महायानसूत्रालंकार · अध्याय 12
अनेन निगमनश्लोकेन पर्येष्टिमाहात्म्यं त्रिविधं दर्शयति । उपायमाहात्म्यमुग्रवीर्यतया संवृत्तिपरमार्थसत्यधर्मतापर्येषणतश्च तत्त्वं सत्यमित्यर्थः । परार्थमाहात्म्यं प्रतिशरणीभावात् प्रजानाम् । स्वार्थमाहात्म्यं च गुणैः समुद्रवत् प्रपूर्णत्वात् ।
॥ महायानसूत्रालंकारे धर्मपर्येष्ट्यधिकार एकादशः ॥
द्वादशो ऽधिकारः
धर्मदेशनायां मात्सर्यप्रतिषेधे श्लोकः ।
प्राणान्भोगांश्च धीराः प्रमुदितमनसः कृच्छ्रलब्धानसारान्
सत्त्वेभ्यो दुःखितेभ्य सततमवसृजन्त्युच्चदानप्रकारैः ।
प्रागेवोदारधर्मं हितकरमसकृत्सर्वथैव प्रजानां
कृच्छ्रे नैवोपलब्धं भृशमवसृजतां वृद्धिगं चाव्ययं च
कृच्छ्रलब्धानप्यसारान् क्षयित्वा[त्]प्राणान् भोगांश्च बोधिसत्त्वा दुःखितेभ्यः कारुण्यात् सततसमुदारैर्विसर्गैरुत्सृजन्ति प्रागेव धर्मं यो नैव कृच्छ्रेण वा भृशमपि वावसृजतां वृद्धिं गच्छति न क्षयं ।
धर्म नैरर्थक्यसार्थक्ये श्लोकद्वयं ।
धर्मो नैव च देशितो भगवता प्रत्यात्मवेद्यो यत
आकृष्टा जनता च युक्त[युक्ति]विहितैर्धर्मैः स्वकीं धर्मतां
स्वशान्त्यास्यपुटे विशुद्धिविपुले साधारणे ऽथाक्षये
लालेनेव कृपात्मभिस्त्वजगरप्रख्यैः समापादिता
तत्र बुद्धा अजगरोपमास्तेषां स्वशान्ति[शान्ते?]रास्यपुटं धर्मकायः । विशुद्धिविपुलं सवासनक्लेशज्ञेयावरणविशुद्धितः । साधारणं सर्वबुद्धैः अक्षयमात्यन्तिकत्वात् ।
तस्मान्नैव निरर्थिका भवति सा या भावना योगिनां
तस्मान्नैव निरर्थिका भवति सा या देशना सौगती ।
दृष्टो ऽर्थः श्रुतमात्रकाद्यदि भवेत् स्याद्भावनापार्थिका
अश्रुत्वा यदि भावनामनुविशेत् स्याद्देशनापार्थिका
तस्मान्न निरर्थिका योगिनां भावना भवति प्रत्यात्मवेद्यस्य धर्मस्य तद्वशेनाभिगमात् । न निरर्थिका देशना भवति युक्तिविहितैर्धर्मैः स्वधर्मतायां जनताकर्षणात् । यथा पुनर्भावना सार्थिका भवेद्देशना वा तत् श्लोकार्धेन दर्शयति । शेषं गतार्थम् ।
देशनाविभागे श्लोकः ।
आगमतो अधिगमतो विभुत्वतो देशनाग्रसत्वानां ।
मुखतो रूपात्सर्वा[र्वतआ]काशादुच्चरणतापि ......
तत्र विभुत्वतो या महाभूमिप्रविष्टानां । सर्वतो रूपाद्या वृक्षवादित्रादिभ्यो ऽपि निश्चरति । शेषं गतार्थम् ।
देशनासंपतौ श्लोकद्वयं ।
विषदा संदेहजहा आदेया तत्त्वदर्शिका द्विविधा ।
संपन्नदेशनेयं विज्ञेयं[या] बोधिसत्त्वानां
अयं चतुष्कार्थनिर्देशेन श्लोकः । यदुक्तं ब्रह्मपरिपृच्छायां । चत्रुभिर्धर्मैः समन्वागता बोधिसत्त्वा महाधर्मदानं वितरन्ति सद्धर्मपरिग्रहणतया आत्मनः प्रज्ञोत्तापनतया सत्पुरूषकर्मकरणतया संक्लेशव्यवदानसंदेशनतया च । एकेन हि बाहुश्रुत्याद्विषदा देशना भवति । द्वितीयेन महाप्राज्ञत्वात् । संशयजहा परेषां संशयच्छेदात् ।
तृतीयेनानवद्यकर्मत्त्वादादेया । चतुर्थेन तत्त्वदर्शिका द्विविधा संक्लेशलक्षणस्य च तत्त्वस्य व्यवदानलक्षणस्य च द्वाभ्यां द्वाभ्यां सत्याभ्याम् ।
मधुरा मदव्यपेता न च खिन्ना देशनाग्रसत्त्वानां ।
स्फुटचित्रयुक्तगमिका निरामिषा सर्वगा चैव
अस्मिन्द्वितीये श्लोके मधुरा परेणाक्षिप्तस्यापरूषवचनात् । मदव्यपेता स्तुतौ सिद्धौ वा मदाननुगमनात् । अखिन्ना अकिलासिकत्वात् । स्फुटा निराचार्यमुष्टित्वात् कृत्स्नदेशनतः । चित्रा अपुनरुक्तत्वात् । युक्ता प्रमाणाविरुद्धत्वात् । गमिकाप्रतीतपदव्यञ्जनत्वात् । निरामिषा प्रसन्नाधिकारानधि[र्थि]कत्वात् । सर्वत्रगा यानत्रयगतत्वात् ।
वाक्संपत्तौ श्लोकः ।
अदीना मधुरा सूक्ता प्रतीता विषदा तथा [वाग्जिनात्मजे] ।
[यथार्हानामिषाचैव प्रमिता विषदा तथा]
अदीना पौरी पर्षत्पूरणात् । मधुरा वल्गुः । सूक्ता विस्पष्टा सुनिरूक्ताक्षरत्वात् । प्रतीता विज्ञेया प्रतीताभिधानत्वात् । यथार्हा श्रवणीया विनेयानुरूपत्वात् । अनामिषा अनिःश्रित[ता]लाभसत्कारालोके[रश्लोके] । प्रतता[प्रमिता] अप्रतिकूला परिमितायामखेदात् । विषदा अपर्यात्ता ।
व्यञ्जनसंपत्तौ श्लोकद्वयं ।
उद्देशान्निर्देशात्तथैव यानानुलोमनात् श्लाक्ष्ण्यात् ।
प्रातीत्याद्याथार्हान्नैर्याण्यादानुकूल्यत्वात्
युक्तैः पदव्यञ्जनैरूद्देशात्प्रमाणाविरोधेन । सहितैर्निर्देशादुद्देशाविरोधेन । यानानुलोमनादानुलोमिकैर्यानत्रयाविरोधेन । श्लाक्ष्ण्याद[दा]नुच्छविकैरकष्टशब्दतया । प्रातीत्यादौपयिकैः ( म्स_बग्छि 78 ) प्रतीतार्थतया चार्थोपगमनात् । याथार्हात्प्रतिरूपैर्विनेयानुरूपतया । नैर्याण्यात्प्रदक्षिणैर्निर्वाणाधिकारतया । आनुकूल्यान्निपकस्याङ्गसंभारैः शैक्षस्यार्याष्टाङ्गमार्गानुकूल्यात् ।
व्यञ्जनसंपच्चैषा विज्ञेया सर्वथाग्रसत्त्वानां ।
षष्ट्यङ्गी साचिन्त्या घोषो ऽनन्तस्तु सुगतानां
षष्ट्यङ्गी साचिन्त्या या गुह्यकाधिपतिनिर्देशे बुद्धस्य षष्ट्याकारा वाग् निर्दिष्टा । पुनरपरं शान्तमते तथागतस्य षष्ट्याकारोपेता वाग् निश्चरति स्निग्धा च मृदुका च मनोज्ञा च मनोरमा च शुद्धा चेति विस्तरः । तत्र स्निग्धा सत्त्वाधातुकुशलमूलोपस्तम्भिकत्वात् । मृदुका दृष्ट एव धर्मे सुखसंस्पर्शत्वात् । मनोज्ञा स्वर्थत्वात् । मनोरमा सुव्यञ्जनत्वात् । शुद्धा निरूत्तरलोकोत्तरपृष्ठलब्धत्वात् । विमला सर्वक्लेशानुशयवासनाविसंयुक्तत्वात् । प्रभास्वरा प्रतीतपदव्यञ्जनत्वात् । वल्गुः सर्वतीर्थ्यकुमतिदृष्टिविधातबलगुणयुक्तत्वात् । श्रवणीया प्रतिपत्तिनैर्याणिकत्वात् । अनन्ता[अनेला] सर्वपरप्रवादिभिरनाछेद्यत्वात् । कला रञ्जिकत्वात् । विनीता रागादिप्रतिपक्षत्वात् । अकर्कशा शिक्षाप्रज्ञप्तिसुखोपायत्वात् । अपरूषा तद्व्यतिक्रमसंपन्निःसरणोपदेशकत्वात् । सुविनीता यानत्रयनयोपदेशिकत्वात् । कर्णसुखा विक्षेपप्रतिपक्षत्वात् । कायप्रह्णादनकरी समाध्याबाहकत्वात् । चित्तौद्विल्यकरी विपश्यनाप्रामोद्यावाहफलकत्वात् । हृदयसंतुष्टिकरी संशयच्छेदिकत्वात् । प्रीतिसुखसंजननी मिथ्यानिश्चयापकर्षिकत्वात् । निःपरिदाहा प्रतिपत्तावविप्रतिसारत्वात् । आज्ञेया संपन्नश्रुतमयज्ञानाश्रयत्वात् । विज्ञेया संपन्नचिन्तामयज्ञानाश्रयत्वात् । विष्पष्टा अनाचार्यमुष्टिधर्मविहितत्वात् । प्रेमणीयानुप्राप्तस्वकार्थानां प्रेमकरत्वात् । अभिनन्दनीयाननुप्राप्तस्वकार्थानां स्पृहणीयत्वात् । आज्ञापनीया अचिन्त्यधर्मसम्यग्दर्शिकत्वात् । विज्ञापनीया चिन्त्यधर्मसम्यग्देशिकत्वात् । युक्ता प्रमाणाविरूद्धत्वात् । सहिता यथार्हविनेयदेशिकत्वात् । पुनरूक्तदोषजहा अवन्ध्यत्वात् । सिंहस्वरवेगा सर्वतीर्थ्यसंत्रासकत्वात् । नागस्वरशब्दा उदारत्वात् । मेघस्वरघोषा गम्भीरत्वात् । नागेन्द्ररुता आदेयत्वात् । किन्नरसंगीतिघोषा मधुरत्वात् । कलविङ्कस्वररूतरविताभी[ती]क्ष्णभङ्गुरत्वात् । ब्रह्मस्वररुतरविता दूरंगमत्वात् । जीवंजीवकस्वररुतरविता सर्वसिद्धिपूर्वंगममङ्गलत्वात् । देवेन्द्रमधुरनिर्घोषा अनतिक्रमणीयत्वात् । दुन्दुभिस्वरा सर्वमारप्रत्यर्थिकविजयपूर्वंगमत्वात् । अनुन्नता स्तुत्यसंक्लिष्टत्वात् । अनवनता निन्दासंक्लिष्टत्वात् । सर्वशब्दानुप्रविष्टा सर्वव्याकरणसर्वाकारलक्षणानुप्रविष्टत्वात् । अपशब्दविगता स्मृतिसंप्रमोषे तदनिश्चरणत्वात् । अविकला विनेयकृत्यसर्वकालप्रत्युपस्थितत्वात् । अलीना लाभसत्कारानिश्रितत्वात् । अदीना सावद्यापगत्वात् । प्रमुदिता अखेदित्वात् । प्रसृता सर्वविद्यास्थानकौशल्यानुगतत्वात् । अखिला[सखिला] सत्त्वानां ( म्स_बग्छि 79 ) तत्सकलार्थसंपादकत्वात् । सरिता प्रबन्धानुपच्छिन्नत्वात् । ललिता विचित्राकारप्रत्युपस्थानत्वात् । सर्वस्वरपूरणी एकस्वरनैकशब्दविज्ञप्तिप्रत्युपस्थापनत्वात् । सर्वसत्त्वेन्द्रियसंतोषणी एकानेकार्थविज्ञप्तिप्रत्युपस्थानत्वात् । अनिन्दिता यथाप्रतिज्ञत्वात् । अचञ्चला आगमितकालप्रयुक्तत्वात् । अचपला अत्वरमाणविहितत्वात् । सर्वपर्षदनुरविता दुरान्तिकपर्षत्तुल्यश्रवणत्वात् । सर्वाकारवरोपेता सर्वलौकिकार्थदृष्टान्तधर्मपरिणामिकत्वात् ।
देशनामाहात्म्ये चत्वारः श्लोकाः ।
वाचा पदैः सुयुक्तैरनुदेशविभागसंशयच्छेदैः ।
बहुलीकारानुगता ह्युद्धटितविपञ्चितज्ञेषु
आख्याति वाचा । प्रज्ञापयति पदैः सुयुक्तैः । प्रस्थापयति विभाजयति विवृणोति यथाक्रममुद्देशविभागसंशयच्छेदैः । उत्तानीकरोति उत्तानीकरणं बहुलीकारानुगता देशना निश्चयबलाधानार्थं । देशयत्युद्धटितज्ञेषु । संप्रकाशयति विपञ्चितज्ञेषु ।
शुद्धा त्रिमण्डलेन हितेयं देशना हि बुद्धानां ।
दोषैर्विवर्जिता पुनरष्टभिरेषैव विज्ञेया
शुद्धा त्रिमण्डलेनेति । येन च देशयति वाचा पदैश्च । यथा चोद्देशादिप्रकारैः । येषु चोद्धटितविपञ्चितज्ञेषु । एषैव च देशना पुनरष्टदोषविवर्जिता वेदितव्या यथाक्रमम् ।
कौशीद्यमनवबोधो ह्यवकाशस्याकृतिर्ह्यनीतत्वम् ।
संदेहस्याच्छेदस्तद्विगमस्यादृढीकरणम्
ते पुनरष्टौ दोषाः । कौशीद्यमनवसंबोधः अवकाशस्याकरणं अनीतार्थत्वं संदेहस्याच्छेदना तद्विगमस्यादृढीकरणं निश्चयश्येत्यर्थः ।
खेदो ऽथ मत्सरित्वं दोषा ह्येते मता कथायां हि ।
तदभावाद्बुद्धानां निरूत्तरा देशना भवति
खेदो येनाभीक्ष्णं न देशयेत् । मत्सरित्वं [मत्सरित्वं] चाकृत्स्नप्रकाशनात् । अर्थसंपत्तौ श्लोकद्वयं ।
कल्याणो धर्मो ऽयं हेतुत्वाद्भक्तितुष्टिबुद्धीनां ।
द्विविधार्थः सुग्राह्यश्चतुर्गुणब्रह्मचर्यवदः
परैसाधारणयोगकेवलं त्रिधातुकक्लेशविहानिपूरकम् ।
स्वभावशुद्धं मलशुद्धितश्च तच्चतुर्गुणब्रह्मविचर्यमिष्यते
चतुर्गुणब्रह्मचर्यसंप्रकाशको धर्मः । आदिमध्यपर्यवसानकल्याणो यथाक्रमं श्रुतचिन्ताभावनाभिर्भक्तितुष्टिबुद्धिहेतुत्वात् । तत्र भक्तिरधिमुक्तिः संप्रत्ययः तुष्टिः प्रामोद्यं ( म्स_बग्छि 80 ) युक्तिनिध्यानाच्छक्यप्राप्तितां विदित्वा । बुद्धिः समाहितचित्तस्य यथाभूतज्ञानं । द्विविधार्थ इत्यतः स्वर्थः संवृतिपरमार्थसत्ययोगात् । सुग्राह्य इत्यतः सुव्यञ्जनः प्रतीतपदव्यञ्जनत्वात् । चतुर्गुणं ब्रह्मचर्यम् । केवलं परैसाधारणात्वात् परिपूर्णं त्रिधातुक्लेशप्रहाणपरिपूरणात् । परिशुद्धं स्वभावविशुद्धितो ऽनास्रवत्वात् । पर्यवदातं मलविशुद्धितः संतानविशुद्ध्या क्षीणास्रवाणाम् ।
अभिसंधिविभागे श्लोकद्वयम् ।
अवतारणसंधिश्च संधिर्लक्षणतो ऽपरः ।
प्रतिपक्षाभिसंधिश्च संधिः परिणतावपि
श्रावकेषु स्वभावेषु दोषाणां विनये तथा ।
अभिधानस्य गाम्भीर्ये संधिरेष चतुर्विधः
चतुर्विधो ऽभिसंधिर्देशनायां बुद्धस्य वेदितव्यः । अवतारणाभिसंधिर्लक्षणाभिसंधिः प्रतिपक्षाभिसंधिः परिणामनाभिसंधिश्च । तत्रावतारणाभिसंधिः श्रावकेषु द्रष्टव्यः । शासनावतारणार्थमनुत्रासाय रूपाद्यस्तित्वदेशनात् । लक्षणाभिसंधिस्त्रिषु परिकल्पितादिस्वभावेषु द्रष्टव्यो निःस्वभावानुत्पन्नादिसर्वधर्मदेशनात् । प्रतिपक्षाभिसंधिर्दोषाणां विनये द्रष्टव्यो यथाष्टावरणप्रतिपक्षाग्रयानसंभाषासानुशंसे[सं] गाथाद्वयं वक्ष्यति । परिणामनाभिसंधिरभिधानगाम्भीर्ये द्रष्टव्यो यथाह ।
असारे सारमतयो विपर्यासे च सुस्थिताः ।
क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिमुत्तमां
अयमत्राभिसंधिः । असारे सारमतय इत्यविक्षेपे येषां सारबुद्धिः प्रधानबुद्धिर्विक्षेपो हि विसारश्चेतसः । विपर्यासे च सुस्थिता इति नित्यसुखशुच्यात्मग्राहविपर्ययेणानित्यादिके विपर्यासे सुस्थिता अपरिहाणितः । क्लेशेन च स संक्लिष्टा इति दीर्घदुष्करव्यायामश्रमेणात्यर्थं परिक्लिष्टाः ।
अभिप्रायविभागे श्लोकः ।
समतार्थान्तरे ज्ञेयस्तथा कालान्तरे पुनः ।
पुद्गलस्याशये चैव अभिप्रायश्चतुर्विधः
चतुर्विधो ऽभिप्रायः । सत[म]ताभिप्रायो यदाह । अहमेव स तस्मिन्समये विपश्वी सम्यक्संबुद्धो ऽभूवमित्यविशिष्टधर्मकायत्वात् । अर्थान्तराभिप्रायो यदाह । निः स्वभावाः सर्वधर्मा अनुत्पन्नाइत्येवमादि अयथारूतार्थत्वात् । कालन्तराभिप्रायो यदाह । ये ( म्स_बग्छि 81 ) सुखावत्यां प्रणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति कालान्तरेणेत्यभिप्रायः । पुद्गलाशयाभिप्रायो यत्तदेव कुशलमूलं कस्यचित्प्रशंसते कस्यचिद्विगर्हते ऽल्पमात्रसंतुष्टस्य वैपुल्यसंग्रहात् महायानसूत्रान्तसानुशंसं गाथाद्वयमुपादायाह ।
बुद्धे धर्मे ऽवज्ञा कौशीद्यं तुष्टिरल्पमात्रेण ।
रागे माने चरितं कौकृत्यं चानियतभेदः
सत्त्वानामावरणं तत्प्रतिपक्षो ऽग्रयानसंभाषा ।
सर्वान्तरायदोषप्रहाणमेषां ततो भवति
यो ग्रन्थतो ऽर्थतो वा गाथाद्वयधारणे प्रयुज्येत ।
स हि दशविधमनुशंसं लभते सत्त्वोत्तमो धीमान्
कृत्स्नां च धातुपुष्टिं प्रामोद्यं चोत्तमं मरणकाले ।
जन्म च यथाभिकामं जातिस्मरतां च सर्वत्र
बुद्धैश्च समवधानं तेभ्यः श्रवणं तथाग्रयानस्य ।
अधिमुक्तिं सह बुद्ध्या द्वयमुखतामाशुबोधिं च
बुद्धे धर्मे ऽवज्ञेति पञ्च गाथाः । तत्रानियतभेदो बोधिसत्त्वानामनियतानां महायानाद्भेदः । अग्रयानसंभाषा या महायानदेशना । बुद्धे ऽवज्ञावरणस्य प्रतिपक्षसंभाषा । अहमेव स तेन कालेन विपश्वी सम्यक्संबुद्धो ऽभूवमिति । धर्मे ऽवज्ञावरणस्य प्रतिपक्षसंभाषा । इयतो गंगानदीवालिकासमानबुद्धान्पर्युपास्य महायाने ऽवबोध उत्पद्यत इति । कौशीद्यावरणस्य प्रतिपक्षसंभाषा । ये सुखावत्यां प्रणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति । विमलचन्द्रप्रभस्य च तथागतस्य नामधेयग्रहणमात्रेण नियतो भवत्यनुत्तरायां सम्यक्संबोधाविति । अल्पमात्रसंतुष्ट्यावरणस्य प्रतिपक्षसंभाषा । यत्र भगवान् क्वचिद्दानादि विवर्णयति अन्यत्र वर्णितवान् । रागचरितस्य चावरणस्य प्रतिपक्षसंभाषा । यत्र भगवान् बुद्धक्षेत्रविभूतिं वर्णयति । मानचरितस्यावरणस्य प्रतिपक्षसंभाषा । यत्र भगवान् कस्यचिद् बुद्धस्याधिकां संपत्तिं वर्णयति । कौकृत्यावरणस्य प्रतिपक्षसंभाषा । ये बुद्धबोधिसत्त्वेष्व[ष्वप]कारं करिष्यन्ति ते सर्वे स्वर्गोपगा भविष्यन्तीति । अनियतभेदस्यावरणस्य प्रतिपक्षसंभाषा । महाश्रावकाणां बुद्धत्वे व्याकरणदेशना एकयानदेशना च । कृत्स्नधातुपुष्टिः सर्वमहायानाधिष्ठानाय धातुपुष्टिस्तदावरणविगमात् सर्वत्र महायाने ऽधिमुक्तिलाभतः । द्वयमुखता समाधिमुखता धारणीमुखता च । दृष्टे धर्मे द्विविधो ऽनुशंसः सांपरायिके ऽष्टविधः क्रमेणोत्तरोत्तरविशेषलाभाद्वेदितव्यः ।
देशनानुशंसेश्लोकः ।
इति सुग[म]तिरखेदवान् कृपालुः प्रथितयशाः सुविधिज्ञतामुपेतः ।
भवति सुकथिको हि बोधिसत्त्वस्तपति जने कथितैर्यथैव सूर्यः
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahāyānasūtrālaṅkāra of Asaṅga, Darbhaga 1960 [or a reprint of 2000?] (Buddhist Sanskrit Texts, 13). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0