महायानसूत्रालंकार · अध्याय 13
पञ्चभिः कारणैः सुकथिकत्वं । सूर्यवत्प्रतपनं चानुशंसः । लोकावर्जनतो बहुमतत्वात् । पञ्च कारणानि सुकथिकत्वस्य येनाविपरीतं दर्शयति अभीक्ष्णं निरामिषचित्त आदेयवाक्यविनेयानुरूपं च ।
॥ महायानसूत्रालंकारे देशनाधिकारो द्वादशः ॥
त्रयोदशो ऽधिकारः
प्रतिपत्तिविभागे षट् श्लोकाः ।
द्वेधा नैरात्म्यमाज्ञाय धीमान् पुद्गलधर्मयोः ।
द्वयमिथ्यात्वसम्यक्त्वं विवर्ज्येत त्रयेण हि
यथार्थमाज्ञाय धर्ममाज्ञाय धर्मानुधर्मप्रतिपन्नो भवति सामीचीप्रतिपन्नो ऽनुधर्मचारी तत्संदर्शयति । तत्र द्विधा पुद्गलधर्म नैरात्म्यज्ञानं ग्राह्यग्राहकाभावतः । द्वयमिथ्यात्वसम्यक्त्त्वं विवर्ज्यं त्रयं । अभावे च शून्यतासमाधिः परिकल्पितस्य स्वभावस्य । भावे चाप्रणीहितानिमित्तौ परतन्त्रनिष्पन्नयोः स्वभावयोः । एतत्समाधित्रयं लौकिकं न मिथ्यात्वं लोकोत्तरज्ञानावाहनात् । न सम्यक्त्वमलोकोत्तरत्वात् ।
अर्थज्ञः सर्वधर्माणां वेत्ति कोलसमानतां ।
श्रुततुष्टिप्रहाणाय धर्मज्ञस्तेन कथ्यते
एवमर्थज्ञः सर्वधर्माणां सूत्रादीनां कोलोपमतां जानाति । श्रुतमात्रसंतुष्टिप्रहाणाय तेन धर्मज्ञो भवति ।
पार्थग्जनेन ज्ञानेन प्रतिविध्य द्वयं तथा ।
तज्ज्ञानपरिनिष्पत्तावनुधर्मं प्रपद्यते
एतेन द्विविधेन पार्थग्जनेनार्थधर्मज्ञानेन द्वयं नैरात्म्यभावं प्रतिविध्य यथाक्रमं [नैरात्म्यं तथा प्रतिविध्य यथोक्तं] तस्य ज्ञानस्य परिनिष्पत्त्यर्थं प्रतिपद्यते । एवमनुधर्मं प्रतिपद्यते ।
ततो ज्ञानं स लभते लोकोत्तरमनुत्तरं ।
आदिभूमौ समं सर्वैर्बोधिसत्त्वैस्तदात्मभिः
ततो ज्ञानं स लभते लोकोत्तरमनुत्तरमिति । विशिष्टतरयानाभावात् । आदिभूमौ प्रमुदितायां भूमौ समं सर्वैर्बोधिसत्त्वैस्तदात्मभिरिति तद्भूमिकैरेवं सामीचीप्रतिपन्नो भवति तद्भूमिकबोधिसत्त्वसमतया ।
कृत्वा दर्शनज्ञेयानां[हेयानां] क्लेशानां सर्वसंक्षयम् ।
ज्ञेयावरणज्ञानाया[हानाय] भावनायां प्रयुज्यते
श्लोको गतार्थः ।
व्यवस्थानविकल्पेन ज्ञानेन सहचारिणा ।
अनुधर्मं चरत्येवं परिशिष्टासु भूमिषु
शेषेणानुधर्मचारित्वं दर्शयति । व्यवस्थानाविकल्पेनेति भूमिव्यवस्थानज्ञानेनाविकल्पेन च । सहचारिणेत्यनुसंबद्धचारिणा अन्योन्यनैरन्तर्येण । एतेन श्लोकद्वयेनानुधर्मचारित्वं दर्शितं ।
प्रतिपत्तावप्रमादक्रियायां चत्वारः श्लोकाः ।
सुलाभो ऽथ स्वधिष्ठानः सुभूमिः सुसहायकः ।
सुयोगो गुणवान् देशो यत्र धीमान् प्रपद्यते
चतुर्भिश्चक्रैरप्रमादक्रियां दर्शयति प्रतिरूपदेशवासादिभिः । तत्रानेन श्लोकेन प्रतिरूपदेशवासं दर्शयति । सुलाभश्चीवरपिण्डपातादीनां जीवितपरिष्काराणामकृच्छ्रेण लाभात् । स्वधिष्ठानो दुर्जनैर्दस्युप्रभृतिभिरनधिष्ठितत्वात् । सुभूमिरारोग्यभूमित्वात् । सुसहायकः सभागशीलदृष्टिसहायकत्वात् । सुयोगो दिवाल्पाकीर्णाभिलापकत्वात् रात्रौ चाल्पशब्दादिकत्वात् ।
बहुश्रुतो दृष्टसत्यो वाग्मी समनुकम्पकः ।
अखिन्नो बोधिसत्त्वश्च ज्ञेयः सत्पुरूषो महान्
अनेन द्वितीयेन सत्पुरूषं दर्शयति । आगमाधिगमवाक्करणनिरामिषचित्ताकिलासित्वगुणयोगात् ।
स्वालम्बना मुसंभरा [सुसंस्तब्धा] सुभावनैव [सुपायाचैव?] देशिता ।
सुनिर्याणप्रयोगा च आत्मसम्यक्प्रधानता
अनेन तृतीयेन योनिशोमनस्कारसंगृहीतमात्मनः सम्यक्प्रणीधानतां दर्शयति । सद्धर्मालम्बनतया सुसंभृतसंभारतया शमथादिनिमित्तानां कालेन कालं भावनातया अल्पमात्रासंतुष्टितया सत्युत्तरकरणीये सातत्यसत्कृत्यप्रयोगतया च ।
रतेः क्षणोपपत्तेश्च आरोग्यस्यापि कारणं ।
समाधेर्विचयस्यापि पूर्वे हि कृतपुण्यता
अनेन चतुर्थेन पूर्वकृतपुण्यतां पञ्चविधेन हेतुत्वेन दर्शयति । रतिहेतुत्वेन यतः प्रतिरूपदेशवासे ऽभिरमते । क्षणोपपत्तिहेतुत्वेन यतः सत्पुरूषायाश्रयं लभते । ( म्स_बग्छि 85 ) आरोग्यसमाधिप्रज्ञाहेतुत्वेन च यत आत्मनः सम्यक्प्रणिधानं सम्पद्यते ।
क्लेशत एव क्लेशनिःसरणे श्लोकास्त्रयः ।
धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते ।
तस्माद्रागादयस्तेषां बुद्धैर्निःसरणं मताः
यदुक्तं भगवता । नाहमन्यत्र रागाद्रागस्य निःसरणं वदाम्येवं द्वेषान्मोहादिति । तत्राभिसंधिं दर्शयति । यस्माद्धर्मधातुविनिर्मुक्तो धर्मो नास्ति धर्मताव्यतिरेकेण धर्माभावात् । तस्माद्रागादिधर्मतापि रागाद्याख्यां लभते स च निःसरणं रागादीनामित्येवं तत्राभिसंधिर्वेदितव्यः ।
धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते ।
तस्मात्संक्लेशनिर्देशे स संविद्[संधिर] धीमतां मतः
यदुक्तं । अविद्या च बोधिश्चैकमिति । तत्रापि सक्लेशनिर्देशे स एवाभिसंधिः । अविद्या बोधिधर्मता स्यात्तदुपचारात् ।
यतस्तानेव रागादीन्योनिशः प्रतिपद्यते ।
ततो विमुच्यते तेभ्यस्तेनैषां निःसृतिस्ततः
तानेव रागादीन्योनिशः प्रतिपद्यमानस्तेभ्यो विमुच्यते तस्मात्परिज्ञातास्त एव तेषां निःसरणं भवतीत्ययमत्राभिसंधिः ।
श्रावकप्रत्येकबुद्धमनसिकारपरिवर्जने श्लोकद्वयं ।
न खलु जिनसुतानां बाधकं दुःखमुग्रं
नरकभवनवासैः सत्त्वहेतोः कथंचित् ।
शमभवगुणदोषप्रेरिता हीनयाने
विविधशुभविकल्पा बाधका धीमतां तु
न खलु नरकवासो धीमतां सर्वकालं
विमलविपुलबोधेरन्तरायं करोति ।
स्वहितपरमशीतस्त्वन्ययाने विकल्पः
परमसुखविहारे ऽप्यन्तरायं करोति
अनयोः श्लोकयोरेकस्य द्वितीयः साधकः । उभौ गतार्थौ ।
निःस्वभावताप्रकृतिपरिशुद्धित्रासप्रतिषेधे चत्वारः श्लोकाः ।
धर्माभावोपलब्धिश्च निःसंक्लेशविशुद्धिता ।
मायादिसदृशी ज्ञेया आकाशसदृशी तथा
यथैव चित्रे विधिवद्विचित्रिते नतोन्नतं नास्ति च दृश्यते ऽथ च ।
अभूतकल्पे ऽपि तथैव सर्वथा द्वयं सदा नास्ति स दृश्यते ऽथ च
यथैव तोये लुति[टि]ते प्रसादिते न जायते सा पुनरच्छतान्यतः ।
मलापकर्षस्तु स तत्र केवलः स्वचित्तशुद्धौ विधिरेष एव हि
मतं च चित्तं प्रकृतिप्रभास्वरं सदा तदागन्तुकदोषदूषितं ।
न धर्मताचित्तमृते ऽन्यचेतसः प्रभास्वरत्वं प्रकृतौ विधीयते
धर्माभावश्च धर्मोपलब्धिश्चेति त्रासस्थानं निःसंक्लेशता च धर्मधातोः प्रकृत्या विशुद्धता च पश्चादिति त्रासस्थानं बालानां । तद्यथाक्रमं मायादिसादृश्येनाकाशसादृश्येन च प्रसाधयंस्ततस्त्रासं प्रतिषेधयति । तथा चित्रे नतोन्नतसादृश्येन लुति[टि]तप्रसादिततोयसादृश्येन च यथाक्रमं । चतुर्थेन श्लोकेन तोयसाधर्म्यं चित्ते प्रतिपादयति । यथा तोयं प्रकृत्या प्रसन्नमागन्तुकेन तु कालुष्येण लुति[टि]तं भवत्येवं चित्तं प्रकृत्या प्रभास्वरं मतमागन्तुकैस्तु दौषैर्दूषितमिति । न च धर्मताचित्तादृते ऽन्यस्य चेतसः परतन्त्रलक्षणस्य प्रकृतिप्रभास्वरत्वं विधीयते । तस्माच्चित्ततथतैवात्र चित्तं वेदितव्यं ।
रागजापत्तिप्रतिषेधे चत्वारः श्लोकाः ।
बोधिसत्त्वस्य सत्त्वेषु प्रेम मज्जगतं महत् ।
यथैकपुत्रके तस्मात्सदा हितकरं मतम्
सत्त्वेषु हितकारित्वन्नैत्यापत्तिं स रागजां ।
द्वेषो विरुद्यते त्वस्य सर्वसत्त्वेषु सत्पथा[सर्वथा]
यथा कपोती स्वसुतातिवत्सला स्वभावकांस्तानुपगुह्य तिष्ठति ।
तथाविधायां प्रतिघो विरुध्यते सुतेषु तद्वत्सकृपे ऽपि देहिषु
मैत्री यतः प्रतिघचित्तमतो विरुद्धं
शान्तिर्यतो व्यसनचित्तमतो विरुद्धं ।
अर्थो यतो निकृतिचित्तमतो विरुद्धं
ल्हादो यतः प्रतिभयं न[च] ततो विरुद्धं
यत्सत्त्वेषु बोधिसत्त्वस्य प्रेम सो ऽत्र रागो ऽभिप्रेतस्तत्कृतामापत्तिं तेषां प्रतिषेधयति । सत्त्वहितक्रियाहेतुत्वात् । कपोतीमुदाहरति तब्दहुरागत्वात् अपत्यस्नेहाधिमात्रतया ( म्स_बग्छि 87 ) सकृपे बोधिसत्त्वे देहिषु सत्त्वेषु प्रतिघो विरुध्यते । बोधिसत्त्वानां सत्त्वेषु मैत्री भवति व्यसनशान्तिः अर्थदानं ल्हादश्च प्रीत्युत्पादात् । यत इमे मैत्र्यादयस्तत एव प्रतिघचित्तं विरुद्धं । तत्पूर्वकाणि च व्यसनचित्तादीनि ।
प्रतिपत्तिभेदे पञ्च श्लोकाः ।
यथातुरः सुभैषज्ये संसारे प्रतिपद्यते ।
आतुरे च यथा वैद्यः सत्त्वेषु प्रतिपद्यते
अनिष्पन्ने यथा चेटे स्वात्मनि प्रतिपद्यते ।
वणिग्यथा पुनः पण्ये कामेषु प्रतिपद्यते
यथैव रजको वस्त्रे कर्मणे प्रतिपद्यते ।
पिता यथा सुते बाले सत्त्वाहेठे प्रपद्यते
अग्न्यर्थी वाधरारण्यां सातत्ये प्रतिपद्यते ।
वैश्वासिको वानिष्पन्ने अधिचित्ते प्रपद्यते
मायाकार इव ज्ञेये प्रज्ञया प्रतिपद्यते ।
प्रतिपत्तिर्यथा यस्मिन् बोधिसत्त्वस्य सा मता
यथा यस्मिन्प्रतिपद्यते तदभिद्योतयति । यथेति सुभैषज्यादिष्विवातुरादयः । यत्रेति संसारादिषु प्रतिसंख्याय संसारनिषेवणात् । कारुण्येन क्लेशातुरसत्त्वापरित्यागात् । स्वप्रणिहितत्वचित्तकरणात् । दानादिपारमिताभिश्च यथाक्रमं भोगवृद्धिनयनात् । कायादिकर्मपरिशोधनात् । सत्त्वापकाराकोपात् । कुशलभावनानिरन्तराभियोगात् । समाध्यनास्वादनात् । ज्ञेयाविपर्यासाच्च ।
प्रतिपत्तित्रिमण्डलपरिशुद्धौ श्लोकः ।
इति सततमुदारयुक्तवीर्यो द्वयपरिपाचनशोधने सुयुक्तः ।
परमविमलनिर्विकल्पगुद्ध्या व्रजति स सिद्धिमनुत्तमां क्रमेण
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0