भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार (टीका सहित) · अध्याय 9

9.1

अनेन यत्र च विनयति सुगतिगमने यानत्रये वा । यच् च विनयति जगदखिलं । येन च विनयति कृपया । यश् च विनयति बोधिसत्वः । यादृशैश् च परिपाचनप्रकारैस् तनुपरमविमध्यमप्रकारैः । यावन्तं च कालं तत्परिदीपनात् समासेन परिपाकमाहात्म्यं दर्शयति । तत्र तनुः प्रकारो ऽधिमुक्तिचर्याभूमौ बोधिसत्वस्य परमो ऽष्टम्यादिषु विमध्यमः सप्तसु वेदितव्यः यावल् लोकस्य भावस् तत्समानया गत्या अत्यन्तम् इत्य् अर्थः ।
महायानसूत्रालंकारे परिपाकाधिकारो ऽष्टमः
छपित्रे इx
नवमो ऽधिकारः
सर्वाकारज्ञतायां द्वौ श्लोकौ । तृतीयस् तयोर् एव निर्देशभूतः ।
अमेयैर् दुष्करशतैर् अमेयैः कुशलाचयैः ।
अप्रमेयेण कालेन अमेयावरणक्षयात्

9.2

सर्वाकारज्ञतावाप्तिः सर्वावरणनिर्मला ।
विवृता रत्नपेटेव बुद्धत्वं समुदाहृतम्

9.3

कृत्वा दुष्करम् अद्भुतं श्रमशतैः संचित्यसर्वशुभं कालेनोत्तमकल्पयानमहता सर्वावृतीनां क्षयात् ।
सूक्ष्मस्यावरणस्य भूमिषु गतस्योत्पाटनाद् बुद्धता रत्नानाम् इव सा प्रभावमहतां पेटा समुद्धातिता

9.4

समुदागमतः स्वभावत औपम्यतश् च बुद्धत्वम् उद्भावितं । यावद्भिर् दुष्करशतैर् यावद्भिः कुशलसंभारैर् यावता कालेन यावतः क्लेशज्ञेया वरणस्य प्रहाणात् समुदागच्छत्ययं समुदागमः । सर्वाकारज्ञतावाप्तिः सर्वावरणनिर्मला स्वभावः । ( म्स 34 ) विवृता रत्न पेटा तदौपम्यं । तस्यैव बुद्धत्वस्याद्वयलक्षणे सानुभावे द्वौ श्लोकौ ।
सर्वधर्माश् च बुद्धत्वं धर्मो नैव न कश्चन ।
शुक्लधर्ममयं तच् च न च तैस् तन्निरूप्यते

9.5

धर्मरत्ननिमित्तत्वाल् लब्धरत्नाकरोपमम् ।
शुभस्य निमित्तत्वाल् लब्धमेघोपमं मतम्

9.6

सर्वधर्माश् च बुद्धत्वं तथताया अभिन्नत्वात् तद्विशुद्धिप्रभावितत्वाच् च बुद्धत्वस्य न च कश् चिद्धर्मो ऽस्ति परिकल्पितेन धर्मस्वभावेन शुक्लधर्ममयं च बुद्धत्वं पारमितादीनां कुशलानां तद्भावेन परिवृत्तेः । न च तैस् तान् निर्दिश्यते पारमितादीनां पारमितादिभावेनापरिनिष्पत्तेर् इदम् अद्वयलक्षणं । रत्नाकरमेघोपमत्वम् अनुभावः । देशना धर्मरत्नानां तत्प्रभवत्वात् कुशलसस्यानां च विनेयसंतानक्षेत्रेषु ।
बुद्धत्वं सर्वधर्मः समुदितम् अथ वा सर्वधर्मव्यपेतं प्रोद्भूतेर् धर्मरत्नप्रततसुमहतो धर्मरत्नाकराभम् ।
भूतानां शुक्लसस्य प्रसवसुमहतो हेतुतो मेघभूतं दानाद् धर्माम्बुवर्षप्रततसुविहितस्याक्षयस्य प्रजासु

9.7

अनेन तृतीयेन श्लोकेन तम् एवार्थं निर्दिशति । सुमहतः प्रततस्य धर्मरत्नस्य प्रोद्भूतेर् निमित्तत्वाद् रत्नाकराभं भूतानां महतः शुक्लसस्य प्रसवहेतुत्वान् मेघभूतं । महतः सुविहितस्याक्षयस्य धर्माम्बुवर्षस्य दानात् प्रजास्व् इत्य् अयम् अत्र पदविग्रहो वेदितव्यः । तस्यैव बुद्धत्वस्य शरणत्वानुत्तर्ये पञ्च श्लोकाः ।
परित्राणं हि बुद्धत्वं सर्वक्लेशगणात् सदा ।
सर्वदुश्चरितेभ्यश् च जन्ममरणतो ऽपि च

9.8

अनेन संक्षेपतः क्लेशकर्मजन्मसंक्लेश परित्राणा र्थेन शरणत्वं दर्शयति ।
उपद्रवेभ्यः सर्वेभ्यो अपायाद् अनुपायतः ।
सत्कायाद् धीनयानाच् च तस्माच् छरणम् उत्तमम्

9.9

अनेन द्वितीयेनो पद्रवा दिपरित्राणाद् विस्तरेण । तत्र सर्वोपद्रवपरित्राणत्वं ( म्स 35 ) यद् बुद्धानुभावेन अन्धाश् चक्षूंषि प्रतिलभन्ते बधिराः श्रोत्रं विक्षिप्तचित्ताः स्वस्थचित्तमीतयः शाम्यन्तीत्य् एवम् आदि । अपाय परित्राणत्वं बुद्धप्रभया तद्गतानां मोक्षणात् तदगमने च प्रतिष्ठापनात् । अनुपाय परित्राणत्वं तीर्थिकदृष्टिव्युत्थापनात् । सत्कायपरित्राणत्वं यानद्वयेन परिनिर्वापणात् । हीनयान परित्राणत्वम् अनियतगोत्राणां महायानैकायनीकरणात् ।
शरणम् अनुपमं तच्छ्रेष्ठबुद्धत्वम् इष्टं जननमरणसर्वक्लेशपापेषु रक्षा ।
विविधभयगतानां सर्वरक्षापयानं प्रततविविधदुःखापायनोपायगानां

9.10

अनेन तृतीयेन तस्यैव शरणत्वस्यानुपमश्रेष्ठस्य चानुत्तर्यं तेनैवार्थेन दर्शयति ।
बौद्धैर् धर्मैर् यच् च सुसंपूर्णशरीरं यत् सद्धर्मे वेत्ति स सत्वान् प्रविनेतुम् ।
यातं पारं यत्कृपया सर्वजगत्सु तद् बुद्धत्वं श्रेष्ठम् इह एष्यं शरणानाम्

9.11

अनेन चतुर्थेन यैः कारणैस् तत् तथानुत्तरं शरणं भवति तत् संदर्शयति । बौद्धैर् धर्मैर् बलवैशारद्यादिभिः सुसंपूर्णा स्वभावत्वात् । स्वार्थनिष्ठाम् अधिकृत्य सद्धर्मसत्वविनयोपायज्ञानात् करुणापारगमनाच् च परार्थनिष्ठाम् अधिकृत्य ।
आलोकात् कालात् सर्वसत्वानां बुद्धत्वं शरणं महत् ।
सर्वव्यसनसंपत्तिव्यावृत्त्यभ्युदये मतम्

9.12

अनेन पञ्चमेन श्लोकेन यावन्तं कालं यावतां सत्वानां यत्रार्थे शरणं भवति तत् समासेन दर्शयति । यत्रार्थे इति सर्वव्यसनव्यावृत्तौ संपत्त्यभ्युदये च । आश्रयपरावृत्तौ षट् श्लोकाः ।
क्लेशज्ञेयवृतीनां सततम् अनुगतं बीजम् उत्कृष्टकालं यस्मिन्न् अस्तं प्रयातं भवति सुविपुलैः सर्वहानिप्रकारैः ।
बुद्धत्वं शुक्लधर्मप्रवरगुणयुता आश्रयस्यान्यथाप्तिस् तत्प्राप्तिर् निर्विकल्पाद् विषयसुमहतो ज्ञानमार्गात् सुशुद्धात्

9.13

अनेन विपक्षबीजवियोगतः प्रतिपक्षसंपत्तियोगतश् चाश्रयपरिवृत्तिः परिदीपिता । ( म्स 36 ) यथा च तत्प्राप्तिर् द्विविधमार्गलाभात् । सुविशुद्धलोकोत्तरज्ञानमार्गलाभात् । तत्पृष्ठलब्धानन्तज्ञेयविषयज्ञानमार्गलाभाच् च । उत्कृष्टकालम् इत्य् अनादिकालं । सुविपुलैः सर्वहानिप्रकारैर् इति भूमिप्रकारैः ।
स्थितश् च तस्मिन् स तथागतो जगन् महाचलेन्द्रस्थ इवाभ्युदीक्षते ।
शमाभिरामं करूणायते जनमघाभिरामे ऽन्यजने तु का कथा

9.14

अनेन द्वितीयेनान्याश्रयपरावृत्तिभ्यस् तद्विशेषं दर्शयति । तत्स्थो हि महाचलेन्द्रस्थ इव दूरान्तरनिकृष्टं लोकं पश्यति । दृष्ट्वा च करुणायते श्रावकप्रत्येकबुद्धान् अपि प्राग् एव तदन्यान् ।
प्रवृत्तिर् ऊद्धित्तिर् अवृतिर् आश्रयो निवृत्तिर् आवृत्तिर् अथो द्वयाद्वया ।
समाविशिष्टा अपि सर्वगात्मिका तथागतानां परिवृत्तिर् इष्यते

9.15

अनेन तृतीयेन तद्दशप्रभेदं दर्शयति । सा हि तथागतानां परिवृत्तिः परार्थवृत्तिर् इति प्रवृत्तिः । सर्वधर्मविशिष्टत्वाद् उत्कृष्टा वृत्तिर् इत्य् उद्वृत्तिः । संक्लेशहेताव् अवृत्तिः । आश्रय इति यो ऽसौ परिवृत्त्याश्रयस्तं दर्शयति । संक्लेशान् निवृत्तितो निवृत्तिः । आत्यन्तिकत्वाद् आयता वृत्तिर् इत्य् आवृत्तिः । अभिसंबोधिपरिनिर्वाणदर्शनवृत्त्या द्वया वृत्तिः । संसारनिर्वाणाप्रतिष्ठितत्वात् संस्कृतासंस्कृतत्वेना द्वया वृत्तिः । विमुक्तिसामान्येन श्रावकप्रत्येकबुद्ध समा वृत्तिः । बलवैशारद्यादिभिः बुद्धधर्मैर् असमत्वाद् विशिष्टा वृत्तिः । सर्वयानोपदेशगतत्वात् सर्वगता वृत्तिः ।
यथाम्बरं सर्वगतं सदामतं तथैव तत् सर्वगतं सदामतम् ।
यथाम्बरं रूपगणेषु सर्वगं तथैव तत् सत्वगणेषु सर्वगम्

9.16

अनेन चतुर्थेन तत्स्वभावस्य बुद्धत्वस्य सर्वगतत्वं दर्शयति । आकाशसाधर्म्येणोद्देशनिर्देशतः पूर्वापरार्धाभ्यां । सत्वगणेषु सर्वगतत्वं बुद्धत्वस्यात्मत्वेन सर्वसत्वोपगमने परिनिष्पत्तितो वेदितव्यं ।
यथोदभाजने भिन्ने चन्द्रबिम्बं न दृश्यते ।
तथ दुष्टेषु सत्वेषु बुद्धबिम्बं न दृश्यते

9.17

अनेन पञ्चमेन सर्वगतत्वे ऽप्यभाजनभूतेषु सत्वेषु अ बुद्धबिम्ब दर्शनं दृष्टान्तेन साधयति ।
यथाग्निर् ज्वलते ऽन्यत्र पुनर् अन्यत्र शाम्यति ।
बुद्धेष्व् अपि तथा ज्ञेयं संदर्शनमदर्शनम्

9.18

अनेन षष्ठेन बुद्धविनेयेषु सत्सु बुद्धोत्पादात् तद् दर्शनं । विनीतेषु परिनिर्वाणात् तद् अदर्शनं अग्निज्वलनशमनसाधर्म्येण साधयति । अनाभोगाप्रतिप्रस्रब्धबुद्धकार्यत्वे चत्वारः श्लोकाः ।
अघटितेभ्यस् तूर्येभ्यो यथा स्याच् छब्दसंभवः ।
तथा जिने विनाभोगं देशनायाः समुद्भवः

9.19

यथा मणेर् विना यत्नं स्वप्रभावसनिदर्शनम् ।
बुद्धेष्व् अपि विनाभोगं तथा कृत्यनिदर्शनम्

9.20

आभ्यां श्लोकाभ्याम् अनाभोगेन बुद्धकार्यं साधयत्य् अघटिततूर्य शब्द मणिप्रभाव साधर्म्येण ।
यथाकाशे अविच्छिन्ना दृश्यन्ते लोकतः क्रियाः ।
यथैवानास्रवे घातौ अविच्छिन्ना जिनक्रियाः

9.21

यथाकाशे क्रियाणां हि हानिर् अभ्युदयः सदा ।
यथैवानास्रवे धातौ बुद्धकार्योदयव्ययः

9.22

आभ्याम् अप्य् अप्रतिप्रस्रब्धबुद्धकार्यत्वं बुद्धकृत्यस्याविच्छेदात् । आकाश इव लोक क्रियाणाम् अविच्छेदे ऽपि चान्यान्यक्रियो दयव्ययस् तथैव । अनास्रवधातुगाम्भीर्ये षोडश श्लोकाः ।
पौर्वापर्याविशिष्टापि सर्वावरणनिर्मला ।
न शुद्धा नापि चाशुद्धा तथता बुद्धता मता

9.23

पौर्वापर्येण विशिष्टत्वान् न शुद्धा । पश्चात् सर्वावरणनिर्मलत्वान् नाशुद्धा मलविगमात् ।
शून्यतायां विशुद्धायां नैरात्म्यान् मार्गलाभतः ।
बुद्धाः शुद्धात्मलाभित्वात् गता आत्ममहात्मताम्

9.24

तत्र चानास्रवे धातौ बुद्धानां परमात्मा निर्दिश्यते । किं कारणं । अग्रनैरात्म्यात्मकत्वात् । अग्रं नैरात्म्यं विशुद्धा तथता सा च बुद्धानाम् आत्मा स्वभावार्थेन तस्यां विशुद्धायाम् अग्रं नैरात्म्यम् आत्मानं बुद्धा लभन्ते शुद्धं । अतः शुद्धात्मलाभित्वात् बुद्धा आत्ममाहात्म्यं प्राप्ता इत्य् अनेनाभिसंधिना बुद्धानाम् अनास्रवे धातौ परमात्मा व्यवस्थाप्यते ।
न भावो नापि चाभावो बुद्धत्वं तेन कथ्यते ।
तस्माद् बुद्धतथाप्रश्ने अव्याकृतनयो मतः

9.25

तेनैव कारणेन बुद्धत्वं न भाव उच्यते । पुद्गलधर्माभावलक्षणत्वात् तदात्मकत्वाच् च बुद्धत्वस्य । नाभाव उच्यते तथतालक्षणभावात् । अतो बुद्धस्य भावाभाव प्रश्ने भवति तथागतः परं मरणान् न भवतीत्य् एवमादिर् अव्याकृतनयो मतः ।
दाहशान्तिर् यथा लोहे दर्शने तिमिरस्य च ।
चित्तज्ञाने तथा बौद्धे भावाभावो न शस्यते

9.26

यथा च लोहे दाहशान्तिर् दर्शने च तिमिरम् एतस्य शान्तिर् न भावो दाहतिमिरयोर् अभावलक्षणत्वात् । नाभावः शान्तिलक्षणेन भावात् । एवं बुद्धानां चित्तज्ञाने च दाहतिमिरस्थानीययो रागाविद्ययोः शान्तिर् न भावः शस्यते तदभावप्रभावितत्वाच् चेतःप्रज्ञाविमुक्त्या नाभावस् तेन तेन विमुक्तिलक्षणेन भावात् ।
बुद्धानाम् अमले धातौ नैकता बहुता न च ।
आकाशवद् अदेहत्वात् पूर्वदेहानुसारतः

9.27

बुद्धानाम् अनास्रव धातौ नैकत्वं पूर्वदेहानुसारेण । न बहुत्वं देहाभावाद् आकाशवत् ।
बलादिबुद्धधर्मेषु बोधी रत्नाकरोपमा ।
जगत्कुशलसस्येषु महामेघोपमा मता

9.28

पुण्यज्ञानसुपूर्णत्वात् पूर्णचन्द्रोपमा मता ।
ज्ञानालोककरत्वाच् च महादित्योपमा मता

9.29

एतौ रत्नाकरमेघोपमत्वे पूर्णचन्द्रमहादित्योपम त्वे च श्लोकौ गतार्थौ ।
अमेया रश्मयो यद्वद् व्यमिश्रा भानुमण्डले ।
सदैककार्या वर्तन्ते लोकम् आलोकयन्ति च

9.30

यथैवानास्रवे धातौ बुद्धानाम् अप्रमेयता ।
मिश्रैककार्या कृत्येषु ज्ञानालोककरा मता

9.31

एकेन व्यामिश्ररश्म्य् एककार्यस्योपमतया साधरणकर्मतां दर्शयति । रश्मीनाम् एककार्यत्वं पाचनशोषणसमानकार्यत्वाद् वेदितव्यं । द्वितीयेनानास्रवे धातौ मिश्रैककार्यत्वं निर्माणादिकृत्येषु ।
यथैकरश्मिनिःसारात् सर्वरश्मिविनिःसृतिः ।
भानोस् तथैव बुद्धानां ज्ञेया ज्ञानविनिःसृतिः

9.32

एककाले सर्वरश्मिविनिःसृत्या स च बुद्धानाम् एककाले ज्ञानप्रवृत्तिं दर्शयति ।
यथैवादित्यरश्मीनां वृत्तौ नास्ति ममायितम् ।
तथैव बुद्धज्ञानानां वृत्तौ नास्ति ममायितम्

9.33

यथा सूर्यैकमुक्ताभै रश्मिभिर् भास्यते जगत् ।
सकृत् ज्ञेयं तथा सर्वं बुद्धज्ञानैः प्रभास्यते

9.34

ममत्वाभावे जगज्ज्ञेयप्रभासेन च । यथाक्रमं श्लोकौ गतार्थौ ।
यथैवादित्यरश्मीनां मेघाद्यावरणं मतम् ।
तथैव बुद्धज्ञानानाम् आवृतिः सत्वदुष्टता

9.35

यथा रश्मीनां मेघाद्यावरणम् अप्रभासेन । तथा बुद्धज्ञानानाम् आवरणं सत्वानाम् आभाजनत्वेन दुष्टता पञ्चकषायात्युत्सदतया ।
यथा पांशुवशाद् वस्त्रे रङ्गचित्राविचित्रता ।
तथा ऽवेधवशान् मुक्तौ ज्ञानचित्राविचित्रता

9.36

यथा पांशुविशेषेण वस्त्रे रङ्गविचित्रता क्वचिद् अविचित्रता । तथैव पूर्वप्राणिधानचर्याबलाधानविशेषात्( म्स 40 ) बुद्धानां विमुक्तौ ज्ञानविचित्रता भवति । श्रावकप्रत्येकबुद्धानां विमुक्ताव् अविचित्रता ।
गाम्भीर्यम् अमले धातौ लक्षणस्थानकर्मसु ।
बुद्धानाम् एतद् उदितं रङ्गैर् वाकाशचित्रणा

9.37

एतद् अनास्रवधातौ बुद्धानां त्रिविधं गाम्भीर्यम् एवम् उक्तं । लक्षणगाम्भीर्यं चतुर्भिः श्लोकैः । स्थानगाम्भीर्यं पञ्चमेनैकत्वपृथक्त्वाभ्याम् अस्थितत्वात् । कर्मगाम्भीर्यं दशभिः । तत् पुनर् लक्षणगाम्भीर्यं विशुद्धिलक्षणं परमात्मलक्षणम् अव्याकृतलक्षणं विमुक्तिलक्षणं चारभ्योक्तं । कर्मगाम्भीर्यं बोधिपक्षादिरत्नाश्रयत्वकर्म सत्वपरिपाचनकर्म निष्ठागमनकर्म धर्मदेशनाकर्म निर्माणादिकृत्यकर्म ज्ञानप्रवृत्तिकर्म अविकल्पनकर्म चित्राकारज्ञानकर्म ज्ञानाप्रवृत्तिकर्म विमुक्तिसामान्यज्ञानविशेषकर्म चारभ्योक्तं । सेयमनास्रवे धातौ निष्प्रपञ्चत्वाद् आकाशोपमे गाम्भीर्यप्रभेददेशना यथा रङ्गैर् आकाशचित्रणी वेदितव्या ।
सर्वेषाम् अविशिष्टापि तथता शुद्धिम् आगता ।
तथागतत्वं तस्माच् च तद्गर्भाः सर्वदेहिनः

9.38

सर्वेषां निर्विशिष्टा तथता तद्विशुद्धिस्वभावश् च तथागतः । अतः सर्वे सत्वास् तथागतगर्भा इत्य् उच्यते । विभुत्वाविभागे श्लोका एकादश ।
श्रावकाणां विभुत्वेन लौकिकस्याभिभूयते ।
प्रत्येकबुद्धेभ्यो मनःबुद्धभौमेन श्रावकस्याभिभूयते

9.39

बोधिसत्वविभुत्वस्य तत्कलां नानुगच्छति ।
तथागतविभुत्वस्य तत्कलां नानुगच्छति

9.40

आभ्यां तावद् द्वाभ्यां प्रभावोत्कर्षविशेषेण बुद्धानां विभुत्वं दर्शयति ।
अप्रमेयम् अचिन्त्यं च विभुत्वं बौद्धम् इष्यते ।
यस्य यत्र यथा यावत् काले यस्मिन् प्रवर्तते

9.41

अनेन तृतीयेन प्रकारप्रभेदगाम्भीर्यविशेषाभ्यां कथम् अप्रमेयं कथं वा चिन्त्यम् इत्य् आह । यस्य पुद्गलस्यार्थे तत् प्रवर्तते यत्र लोकधातौ यथा तादृशैः प्रकारैर् यावद् अल्पं ( म्स 41 ) वा बहु वा यस्मिन् काले । अवशिष्टैः श्लौकेः मनोवृत्तिभेदेन विभुत्वभेदं दर्शयति ।
पञ्चेन्द्रियपरावृत्तौ विभुत्वं लभ्यते परम् ।
सर्वार्थवृत्तौ सर्वेषां गुणद्वादशशतोदये

9.42

पञ्चेन्द्रियपरावृत्तौ द्विविधं विभुत्वं परमं लभ्यते । सर्वेषां पञ्चानाम् इन्द्रियाणां सर्व पञ्चा र्थवृत्तौ । तत्र प्रत्येकं द्वादशगुणशतो त्पत्तौ ।
मनसो ऽपि परावृत्तौ विभुत्वं लभ्यते परम् ।
विभुत्वानुचरे ज्ञाने निर्विकल्पे सुनिर्मले

9.43

मनसः परावृत्तौ विभुत्वानुचरे निर्विकल्पे सुविशुद्धे ज्ञाने परमं विभुत्वं लभ्यते । येन सहितं सर्वं विभुत्वज्ञानं प्रवर्तते ।
सार्थोद्ग्रहपरावृत्तौ विभुत्वं लभ्यते परम् ।
क्षेत्रशुद्धौ यथाकामं भोगसंदर्शनाय हि

9.44

अर्थ परावृत्तौ उद्ग्रहर्परावृत्तौ च क्षेत्रविशुद्धि विभुत्वं परमं लभ्यते येन यथाकामं भोगसंदर्शनं करोति ।
अव्याघाते सदाकालं सर्वेषां ज्ञानकर्मणाम्

9.45

विकल्पपरावृत्तौ सर्वेषां ज्ञानानां कर्मणां च सर्व कालम् अव्याघाते परमं विभुत्वं लभ्यते ।
प्रतिष्ठायाः परावृत्तौ विभुत्वं लभ्यते परम् ।
अप्रतिष्ठितनिर्वाणं बुद्धानाम् अचले मले पदे

9.46

प्रतिष्ठापरावृत्ताव् अप्रतिष्ठितनिर्वाणं परमं विभुत्वं लभ्यते बुद्धानाम् अनास्रवे धातौ ।
मैथुनस्य परावृत्तौ विभुत्वं लभ्यते परम् ।
बुद्धसौख्यविहारे ऽथ दारा ऽसंक्लेशदर्शने

9.47

मैथुनस्य परावृत्तौ द्वयोर् बुद्धसुखविहारे च दारा ऽसंक्लेशदर्शने च ।
आकाशसंज्ञाव्यावृत्तौ विभुत्वं लभ्यते परम् ।
चिन्तितार्थसमृद्धौ च गतिरूपविभावने

9.48

आकाशसंज्ञाव्यावृत्तौ द्वयोर् एव चिन्तितार्थसमृद्धौ च येन गगनगर्भो भवति । गतिरूपविभावने च यथेष्टगमनाद् आकाशवशीकरणाच् च ।
इत्य् अमेयपरावृत्ताव् अमेयविभुता मता ।
अचिन्त्यकृत्यानुष्ठानाद् बुद्धानाम् अमलाश्रये

9.49

इत्य् अनेन मुखेनाप्रमेया परावृत्तिः । तत्र चाप्रमेयं विभुत्वम् अचिन्त्यकर्मानुष्ठानं बुद्धानाम् अनास्रवे धातौ वेदितव्यं । तस्यैव बुद्धस्य सत्वपरिपाकनिमित्तत्वे सप्त श्लोकाः ।
शुभे वृद्धो लोको व्रजति सुविशुद्धौ परमतां शुभे चानारब्ध्वा व्रजति शुभवृद्धौ परमताम् ।
व्रजत्य् एवं लोको दिशि दिशि जिनानां सुकथितैर् अपक्वः पक्वो वा न च पुनर् अशेषं ध्रुवम् इह

9.50

अनेन यादृशस्य परिपाकस्य निमित्तं भवति तद्दर्शयति । उपचितकुशलमूलानां च विमुक्तौ परमतायाम् अनुपचितकुशलमूलानां च कुशलमूलोपचये । अपक्वः शुभवृद्धौ परमतां व्रजनपाकं व्रजति पक्वः सुविशुद्धौ परमतां व्रजति । एवं च नित्यकालं व्रजति न च निःशेषं लोकस्यानन्तत्वात् ।
तथा कृत्वा चर्यां कृच्छ्रावाप्यां परमगुणयोगाद् भुतवर्ती महाबोधिं नित्यां ध्रुवम् अशरणानां च शरणम् ।
लभन्ते यद्धीरा दशदिग् सदा सदा सर्वसमयं तद् आश्चर्यं लोके सुविधचरणान् नाद्भुतम् अपि

9.51

अनेन द्वितीयेन परिपक्वानां बोधिसत्वानां परिपाकस्या श्चर्यं नाश्चर्यं । ( म्स 43 ) लक्षणं सदा सर्वसमयम् इति नित्यं निरन्तरं च तद् अनुभूय मार्गचरणं सुविधिचरणं ।
क्वचिद्धर्माञ् च कं धर्म्यं चक्रं बहुमुखशतैर् दर्शयति यः क्वचिज् जन्मान्तर्धिं क्वचिद् अपि विचित्रां जनचरीम् ।
क्वचित्कृत्स्नां बोधिं क्वचिद् अपि च निर्वाणम् असकृत् न च स्थानात् तस्माद् विचलति स सर्वं च कुरुते

9.52

अनेन तृतीयेन युगपद्बहुमुखपरिपाचनोपायप्रयोगे निमित्तत्वं दर्शयति । यथा यत्रस्थः सत्वान् विनयति । विचित्रा जनचरी जातकभेदेन । न च स्थानाच् चलती त्य् अनास्रवाद् धातोः ।
न बुद्धानाम् एवं भवति मम पक्वो ऽयम् इति चाप्रपाच्यो ऽयं देही अपि च अधुनापाच्यत इति ।
विना संस्कारं तु प्रपचम् उपयात्य् एव जनता शुभैर् धर्मैर् नित्यं दिशि दिशि समन्तात् त्रयमुखम्

9.53

अनेन चतुर्थेन तत्परिपाकप्रयोगनिमित्तत्वम् अनभिसंस्कारेण दशयति । त्रयमुखम् इति यानत्रयेण ।
यथायत्नं भानुः प्रततविषदैर् अंशविसरैः प्रपाककं सस्यानां दिशि दिशि समन्तात् प्रकुरूते ।
तथा धर्मार्को ऽपि प्रशमविधिधर्मांशुविसरैः प्रपाकं सस्यानां दिशि दिशि समन्तात् प्रकुरूते

9.54

अनेन पञ्चमेनानभिसंस्कारपरिपाचनदृष्टान्तं दर्शयति ।
यथैकस्माद् दीपाद् भवति सुमहान् दीपनिचयो ऽप्रमेयो ऽसंख्येयो न च स पुनर् एति व्ययमतः ।
यथैकस्माद् बुद्धाद् पाकाभवति सुमहान् परिपाकपाकनिचयो ऽप्रमेयो ऽसंख्येयो न च पुनर् एति पुनर् उपैति व्ययमतः

9.55

अनेन षष्ठेन परंपरया परिपाचनं ।
यथा तोयैस् तृप्तिं व्रजति न महासागर इव न वृद्धिं वा याति प्रततविषदाम्बु प्रविशनैः ।
तथा बौद्धौ धातुः सततसमितैः शुद्धिविशनैर् न तृप्तिं वृद्धिं वा व्रजति परमाश्चर्यम् इह तत्

9.56

अनेन सप्तमेन परिपक्वानां विमुक्तिप्रवेशे समुद्रोदाहरणेन धर्मधातोर् अतृप्तिं चावकाशदानाद् अवृद्धिं ध्यानाधिकत्वात् । धर्मधातुविशुद्धौ चत्वारः श्लोकाः ।
सर्वधर्मद्वयावारतथताशुद्धिलक्षणः ।
वस्तुज्ञानतदालम्बवशिताक्षयलक्षणः

9.57

एष स्वभावार्थम् आरभ्यैकः श्लोकः । क्लेशज्ञेयावरणद्वयात् सर्वधर्मतथताविशुद्धिलक्षणश् च । वस्तुतदालम्बनज्ञानयोर् अक्षयवशितालक्षणश् च ।
। सर्वतस् तथताज्ञानभावना समुदागमः ।
सर्वसत्वद्वयाधानसर्वथाक्षयता फलम्

9.58

एष हेत्वर्थं फलार्थं चारभ्य द्वितीयः श्लोकः । सर्वतस्तथताज्ञानभावना धर्मधातुविशुद्धिहेतुः । सर्वत इति सर्वधर्मपर्यायमुखैः । सर्वसत्वानां सर्वथा हितसुखद्वयाधानाक्षयता फलं ।
कायवाक्चित्तनिर्माणप्रयोगोपायकर्मकः ।
समाधिधारणीद्वारद्वयामेयसमन्वितः

9.59

एष कर्मार्थं योगार्थं चारभ्य तृतीयः श्लोकः । त्रिविधिं कायादिनिर्माणं कर्म समाधिधारणीमुखाभ्यां द्वयेन चाप्रमेयेण पुण्यज्ञानसंभारेण समन्वागमो योगः ।
स्वभावधर्मसंभोगनिर्माणैर् भिन्नवृत्तिकः ।
धर्मधातुर् विशुद्धो ऽयं बुद्धानां समुदाहृतः

9.60

एष वृत्त्यर्थम् आरभ्य चतुर्थः श्लोकः । स्वाभाविकसांभोगिकनैर्माणिककायवृत्त्या भिन्नवृत्तिकः । बुद्धकायविभागे सप्त श्लोकाः ।
स्वाभाविको ऽथ सांभोग्यः कायो नैर्माणिको ऽपरः ।
कायभेदा हि बुद्धानां प्रथमस् तु द्वयाश्रयः

9.61

त्रिविधिः कायो बुद्धानां । स्वाभाविको धर्मकाय आश्रयपरावृत्तिलक्षणः । सांभोगिको येन पर्षन्भण्डलेषु धर्मसंभोगं करोति । नैर्माणिको येन निर्माणेन सत्वार्थं करोति ।
सर्वधातुषु सांभोग्यो भित्रो गणपरिग्रहैः ।
क्षेत्रैश् च नामभिः कायैर् धर्मसंभोगचेष्टितैः

9.62

तत्र सांभोगिकः सर्वलोकधातुषु पर्षन्मण्डलबुद्धक्षेत्रनाम् अशरीरधर्मसंभोगक्रियाभिर् भिन्नः ।
समः सूक्ष्मश् च तच्छिष्टः कायः स्वाभाविको मतः ।
संभोगविभुताहेतुर् यथेष्टं भोगदर्शने

9.63

स्वाभाविकः सर्वबुद्धानां समो निर्विशिष्टतया । सूक्ष्मो दुर्ज्ञानतया । तेन सांभोगिकेन कायेन संबद्धः संभोगविभुत्वे च हेतुर् यथेष्टं भोगदर्शनाय ।
अमेयं बुद्धनिर्माणं कायो नैर्माणिको मतः ।
द्वयोर् द्वयार्थसंपत्तिः सर्वाकारा प्रतिष्ठिता

9.64

नैर्माणिकस् तु कायो बुद्धानाम् अप्रमेयप्रभेदं बुद्धनिर्माणं सांभोगिकः स्वाथसंपत्तिलक्षणः । नैर्माणिकः परार्थसंपत्तिलक्षणः । एवं द्वयार्थसंपत्तिर् यथाक्रमं द्वयोः प्रतिष्ठिताः सांभोगिके च काये नैर्माणिके च ।
शिल्पजन्ममहाबोधिसदानिर्वाणदर्शनैः ।
बुद्धनिर्माणकायो ऽयं महामायो महोपायो विमोचने

9.65

स पुनर् निर्माणकायः सदा विनेयार्थं शिल्पस्य वीणावादनादिभिः । जन्मनश् चाभिसंबोधेश् च ( म्स 46 )
निर्वाणस्य च दर्शनैर् विमोचने महोपायत्वात् परार्थसंपत्तिलक्षणो वेदितव्यः ।
त्रिभिः कायैस् तु विज्ञेयो बुद्धानां कायसंग्रहः ।
साश्रयः स्वपरार्थो यस् त्रिभिः कायैर् निर्दर्शितः

9.66

त्रिभिश् च कायैर् बुद्धानां सर्वकायसंग्रहो वेदितव्यः । एभिस् त्रिभिः कायैः साश्रयः स्वपरार्थो निदर्शितः । द्वयोः स्वपरार्थप्रभावितत्वात् द्वयोश् च तदाश्रितत्वाद् यथा पूर्वम् उक्तं ।
आश्रयेणाशयेनापि कर्मणा ते समा मताः ।
प्रकृत्या ऽस्रंसनेनापि प्रबन्धेनैषु नित्यता

9.67

ते च त्रयः कायाः सर्वबुद्धानां यथाक्रमं त्रिभिर् निर्विशेषा आश्रयेण धर्मधातोर् अभिन्नत्वात् आशयेन पृथक् बुद्धाशयस्याभावात् । कर्मणा च साधारणकर्मकत्वात् । तेषु च त्रिषु कायेषु यथाक्रमं त्रिविधा नित्यता वेदितव्या येन नित्यकायास् तथागता उच्यन्ते । प्रकृत्या नित्यता स्वाभाविकस्य स्वभावेन नित्यत्वात् । अस्रंसनेन सांभोगिकस्य धर्मसंभागो विच्छेदात् । प्रबन्धेन नैर्माणिकस्यान्तर्व्यये पुनः पुनर् निर्माणदर्शनात् । बुद्धज्ञानविभागे दश श्लोकाः ।
आदर्शज्ञानमचलं त्रयज्ञानं तदाश्रितम् ।
समताप्रत्यवेक्षायां कृत्यानुष्ठान एव च

9.68

चतुर्विधं बुद्धानां ज्ञानम् आदर्शज्ञानं समताज्ञानं प्रत्यवेक्षाज्ञानं कृत्यानुष्ठानज्ञानं च । आदर्शज्ञानम् अचलं त्रीणि ज्ञानानि तदाश्रितानि चलानि ।
आदर्शज्ञानमममापरिच्छिन्नं सदानुगम् ।
सर्वज्ञेयेष्व् असंमूढं न च तेष्व् आमुखं सदा

9.69

आदर्शज्ञानम् अममम् अपरिच्छिन्नं देशतः सदानुगं कालतः । सर्वज्ञेयेष्व् असंमूढं सदावरणविगमात् न च तेष्व् आमुखम् अनाकारत्वात् ।
सर्वज्ञाननिमित्तत्वान् महाज्ञानाकरोपमम् ।
संभोगबुद्धता ज्ञानप्रतिबिम्बोदयाच् च तत्

9.70

तेषां च समतादिज्ञानानां सर्वप्रकाराणां हेतुत्वात् सर्वज्ञानानामाकरोपमं । संभोगबुद्धत्वतज्ज्ञानप्रतिबिम्बोदयाच्च तदादर्शज्ञानम् इत्य् उच्यते ।
सत्वेषु समताज्ञानं भावनाशुद्धितो ऽमलं मतम् ।
अप्रतिष्ठसशमाविष्टं समताज्ञानमिष्यते

9.71

यद्बोधिसत्वेनाभिसमयकालेषु समताज्ञानं प्रतिलब्धं तद्भावनाशुद्धितो बुधिप्राप्तस्याप्रतिष्ठितनिर्वाणे निविष्टं समताज्ञानमिष्यते ।
महामैत्रीकृपाभ्यां च सर्वकालानुगं मतम् ।
यथाधिमोक्षं सत्वानां बुद्धबिम्बनिदर्शकम्

9.72

महामैत्रीकरुणाभ्यां सर्वकालानुगं यथाधिमोक्षं च सत्वानां बुद्धबिम्बनिदर्शकं । यतः केचित् सत्वास् तथागतं नीलवर्णं पश्यन्ति केचित् पीतवर्णम् इत्य् एवमादि ।
प्रत्यवेक्षणकं ज्ञाने ज्ञेयेष्व् अव्याहतं सदा ।
धारणीनां समाधीनां निधानोपमम् एव च

9.73

परिषन्मण्डले सर्वविभूतीनां निदर्शकम् ।
सर्वसंशयविच्छेदि महाधर्मप्रवर्षकम्

9.74

प्रत्यवेक्षणकं ज्ञानं यथाश्लोकं ।
कृत्यानुष्ठानताज्ञानं निर्माणैः सर्वधातुषु ।
चित्राप्रमेयाचिन्त्यैश् च सर्वसत्वार्थकारकम्

9.75

कृत्यानुष्ठानज्ञानं सर्वलोकधातुषु निर्माणैर् नानाप्रकारैर् अप्रमेयैर् अचिन्त्यैश् च सर्वसत्वार्थकरं ।
कृत्यनिष्पत्तिभिर् भेदैः संख्याक्षेत्रैश् च सर्वदा ।
अचिन्त्यं बुद्धनिर्माणं विज्ञेयं तच् च सर्वथा

9.76

तच् च बुद्धनिर्माणं सदा सर्वथा चाचिन्त्यं वेदितव्यं । कृत्यक्रियाभेदतः संख्यातक्षेत्रतश् च ।
धारणात् समचित्ताच् च सम्यग्धर्मप्रकाशनात् ।
कृत्यानुष्ठानतश् चैव चतुर्ज्ञानसमुद्भवः

9.77

तत्र धारणात् श्रुतानां धर्माणां । समचित्तता सर्वसत्वेष्व् आत्मपरसमतया । शेषं गतार्थं । बुद्धानेकत्वापृथक्त्वे श्लोकः ।
गोत्रभेदाद् अवैयर्थ्यात् साकल्याद् अप्य् अनादितः ।
अभेदान् नैकबुद्धत्वं बहुत्वं चामलाश्रये

9.78

एक एव बुद्ध इत्य् एतन्न् एष्यते । किं कारणं । गोत्रभेदात् । अनन्ता हि बुद्धगोत्राः सत्वाः । तत्रैक एवाभिसंबुद्धो नान्ये ऽभिसंभोत्स्यन्त इति । कुत एतत् । पुण्यज्ञानसंभारवैयर्थ्यं च स्याद् अन्येषां बोधिसत्वानाम् अनभिसंबोधान् न च युक्तं वैयर्थ्यं । तस्माद् अवैयर्थ्याद् अपि नैक एव बुद्धः सत्वार्थक्रियासाकल्यं च न स्यात् । बुद्धस्य बुद्धत्वे कस्यचित् अप्रतिष्ठापनाद् एतच् च न युक्तं । न च कश्चिद् आदिबुद्धो ऽस्ति विना संभारेण बुद्धत्वायोगाद् विना चान्येन बुद्धेन संस्थानायोगाद् इत्य् अनादित्वाद् अप्य् एको बुद्धो न युक्तः । बहुत्वम् अपि नेष्यते बुद्धानां धर्मकायस्याभेदाद् अनास्रवे धातौ । बुद्धत्वोपायप्रवेशे चत्वारः श्लोकाः ।
या ऽविद्यमानता सैव परमा विद्यमानता ।
सर्वथा ऽनुपलम्भश् च उपलम्भः परो मतः

9.79

या परिकल्पितेन स्वभावेनाविद्यमानता सैव परमा विद्यमानता परिनिष्पन्नेन स्वभावेन । यश् च सर्वथा ऽनुपलम्भः परिकल्पितस्य स्वभावस्य स एव परम उपलम्भः परिनिष्पन्नस्वभावस्य ।
भावना परमा चेष्टा भावनाम् अविपश्यताम् ।
प्रतिलम्भः परश् चेष्टः प्रतिलम्भं च पश्यताम्

9.80

सैव परमा भावना यो भावनाया अनुपलम्भः । स एव परमः प्रतिलम्भो यः प्रतिलम्भानुपलम्भः ।
पश्यतां गुरुत्वं तां दीर्घं निमित्तं वीर्यम् आत्मनः ।
मानिनां बोधिसत्वानां दूरे बोधिर् निरूप्यते

9.81

ये च गुरुत्वं बहुत्वं पश्यन्ति अद्भुतधर्मयुक्तं । दीर्घं च कालं पश्यन्ति तत्समुदागमाय । निमित्तं न पश्यन्ति चित्तालम्बनं । आत्मनश् च वीर्यं वयम् आरब्धवीर्या ( म्स 59 ) बुद्धत्वं प्राप्स्याम इति । तेषाम् एवं मानिनां बोधिसत्वानाम् औपलम्भिकत्वात् दूरे बोधिर् निरूप्यते ।
पश्यताम् कल्पनामात्रं सर्वम् एतद् यथोदितं ।
अकल्पबोधिसत्वानां प्राप्ता बोधिर् निरूप्यते

9.82

कल्पनामात्रं त्व् एतत् सर्वम् इति पश्यतां तस्यापि कल्पनामात्रस्याविकल्पनाद् अकल्पबोधिसत्वानाम् अनुत्पत्तिकधर्मक्षान्तिलाभावस्थायाम् अर्थतः प्राप्तैव बोधिर् इत्य् उच्यते । बुद्धानाम् अन्योन्य नैककार्यत्वे चत्वारः श्लोकाः ।
भिन्नाश्रया भिन्नजलाश् च नद्यः अल्पोदकाः कृत्यपृथक्त्वकार्याः ।
जलाश्रितप्राणितनूपभोग्या भवन्ति पातालमसंप्रविष्टाः

9.83

समुद्रविष्टाश् च भवन्ति सर्वा एकाश्रया एकमहाजलाश् च ।
मिश्रैककार्याश् च महोपभोग्या जलाश्रितप्राणिगणस्य नित्यम्

9.84

भिन्नाश्रया भिन्नमताश् च धीराः स्वल्पावबोधाः पृथगात्मकृत्याः ।
परीत्तसत्वार्थसदोपभोग्या भवन्ति बुद्धत्वम् असंप्रविष्टाः

9.85

बुद्धत्वविष्टाश् च भवन्ति सर्वे एकाश्रया एकमहावबोधाः ।
मिश्रेककार्याश् च महोपभोग्याः सदा महासत्वगणस्य ते हि

9.86

तत्र भिन्नाश्रय नद्यः स्वभाजनभेदात् । कृत्यपृथक्त्वकार्याः पृथक्त्वेन कृत्यकरणात् । तनूपभोग्या इत्य् अल्पानाम् उपभोग्याः । शेषं गतार्थं । बुद्धत्वप्रोत्सहने श्लोकः ।
इति निरुपमशुक्लधर्मयोगाद् हितसुखहेतुतया च बुद्धभूमेः ।
शुभपरमसुखाक्षयाकरत्वात् शुभमतिर् अर्हति बोधिचित्तम् आप्तुम्

मूल पाठ: Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa · Edition: Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907. · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc