भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार (टीका सहित) · अध्याय 10

10.1

निरुपमशुल्कधर्मयोगात् स्वार्थसंपत्तितः । हितसुखहेतुत्वाच् च बुद्धत्वस्य परार्थसंपत्तिः । अनवद्योत्कृष्टाक्षयसुखाकरत्वाच् च सुखविहारो विशेषतः । बुद्धिमान् अहीनबोधिचित्तम् आदातुं तत्प्रणिधानपरिग्रहात् ।
महायानसूत्रालंकारे बोध्यधिकारो नवमः
छपित्रे x
दशमो ऽधिकारः
उद्दानम्
आदिः सिद्धिः शरणं गोत्रं चित्ते तथैव चोत्पादः ।
स्वपरार्थस् तत्वार्थः प्रभावपरिपाकबोधिश् च

10.2

एष च बोध्यधिकार आदिम् आरभ्य यावत् बोधिपटलानुसारेणानुगन्तव्यः । अधिमुक्तिप्रभेदलक्षणविभागे श्लोकौ ।
जाताजाता ग्राहिका ग्राह्यभूता मित्रादात्ता स्वात्मतो भ्रान्तिका च ।
अभ्रान्तान्या आमुखा नैव चान्या घोषाचारा चैषिका चेक्षिका च

10.3

जाता अतीतप्रत्युत्पन्ना । अजाता अनागता । ग्राहिका आध्यात्मिकी ययालम्बनम् अधिमुच्यते । ग्राह्यभूता बाह्या यानालम्बनत्वेनाधिमुच्यते । मित्रादात्ता औदारिकी । स्वात्मतः सूक्ष्मा । भ्रान्तिका हीना विपरीताधिमोक्षात् । अभ्रान्तिका प्रशान्ता । आमुखा अन्तिके समवहितप्रत्ययत्वात् । अनामुखा दूरे विपर्ययात् । घोषाचारा श्रुतमयी । एषिका चिन्तामयी । ईक्षिका भावनामयी प्रत्यवेक्षणात् ।
हार्या कीर्णा ऽव्यावकीर्णा विपक्षैर् हीनोदारा आवृता ऽनावृता च ।
युक्ता ऽयुक्ता संभृता ऽसंभृता च गाढं विष्टा दूरगा चाधिमुक्तिः

10.4

हार्या मृद्वी । व्यवकीर्णा मध्या । अव्यवकीर्णा विपक्षैर् अधिमात्रा । हीनाऽन्ययाने । उदारा महायाने । आवृता सावरणा विशेषगमनाय । अनावृता निरावरणा । युक्ता सातत्यसत्कृत्यप्रयोगात् । अयुक्ता तद्विरहिता । संभृताधिगमयोग्या । ( म्स 51 ) असंभृता विपर्ययात् । गाढं विष्टा भूमिप्रविष्टा । दूरगा परिशिष्टासु भूमिषु । अधिमुक्तिपरिपन्थे त्रयः श्लोकाः ।
अमनस्कारबाहुल्यं कौशीद्यं योगविभ्रमः ।
कुमित्रं शुभदौर्बाल्यम् अयोनिशोमनस्क्रिया

10.5

जाताया अमनसिकारबाहुल्यं परिपन्थः । अजातायाः कौशीद्यं ग्राह्यग्राहकभूताया योगविभ्रमस् तथैवाभिनिवेशात् । मित्रादात्तायाः कुमित्रं विपरीतग्राहणात् । स्वात्मतो ऽधिमुक्तेः कुशलमूलदौर्बल्यं । अभ्रान्ताया अयोनिशो अमनसिकारः परिपन्थस् तद्विरोधित्वात् ।
प्रमादो ऽल्पश्रुतत्वं च श्रुतचिन्ताल्पतुष्टता ।
शममात्राभिमानश् च तथा ऽपरिजयो मतः

10.6

आमुखायाः प्रमादस् तस्या अप्रमादकृतत्वात् । घोषाचाराया अल्पश्रुतत्वं नीतार्थसूत्रान्ताश्रवणात् । एषिकायाः श्रुतमात्रसंतुष्टत्वम् अल्पचिन्तासंतुष्टत्वं च । ईक्षिकायाश् चिन्तामात्रसंतुष्टत्वं शमथमात्राभिमानश् च । हार्याव्यवकीर्णयोर् अपरिजयः परिपन्थः ।
अनुद्वेगस् तथोद्वेग आवृतिश् चाप्य् अयुक्तता ।
असंभृतिश् च विज्ञेयाऽधिमुक्तिपरिपन्थता

10.7

हीनाया अनुद्वेगः संसारात् । उदाराया उद्वेगः । अनावृतायाश् चावृत्तिः । युक्ताया अयुक्तता । संभृताया असंभृतिः परिपन्थः । अधिमुक्ताव् अनुशंसे पञ्च श्लोकाः ।
पुण्यं महदकौकृत्यं सौमनस्यं सुखं महत् ।
अविप्रणाशः स्थैर्यं च विशेषगमनं तथा

10.8

धर्माभिसमयश् चाथ स्वपरार्थाप्तिर् उत्तमा ।
क्षिप्राभिज्ञत्वम् एते हि अनुशंसाधिमुक्तितः

10.9

जातायां प्रत्युत्पन्नायां पुण्यं महत् । अतीतायाम् अकौकृत्यम् अविप्रतिसारात् । ग्राहिकायां ग्राह्यभूतायां च महत्सौमनस्यं समाधियोगात् । कल्याणमित्रजनितायाम् अविप्रणाशः । स्वयम् अधिमुक्तौ स्थैर्यं । भ्रान्तिकायामामुखायां श्रुतमयादिकायां च यावत् मध्यायां विशेषगमनं । अधिमात्रायां धर्माभिसमयः । हीनायां स्वार्थप्राप्तिः । उदारायां परार्थप्राप्तिः परमा । अनावृतयुक्तसंभृतादिषु शुल्कपक्षासु क्षिप्राभिज्ञत्वम् अनुशंसः ।
कामिनां सा श्वसदृशी कूर्मप्रख्या समाधिनाम् ।
भृत्योपमा स्वार्थिनां सा राजप्रख्या परार्थिनाम्

10.10

यथा श्वा दुःखार्तः सततम् अवितृप्तः क्षुधितको यथा कूर्मश् चासौ जलविवरके संकुचितकः । यथा भृत्यो नित्यम् उपचकितमूर्तिर् विचरति । यथा राजा राज्ञां विषये वशवर्ती विहरति ।
तथा कामिस्थातृस्वपरजनकृत्यार्थम् उदिते विशेषो विज्ञेयः सततम् अधिमुक्तया विविधया ।
महायाने तस्य विधिवद् इह मत्वा परमतां भृशं तस्मिन् धीरः सततम् इह ताम् एव वृणुयात्

10.11

अपि खलु कामिनाम् अधिमुक्तिः श्वसदृशी लौकिकसमाधिगतानां कूर्मप्रख्या स्वार्थवतां भृत्योपमा । राजप्रख्या परार्थवतां । एतम् एवार्थं परेणोपपाद्य महायानाधिमुक्तौ समादापयति । अधिमुक्तिलयप्रतिषेधे श्लोकाः ।
मनुषष्य भूताः संबोधिं प्राप्नुवन्ति प्रतिक्षणम् ।
अप्रमेया यतः सत्वा लयं नातो ऽधिवासयेत्

10.12

त्रिभिः कारणैर् लयो न युक्तः । यतो मनुषभूता बोधिं प्राप्नुवन्ति । नित्यं प्राप्नुवन्ति । अप्रमेयाश् च प्राप्नुवन्ति ।
अधिमुक्तिपुण्यविशेषणे द्वौ श्लोकौ ।
यथा पुण्यं प्रसवते परेषां भोजनं ददत् ।
न तु स्वयं स भुञ्जानस् तथा पुण्यमहोदयः

10.13

सूत्रोक्तो लभ्यते धर्मात् परार्थाश्रयदेशितात् ।
न तु स्वार्थाश्रयाद् धर्माद् देशिताद् उपलभ्यते

10.14

यथा भोजनं ददतः पुण्यम् उत्पद्यते परार्थाधिकारात् । न तु स्वयं भुञ्जानस्य स्वार्थाधिकारात् । एवं परार्थाश्रयदेशितात् महायानधर्मात् तेषु तेषु सूत्रेषूक्तः पुण्योदयो महांल् लभ्यते । न तु स्वार्थाश्रयदेशितात् श्रावकयानधर्मात् । अधिमुक्तिफलपरिग्रहे श्लोकः ।
इति विपुलगतौ महोघमहार्यधर्मे जनिय सदा मतिमान् महाधिमुक्तिम् ।
विपुलसततपुण्यतद्विवृद्धिं व्रजति गुणैर् असमैर् महात्मतां च

मूल पाठ: Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa · Edition: Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907. · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc