महायानसूत्रालंकार (टीका सहित) · अध्याय 8
त्रिविधं माहात्म्यं दर्शयति । वशितामाहात्म्यं स्वयं परमज्ञानवशित्वप्राप्त्या क्लेशास्ववशस्य जगतः स्ववशे स्थापनात् । अभिरतिमाहात्म्यं सदा परहितक्रियैकारामत्वात् । भवनिर्भयतामाहात्म्यं च ।
प्रभावाधिकारः महायानसूत्रालंकारे सप्तमः
छपित्रे विइइ
अष्टमो ऽधिकारः
बोधिसत्वपरिपाके संग्रहः श्लोकः ।
रूचिः प्रसादः प्रशमो ऽनुकम्पना क्षमाथ मेधा प्रबलत्वम् एव च ।
अहार्यताङ्गैः समुपेतता भृशं जिनात्मजे तत्परिपाकलक्षणम्
रुचिर् महायानदेशनाधर्मे प्रसादस् तद्देशिके प्रशमः क्लेशानाम् अनुकम्पा सत्वेषु क्षमा दुष्करचर्यायां मेधा ग्रहणधारणप्रतिवेधेषु प्रबलत्वम् अधिगमे अहार्यता मारपरप्रवादिभिः प्राहाणिका ङ्गैः समन्वागतत्वं । भृशम् इति रुच्यादीनाम् अधिमात्रत्वं दर्शयति । एष समासेन बोधिसत्वानां नवप्रकार आत्मपरिपाको वेदितव्यः । रुचिपरिपाकम् आरभ्य श्लोकः ।
सुमित्रतादित्रयम् उग्रवीर्यता परार्धनिष्ठोत्तमधर्मसंग्रहः ।
कृपालुसद्धर्ममहापरिग्रहे मतं हि सम्यक्परिपाकलक्षणम्
सुमित्रतादित्रयं सत्पुरुषसंसेवा सद्धर्मश्रवणं योनिशोमनसिकारश् च । उग्रवीर्यता अधिमात्रो वीर्यारम्भः । परार्धनिष्ठा सर्वाचिन्त्यस्थाननिर्विचिकित्सता । उत्तमधर्मसंग्रहो महायानधर्मरक्षा तत्प्रतिपन्नानाम् उपद्रवेभ्यो रक्षणात् । बोधिसत्वस्य महायानधर्मपरिग्रहम् अधिकृत्येदं रुचिपरिपाकलक्षणं वेदितव्यं । येन कारणेन परिपच्यते सुमित्रतादित्रयेण । यश् च तस्याः परिपाक उग्रवीर्यपरार्धनिष्ठायुक्तः स्वभावः । यत्कर्म चोत्तमधर्मसंग्रहकरणात् तद् एतेन परिदीपितं । प्रसादपरिपाकम् आरभ्य श्लोकः ।
गुणज्ञताथाशुसमाधिलाभिता फलानुभूतिर् मनसो ऽध्यभेदता ।
जिनात्मजे शास्तरि संप्रपत्तये मतं हि सम्यक्परिपाकलक्षणम्
तत्परिपाको ऽपि कारणतः स्वभावतः कर्मतश् च परिदीपितः । गुणज्ञता इत्य् अपि स भगवांस् तथागत इति विस्तरेण कारणं । अवेत्य प्रभावलाभाद् अभेद्यचित्तता स्वभावः । आशुसमाधिलाभस् तत् फल स्य चाभिज्ञादिकस्य प्रत्यनुभवनं कर्म । प्रशमपरिपाकम् आरभ्य श्लोकः ।
सुसंवृत्तिः क्लिष्टवितर्कवर्जना निरन्तरायो ऽथ शुभाभिरामता ।
जीनात्मजे क्लेशविनोदनाय तन् मतं हि सम्यक्परिपाकलक्षणम्
क्लेशविनोदना बोधिसत्वस्य प्रशमः । तत्परिपाको ऽपि कारणतः स्वभावतः कर्मतश् च परिदीपितः । इन्द्रियाणां स्मृतिसंप्रजन्याभ्यां सुसंवृतिः कारणं । ( म्स 29 ) क्लिष्टवितर्कवर्जना स्वभावः । प्रतिपक्षभावनायां निरन्तरायत्वं कुशलाभिरामता च कर्म । कृपापरिपाकलक्षणम् अधिकृत्य श्लोकः ।
कृपा प्रकृत्या परदुःखदर्शनं निहीनचित्तस्य च संप्रवर्जनम् ।
विशेषगत्वं जगदग्रजन्मता परानुकम्पापरिपाकलक्षणम्
स्व प्रकृत्या च गोत्रेण परदुःखदर्शनेन निहीनयानपरिवर्जनतया च परिपच्यत इति कारणं । विशेषगामित्वं परिपाकवृद्धिगमनात् स्वभावः । सर्वलोकश्रेष्ठात्मभावता कर्माविनिवर्तनीयभूमौ । क्षान्तिपरिपाकलक्षणम् आरभ्य श्लोकः ।
धृतिः प्रकृत्या प्रतिसंख्यभावना सुदुःखशीताद्यधिवासना सदा ।
विशेषगामित्वशुभाभिरामता मतं क्षमायाः परिपाकलक्षणम्
धृतिः सहनं क्षान्तिर् इति पर्यायास् तत्परिपाके गोत्रं प्रतिसंख्यानं भावना च कारणं । तीव्राणां शीतादिदुःखानाम् अधिवासना स्वभावः । क्षमस्य विशेषगामित्वं कुशला भिरामता च कर्म । मेधापरिपाकम् आरभ्य श्लोकः ।
विपाकशुद्धिः श्रवणाद्यमोषता प्रविष्टता सूक्तदुरुक्तयोस् तथा ।
स्मृतेर् महाबुद्ध्युदये च योग्यता सुमेधतायाः परिपाकलक्षणम्
तत्र मेधानुकूला विपाकविशुद्धिः कारणं । श्रुतचिन्तितभावितचिरकृतचिरभाषितानाम् असंमोषता सुभाषितदुर्भाषितार्थसु प्रविष्टता च स्मृतेर् मेधापरिपाकस्वभावः । लोकोत्तरप्रज्ञोत्पादनयोग्यता कर्म । बलवत्वप्रतिलम्भपरिपाकम् आरभ्य श्लोकः ।
शुभद्वयेन द्वयधातुपुष्टता फलोदये चाश्रययोग्यता परा ।
मनोरथाप्तिर् जगदग्रभूतता बलोपलम्भे परिपाकलक्षणम्
तत्र पुण्यज्ञानद्वयेन तस्य पुण्यज्ञानद्वयस्य बीज पुष्टता तत्परिपाके कारणं । अधिगमं प्रत्य् आश्रययोग्यता तत्परिपाकस्वभावः । मनोरथ संपत्तिर् जगदग्रभूतता च कर्म । अहार्यतापरिपाकम् आरभ्य श्लोकः ।
सुधर्मतायुक्तिविचारणाशयो विशेषलाभः परपक्षदूषणम् ।
पुनः सदा मारनिरन्तरायता अहार्यतायाः परिपाकलक्षणम्
तत्परिपाकस्य सद्धर्मे युक्तिविचारणा कृत आशयः कारणं । मारनिरन्तरायता स्वभावो यदा मारो न पुनः शक्नोत्य् अन्तरायं कर्तुं । विशेषा धिगमः परपक्षदूषणं च कर्म । प्राहाणिकाङ्गसमन्वागमपरिपाकम् अधिकृत्य श्लोकः ।
शुभाचयो ऽथाश्रययत्नयोग्यता विवेकतोदग्रशुभाभिरामता ।
जिनात्मजे ह्य् अङ्गसमन्वये पुनर् मतं हि सम्यक्परिपाकलक्षणम्
तत्परिपाकस्य कारणं कुशलमूलोपचयः । आश्रयस्य वीर्यारम्भक्षमत्वं स्वभावः । विवेको त्कृष्टता कुशला भिरामता च कर्म । नवविधात्मपरिपाकमाहात्म्यम् आरभ्य श्लोकः ।
इति नवविधवस् तु पाचितात्मा परपरिपाचनयोग्यताम् उपेतः ।
शुभधर्ममयसततप्रवर्धितात्मा भवति सदा जगतो ऽग्रबन्धुभूतः
द्विविधं तन्माहात्म्यं । परपरिपाके प्रतिशरणत्वं । सततं धर्मकायवृद्धिश् च । तत एव जगतो ऽग्रबन्धुभूतः । सत्वपरिपाकविभागे एकादश श्लोकाः ।
व्रणे ऽपि भोज्ये परिपाक इष्यते यथैव तत्स्रावणभोगयोग्यता ।
तथाश्रये ऽस्मिन् द्वयपक्षशान्तता तां तथोपभोगत्वसुशान्तपक्षता
अनेन परिपाकस्वभावं दर्शयति । यथा व्रणस्य स्रावणयोग्यता परिपाकः । भोजनस्य च भोगयोग्यता । एवं सत्वानाम् आश्रये व्रणभोजनस्थानीये स्रावणस्थानीयं विपक्षशमनं । भोगस्थानीयश् च प्रतिपक्षोपभोगः । तद्योग्यता आश्रयस्य परिपाक इति । विपक्षप्रतिपक्षाव् अत्र पक्षद्वयं वेदितव्यं । द्वितीयः श्लोकः ।
विपाचनोक्ता परिपाचना तथा प्रपाचना चाप्य् अनुपाचनापरा ।
सुपाचना चाप्य् अधिपाचना मता निपाचनोत्पाचनना च देहिषु
अनेन परिपाकप्रभेदं दर्शयति । क्लेशविगमेन पाचनना विपाचना । सर्वतो यानत्रयेण पाचना परिपाचना । वाह्यपरिपाकविशिष्टत्वात् प्रकृष्टा पाचना प्रपाचना । यथाविनेयधर्मदेशनात् तदनुरूपा पाचना अनुपाचना । सत्कृत्य पाचना सुपाचना । अधिगमेन पाचना अधिपाचना अविपरीतार्थेन । ( म्स 31 )नित्या पाचना निपाचना अपरिहाणीयार्थेन । क्रमेणोत्तरोत्तरपाचना उत्पाचना । इत्य् अयम् अष्टप्रकारः परपरिपाकप्रभेदः । तृतीयचतुर्थौ श्लोकौ ।
हिताशयेनेह यथा जिनात्मजो व्यवस्थितः सर्वजगद्विपाचयन् ।
तथा न माता न पिता न बन्धवः सुतेषु बन्धुष्व् अपि सुव्यवस्थिताः
तथाजनो नात्मनि वत्सलो मतः कुतो ऽपि सुस्निग्धपराश्रये जने ।
यथा कृपात्मा परसत्ववत्सलो हिते सुखे चैव नियोजनात्मतः
आभ्यां किं दर्शयति । यादृशेना शयेन बोधिसत्वः सत्वान् परिपाचयति तम् आशयं दर्शयति । मातापितृबान्धवाशयविशिष्टं लोकात्मवात्सल्यविशिष्टं च हितसुखसंयोजनात् । आत्मवत्सलस् तु लोक आत्मानं हिते च सुखे च संनियोजयति । अवशिष्टैः श्लोकैर् येन प्रयोगेण सत्वान् परिपाचयति तं पारमिताप्रतिपत्त्या संदर्शयति । यादृशेन दानेन यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः ।
न बोधिसत्वस्य शरीरभोगयोः परेष्व् अदेयं पुनर् अस्ति सर्वथा ।
अनुग्रहेण द्विविधेन पाचयन् परं समैर् दानगुणैर् न तृप्यते
त्रिविधेन दानेन पाचयति । सर्वस्व शरीरभोग दानेन अविषमदानेन अतृप्तिदानेन च । कथं परिपाचयति दृष्टधर्मसंपराया नुग्रहेण । अविघातेनेच्छापरिपूर्णात् । अनागतेन च संगृह्य कुशलप्रतिष्ठापनात् । यादृशेन शीलेन यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः ।
सदा प्रकृत्याध्यविहिंसकः स्वयंरतो ऽप्रमत्तो ऽत्र परं निवेशयन् ।
परंपरानुग्रहकृत् द्विधा परे विपाकनिष्यन्दगुणेन पाचकः
पञ्चविधेन शीलेन । ध्रुवशीलेन प्रकृति शीलेन परिपूर्णशीलेनाध्यविहिंसकत्वात् । परिपूर्णो ह्य् अविहिंसको ऽध्यविहिंसकः । दशकुशलकर्मपथपरिपूरितः । यथोक्तं द्वितीयायां भमौ । अधिगमशीलेन स्वयंरततया निरन्तरास्खलितशीलेन चाप्रमत्ततया । कथं च परिपाचयति । शीले संनिवेशनात् । द्विधानुग्रह क्रियया( म्स 32 ) दृष्टधर्मे संपराये च । संपरायानुग्रहं परेषु विपाकनिष्यन्दगुणाभ्यां परंपरया करोति । तद्विपाकनिष्यन्दयोर् अन्योन्यानुकूल्येनाव्यवच्छेदात् । यादृश्या क्षान्त्या यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः ।
परे ऽपकारिण्युपकारिबुद्धिमान् प्रमर्षयन्न् उग्रम् अपि व्यतिक्रमम् ।
उपायचित्तैर् अपकारमर्षणैः शुभे समादापयते ऽपकारिणः
अपकारिणि परे उपकारिबुद्ध्या प्रगाढापकारमर्षणक्षान्त्या परिपाचयति । उपकारिबुद्धित्वं पुनः क्षान्तिपारमितापरिपूर्यानुकूल्यवृत्तिता वेदितव्यं । कथं परिपाचयति । दृष्टधर्मानुग्रहेण चापकारमर्षणात् । संपरायानुग्रहेण चो पाय ज्ञस् तैर् अपकारमर्षणैर् आवर्ज्यापकारिणां कुशले समादापनात् । यादृशेन वीर्येण यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः ।
पुनः स यत्नं परमं समाश्रितो न खिद्यते कल्पसहस्रकोटिभिः ।
जिनात्मजः सत्वगणं प्रपाचयन् परैकचित्तस्य शुभस्य कारणात्
अधिमात्रदीर्घकालाखेदे वीर्येण दीर्घकालाखेदित्वम् अनन्तसत्वपरिपाचनात् । परैकचित्तस्य कुशलस्यार्थे कल्पसहस्रकोटिभिर् अखेदात् । अत एवोक्तं भवति यथा परिपाचयति । कुशलचित्तसंनियोजनात् दृष्टधर्मसंपरायानुग्रहेणेति यादृशेन ध्यानेन यथा सत्वान् परिपाचयति तद् आरभ्य श्लोकः ।
वशित्वम् आगम्य मनस्य् अनुत्तरं परं समावर्जयते ऽत्र शासने ।
निहत्य सर्वाम् अवमानकामतां शुभेन संवर्धयते च तं पुनः
प्राप्ता नुत्तरवशित्वेन ध्यानेन निरामिषेण च निहतसर्वावमानाभिलाषेण परिपाचयति । बुद्धशासने परस्यावर्जनाद् आवर्जितस्य च कुशलधर्मसंवर्धनात् परिपाचयति । यादृश्या प्रज्ञया यथा सत्वान् परिपाचयति तदारभ्य श्लोकः ।
स तत्वभावार्थनये सुनिश्चितः करोति सत्वान् सुविनीतसंशयान् ।
ततश् च ते तज्जिनशासनाद् अराद् विवर्धयन्ते स्वपरं गुणैः शुभैः
स बोधिसत्वस् तत्वार्थनये चाभिप्रायार्थनये च सुविनिश्चितया प्रज्ञया परिपाचयति । ( म्स 33 ) कथं परिपाचयति सत्वानां संशयविनयनात् । ततश् च शासन बहुमानात् तेषाम् आत्मपरगुणसंवर्धकत्वेन । नियमनश्लोकः ।
इति सुगतिगतौ शुभत्रये वा जगद् अखिलं कृपया स बोधिसत्वः ।
तनुपरमविमध्यमप्रकारैर् विनयति लोकसमानभावगत्या
मूल पाठ: Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa · Edition: Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907. · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0