महायानसूत्रालंकार · अध्याय 15
निगमनश्लोको गतार्थः ।
॥ महायानसूत्रालंकारे अववादानुशासन्यधिकारश्चतुर्दशः ॥
पञ्चदशो ऽधिकारः
उद्दानम्
अधिमुक्तेर्बहुलता धर्मपर्येष्टिदेशने
प्रतिपत्तिस्तथा सम्यगववादानुशासनं
उपायसहितकर्मविभागे चत्वारः श्लोकाः ।
यथा प्रतिष्ठा वनदेहिपर्वतप्रवाहिनीनां पृथिवी समन्ततः ।
तथैव दानादिशुभस्य सर्वतो बुधेषु कर्म त्रिविधं निरुच्यते
अनेन श्लोकेन समुत्थानोपायं दर्शयति । सर्वप्रकारस्य दानादिशुभस्य पारमिताबोधिपक्षादिकस्य कर्मत्रयसमुत्थितत्वात् । बुधेष्विति बोधिसत्त्वेषु । वनादिग्रहणमुपभोज्या स्थिरस्थिरवस्तुनिदर्शनार्थम् ।
सुदुष्करैः कर्मभिरुद्यतात्मनां विचित्ररूपैर्बहुकल्पनिर्गतैः ।
न कायवाक्चित्तमयस्य कर्मणो जिनात्मजानां भवतीह संनतिः
यथा विषाच्छस्रमहाशनाद्[ने] रिपोर्निवारयेदात्महितः स्वमाश्रयं ।
निहीनयानाद्विविधाज्जिनात्मजो निवारयेत्कर्म तथा त्रयात्मकं
आभ्यां श्लोकाभ्यां व्युत्थानोपायं दर्शयति । महायानखेदान्ययानपातव्युत्थानाद्यथाक्रमं । संनतिः खेद इत्यर्थः । विषादिसाधर्म्यं हीनयानप्रतिसंयुक्तस्य कर्मणो हीनयानचित्तपरिणामनात् महायाने कुशलमूलसमुच्छेदनात् अनुत्पन्नकुशलमूलानुत्पादाय । उत्पन्न कुशलमूल[स?]स्य ध्वंसनात् । बुद्धत्वसंपत्प्राप्तिविबन्धनाच्च ।
न कर्मिणः कर्म न कर्मणः क्रियां सदाविकल्पः समुदीक्षते त्रिधा ।
ततो ऽस्य तत्कर्म विशुद्धिपारगं भवत्यनन्तं तदुपायसंग्रहात्
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0