भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार (टीका सहित) · अध्याय 7

7.1

बुद्ध विहिते सुधर्मे सुव्यवस्थापिते स परमार्थज्ञानप्रविष्टो बोधिसत्वः संपिण्डितधर्मालम्बनस्य मूलचित्तस्य धर्मधातौ मतिम् उपनिविधाय या स्मृतिर् उपलभ्यते तां सर्वां स्मृतिप्रवृत्तिं कल्पनामात्राम् अवगच्छत्य् एवं गुणार्णवस्य पारं बुद्धत्वम् आशु व्रजती त्य् एतत् परमार्थज्ञानस्य माहात्म्यं ।
महायानसूत्रालंकारे तत्वाधिकारः षष्ठः
छपित्रे विइ
सप्तमो ऽधिकारः
प्रभावलक्षणविभागे श्लोकः ।
उत्पत्तिवाक्चित्तशुभाशुभ-अधितत्स्थाननिःसारपदा परोक्षम् ।
ज्ञानं हि सर्वत्रगसप्रभेदेष्व् अव्याहतं धीर् अगतः प्रभावः

7.2

परेषाम् उपपत्तौ ज्ञानं च्युतोपपादाभिज्ञा । वाचि ज्ञानं दिव्यश्रोत्राभिज्ञायां वाचं तत्र गत्वोपपन्ना भाषन्ते । चित्ते ज्ञानं चेतःपर्यायाभिज्ञा । पूर्व शुभाशुभा धाने ज्ञानं पूर्वनिवासाभिज्ञा । यत्र विनेयास् तिष्ठन्ति तत्स्थान गमनज्ञानं ऋद्धिविषयाभिज्ञा । निःसरणे ज्ञानम् आस्रवक्षयाभिज्ञा यथा सत्वा उपपत्तितो निःसरन्तीति । एषु षट्स्वर्थेषु सर्वत्र लोकधातौ सप्रमेदेषु पदापरोक्षम् अव्याहतं ज्ञानं स प्रभावो बोधिसत्वानां षडभिज्ञासंगृहीतः । प्रभावलक्षणविभागे स्वभावार्थ उक्तः । हेत्वर्थम् आरभ्य श्लोकः ।
ध्यानं चतुर्थं सुविशुद्धम् एत्य निष्कल्पनाज्ञानपरिग्रहेण ।
यथाव्यवस्थानमनस्क्रियातः प्रभावसिद्धिं परमां परैति

7.3

येन निश्रयेण येन ज्ञानेन येन मनसिकारेण तस्य प्रभावस्य समुदागमस् तत्संदर्शयति । फलार्थम् आरभ्य श्लोकः ।
येनार्यदिव्याप्रतिमैर् विहारैर् ब्राह्मैश् च नित्यं विहरत्य् उदारैः ।
बुद्धांश् च सत्वांश् च स दिक्षु गत्वा संमानयत्य् आनयते विशुद्धिम्

7.4

त्रिविधं फलम् अस्य प्रभावस्य संदर्शयति । आत्मन आर्यादिसुखविहारम् अतुल्यं चोत्कृष्टं च लोकधात्वन्तरेषु गत्वा बुद्धानां पूजनं सत्वानां विशोधनं च । कर्मार्थं षड्विधम् आरभ्य चत्वारः श्लोकाः । दर्शनकर्म संदर्शनकर्म चारभ्य श्लोकः ।
मायोपमान् पश्यति लोकधातून् सर्वान् ससत्वान् सविवर्तनाशान् ।
संदर्शयत्य् एव च तान् यथेष्टं वशी विचित्रैर् अपि स प्रकारैः

7.5

स्वयं च सर्व लोकधातूनां ससत्वानां सविवर्त संवर्तानां मायोपमत्व दर्शनात् । परेषां यथेष्टं तत्संदर्शनात् । अन्यैश् च विचित्रैः कम्पनज्वलनादि प्रकारैः । दशवशितालाभात् । यथा दशभूमिके ऽष्टभ्यां भूमौ निर्दिष्टाः । रश्मिकर्मारभ्य श्लोकः ।
अच्ते दे रयोन्नेमेन्त्; उन् वेर्स्.
रश्मिप्रमोक्षैर् भृशदुःखितांश् च आपायिकान् स्वर्गगतान् करोति ।
मारान्वयान् क्षुब्धविमानशोभान् संकम्पयं स्रासयते समारान्

7.6

द्विविधं रश्मिकर्म संदर्शयति । अपायोपपन्नानां च प्रसादं जनयित्वा स्वर्गोपपादनं । मारभवनानां च समारकाणां कम्पनोद्वेजनं । विक्रीडनकर्म चारभ्य श्लोकः ।
समाधिविक्रीडितम् अप्रमेयं संदर्शयत्य् अग्रगणस्य मध्ये ।
सकर्मजन्मोत्तमनिर्मितैश् च सत्वार्थम् आतिष्ठति सर्वकालम्

7.7

अप्रमेयसमाधिविक्रीडितसंदर्शनात् बुद्धपर्षन्मण्डलमध्ये त्रिविधेन निर्माणेन सदा सत्वार्थकरणाच् च । त्रिविधं निर्माणं शिल्पकर्मस्थाननिर्माणं । विनेयवशेन यथेष्टोपपत्तिनिर्माणं । उत्तमनिर्माणं च तुषितभवनवासादिकं । क्षेत्रपरिशुद्धिकर्म आरभ्य श्लोकः ।
ज्ञानवशित्वात् समुपैति शुद्धिं क्षेत्रं यथाकामनिदर्शनाय ।
अबुद्धनामेषु च बुद्धनाम संश्रावणात् तान् क्षिपते ऽन्यधातौ

7.8

द्विविधपापविशोधनया । भाजनपरिशोधनया ज्ञानवशित्वाद् यथेष्टं स्फटिकवैदुर्यादिमयबुद्धक्षेत्रसंदर्शनतः । सत्वपरिशोधनया च बुद्धनामविरहितेषु ( म्स 27 ) लोकधातुषूपपन्नानां सत्वानां बुद्धनामसंश्रावणया प्रसादं ग्राहयित्वा तदविरहितेषु लोकधातुषूपपादनात् । योगार्थम् आरभ्य श्लोकः ।
शक्तो भवत्य् एव च सत्वपाके संजातपक्षः शकुनिर् यथैव ।
बुद्धात् प्रशंसां लभते ऽतिमात्राम् आदेयवाक्यो भवति प्रजानाम्

7.9

त्रिविधं योगं प्रदर्शयति । सत्वपरिपाचनशक्तियोगं प्रशंसायोगम् आदेयवाक्यतायोगं च । वृत्त्यर्थम् आरभ्यं श्लोकः ।
षड्धाप्य् अभिज्ञा त्रिविधा च विद्या अष्टौ विमोक्षा ऽभिभुवस् तथाऽष्टौ ।
दशापि कृत्स्नायतनान्य् अमेयाः समाधयो धीरगतः प्रभावः

7.10

षड्भिः प्रभेदैर् बोधिसत्वस्य प्रभावो वर्तते । अभिज्ञाविद्याविमोक्षाभिभ्वायतनकृत्स्नायतनाप्रमाणसमाधिप्रभेदैः । एवं षडर्थेन विभागलक्षणेन प्रभावं दर्शयित्वा तन्माहात्म्योद्भावनार्थं श्लोकः ।
स हि परमवशित्वलब्धबुद्धिर् जगदवशं स्ववशे विधाय नित्यम् ।
परहितकरणैकताभिरामश् चरति भवेषु हि सिंहवत् सुधीरः

मूल पाठ: Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa · Edition: Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907. · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc