महायानसूत्रालंकार · अध्याय 14
इति निर्विकल्पेन धर्म नैरात्म्यज्ञानेन प्रतिपत्तुः प्रतिपत्तव्यस्य प्रतिपत्तेश्चाविकल्पना त्रिमण्डलपरिशुद्धिर्वेदितव्या । द्वयपरिपाचनशोधनेषु [सु]युक्त इति सत्त्वानामात्मनश्च ।
॥ महायानसूत्रालंकारे प्रतिपत्त्यधिकारस्त्रयोदशः ॥
चतुर्दशो ऽधिकारः
अववादानुशासनीविभागे श्लोका एकपञ्चाशत् ।
कल्पासंख्येयनिर्यातो ह्यधिमुक्तिं विवर्धयन् ।
संपूर्णः कुशलैर्धर्मैः सागरो वारिभिर्यथा
अधिमुक्तिं विवर्धयन्नित्यधिमात्रावस्थानयनात् । शेषं गतार्थम् ।
तथा संभृतसंभारो ह्यादिशुद्धो जिनात्मजः ।
सुविज्ञः कल्प[ल्य]चित्तश्च भावनायां प्रयुज्यते
आदिशुद्धो बोधिसत्त्वसंवरपरिशोधनान्महायाने दृष्टिऋज्जु[जु]करणाच्चाविपरीतार्थग्रहणतः । सुविज्ञो बहुश्रुतत्वात् । कल्प[ल्य]चित्तो विनिवरणत्वात् ।
धर्मस्त्रोतसि बुद्धेभ्यो ऽववादं लभते तदा ।
विपुलं शमथज्ञानवैपुल्यगमनाय हि
श्लोको गतार्थः ।
ततः सूत्रादिके धर्मे सो ऽद्वयार्थविभावके ।
सूत्रादिनाम्नि बन्धीयाच्चित्तं प्रथमतो यतिः
ततः पदप्रभेदेषु विचरेदनुपूर्वशः ।
विचारयेत्तदर्थांश्च प्रत्यात्मयोनिशश्च सः
अवधृत्य च तानर्थान्धर्मे संकलयेत्पुनः
ततः कुर्यात्समाशास्तिं तदर्थाधिगमाय सः
सूत्रगेयादिके धर्मे यत्सूत्रादिनाम दशभूमिकमित्येवमादि तत्र चित्तं प्रथमतो बध्नीयात् । एभिस्त्रिभिः श्लोकैः षट् चित्तान्युपदिष्टानि । मूलचित्तमनुचरचित्तं विचारणाचित्तमवधारणाचित्तं संकलनचित्तमाशास्तिचित्तं च । तत्र मूलचित्तं यत्सूत्रादीनां धर्माणां नामालम्बनं । अववादं श्रुत्वा स्वयं वा कल्पयित्वा । तद्यथानित्यं दुःखं शून्यमनात्म्यं य योनिशो न चेत्यादि । अनुचरचित्तं येन सूत्रादीनां नामत आलम्बितानां पदप्रभेदमनुगच्छति । विचारणाचित्तं येनार्थं व्यञ्जनं च विचारयति । तत्रार्थं चतुर्भिराकारैर्विचारयति गणनया तुलनया मीमांसया प्रत्यवेक्षणया च । तत्र गणना संग्रहणं तद्यथा रूपं दशायतनान्येकस्य च प्रदेशो वेदना षड् वेदनाकाया इत्येवमादि । तुलना संख्यावतो ( म्स_बग्छि 89 ) धर्मस्य शमलक्ष[ण?]ग्रहणमनाध्यारोपानपवादतः । मीमांसा प्रमाणपरीक्ष । प्रत्यवेक्षणागणिततुलितमीमांसितस्यार्थस्यावलोकनं । व्यञ्जनं द्वाभ्यामाकाराभ्यां विचारयति । सार्थतथा[या] च समस्तानां व्यञ्जनानां निरर्थतया च व्यस्तानां । अवधारणाचित्तं येन यथानुचरितं विचारितं वा तन्निमित्तमवधारयति । संकलनचित्तं तद्यथा विचारितमर्थं मूलचित्ते संक्षिप्यपरिपिण्डिताकारं वर्तते । आशास्तिचित्तं यदर्थं प्रयुक्तो भवति समा[ध्यर्थं वा?] तत्परिपूर्यर्थं वा श्रामण्यफलार्थं वा भूमिप्रवेशार्थं वा विशेषगमनार्थं वा तच्छन्दसहगतं वर्तते । चित्तमेव ह्यालम्बनप्रतिभासं वर्तते न चित्तादन्यदालम्बनमस्तीति जानतो वा चित्तमात्रमजानतो वा चित्तमेवालम्बनं नान्यत् । इति षड्विधं चित्तमालम्बनं व्यवस्थाप्यते ।
एषेत प्रत्यवेक्षेत मनोजल्पैः प्रबन्धतः ।
निर्जल्पैकरसैश्चापि मनस्कारैर्विचारयेत्
ज्ञेयः शमथमार्गो ऽस्य धर्मनाम च पिण्डितं ।
ज्ञेयो विपश्यनामार्गस्तदर्थानां विचारणा
युगनद्धश्च विज्ञेयो मार्गस्तत्पिण्डितं पुनः ।
लीनं चित्तस्य गृह्णीयादुद्धतं शमयेत्पुनः
श[स]मप्राप्तमुपेक्षेत तस्मिन्नालम्बने पुनः
सातत्येनाथ सत्कृत्य सर्वस्मिन्योजयेत्पुनः
एभिश्चतुर्भिः श्लोकैरेकादश मनस्कारा उपदिष्टाः । सवितर्कः सविचारः । अवितर्को विचारमात्रः । अवितर्को ऽविचारः । शमथमनस्कारः । विपश्यना मनस्कारः । युगनद्धमनस्कारः । [प्रग्रहनिमित्तमनस्कारः] शमथनिमित्तमनस्कारः । उपेक्षानिमित्त मनस्कारः । सातत्यमनस्कारः । सत्कृत्यमनस्कारश्च ।
निबध्यालम्बने चित्तं तत्प्रवेधं[वाहं] न विक्षिपेत् ।
अवगम्याशु विक्षेपं तस्मिन् प्रतिहरेत्पुनः
प्रत्यात्मं संक्षिपेच्चित्तमुपर्युपरि बुद्धिमान् ।
ततश्चर [द]मयेच्चित्तं समाधौ गुणदर्शनात्
अरतिं शमयेत्तस्मिन्विक्षेपदोषदर्शनात् ।
अभिध्यादौर्मनस्यादीन्व्युत्थितान् शमयेत्तथा
ततश्च साभिसंस्कारां चित्ते स्वरसवाहितां ।
लभेतानभिसंस्कारान् [रां] तद्भ्यासात्पुनर्यतिः
एभिश्चतुर्भिः श्लोकैर्नवाकारया चित्तस्थित्या स्थित्युपाय उपदिष्टः । चित्तं स्थापयति संस्थापयति अवस्थापयति उपस्थापयति दमयति शमयति व्युपशमयत्येकोतीकरोति चित्तं समादघातीति नवाकाराः ।
ततः स तनुकां लब्ध्वा प्रश्रब्धिं कायचेतसोः ।
विज्ञेयः समनस्कारः पुनस्तान्[स्तां]स विवर्धयन्
वृद्धिदूरंगमत्वेन मौलीं स लभते स्थितिं ।
तां शोधयन्नभिज्ञार्थमेति कर्मण्यतां परां
ध्याने ऽभिज्ञाभिनिर्हाराल्लोकधातून्स गच्छति ।
पूजार्थमप्रमेयाणां बुद्धानां श्रवणाय च
अप्रमेयानुपास्यासौ बुद्धान्कल्पैरमेयगैः ।
कर्मण्यतां परामेति चेतसस्तदुपासनात्
इति कर्मण्यतां परां ध्याने इति संबन्धनीयं । कल्पैरमेयगैरित्यप्रमेयसंख्यागतैः । शेषमेषां श्लोकानां गतार्थं ।
ततो ऽनुशंसान लभते पञ्च शुद्धैः स पूर्वगान् ।
विशुद्धिभाजनत्वं च ततो याति निरुत्तरं
कृत्स्नादौस्वल्प[दौष्ठुल्य]कायो हि द्रवते ऽस्य प्रतिक्षणं ।
आपूर्यते च प्रश्रब्ध्या कायचित्तं समन्ततः
अपरिच्छिन्नमाभासं धर्माणां वेत्ति सर्वतः ।
अकल्पितानि संशुद्धौ निमित्तानि प्रपश्यति
प्रपूरौ च विशुद्धौ च धर्मकायस्य सर्वथा ।
करोति सततं धीमानेवं हेतुपरिग्रहं
ततः शुद्धेः पूर्वंगमान्पञ्चानुशंसान् लभते । शुद्धेरिति शुद्ध्याशयभूमेः । तेषां च लाभाद्विशुद्धिभाजनत्वं प्राप्नोति । निरूत्तरं यानानन्तर्यात्[नुत्तर्यात्] । प्रपूरौ च विशुद्धौ च धर्मकायस्येति दशम्यां भूमौ परिपूरिर्बुद्धभूमौ विशुद्धिः । एतेषां पञ्चानामनुशंसानां त्रयः शमथपक्षा द्वौ विपश्यनापक्षौ वेदितव्यौ । अतो यावल्लौकिकः समुदागमः ।
ततश्चासौ तथाभूतो बोधिसत्त्वः समाहितः ।
मनोजल्पाद्विनिर्मुक्तान् सर्वार्थान्न प्रपश्यति
धर्म[र्मा]लोकस्य वृध्द्यर्थ वीर्यमारभते दृढं ।
धर्मालोकविवृध्द्या च चित्तमात्रे ऽवतिष्ठते
सर्वार्थप्रतिभासत्वं ततश्चित्ते प्रपश्यति ।
प्रहीनो ग्राह्यनि[वि]क्षेपस्तदा तस्य भवत्यसौ
ततो ग्राहकविक्षेपः केवलो ऽस्यावशिष्यते ।
आनन्तर्यसमाधिं च स्पृशत्याशु तदा पुनः
अत ऊर्ध्वं निर्वेधभागीयानि । तथाभूतो बोधिसत्त्वः समाहितचित्तो मनोजल्पाद्विनिर्मुक्तान् सर्वधर्मान्न पश्यति स्वलक्षणसामान्यलक्षणाख्यान्मनोजल्पमात्रमेव ख्याति । सास्योष्मगतावस्था । अयं स आलोको यमधिकृत्योक्तं क्षारनद्याम् । आलोक इति धर्मनिध्यानक्षान्तेरेतदधिवचनमिति । स तस्यैव धर्मालोकस्य विवृध्द्यर्थमास्थितक्रियया दृढं वीर्यमारभते । सास्य मूर्धावस्था । धर्मालोकविवृध्द्या च चित्तमात्रे ऽवतिष्ठते । चित्तमेतदिति प्रतिवेधात् । ततश्चित्त एव सर्वार्थप्रतिभासत्वं पश्यति । न चित्तादन्यमर्थं । तदा चास्य ग्राह्यविक्षेपः प्रहीनो भवति । ग्राहकविक्षेपः केवलो ऽवशिष्यते । सास्य क्षान्त्यवस्था । तदा च क्षिप्रमानन्तर्यसमाधिं स्पृशति । सास्य लौकिकाग्रधर्मावस्था । केन कारणेन स आनन्तर्य उच्यते ।
यतो ग्राहकविक्षेपो हीयते तदनन्तरं ।
ज्ञेयान्युष्मगतादीनि एतानि हि यथाक्रमं
इत्येतान्युष्मगतादीनि निर्वेधभागीयानि ।
द्वयग्राहविसंयुक्तं लोकोत्तरमनुत्तरं ।
निर्विकल्पं मलापेतं ज्ञानं स लभते पुनः
अतः परेण दर्शनमार्गावस्था । द्वयग्राहविसंयुक्तं ग्राह्यग्राहग्राहकग्राहविसंयोगात् । अनुत्तरं यानानन्तर्येण[नुत्तर्येण] । निर्विकल्पं ग्राह्यग्राहकविकल्पविसंयोगात् । मलापेतं दर्शनज्ञे[हे]यक्लेशप्रहाणात् । एतेन विरजो विगतमलमित्युक्तं भवति ।
सास्याश्रयपरावृत्तिः प्रथमा भूमिरिष्यते ।
अमेयैश्चास्य सा कल्पैः सुविशुद्धिं निगच्छति
श्लोको गतार्थः ।
धर्मधातोश्च समतां प्रतिविध्य पुनस्तदा ।
सर्वसत्त्वेषु लभते सदात्मसमचित्ततां
निरात्मतायां दुःखार्थे कृत्ये निःप्रतिकर्मणि ।
सत्त्वेषु समचित्तो ऽसौ यथान्ये ऽपि जिनात्मजाः
धर्मनैरात्म्येन च धर्मसमतां प्रतिविध्य सर्वसत्त्वेषु सदा आत्मसमचित्ततां प्रत्तिलभते । पञ्चविधया समतया । नैरात्म्यसमतया दुःखसमतया स्वपरसंतानेषु नैरात्म्यदुःखतयोरविशेषात् । कृत्यसमतया स्वपरदुःखप्रहाणकामतासामान्यात् । निष्प्रतिकारसमतया । आत्मन इव परतः प्रतिकारानभिनन्दनात् । तदन्यबोधिसत्त्वसमतया च यथा तैरभिसमितं तथाभिसमयात् ।
त्रैधातुकात्मसंस्कारानभूतपरिकल्पतः ।
ज्ञानेन सुविशुद्धेन अद्धयार्थेन पश्यति
स त्रैधातुकात्मसंस्कारानभूतपरिकल्पनामात्रान्पश्यति । सुविशुद्धेन ज्ञानेन लोकोत्तरत्वात् । अद्वयार्थेनेत्यग्राह्यग्राहकार्थेन ।
तदभावस्य भावं च विमुक्तं दृष्टिहायिभिः ।
लब्ध्वा दर्शनमार्गो हि तदा तेन निरूच्यते
तस्य ग्राह्यग्राहकाभावस्य भावं धर्मधातून्दर्शनप्रहातव्यैः क्लेशैर्विमुक्तं पश्यति ।
अभावशून्यतां ज्ञात्वा तथाभावस्य शून्यतां ।
प्रकृत्या शून्यतां ज्ञात्वा शून्यज्ञ इति कथ्यते
स च बोधिसत्त्वः शून्यज्ञ इत्युच्यते । त्रिविधशून्यताज्ञानात् । अभावशून्यता परिकल्पितः स्वभावः स्वेन लक्षणेनाभावात् । तथाभावस्य शून्यता परतन्त्रस्य स हि न तथाभावो यथा कल्प्यते स्वेन लक्षणेन भावः । प्रकृतिशून्यता परिनिष्पन्नः स्वभावः शून्यतास्वभावत्वात् ।
अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः ।
अभूतपरिकल्पश्च तदप्रणिहितस्य हि
अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः । अभूतपरिकल्पस्तदप्रणिधानस्य पदमालम्बनमित्यर्थः ।
तेन दर्शनमार्गेण सह लाभः सदा मतः ।
सर्वेषां बोधिपक्षाणां विचित्राणां जिनात्मजे
तेन दर्शनमार्गेण सह बोधिसत्त्वस्य सर्वेषां बोधिपक्षाणां धर्माणां लाभो वेदितव्यः स्मृत्युपस्थानादीनां ।
संस्कारमात्रं जगदेत्य बुद्ध्या निरात्मकं दुःखिविरूढिमात्रं ।
विहाय यानर्थमयात्मदृष्टिः महात्मदृष्टिं श्रयते महार्था
विनात्मदृष्ट्या य इहात्मदृष्टिर्विनापि दुःखेन सुदुःखितश्च ।
सर्वार्थकर्ता न च कारकाङ्क्षी यथात्मनः स्वात्महितानि कृत्वा
यो मुक्तचित्तः परया विमुक्त्या बद्धश्च गाढायतबन्धनेन ।
दुःखस्य पर्यन्तमपश्यमानः प्रयुज्यते चैव करोति चैव
स्वं दुःखमुद्वोढुमिहासमर्थो लोकः कुतः पिण्डितमन्यदुःखं ।
जन्मैकमालोकयते[गतं] त्वचिन्तो विपर्ययात्तस्य तु बोधिसत्त्वः
यत्प्रेम या वत्सलता प्रयोगः सत्त्वेष्वखेदश्च जिनात्मजानां ।
आश्चर्यमेतत्परमं भवेषु न चैव सत्त्वात्मसमानभावात्
एभिः पञ्चभिः श्लोकैर्दर्शनमार्गलाभिनो बोधिसत्त्वस्य माहात्म्योद्भावनम् । अनर्थमयात्मदृष्टिर्या क्लिष्टा सत्कायदृष्टिः । महात्मदृष्टिरिति महार्था या सर्वसत्त्वेष्वात्मसमचित्तलाभात्मदृष्टिः । सा हि सर्वसत्त्वार्थक्रिंयाहेतुत्वात् महार्था । विनात्मदृष्ट्या अनर्थमय्यात्मदृष्टिर्महार्था या विनापि दुःखेन स्वसंतानजेन सुदुःखिता सर्वसत्त्वसंतानजेन । यो विमुक्तचित्तो दर्शनप्रहातव्येभ्यः परया विमुक्त्यानुत्तरेण यानेन । बद्धश्च गाढायतबन्धनेन सर्वसत्त्वसांन्तानिकेन दुःखस्य पर्यन्तं न पश्यति स्व[सत्त्व]धातोरनन्तत्वादाकाशवत् प्रयुज्यते च दुःखस्यान्तक्रियायै सत्त्वानां करोति चैव ताम[अर्थं] प्रमेयाणां सत्त्वानां । विपर्ययात्तस्य तु बोधिसत्त्वः स हि संपिण्डितसर्वसत्त्वदुःखं यावल्लोकगतमुद्वोढुं समर्थः । या सत्त्वेषु बोधिसत्त्वस्य प्रियता या च हितसुखैषिता यश्च तदर्थं प्रयोगो यश्चित्त[यश्चतत्]प्रयुक्तस्याखेद एतत्सर्वमाश्चर्यं परमं लोकेषु । न चैवाश्चर्यं सत्त्वानामात्मसमानत्वात् ।
ततो ऽसौ भावनामार्गे परिशिष्टासु भूमिषु ।
ज्ञानस्य द्विविधस्येह भावनायै प्रयुज्यते
निविर्कल्पं च तज्ज्ञानं बुद्धधर्मविशोधकं ।
अन्यद्यथाव्यवस्थानं सत्त्वानां परिपाचकं
भावनायाश्च निर्याणं द्वयसंख्येयसमाप्तितः ।
पश्चिमां भावनामेत्य बोधिसत्त्वौ ऽभिषिक्तकः
वज्रोपमं समाधानं विकल्पाभेद्यमेत्य च ।
निष्ठाश्रयपरावृत्तिं सर्वावरणनिर्मलां
सर्वकारज्ञतां चैव लभते ऽनुत्तरं पदं ।
यत्रस्थः सर्वसत्त्वानां हिताय प्रतिपद्यते
एभिर्भावनामार्गः परिदीपितः द्विविधं ज्ञानं । निर्विकल्पं च येनात्मनो बुद्धधर्मान् विशोधयति । यथाव्यवस्थानं च लोकोत्तरपृष्ठलब्धं लौकिकं येन सत्त्वान्परिपाचयति । असंख्येयद्वयस्य समाप्तौ पश्चिमां भावनामागम्यावसानगतामभिषिक्तो वज्रोपमं समाधिं लभते । विकल्पानुशयाभेद्यार्थेन वज्रोपमः । ततो निष्ठागतामाश्रयपरावृत्तिं लभते सर्वक्लेशज्ञेयावरणनिर्मलां । सर्वाकारज्ञतां चानुत्तरपदं यत्रस्थो यावत्संसारमभिसंबोधिनिर्वाणसंदर्शनादिभिः सत्त्वानां हिताय प्रतिपद्यते ।
कथं तथा दुर्लभदर्शने मुनौ भवेन्महार्थं न हि नित्यदर्शनं ।
भृशं समाप्यायितचेतसः सदा प्रसादवेगैरसमश्रवोद्भवैः
अ[प्र]चोद्यमानः सततं च संमुखं तथागतैर्धर्मसु[मु]खे व्यवस्थितः ।
निगृह्य केशेष्विव दोषगह्वरात् निकृष्य बोधौ च बलान्निवेश्यते
स सर्वलोकं सुविशुद्धदर्शनैरकल्पबोधैरभिभूय सर्वथा ।
महान्धकारं विधमय्य भासते जगन्महादित्य इवात्युदारतः
एभिस्त्रिभिः श्लोकैरववादमाहात्म्यं दर्शयति । यो हि धर्ममुखश्रोतस्यववादं लभते तस्य नित्यं बुद्धदर्शनं भवति । ततश्चासमं धर्मश्रवणं । यतो ऽस्यात्यर्थं प्रसादः प्रसादवेगैराप्यायितचेतसस्तन्नित्यदर्शनं बुद्धानां महार्थं भवति । शेषं गतार्थम् ।
बुद्धाः सम्यक्प्रशंसां विदधति सततं स्वार्थसम्यक्प्रयुक्ते,
निन्दामीर्ष्याप्रयुक्ते स्थितिविचपरे चान्तरायानुकूलान् ।
धर्मान् सर्वप्रकारान्विधिवदिह जिना दर्शयन्त्यग्रसत्त्वे,
यान् वर्ज्यासेव्य योगे भवति विपुलता सौगते शासने ऽस्मिम्
चतुर्विधामनुशासनीमेतेन श्लोकेन दर्शयति । अधिशीलमधिकृत्य सम्यक्स्वार्थप्रयुक्ते बोधिसत्त्वे प्रशंसाविधानतः । अधिचित्तमधिप्रज्ञं चाधिकृत्य स्थितिविचयपरे तदन्तरायाणां ( म्स_बग्छि 95 ) तदनुकूलानां च सर्वप्रकाराणां धर्माणां देशनतः । यान्वर्ज्यासेव्येत्यन्तरायाननुकूलांश्च यथाक्रमं । योग इति शमथविपश्यनाभावनायां ।
इति सततशुभाचयप्रपूर्णः सुविपुलमेत्य स चेतसः समाधिं ।
मुनिसततमहाववादलब्धो भवति गुणार्णवपारगो ऽग्रसत्त्वः
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0