामि ।
आकर्षामि नयामि च करुणा सन्नान्प्रवदतीव
दाने सन्नानिति संबन्धनीयं । षड्भिर्गुणैर्दानै ऽवसन्नान् बोधिसत्त्वान्करुणा प्रोत्सहयतीव । स्वभाववृद्ध्या । भोगैस्तद्वर्धनया । दानेन सत्त्वपरिपाचनया । दातुश्च सुखोत्पादनात् । महाबोधिसंभारस्यान्यस्या[संभारस्या]कर्षणात् । महाबोधिसमीपनयनाच्च ।
परसौख्येन सुखा[नु?]भवे श्लोकः ।
दुःखे दुःखी कृपया सुखान्यनाधाय केन सुखितः स्यात् ।
सुखयत्यात्मानमतः कृपालुराधाय परसौख्यम्
करुणया बोधिसत्त्वः परदुःखैर्दुःखितः सत्त्वेष्वनाधाय सुखं कथं सुखितः स्यात् । तस्मात्परेषु सुखमाधाय बोधिसत्व आत्मानमेव सुखयतीति वेदितव्यम् ।
कृपया दानसमनुशास्तौ षट् श्लोकाः ।
स्वं दानं कारुणिकः शास्तीव सदैव निःस्वसुखकामः ।
भोगैः सुखय परं वा मामप्ययुतसौख्यम्
न हि कारुणिकस्य विना परसुखेनास्ति सुखं । तस्यायुतसौख्यत्वाद्वौधिसत्त्वस्तेन विना[त्म?]नो दानस्य फलं सुखं नेच्छति ।
सफलं दानं दत्तं तन्मे सत्त्वेषु तत्सुखसुखेन ।
फल तेष्वेव निकामं यदि मे कर्तव्यता ते ऽस्ति
दानं ददता दानं च दानफलं च तन्मया सत्त्वेषु दत्तं । तत्सुखमेव मे सुखं यस्मात् । अतस्तेष्वेव यावत्फलितव्यं तावत्फलेति लोट् । बोधिसत्त्वः करूणया दानमनुशास्ति ।
भोगद्वेष्टुर्दातुर्भोगा बहुशुभतरोपसर्पन्ति ।
न हि तत्सुखं मतं मे दाने पारंपरो ऽस्मि यतः
भोगविमुखस्य दातुर्भोगा बहुतराश्चोपतिष्ठन्ते । शोभनतराश्च । धर्म तैवेयं चित्तस्योदारतरत्वात् । न हि तत्सुखं मतं मे यद् भोगास्तथोपतिष्ठन्ते । यस्मादहं दाने पारंपरस्तत्प्रबन्धकामत्वान्नसुखे ।
सर्वास्तिपरित्यागे यत्कृपया मां निरीक्षसे सततं ।
ननु ते तेन ज्ञेयं न मत्फलेनार्थितास्येति
यो ऽहं दानफलं सर्वमेव करुणया नित्यं परित्यजामि नन्वत एव वेदितव्यं नास्ति मे दानफलेनार्थित्वमिति बोधिसत्त्वो दानं समनुशास्ति ।
दानाभिरतो न स्यां प्राप्तं चेत्तत्फलं न विसृजेयं ।
तथा हि ।
क्षणमपि दानेन विना दानाभिरतो भवति नैव
इति गतार्थः श्लोकः ।
अकृतं न फलसि यस्मात्प्रतिकारापेक्षया न मे तुल्यं ।
यस्त्वा करोति तस्य त्वं फलसि । तस्मात्त्वं प्रतिकारपेक्षया न मत्तुल्यम् ।
तथा ह्यहं ।
प्रतिकारनिर्व्यपेक्षः परत्र फलदो ऽस्य कामं ते
गतार्थमेतत् ।
कृपादानेन द्वौ श्लोकौ ।
निरवद्यं शुद्धपदं हितावहं चैव सानुरक्षं च ।
निर्मृग्यं निर्लेपं जिनात्मजानां कृपादानम्
तत्र निरवद्यं परमनुपहृत्य दानात् । शुद्धपदं कल्पिकवसु[वस्तु]दानात् । विषशस्रमद्यादिविवर्जनतः । हितावहं दानेन संगृह्य कुशले नियोजनात् । सानुरक्षं परिजनस्याविघातं कृत्वा अन्यस्मै दानात् । निर्मृग्यमयाचमाने ऽप्यर्थित्वं विघातं वावगम्य स्वयमेव दानात् दक्षिणीयापरिमार्गणाच्च । निर्लेपं प्रतिकारविपाकनिःस्पृहत्वात् । अपरः प्रकारः ।
सकलं विपुलं श्रेष्ठं सततं मुदितं निरामिषं शुद्धं ।
बोधिनतं कुशलनतं जिनात्मजानां कृपादानम्
तत्र सकलमाध्यात्मिकबाह्यवस्तुदानात् । विपुलं प्रभूतवस्तुदानात् । श्रेष्ठं प्रणीतवस्तुदानात् । सततमभीक्ष्णदानात् । मुदीतमप्रतिसंख्याय प्रहृष्टदानात् । निरामिषं यथा निर्लेपं । शुद्धं यथा शुद्धपदं । बोधिनतं महाबोधिपरिणामनात् । कुशलनतं यथा हितावहं ।
उपभोअगविशेषे श्लोकः ।
न तथोपभोगतुष्टिं लभते भोगी यथा परित्यागात् ।
तुष्टिमुपैति कृपालुः सुखत्रयाप्यायितमनस्कः
तत्र सुखत्रयं दानप्रीतिः परानुग्रहप्रीतिः बोधिसंभारसंभरणप्रीतिश्च । शेषं गतार्थं ।
पारमिताभिनिर्हारकरुणायां श्लोकः ।
कृपणकृपा रौद्रकृपा संक्षुब्धकृपा कृपा प्रमत्तेषु ।
विषयपरतन्त्रकरुणा मिथ्याभिनिविष्टकरुणा च
तत्र कृपणा मत्सरिणः । रौद्रा दुःशीलाः परोपतापिनः । संक्षुब्धाः क्रोधनाः । प्रमत्ताः कुशीदाः । विषयपरतन्त्रा कामेषु विक्षिप्तचित्ताः । मिथ्याभिनिविष्टाः दुःप्रज्ञाः तीर्थिकादयः । एषु पारमिताविपक्षधर्मावस्थितेषु या करुणा सा कृपणादिकरुणा । सा च तद्विपक्षविदूषणात्पारमिताभिनिर्हाराय संपद्यते । तस्मात्पारमिताभिनिर्हारकरुणेत्युच्यते ।
करुणाप्रत्ययसंदर्शने श्लोकः ।
करुणा बोधिसत्त्वानां सुखाद् दुःखात्तदन्वयात् ।
करुणा बोधिसत्त्वानां हेतोर्मित्रात्स्वभावतः
तत्र पूर्वार्धेनालम्बनप्रत्ययं करुणायाः संदर्शयति । त्रिविधां वेदनामालम्ब्य तिसृभिर्दुःखताभिः करुणायनात् । अदुःखासुखा हि वेदना सुखदुःखयोरन्वयः पुनस्तदावाहनात् । ( म्स_बग्छि 127 ) उत्तरार्धेन यथाक्रमं हेतुमित्रस्वभावैः करुणाया हेत्वधिपतिसमनन्तरप्रत्ययान्संदर्शयति ।
महाकरुणत्वे श्लोकः ।
करुणा बोधिसत्त्वानां समा ज्ञेया तदाशयात् ।
प्रतिपत्तेर्विरागाच्च नोपलम्भाद्विशुद्धितः
तत्र समा त्रिविधवेदनावस्थेषु यत्किंचिद्वेदितमिदमत्र दुःखस्येति विदित्वा । सा पुनराशयतो ऽपि चित्तेन करुणायनात् । प्रतिपत्तितो ऽपि तत्परित्राणात् । विरागतो ऽपि तद्विपक्षविहिंसाप्रहाणात् । अनुपलम्भतो ऽप्यात्मपरकरुणानुपलम्भात् । विशुद्धितो ऽप्यष्टभ्यां भूमावनुत्पत्तिकधर्मक्षान्तिलाभात् ।
मैत्राद्रिभावनाग्रा स्वचित्ततो धर्मतो ऽधिमोक्षाच्च ।
आशयतो ऽपि विभुत्वादविकल्पादैक्यतश्चापि
इति । पूर्वनिर्देशानुसारेणार्थो ऽनुगन्तव्यः ।
इति भगवति जातुसुप्रसादो महदुपधिध्रुवसत्क्रियाधिपूजी ।
बहुगुणहितमित्रनित्यसेवो जगदनुकम्पक एति सर्वसिद्धिं
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0