महायानसूत्रालंकार · अध्याय 16
अनेन श्लोकेन चतुर्थेन विशुद्ध्युपायं कर्मणो दर्शयति । मण्डलपरिशुद्धितः कर्तृकर्मक्रियाणामनुपलम्भात् । अनन्तमित्यक्षयम् ।
॥ महायानसूत्रालंकार उपायसहितकर्माधिकारः पञ्चदशः ॥
षोडशो ऽधिकारः
पारमिताप्रभेदसंग्रहे उद्दानश्लोकः ।
सांख्याथ तल्ललक्षणमानुपूर्वी निरुक्तिरभ्यासगुणश्च तासां ।
प्रभेदनं संग्रहणं विपक्षो ज्ञेयो गुणो ऽन्योन्यविनिश्चयश्च
संख्याविभागे षट् श्लोकाः ।
भोगात्मभावसंपत्परिचारारम्भसंपदभ्युदयः ।
क्लेशावशगत्वमपि च कृत्येषु सदाविपर्यासः
इति प्रथमः । तत्र चतसृभिः पारमिताभिश्चतुर्विधो ऽभ्युदयः । दानेन भोगसंपत् । शीलेनात्मभावसंपत् । क्षान्त्या परिचारसंपत् । तथा हि तदासेवनादायत्याद्[त्यां] बहुजनसुप्रियो भवति । वीर्येणारम्भसंपत् सर्वकर्मान्तसंपत्तितः । पञ्चम्या क्लेशावशगत्वं ध्यानेन क्लेशविष्कम्भनात् । षष्ठ्या कृत्येष्वविपर्यासः सर्वकार्ययथाभूतपरिज्ञानात् । इत्यभ्युदयः तत्र चासंक्लेशमविपरीतकृत्यारम्भं चाधिकृत्य षट् पारमिता व्यवस्थिताः ।
सत्त्वार्थेषु सुयुक्तस्त्यागानुपघातमर्षणैः कुरुते ।
सनिदानस्थितिमुक्त्या आत्मार्थं सर्वथा चरति
इति द्वितीयः । सत्त्वार्थेषु सम्यक्प्रयुक्तो बोधिसत्त्वस्तिसृभिर्दानशीलक्षान्तिपारमिताभिर्यथाक्रमं त्यागेनानुपघातेनोपघातमर्षणेन च सत्त्वार्थं कुरुते । तिसृभिः सनिदानतया [सनिदानया] चित्तस्थित्या विमुक्त्या च सर्वप्रकारमात्मार्थं चरति । वीर्यं निश्रित्य यथाक्रमं ध्यानप्रज्ञाभ्यास[म]समाहितस्य चित्तस्य समवधानात् समाहितस्य मोचनात् । इति परार्थमात्मार्थं चारभ्य षट् पारमिताः ।
अविघातैरविहेठैर्विहेठसंमर्षणैः क्रियाखेदैः ।
आवर्जनैः सुलपितैः परार्थ आत्मार्थं एतस्मात्
इति तृतीयः । दानादिभिर्बोधिसत्त्वस्य सकलः परार्थो भवति । यथाक्रमं परेषामुपकरणाविधातैः । अविहेठैः विहेठनामर्षणैः । साहाय्य क्रियास्वखेदैः ऋद्ध्यादिप्रभावावर्जनैः सुभाषितसुलपितैश्च संशयच्छेदनात् । एतस्मात्परार्थात् बोधिसत्त्वस्यात्मार्थो भवति । पराकार्यस्वकार्यत्वान्महाबोधिप्राप्तितश्च । इति सकलपरार्थाधिकारात् षट् पारमिताः ।
भोगेषु चानभिरतिस्तीव्रा गुरुताद्वये अखेदश्च ।
योगश्च निर्विकल्पः समस्तमिदमुत्तमं यानं
इति चतुर्थः । दानेन बोधिसत्त्वस्य भोगेष्वभि[ष्वनभि]रतिर्निरपेक्षत्वात् । शीलसमादानेन बोधिसत्त्वशिक्षासु तीव्रा गुरुता । क्षान्त्या वीर्येण चाखेदो द्वये यथाक्रमं दुःखे च सत्त्वासत्त्वकृते कुशलप्रयोगे च । ध्यानप्रज्ञायां[भ्यां] निर्विकल्पो योगः शमथविपश्यनासंगृहीतः । एतावच्च समस्त [महायानम् इति?] महायानसंग्रहाधिकारात् षट् पारमिताः ।
विषयेष्वसक्तिमार्गस्तदाप्तिविक्षेपसंयमेष्वपरः ।
सत्त्वाविसृजनवर्धन आवरणविशोधनेष्वपरः
इति पञ्चमः । तत्र दानं विषयेष्वसक्तिमार्गस्त्यागाभ्यासेन तत्सक्तिविगमात् । शीलं तदाप्तिविक्षेपसंयमेषु भिक्षुसंवरस्थस्य विषयप्राप्तये सर्वकर्मान्तविक्षेपाणामप्रवृत्तेः । क्षान्तिः सत्त्वानुत्सर्गे सर्वो[वा]पकारदुःखानुद्वेगात् । वीर्यं कुशलविवर्धन आरब्धवीर्यस्य तद्बुद्धिगमनात् । ध्यानं प्रज्ञा चावरणविशोधनेषु मार्गस्ताभ्यां क्लेशज्ञेयावरणविशोधनात् । मार्ग इत्युपायः । एवं सर्वाकारमार्गाधिकारात् षट् पारमिताः ।
शिक्षात्रयमधिकृत्य च षष्ट् पारमिता जिनैः समाख्याताः ।
आद्या तिस्रो द्वेधा अन्त्यद्वयतस्तिसृष्वेका
इति षष्ठः । तत्राद्या अधिशीलं शिक्षा तिस्रः पारमिताः ससंभारसपरिवारग्रहणात् । दानेन हि भोगनिरपेक्षः शीलं समादत्ते समात्तं च क्षान्त्या रक्षत्याक्रुष्टाप्रत्याक्रोशनादिभिः । द्विधेत्यधिचित्तमधिप्रज्ञं च शिक्षा सा अन्तेन द्वयेन संगृहीता यथाक्रमं ध्यानेन प्रज्ञया च । तिसृष्वपि शिक्षास्वेका वीर्यपारमिता वेदितव्या । सर्वासां वीर्यसहायत्वात् । लक्षणविभागे श्लोकाः षट् ।
दानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन ।
सर्वेच्छापरिपूरकमपि सत्त्वविपाचकं त्रेधा
बोधिसत्त्वानां दानं चतुर्विधलक्षणं । विपक्षहीनं ता[मा]त्सर्यस्य प्रहीणत्वात् । निर्विकल्पज्ञानसहगतं धर्म नैरात्म्यप्रतिवेधयोगात् सर्वेच्छापरिपूरकं यो यदिच्छति तस्मै तस्य दानात् । सत्त्वपरिपाचकं त्रेधा दानेन सत्त्वान् संगृह्य त्रिषु यानेषु यथाभव्यनियोजनात् ।
शीलं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन ।
सर्वेच्छापरिपूरकमपि सत्त्वविपाचकं त्रेधा
क्षान्तिर्विपक्षहीना ज्ञानेन गता च निर्विकल्पेन ।
सर्वेच्छापरिपूरा अपि सत्त्वविपाचिका त्रेधा
वीर्यं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन ।
सर्वेच्छपरिपूरकमपि सत्त्वविपाचकं त्रेधा
ध्यानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन ।
सर्वेच्छापरिपूरकमपि सत्त्वविपाचकं त्रेधा
प्रज्ञा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन ।
सर्वेच्छापरिपूरा अपि सत्त्वविपाचिका त्रेधा
यथा दानलक्षणं चतुर्विधमेवं शीलादीनां वेदितव्यम् । एषां तु विपक्षा दौःशील्यं क्रोधः कौशीद्यं विक्षेपो दौष्प्रज्ञ्यं यथाक्रमं । सर्वेच्छापरिपूरकत्वं शीलादिभिः परेषां सर्वकायवाक्संयमापराधमर्षणसाहाय्यमनोरथसंशयच्छेदनेच्छापरिपूरणात् । सत्त्वपरिपाचकत्वं शीलादिभिरावर्ज्य त्रिषु यानेषु परिपाचनात् ।
अनुक्रमविभागे श्लोकः ।
पूर्वोत्तरविश्रयतश्चोत्पत्तेस्तत्क्रमेण निर्देशः ।
हीनोत्कर्षस्थानादौदारिकसूक्ष्मतश्चापि
त्रिभिः कारणैस्तेषां दानादीनां क्रमेण निर्देशः । पूर्वसंनिश्रयेणोत्तरस्योत्पत्तेः । भोगनिरपेक्षो हि शीलं समात्ते शीलवान् क्षमो भवति क्षमावान् वीर्यमारभते आरब्धवीर्यः समाधिमुत्पादयति समाहितचित्तो यथाभूतं प्रजानाति । पूर्वस्य च हीनत्वात् उत्तरस्योत्कर्षस्थानत्वात् । हीनं हि दानमुत्कृष्टं शीलमेवं यावद्धीनं ध्यानमुत्कृष्टा प्रज्ञेति । पूर्वस्य चौदारिकत्वादुत्तरस्यसूक्ष्मत्वात् । औदारिकं हि दानं सुप्रवेशत्वात् सुकरत्वाच्च । सूक्ष्मं ज्ञीलं ततो दुष्प्रवेशत्वाद् दुष्करत्वाच्च । एवं यावदौदारिकं ध्यानं सूक्ष्मा प्रज्ञेति ।
निर्वचनविभागे श्लोकः ।
दारिद्यस्यापनयाच्छैत्यस्य च लम्भनात् क्षयात् क्रुद्धेः ।
वरयोगमनोधारणपरमाथज्ञानतश्चोक्तिः
दारिद्यमपनयतीति दानं । शैत्यं लम्भयतीति शीलं तद्वतो विषयनिमित्तक्लेशपरिदाहाभावात् । क्षयः क्रुद्धेरिति क्षान्तिस्तया क्रोधक्षयात् । वरेण योजयतीति वीर्यं कुशलधर्मयोजनात् । धारयत्यध्यात्मं मन इति ध्यानं । परमार्थ[र्थं] जानात्यनयेति प्रज्ञा ।
भावनाविभागे श्लोकः ।
भावनोपधिमाश्रित्य मनस्कारं तथाशयं ।
उपायं च विभुत्वं च सर्वासामेव कथ्यते
पञ्चविधा पारमिताभावना । उपधिसंनिश्रिता । तत्रोपधिसंनिश्रिता चतुराकारा हेतुसंनिश्रिता यो गोत्रबलेन पारमितासु प्रतिपत्त्यभ्यासः । विपाकसंनिश्रिता च आत्मभावसंपत्तिबलेन । प्रणिधानसंनिश्रिता यः पूर्वप्रणिधानबलेन । प्रतिसंख्यानसंनिश्रता यः प्रज्ञाबलेन पारमितासु प्रतिपत्त्यभ्यासः । मनसिकारसंनिश्रिता पारमिताभावना चतुराकारा । अधिमुक्तिमनस्कारेण सर्वपारमिताप्रतिसंयुक्तं सूत्रान्तमधिमुच्यमानस्य । आस्वादनामनस्कारेण लब्धाः पारमिता आस्वादयतो गुणसंदर्शयोगेन । अनुमोदनामनस्कारेण सर्वलोकधातुषु सर्वसत्त्वानां दानादिकमनुमोदमानस्य । अभिनन्दनामनस्कारेणात्मनः सत्त्वानां चानागतं पारमिताविशेषमभिनन्दमानस्य । आशयसंनिश्रिता पारमिताभावना षडाकारा । अतृप्ताशयेन विपुलाशयेन मुदिताशयेन उपकाराशयेन निर्लेपाशयेन कल्याणाशयेन च । तत्र बोधिसत्त्वस्य दाने ऽतृप्ताशयो यद्बोधिसत्त्व एकसत्त्वस्यैकक्षणे गंगानदीबालुकासमान् लोकधातून् सप्तरत्नपरिपूर्णान् कृत्वा प्रतिपादयेत् । गंगानदीबालिकासमांश्चात्मभावान् । एवं च प्रतिक्षणं गंगानदीवालिकासमान्कल्पान्प्रतिपादयेत् । यथा चैकस्य सत्त्वस्यैवं यावान् सत्त्वधातुरनुत्तरायां सम्यक्संबोधौ परिपाचयितव्यस्तमनेन पर्यायेण प्रतिपादयेत् । अतृप्त एव बोधिसत्त्वस्य दानाशय इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने ऽतृप्ताशयः । न च बोधिसत्त्व एवंरूपां दानपरंपरां क्षणमात्रमपि हापयति । न विच्छिनत्त्या बोधिमण्डनिषदनादिति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने विपुलाशय इति । मुदिततरश्च बोधिसत्त्वो भवति तान्सत्त्वान्दानेन तथानुगृह्णन् । न त्वेव ते सत्वास्तेन दानेनानुगृह्यमाणा इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने मुदिताशयः । उपकारकतरांश्च स बोधिसत्त्वस्तान्सत्त्वानात्मनः समनुपश्यति । येषां तथा दानेनोपकरोति नात्मानं । तेषामनुत्तरसम्यक्संबोध्युपस्तम्भतामुपादाय इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने उपकाराशयः । न च बोधिसत्त्वः सत्त्वेषु तथा विपुलमपि दानमयं पुण्यमभिसंस्कृत्य प्रतिकारेण वा अर्थो[र्थी] भवति विपाकेन वा इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दानपारमिताभावनायां निर्लेपाशयः । यद्बोधिसत्त्वस्तथा विपुलस्यापि दानस्कन्धस्य विपाकं सत्वेष्वभिनन्दति नात्मनः । सर्वसत्त्वसाधारणं च कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दानपारमिताभावनायां कल्याणाशयः । तत्र बोधिसत्त्वस्य ( म्स_बग्छि 101 ) शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायामतृप्ताशयः । यद्वोधिसत्त्वो गंगानदीबालिकासमेष्वात्मभावेषु गंगानदीबालिकासमकल्पायुष्प्रमाणेषु सर्वोपकरणनिरन्तरविघाती त्रिसाहस्रमहासाहस्रलोकधातावग्निप्रतिपूर्णे चतुर्विधमीर्यापथं कल्पयन्नेकं शीलपारमिताक्षणं यावत्प्रज्ञापारमिताक्षणं भावयेदेतेन पर्यायेण यावांश्छीलस्कन्धो यावान् च प्रज्ञास्कन्धो येनानुत्तरां सम्यक्संबोधिमभिसंबुध्यते शीलस्कन्धं यावत्प्रज्ञास्कन्धं भावयेदतृप्त एव बोधिसत्त्वस्य शीलपारमिताभावनायामाशयो यावत्प्रज्ञापारमिताभावनायामाशय इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायामतृप्ताशयो यावत्प्रज्ञापारमिताभावनायामतृप्ताशयः । यद्बोधिसत्त्वस्तां शीलपारमिताभावनापरंपरां यावत्प्रज्ञापारमिताभावनापरंपरामाबोधिमण्डनिषदनान्न स्रंसयति न विच्छिनत्ति इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां विपुलाशयः । मुदिततरश्च बोधिसत्त्वो भवति तया शीलपारमिताभावनया यावत्प्रज्ञापारमिताभावनया सत्त्वाननुगृह्णन् । न त्वेव[वं] ते सत्त्वा अनुगृह्यमाणा इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां मुदिताशयः । उपकारकतरांश्च बोधिसत्त्वस्तान् सत्त्वानात्मनः समनुपश्यति । येषां तथा शीलपारमिताभावनया यावत्प्रज्ञापारमिताभावनया उपकरोति नात्मानं । तेषामनुत्तरसम्यक्संबोध्युपस्तम्भतामुपादाय इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायामुपकाराशयः । न च बोधिसत्त्वस्तथा विपुलमपि शीलपारमिताभावनामयं यावत्प्रज्ञापारमिताभावनामयं पुण्यमभिसंस्कृत्य प्रतिकारेण वार्थी भवति विपाके न वा इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलापारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां निर्लेपाशयः । तत्र यद्बोधिसत्त्व एवं शीलपारमिताभावनामयस्य यावत्प्रज्ञापारमिताभावनामयपुण्यस्कन्धस्य विपाकं सत्त्वेष्वेवाभिनन्दति नात्मनः । सर्वसत्त्वसाधारणं च कृत्वानुत्तरायां सम्यक्सम्बोधौ परिणामयतीति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां कल्याणाशयः । उपायसंनिश्रिता भावना त्र्याकारा । निर्विकल्पेन ज्ञानेन त्रिमण्डलपरिशुद्धिप्रत्यवेक्षणतामुपादाय । तथा हि स उपायः सर्वमनसिकाराणामभिनिष्पत्तये । विभुत्वसंनिश्रिता पारमिताभावना त्र्याकारा । कायविभुत्वतः । चर्याविभुत्वतः । देशनाविभुत्वतश्च । तत्र कायविभुत्वं तथागते द्वौ कायौ द्रष्टव्यौ स्वाभाविकः सांभोगिकश्च । तत्र चर्याविभुत्वं नैर्माणिकः कायो द्रष्टव्यः । येन सर्वाकारां सर्वसत्त्वानां सहधार्मिकचर्यां दर्शयति । देशनाविभुत्वं
षट्पारमितासर्वाकारदेशनायामव्याघातः । प्रभेदसंग्रहे द्वादशश्लोकाः । दानादीनां प्रत्येकं षडर्थप्रभेदतः । ( म्स_बग्छि 102 ) षडर्थाः स्वभावहेतुफलकर्मयोगवृत्त्यर्थाः ।
तत्र दानप्रभेदे द्वौ श्लोकौ ।
प्रतिपादनमर्थस्य चेतना मूलनिश्चिता ।
भोगात्मभावसंपत्ती द्वयानुग्रहपूरकं
अमात्सर्ययुतं तच्च दृष्टधर्मामिषाभये ।
दानमेव[वं] परिज्ञाय पण्डितः समुदानयेत्
अर्थप्रतिपादनं प्रतिग्राहकेषु दानस्य स्वभावः । अलोभादिसहजा चेतना हेतुः । भोगसंपत्तिरात्मभावसंपत्तिश्चायुरादिसंगृहीता फलं पञ्चस्थानसूत्रवत् । स्वपरानुग्रहो महाबोधिसंभारपरिपूरिश्च कर्म । अमात्सर्ययोगो अमत्सरिषु वर्तते । दृष्टधर्मामिषाभयप्रदानप्रभेदेन चेति वृत्तिः ।
शीलप्रभेदे द्वौ श्लोकौ ।
षडङ्ग[ङ्गं]शमभावान्तं सुगतिस्थितिदायकं ।
प्रतिष्ठाशान्तनिर्भीतं पुण्यसंभारसंयुतं
संकेतधर्मतालब्धं संवरस्थेषु विद्यते ।
शीलमेवं परिज्ञाय पण्डितः समुदानयेत्
षडङ्गमिति स्वभावः । षडङ्गीति शीलवान् विहरति यावत्समादाय शिक्षते शिक्षापदेष्विति । शमभावान्तमिति हेतुः । निर्वाणाभिप्रायेण समादानात् । सुगतिस्थितिदायकमिति फलं । शीलेन सुगतिगमनात् । अविप्रतिसारादिक्रमेण चित्तस्थितिलाभाच्च । प्रतिष्ठाशान्तनिर्भीतमिति कर्म । शीलं हि सर्वगुणानां प्रतिष्ठा भवति । क्लेशपरिदाहशान्त्या च शान्तं । प्राणातिपातादिप्रत्ययानां च भयावद्यवैराणामप्रसवान्निर्भीतं । पुण्यसंभारसंयुतमिति योगः सर्वकालं कायवाङ्मनस्कर्मसमाव[च]रणात् । संकेतधर्मतालब्धं संवरस्थेषु विद्यत इति वृत्तिस्तत्र संकेतलब्धं प्रातिमोक्षसंवरसंगृहीतं । धर्मताप्रतिलब्धं ध्यानानास्रवसंवरसंगृहीतमेषास्य प्रभेदवृत्तिः त्रिविधेन प्रभेदेन वर्तनात् । संवरस्थेषु विद्यत इत्याचा[धा]रवृत्तिः ।
क्षान्तिप्रभेदे द्वौ श्लोकौ ।
मर्षाधिवासनज्ञानं कारुण्याद्धर्मसंश्रयात् ।
पञ्चानुशंसमाख्यातं द्वयोरर्थकरं च तत्
तपः प्राबल्यसंयुक्तं तेषु तत्त्रिविधं मतं ।
क्षान्तिमेवं परिज्ञाय पण्डितः समुदानयेत्
मर्षाधिवासज्ञानमिति त्रिविधायाः क्षान्तेः स्वभावः । अपकारमर्षणक्षान्तेर्मर्षणं मर्ष इति कृत्वा । दुःखाधिवासक्षान्तेर्धर्मनिध्यानक्षान्तेश्च यथाक्रमं । कारूण्याद्धर्मसंश्रयादिति हेतुः । धर्मसंश्रयः पुनः । शीलसमादानं श्रुतपर्यवाप्तिश्च । पञ्चानुशंसमाख्यातमिति फलं । यथोक्तं सूत्रे । पञ्चानुशंसाः क्षान्तौ । न वैरबहुलो भवति । न भेदबहुलो भवति । सुखसौमनस्यबहुलो भवति । अविप्रतिसारी कालं करोति । कायस्य च भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते इति । द्वयोरर्थकरं च तदिति मर्षाधिवासनमित्यधिकृतं इदं कर्म । यथोक्तम् ।
द्वयोरर्थं स कुरूते आत्मनश्च परस्य च ।
यः परं कुपितं ज्ञात्वा स्वयं तत्रोपशाम्यति ॥ इति ॥
तपः प्राबल्यसंयुक्तमिति योगः । यथोक्तं । क्षान्तिः परमं तप इति । तेषु तदित्याधारवृत्तिः क्षमिषु तद्वृत्तेः । त्रिविधं मतमिति प्रभेदवृत्तिस्त्रिविधक्षान्तिप्रभेदेन यथोक्तं प्राक् ।
वीर्यप्रभेदे द्वौ श्लोकौ ।
उत्साहः कुशले सम्यक् श्रद्धाच्छन्दप्रतिष्ठितः ।
स्मृत्यादिगुणवृद्धौ च संक्लेशप्रातिपक्षिकः
अलोभादिगुणोपेतस्तेषु सप्तविधश्च सः ।
वीर्यमेवं परिज्ञाय पण्डितः समुदानयेत
उत्साहः कुशले सम्यगिति स्वभावः । कुशल इति तदन्यकृत्योत्साहव्युदासाथ[र्थं] सम्यगित्यन्यतीर्थिकमोक्षार्थोत्साहव्युदासार्थं । श्रद्धाच्छन्दप्रतिष्ठित इति हेतुः श्रद्दधानो ह्यतीव[ह्यर्थिको] वीर्यमारभति । स्मृत्यादिगुणवृद्धाविति फलम् । आरब्धवीर्यस्य स्मृतिसमाध्यादिगुणोद्भवात् । संक्लेशप्रातिपक्षिक इति कर्म । यथोक्तम् । आरब्धवीर्यस्तु सुखं विहरत्यव्यवकीर्णः पापकैरकुशलैर्धर्मैरिति । अलोभादिगुणोपेत इति योगः । तेष्वित्यारब्धवीर्येषु इयमाधारवृत्तिः । सप्तविध इति प्रभेदवृत्तिः । स पुनरधिशीलादि शिक्षात्रये कायिकं चेतसिकं च सातत्येन सत्कृत्य च यद्वीर्यम् ।
ध्यानप्रभेदे द्वौ श्लोकौ ।
स्थितिश्चेतस अध्यात्मं स्मृतिवीर्यप्रतिष्ठितं ।
सुखोपपत्तये ऽभिज्ञाविहारवशवर्तकम्
धर्माणां प्रमुखं तेषु विद्यते त्रिविधश्च सः ।
ध्यानमेवं परिज्ञाय पण्डितः समुदानयेत्
स्थितिश्चेतस अध्यात्ममिति स्वभावः । स्मृतिवीर्यप्रतिष्ठितमिति हेतुः । आलम्बनासंप्रमोषे सति वीर्यं निश्रित्य समापत्त्यभिनिर्हारात् । सुखोपपत्तये इति फलं ध्यानस्याव्याबाधोपपत्तिफलत्वात् । अभिज्ञाविहारवशवर्तकमिति कर्म । ध्यानेनाभिज्ञावशवर्तनात् । आर्यदिव्यब्राह्मविहारवशवर्तनाच्च । धर्माणां प्रमुखमिति प्रामुख्येन योगः । यथोक्तं । समाधिप्रमुखाः सर्वधर्मा इति । तेषु विद्यत इति ध्यायिष्वियमाधारवृत्तिः । त्रिविश्च स इति सवितर्कः सविचारः अवितर्को विचारमात्रः । अवितर्को अविचारः । पुनः प्रीतिसहगतः । सातसहगतः । उपेक्षासहगतश्च । इयं प्रभेदवृत्तिः ।
प्रज्ञाप्रभेदे द्वौ श्लोकौ ।
सम्यक्प्रविचयो ज्ञेयः श[स]माधानप्रतिष्ठितः ।
सुविमोक्षाय संक्लेशात्प्रज्ञाजीवसुदेशनः
धर्माणामुत्तरस्तेषु विद्यते त्रिविधश्च सः ।
प्रज्ञामेवं परिज्ञाय पण्डितः समुदानयेत्
सम्यक् प्रविचयो ज्ञेय इति स्वभावः । सम्यगिति न मिथ्या ज्ञेय इति लौकिककृत्यसम्यक्प्रविचयव्युदासार्थं । समाधानप्रतिष्ठित इति हेतुः । समाहितचित्तो यथाभूतं प्रजानाति । यस्मात्सुविमोक्षाय संक्लेशादिति फलं । तेन हि संक्लेशात्सु विमोक्षो भवति । लौकिकहीनलोकोत्तरमहालोकोत्तरेण प्रविचयेन । प्रज्ञाजीवसुदेशन इति प्रज्ञाजीवः सुदेशना चास्य कर्म । तेन ह्यनुत्तर[रः] प्रज्ञाजीवकानां जीवति । सम्यग् धर्मं देशयतीति । धर्माणामुत्तर इत्युत्तरत्वेन योगः । यथोक्तं । प्रज्ञोत्तराः सर्वधर्मा इति । तेषु विद्यते त्रिविधश्च स इति वृत्तिः । प्राज्ञेषु वर्तनात् त्रिविधेन च प्रभेदेन । लौकिको हीनलोकोत्तरो महालोकोत्तरश्च । उक्तः प्रत्येकं दीनादीनां षडर्थप्रभेदेन प्रभेदः ।
संग्रहविभागे श्लोकः ।
सर्वे शुक्ला धर्मा विविप्तसमाहितोभया ज्ञेयाः ।
द्वाभ्यां द्वाभ्यां द्वाभ्यां पारमिताभ्यां परिगृहीताः
सर्वे शुक्ला धर्मा दानादिधर्माः । तत्र विक्षिप्ता द्वाभ्यां पारमिताभ्यां संगृहीताः प्रथमाभ्यां दानसमादानशीलयोरसमाहितत्वात् । समाहिता द्वाभ्यां पश्चिमाभ्यां ध्यानयथाभूतप्रज्ञयोः ( म्स_बग्छि 105 ) समाहितत्वात् । उभये द्वाभ्यां क्षान्तिवीर्याभ्यां । तयोः समाहितासमाहितत्वात् ।
विपक्षविभागे श्लोकाः षट् ।
न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च दानं ।
न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम्
सप्तविधा सक्तिर्दानस्य विपक्षः । भोगसक्तिः विलम्बनसक्तिः तन्मात्रसंतुष्टिसक्तिः पक्षपातसक्तिः[?] प्रतिकारसक्तिः विपाकसक्तिः । विपक्षसक्तिस्तु तद्विपक्षलाभानुशयासमुद्धातात् । विक्षेपसक्तिश्च । स पुनर्विक्षेपो द्विविधः । मनसिकारविक्षेपश्च हीनयानस्पृहणात् । विकल्पविक्षेपश्च दायकप्रतिग्राहकदानविकल्पनात् । अतः सप्तविधसक्तिमुक्तत्वात् सप्तकृत्वो दानस्यासक्तत्वमुक्तम् ।
न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च शीलं ।
न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम्
न च सक्ता न च सक्ता न च सक्ता सक्तिका न क्षान्तिः ।
न च सक्ता न च सक्ता न च सक्ता बोधिसत्त्वानाम्
न च सक्तं न च सक्तं न च सक्तं सक्तमेव च न वीर्यं ।
न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम्
न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च ध्यानं ।
न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम्
न च सक्ता न च सक्ता न च सक्ता सक्तिका न च प्रज्ञा ।
न च सक्ता न च सक्ता न च सक्ता बोधिसत्त्वानाम्
यथा दानासक्तिरूक्ता एवं शीले यावत्प्रज्ञायां वेदितव्या । अत्र तु विशेषभोगसक्तिपरिवर्तेन दौःशील्याद्यासाक्तिर्वेदितव्या विपक्षसक्तिस्तद्विपक्षानुशया समुद्धातनात् । विकल्पविक्षेपश्च यथायोगं त्रिमण्डलपरिकल्पनात् । गुणविभागे त्रयोविंशतिः श्लोकाः ।
त्यक्तं बुद्धसुतैः स्वजीवितमपि प्राप्यार्थिनं सर्वदा ।
कारुण्यात्परतो न च प्रतिकृतिर्नेष्टं फलं प्रार्थितं ।
दानेनैव च तेन सर्वजनता बोधित्रये रोपिता ।
दानं ज्ञानपरिग्रहेण च पुनर्लोके ऽज्ञयं स्थापितम्
इति सुबोधः पदार्थः ।
आत्तं बुद्धसुतैर्यमोद्यममयं शीलत्रयं सर्वदा
स्वर्गो नाभिमतः समेत्य च पुनः सक्तिर्न तत्राहिता ।
शीलेनैव च तेन सर्वजनता बोधित्रये रोपिता ।
शीलं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम्
त्रिविधं शीलं । संघरशीलं । कुशलधर्मसंग्राहकशीलं । सत्त्वार्थक्रियाशीलं च । एकात्मकम्[एषामेकं] यमस्वभावं । द्वे उद्यमस्वभावे ।
क्षान्तं बुद्धसुतैः सुदुष्करमथो सर्वापकारं नृणां
न स्वर्गार्थमस[श]क्तितो न च भयान्नैवोपकारेक्षणात् ।
क्षान्त्यानुत्तरया च सर्वतनजा बोधित्रये रोपिता ।
क्षान्तिर्ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षया स्थापिता
इति । ज्ञान्त्यानुत्तरया चेति दुःखाधिवासनक्षान्त्या च परापकारमर्षणक्षान्त्या च यथाक्रमम् ।
वीर्यं बुद्धसुतैः कृतं निरूपमं संनाहयोगात्मकं
हन्तुं क्लेशगणं स्वतो ऽपि परत प्राप्तं च बोधिं परां ।
वीर्येणैव च तेन सर्वजनता बोधित्रये रोपिता ।
वीर्यं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम्
इति । संनाहवीर्यं प्रयोगवीर्यं च ।
ध्यानं बुद्धसुतैः समाधिबहुलं संपादितं सर्वथा
श्रेष्ठैर्ध्यानसुखैर्विहृत्य कृपया हीनापपत्तिः श्रिता ।
ध्यानेनैव च तेन सर्वजनता बोधित्रये रोपिता ।
ध्यानं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम्
इति । समाधिबहुलमिति अनन्तबोधिसत्त्वसमाधिसंगृहीतम् ।
ज्ञातं बुद्धसुतैः सतत्त्वमखिलं ज्ञेयं च यत्सर्वथा
सक्तिर्नैव च निर्वृत्तौ प्रजनिता बुद्धैः[द्धेः] कुतः संवृत्तौ ।
ज्ञानेनैव च तेन सर्वजनता बोधित्रये रोपिता ।
ज्ञानं सत्त्वपरिग्रहेण पुनर्लोके ऽक्षयं स्थापितम्
इति । सतत्त्वं पर्मार्थसंगृहीतं सामान्यलक्षणं पुद्गलधर्म नैरात्म्यं । ज्ञेयं च यत्सर्वथेत्यनन्तस्वसंकेतादिलक्षणभेदभिन्नं यदज्ञे[यज्ज्ञे] (यदपरंज्ञेयं) । दानादीनां निर्विकल्पज्ञानपरिग्रहेणाक्षयत्वं निरुपधिशेषनिर्वाणे ऽपि तदक्षयात् । ज्ञानस्य पुनः सत्त्वपरिग्रहेण करुणया सत्त्वानामपरित्यागात् । एषां पुनः षणां श्लोकानां पिण्डार्थः सप्तमेन श्लोकेन निर्दिष्टः ।
औदार्यानामिषत्वं च महार्थाक्षयतापि च ।
दानादीनां समस्तं हि ज्ञेयं गुणचतुष्टयम्
इति । तत्रदानादीनां प्रथमेन पादेनोदारता परिदीपिता । द्वितीयेन निरामिपता । तृतीयेन महार्थता महतः सत्त्वार्थस्य संपादनात् । चतुर्थेनाक्षयता इत्येषां गुणचतुष्टयमेभिः श्लोकैर्वेदितव्यम् ।
दर्शनपूरणतुष्टिं याचनके ऽतुष्टिमपि समाशास्तिं ।
अभिभवति स तां दाता कृपालुराधिक्ययोगेन
याचनके हि जने दायकदर्शनात्ततश्च यथेप्सितं लब्ध्वा मनोरथपरिपूरणाद्या तुष्टिरूत्पद्यते । अतुष्टिश्चादर्शनादपरिपूरणाच्च । आशास्तिश्च या तद्दर्शने मनोरथपरिपूरणे च । सा बोधिसत्त्वस्याधिकोत्पद्यते सर्वकालं याचनकदर्शनात्तन्मनोरथपरिपूरणाच्च । अदर्शनादपरिपूरणाच्चातुष्टिः । अतो दाता कृपालुस्तां सर्वमभिभवत्याधिक्ययोगात् ।
प्राणान्भोगान्दारान्सत्त्वेषु सदान्य[त्य]जनकृपालुत्वात् ।
आमोदते निकामं तद्विरतिं पालयेन्न कथम्
तेभ्यो विरतिं तद्विरतिं परकीयेभ्यः प्राणभोगदारेभ्यः । एतेन त्रिविधात्कायदुश्चरिताद्विरतिशीलगुणं दर्शयति ।
निरपेक्षः समचित्तो निर्भीः सर्वप्रदः कृपाहेतोः ।
मिथ्यावादं ब्रूयात्परोपघाताय कथमार्यः
एतेन मृषावादाद्विरतिगुणं दर्शयति । आत्महेतोर्मृषावाद उच्येत कायजीवितापेक्षया । परहेतोर्वा प्रियजनप्रेम्ना । भयेन वा राजादिभयात् । आमिषकिंचित्कहेतोर्वा लाभार्थं । बोधिसत्त्वश्च स्वकायजीवितनिरपेक्षः । समचित्तश्च सर्वसत्त्वेष्वात्मसमचित्ततया । निर्भयश्च पञ्चभयसमतिक्रान्तत्वात् । सर्वप्रदश्चार्थिभ्यः सर्वसत्त्वपरित्यागात् । स केन हेतुना मृषावादं ब्रूयात् ।
संमहितकामः सकृपः परदुःखोत्पादने ऽतिभीरुश्च ।
सत्त्वविनये सुयुक्तः सुविदूरे त्रिविधवाग्दोषात्
बोधिसत्त्वः सर्वसत्त्वेषु समं हितकामः स कथं परेषां मित्रभेदार्थं पैशुन्यं करिष्यतीति । सुकृपश्च परदुःखापनयाभिप्रायात् । परदुःखोत्पादने चात्यर्थं भीरूः स ( म्स_बग्छि 108 ) कथं परेषां दुःखोत्पादनार्थं परूषं वक्ष्यति । सत्त्वानां विनये सम्यक्प्रयुक्तः स कथं संभिन्नप्रलापं करिष्यति तस्मादसौ सूविदूरे त्रिविधवाग्दोषात् पैशुन्यात्पारूष्यात्संभिन्नप्रलापाच्च ।
सर्वप्रदः कृपालुः प्रतीत्यधर्मोदये सुकुशलश्च ।
अधिवासयेत्कथमसौ सर्वाकारं मनः क्लेशम्
अभिध्या व्यापादो मिथ्यादृष्टिर्वा यथाक्रमं । एष दौःशील्यप्रतिपक्षधर्मविशेषयोगाच्छीलविशुद्धिगू[गु?]णो बोधिसत्त्वानां वेदितव्यः ।
उपकरसंज्ञामोदं ह्यपकारिणिपरहित संज्ञां[परहिते सदा] दुःखे ।
लभते यदा कृपालुः क्षमितव्यं ... [किं कुतस्तस्य]
[अपकारिणि हि क्षमितव्यं भवति । तत्र च बोधिसत्त्व अपकारिसज्ञां लभते क्षान्तिसंभारनिमित्तत्वात् दुःखञ्च क्षमितव्यं भवति । तत्र च परहितहेतुभूते दुःखे बोधिसत्त्वः सदा मोदं लभते तस्य कुतः किं क्षमितव्यं] । यस्य नापकारिसंज्ञा प्रवर्तते न दुःखसंज्ञा ।
परपरसंज्ञापगमात्स्वतो ऽधिकतरात्सदा परस्नेहात् ।
दुष्करचरणात्सकृपे ह्यदुष्करं वीर्यं
सकृपो बोधिसत्त्वः । तत्र सकृपे यत्परार्थं दुष्करचरणाद्वीर्यं तद्दुष्करं च सुदुष्करं च कथमदुष्करं । परत्र परसंज्ञापगमात् । स्वतो ऽधिकतराच्च सर्वदा परेषु स्नेहात् । कथं सुदुष्करं । यदेवं परसंज्ञापगतं च स्वतोधिकतरस्नेहं च तद्वीर्यम् ।
अल्पसुखं ह्यात्मसुखं लीनं परिहाणिकं क्षयि समोहं ।
ध्यानं मतं त्रयाणां विपर्ययाद्बोधिसत्त्वानाम्
अल्पसुखं ध्यानं लौकिकानामात्मसुखं श्रावकप्रत्येकबुद्धानां । लीनं लौकिकानां सत्काये श्रावकप्रत्येकबुद्धानां च निर्वाणे । परिहाणिकं लौकिकानां क्षयि श्रावकप्रत्येकबुद्धानां निरूपधिशेषनिर्वाणे तत्क्षयात् । समोहं सर्वेषां यथायोगक्लिष्टाक्लिष्टेन मोहेन । बोधिसत्त्वानां पुनर्ध्यान बहुसुखमात्मपरसुखमलीनमपरिहाणिकमक्षय्यसमोहं च ।
आमोषैस्तमसि यथा दीपैर्नुन्नं[श्छन्ने] तथा त्रयज्ञानं ।
दिनकरकिरणौरिव तु ज्ञानमतुल्यं कृपालुनाम्
यथा हस्तामोषैस्तमसि ज्ञानं परीत्तविषयमप्रत्यक्षमव्यक्तं च तथा पृथग्जनानां । यथावचरके[गहवरके] दीपैर्ज्ञानं प्रादेशिकं प्रत्यक्षं नातिनिर्मलं तथा श्रावकाणां प्रत्येकबुद्धानां च । यथा दिनकरकिरणैर्ज्ञानं समन्तात्प्रत्यक्षं सुनिर्मलं च तथा बोधिसत्त्वानां । अत एव तदतुल्यम् ।
आश्रयाद्वस्तुतो दानं निमित्तात्परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम्
तत्राश्रयो बोधिसत्त्वः । वस्तु आमिषदानस्याध्यात्मिकं वस्तु परमम् । अभयदानस्थापायसंसारभीतेभ्यस्तु तदभयं । धर्मदानस्य महायानं । निमित्तं करुणा । परिणामना तेन महाबोधिफलप्रार्थना । हेतुः पूर्वदानपारमिताभ्यासवासना । ज्ञानं निर्विकल्पं येन त्रिमण्डलपरिशुद्धं दानं ददाति दातृदेयप्रतिग्राहक्राविकल्पनात् । क्षेत्रं पञ्चविधम् । अर्थी दुःखितो निःप्रतिसरणो दुश्चरितचारी गुणवांश्च । चतुर्णामुत्तरं क्षेत्रं परं । तदभावे पञ्चमं । निश्रयस्त्रिविधो यं निश्रित्य ददाति । अधिमुक्तिर्मनसिकारः समाधिश्च । अधिमुक्तिर्यथा भावनाविभागे ऽधिमुक्तिमनस्कार उक्तः । मनस्कारो यथा तत्रैवास्वादनाभिनन्दन[नौमोदनाभि] मनस्कार उक्तः । समाधिर्गगनगञ्जादिर्यथा तत्रैव विभुत्वमुक्तं । एवमाश्रयादिपरसमयो दानं परमं । सो ऽयं चापदेशो वेदितव्यः । यश्च ददाति यच्च येन च यस्मै च यतश्च यस्य च परिग्रहेण यत्र च यावत्प्रकारं तद्दानम् ।
आश्रयाद्वस्तुतः शीलं निमित्तात्परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम्
[आश्रयाद्वस्तुतः क्षान्तिनिमित्तात्परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परा मता ॥
आश्रयाद्वस्तुतो वीर्यं निमित्तात्परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम्
आश्रयाद्वस्तुतो ध्यानं निमित्तात्परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रानिश्रयाच्च परं मतम्
आश्रयाद्वस्तुतः प्रज्ञा निमित्तात्परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परा मता
शीलस्य परमं वस्तु बोधिसत्त्वसंवरः । क्षान्तेः प्राणापहारिणौ हीनदुर्बलौ । वीर्यस्य पारमिताभावना तद्विपक्षप्रहाणं च । ध्यानस्य बोधिसत्त्वसमाधयः । प्रज्ञायास्तथता । सर्वेषां शीलादीनां क्षेत्रं महायानं । शेषं पूर्वबद्धेदितव्यम् ।
एकसत्त्वसुखं दानं बहुकल्पविघातकृत ।
प्रियं स्यद्बोधिसत्त्वानां प्रागेव तद्विपर्ययात्
यदि बोधिसत्त्वानां दानमेकस्यैव सत्त्वस्य सुखदं स्यादात्मनश्च बहुकल्पविघातकृत । तथापि तत्तेषां प्रियं स्यात्करुणाविशेषात्किं पुनर्यदनेकसत्त्वसुखं च भवत्यात्मनश्च बहुकल्पानुग्रहकृत् ।
यदर्थमिच्छन्ति धनानि देहिनस्तदेव धीरा विसृजन्ति देहिषु ।
शरीरहेतोर्धनमिष्यते जनैस्तदेव धीरः शतशो विसृज्यते
अत्र पूर्वार्धमुत्तरार्धे व्याख्यातम् ।
शरीरमेवोत्सृजतो न दुःख्यते यदा मनः का द्रविणे ऽवरे कथा ।
तदस्य लोकोत्तरमिति यन्मुदं स तेन तत्तस्य तदुत्तरं पुनः
अत्र शरीरमेवोत्सृजतो यदा मनो न दुःख्यते तदस्य लोकोत्तरमिति संदर्शितं । एति यन्मुदं स तेन दुःखेन तत्तस्य तदुत्तरमिति तस्माल्लोकोत्तरादुत्तरम् ।
प्रतिग्रहैरिष्टनिकामलब्धैर्न तुष्टिमायाति तथार्थिको ऽपि ।
सर्वास्तिदानेन यथेह धीमान् तुष्टिं व्रजत्यर्थिजनस्य तुष्ट्या
इष्टनिकामलब्धैरित्यभिप्रेतपर्याप्तलब्धैः । सर्वास्तिदानेनेति यावत्स्वजीवितदानेन ।
संपूर्णभोगो न तथास्तिमन्तमात्मानमन्वीक्षति याचको ऽपि ।
सर्वास्तिदानादधनो ऽपि धीमानात्मानमन्वेति यथास्तिमन्तं
सुविपुलमपि वित्तं प्राप्य नैवोपकारं
विगणयति तथार्थी दायकाल्लाभहेतोः ।
विधिवदिह सुदानैरर्थिनस्तर्पयित्वा
महदुपकरसंज्ञा तेषु धीमान्यथैति
करुणाविशेषाद् । गतार्थौ श्लोकौ ।
स्वयमपगतशोका देहिनः स्वस्थरूपा
विपुलमपि गृहीत्वा भुञ्जते यस्य वित्तं ।
पथि परमफलाढ्याद्भोगवृक्षाद्यथैव
प्रविसृतिरतिभोगी बोधिसत्त्वान्न सो ऽन्यः
प्रविसृतिरतिभोगश्चास्येति प्रविसृतिरतिभोगी स च नान्यो बोधिसत्त्वाद्वेदितव्यः । शेषं गतार्थम् ।
प्राधान्यतत्कारणकर्मभेदात् प्रकारभेदाश्रयभेदतश्च ।
चतुर्विबन्धप्रतिपक्षभेदात् वीर्यं परिज्ञेयमिति प्रदिष्टम्
षड्विधेन प्रभेदेन वीर्यं परिज्ञेयं । प्राधान्यभेदेन । तत्कारणभेदेन । [कर्मभेदेन] प्रकारभेदेन । आश्रयभेदेन । चतुर्विबन्धप्रतिपक्षभेदेन च । अस्योद्देशस्योत्तरैः । श्लोकैर्निर्देशः ।
वीर्यं परं शुक्लगणस्य मध्ये तन्निश्रितस्तस्य यतो ऽनुलाभः ।
वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगता च सिद्धिः
वीर्यं परं शुक्लगणस्य मध्ये इति सर्वकुशलधर्मप्राधान्यं वीर्यस्य निर्दिष्टं । तन्निश्रितस्तस्य यतो ऽनुलाभ इति प्राधान्यकारणं निर्दिष्टं । यस्माद्वीर्याश्रितः सर्वकुशलधर्मलाभः । वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगता च सिद्धिरिति कर्म निर्दिष्टं वीर्येण हि दृष्टधर्मे परमः सुखविहारः । सर्वा च लोकोत्तरा सिद्धिर्लौकिकी च क्रियते ।
वीर्यादवाप्तं भवभोगमिष्टं वीर्येण शुद्धिं प्रबलामुपेताः ।
वीर्येण सत्कायमतीत्य मुक्ता वीर्येण बोधिं परमां विबुद्धाः
इति । पर्यायद्वारेण [पर्यायान्तरेण] वीर्यस्य कर्म निर्दिष्टं । लौकिकलोकोत्तरसिद्धिभेदात् । तत्र प्रबला लौकिकी सिद्धिरनात्यन्तिकत्वात् ।
पुनर्मतं हानिविवृद्धिवीर्यं मोक्षाधिपं पक्षविपक्षमन्यत् ।
तत्त्वे प्रविष्टं परिवर्तकं च वीर्यं महार्थं च निरुक्तमन्यत
संनाहवीर्यं प्रथमं ततश्च प्रयोगवीर्यं विधिवत्प्रहितं ।
अलीनमक्षोभ्यमतुष्टिवीर्यं सर्वप्रकारं प्रवदन्ति बुद्धाः
इत्येष प्रकारभेदः । तत्र हानिविवृद्धिवीर्यं सम्यक्प्रहाणेषु [द्वयोरकुशलधर्महानयेअपि?] च द्वयोः कुशलधर्माभिवृद्धये । मोक्षाधिपं वीर्यमिन्द्रियेषु । मोक्षाधिपत्त्यार्थेन यस्मादिन्द्रियाणि । पक्षविपक्षं बलेषु विपक्षानवमृद्यार्थेन यस्माद्बलानि । तत्त्वे प्रविष्टं बोध्यङ्गेषु दर्शनमार्गे तद्व्य1स्थापनात् । परिवर्त्तकं मार्गाङ्गेषु भावनामार्गे ऽन्तस्या[तस्या]श्रयपरिवृत्तिहेतुत्वात् । ( म्स_बग्छि 112 ) महार्थं वीर्यं पारमितास्वभावं स्वपरार्थाधिकारात् । संनाहवीर्यं प्रयोगाय संनह्यतः । प्रयोगवीर्यं तथा प्रयोगतः । अलीनवीर्यमुदारे ऽप्यधिगन्तव्ये लयाभावतः । अक्षोभ्यवीर्यं शीतलोष्णादिभिर्दुःखैरविकोपनतः । असंतुष्टिवीर्यमल्पेनाधिगमेनासंतुष्टितः । एभिरेव संनाहवीर्यादिभिः सूत्रे । स्थामवान् वीर्यवानुत्साही दृढपराक्रमो अनिक्षिप्तधुरः कुशलेषु धर्मेष्वित्युच्यते यथाक्रमम् ।
निकृष्टमध्योत्तमवीर्यमन्यत् यानत्रये युक्तजनाश्रयेण ।
लीनात्युदाराशयबुद्धियोगात् वीर्यं तदल्पार्थमहार्थमिष्टम्
अत्राश्रयप्रभेदेन वीर्यभेदो निर्दिष्टः । यानत्रये प्रयुक्तो यो जनस्तदाश्रयेण यथाक्रमं निकृष्टमध्योत्तमं वीर्यं वेदितव्यं । किं कारणं । लीनात्युदाराशयबुद्धियोगात् । लीनो हि बुद्ध्याशयो यानद्वये प्रयुक्तानां केवलात्मार्थाधिकारात् । अत्युदारो महायाने प्रयुक्तानां परार्थाधिकारात् । अत एव यथाक्रमं वीर्यं तदल्पार्थं महार्थमिव[ष्टम्] स्वार्थाधिकाराच्च [स्वपरार्थाधिकरणत्वाच्च ।]
न वीर्यवान्भोगपराजितो ऽस्ति
नो वीर्यवान् क्लेशपराजितो ऽस्ति ।
न वीर्यवान् खेदपराजितो ऽस्ति
नो वीर्यवान् प्राप्तिपराजितो ऽस्ति
इत्ययं चतुर्विबन्धप्रतिपक्षभेदः । चतुर्विधो दानादीनां विबन्धो येन दानादिषु न प्रवर्तते । भोगसक्तिस्तदाग्रहतः । क्लेशसक्तिस्तत्परिभोगाध्यवसानतः । खेदो दानादिषु प्रयोगाभियोगपरिखेदतः । प्राप्तिरल्पमात्रदानादिसंतुष्टितः । तत्प्रतिपक्षभेदे नैतच्चतुर्विधं वीर्यमुक्तम् ।
अन्योन्यविनिश्चयविभागे श्लोकः ।
अन्योन्यं संग्रहतः प्रभेदतो धर्मतो निमित्ताच्च ।
षणां पारमितानां विनिश्चयः सर्वथा ज्ञेयः
अन्योन्यसंग्रहतो विनिश्चयः । अभयप्रदानेन शीलक्षान्तिसंग्रहो यस्मात्ताभ्यामभयं ददाति । धर्मदानेन ध्यानप्रज्ञयोर्यस्मात्ताभ्यां धर्मं ददाति । उभाभ्यां वीर्यस्य यस्मात्तेनोभयं ददाति । कुशलधर्मसंग्राहकेण शीलेन सर्वेषां दानादीनां संग्रहः । एवं क्षान्त्यादिभिरन्योन्यसंग्रहो यथायोगं योज्यः । प्रभेदतो विनिश्चयः । दानं षड्विधं दानदानं शीलदानं यावत्प्रज्ञादानं । परसंतानेषु शीलादिनिवेशनात् । धर्मतो विनिश्चयः । ( म्स_बग्छि 113 ) ये सूत्रादयो येषु दानादिष्वर्थेषु संदृश्यन्ते । ये च दानादयो येषु सूत्रादिषु धर्मेषु संदृश्यन्ते । तेषां परस्परं संग्रहो वेदितव्यः । निमित्ततो विनिश्चयः । दानं शीलादीनां निमित्तं भवति । भोगनिरपेक्षस्य शीलादिषु प्रवृत्तेः । शीलमपि दानादीनां । भिक्षुसंवरसमादानं सर्वस्वपरिग्रहत्यागाच्छीलप्रतिष्ठितस्य च क्षान्त्यादियोगात् । कुशलधर्मसंग्राहकशीलसमादानं च सर्वेषां दानादीनां निमित्तं । एवं क्षान्त्यादीनामन्योन्यनिमित्तभावो यथा योज्यः [योगं] संग्रहवस्तुविभागे सप्त श्लोकाः । चत्वारि संग्रहवस्तूनि । दानं प्रियवादिता अर्थचर्या समानार्थता । तत्र ।
दानं समं प्रियाख्यानमर्थचर्या समार्थता ।
तद्देशना समादाय स्वानुवृत्तिभिरिष्यते
दानं सममिष्यते यथा पारमितासु प्रियाख्यानं तद्देशना । अर्थचर्या तत्समादापना तच्छब्देन पारमितानां ग्रहणात्पारमितादेशना पारमितासमादापनेत्यर्थः । समानार्थता यत्र परं समादापयति तत्र स्वयमनुवृत्तिः । किमर्थं पुनरेतानि चत्वारि संग्रहवस्तूनीष्यन्ते । एष हि परेषां ।
उपायो ऽनुग्रहकरो ग्राहको ऽथ प्रवर्तकः ।
तथानुवर्तको ज्ञेयश्चतुःसंग्रहवस्तुतः
दानमनुग्राहक उपायः । आमिषदानेन कायिकानुग्रहोत्पादनात् प्रियवादिता ग्राहकः । अव्युत्पन्नसंदिग्धार्थग्राहणात् । अर्थचर्या प्रवर्तकः । कुशले प्रवर्तनात् । समानार्थतानुवर्तकः । यथावादितथाकारिणं हि समादापकं विदित्वा यत्र कुशले तेन प्रवर्तिताः परे भवन्ति तदनुवर्तन्ते ।
आद्येन भाजनीभावो द्वितीयेनाधिमुच्यना ।
प्रतिपत्तिस्तृतीयेन चतुर्थेन विशोधना
आमिषदानेन भाजनीभवति धर्मस्य विधेयतापत्तेः । प्रियवादितया तं धर्ममधिमुच्यते तदर्थव्युत्पादनसंशयच्छेदनतः । अर्थचर्यया प्रतिपद्यते यथाधर्मं । समानार्थतया तां प्रतिपत्तिं विशोधयति दीर्घकालानुष्ठानाद् । इदं संग्रहवस्तूनां कर्म ।
चतुः संग्रहवस्तुत्वं संग्रहद्वयतो मतं ।
आमिषेणापि धर्मेण धर्मेणालम्बनादपि[दिना]
यदप्यन्यत्संग्रहवस्तुद्वयमुक्तं भगवता आमिषसंग्रहो धर्मसंग्रहश्च । ताभ्यामेतान्येव चत्वारि संग्रहवस्तूनि संगृहीतानि ।
आमिषसंग्रहेण प्रथमे । धर्मसंग्रहेणावशिष्टानि । तानि पुनस्त्रिविधेन धर्मेण । आलम्बनधर्मेण प्रतिपत्तिधर्मेण तद्विशुद्धिधर्मेण च यथाक्रमम् ।
हीनमध्योत्तमः प्रायो वन्ध्यो ऽवन्ध्यश्च संग्रहः ।
अबन्ध्यः सर्वथा चैव ज्ञेयो ह्याकारभेदतः
एष संग्रहस्य प्रकारभेदः । तत्र हीनमध्योत्तमः संग्रहो बोधिसत्त्वानां यानत्रयप्रयुक्तेषु वेदितव्यो यथाक्रमं । प्रायेण वन्ध्यो ऽधिमुक्तिचर्याभूमौ । प्रायेणाबन्ध्यो भूमिप्रविष्टानाम् । अवन्ध्यः सर्वथा अष्टाम्यादिषु भूमिषु सत्त्वार्थस्यावश्यं संपादनात् ।
पर्षत्कर्षणप्रयुक्तैर्विधिरेष समाश्रितः ।
सर्वार्थसिद्धौ सर्वेषां सुखोपायश्च शस्यते
ये केचित्पर्षत्कर्षणे प्रयुक्ताः सर्वैस्तैरयमेवोपायः समाश्रितो यदुत चत्वारि संग्रहवस्तूनि । तथा हि सर्वार्थसिद्धये सर्वेषां सुखश्चैष उपायः प्रशस्यते बुद्धैः ।
संगृहीता ग्रहीष्यन्ते संगृह्यन्ते च ये ऽधुना ।
सर्वे त एवं तस्माच्च वर्त्म तत्सत्त्वपाचने
एतेन लोकत्रये ऽपि सर्वसत्त्वानां परिपाचने चतुर्णां संग्रहवस्तूनामेकायनमार्गत्वं दर्शयति । अन्यमार्गाभावात् ।
इति सततमसक्तभोगबुद्धिः शमयमनोद्यमपारगः स्थितात्मा ।
भवविषयनिमित्तनिर्विकल्पो भवति स सत्त्वगणस्य संगृहीता
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0