महायानसूत्रालंकार (टीका सहित) · अध्याय 6
चतुर्विधं माहात्म्यं संदर्शयति ।
अभिभवमाहात्म्यं सकलं भवत्रयं गतिं च पञ्चविधाम् अभिभयगमनात् । यथोक्तं प्रज्ञापारामितायां । रूपं चेत् सुभूत भावो ऽभविष्यन् नाभावा नदं महायानं सदेवमानुषासुरलोकम् अभिभूय निर्यास्यतीति विस्तरः । निर्वृतिमाहात्म्यम् अप्रतिष्ठनिर्वाणानुगतत्वात् । गुणवृद्धिमाहात्म्यं सत्वापरित्यागमाहात्म्यं चेति ।
महायानसूत्रालंकारे प्रतिपत्त्यधिकारः पञ्चमः
छपित्रे वि
षष्ठो ऽधिकारः
परमार्थलक्षणविभागे श्लोकः ।
न सन् न चासन् न तथा न चान्यथा न जायते व्येति न चावहीयते ।
न वर्धते नापि विशुध्यते पुनर् विशुध्यते तत्परमार्थलक्षणं
अद्वयार्थो हि परमार्थः । तम् अद्वयार्थं पञ्चभिर् आकारैः संदर्शयति । न सत् परिकल्पितपरतन्त्रलक्षणाभ्यां न चासत् परिनिष्पन्नलक्षणेन । न तथा परिकल्पितपरतन्त्राभ्यां परिनिष्पन्नस्यैकत्वाभावात् । न चान्यथा ताभ्याम् एवान्यत्वाभावात् । न जायते न च व्येत्य् अनभिसंस्कृतत्वाद् धर्मधातोः । न हीयते न च वर्धते संक्लेशव्यवदानपक्षयोर् निरोधोत्पादे तदवस्थत्वात् । न विशुध्यत् इ प्रकृत्यसंक्लिष्टत्वात् न च न विशुध्यति आगन्तुकोपक्लेशविगमात् । इत्य् एतत् पञ्चविधम् अद्वयलक्षणं परमार्थलक्षणं वेदितव्यं । आत्मदृष्टिविपर्यासप्रतिषेधे श्लोकः ।
न चात्मदृष्टिः स्वयम् आत्मलक्षणा न चापि दुःसंस्थितता विलक्षणा ।
द्वयान् न चान्यद् भ्रम एष ततूदितस् ततश् च मोक्षो भ्रममात्रसंक्षयः
न तावद् आत्मदृष्टिर् एवा त्मलक्षणा । नापि दुःसंस्थितता । तथा हि सा विलक्षणा आत्मलक्षणात् परिकल्पितात् । सा पुनः पञ्चोपादानस्कन्धाः क्लेशदौष्ठुल्यप्रभावितत्वात् । नाप्य् अतो द्वयाद् अन्यद् आत्मलक्षणम् उपपद्यते । तस्मान् नास्त्य् आत्मा । भ्रम एष तूत्पन्नो येयम् आत्मदृष्टिस् तस्माद् एव चात्माभावान् मोक्षो ऽपि भ्रममात्रसंक्षयो वेदितव्यो न तु कश्चिन् मुक्तः । विपर्यासपरिभाषायां द्वौ श्लोकौ ।
कथं जनो विभ्रममात्रम् आश्रितः परैति दुःखप्रकृतिं न संतताम् ।
अवेदको वेदक एव दुःखितो न दुःखितो धर्ममयो न तन्मयः
प्रतीत्यभावप्रभवे कथं जनः समक्षवृत्तिः श्रयते ऽन्यकारितम् ।
तमः प्रकारः कतमो ऽयम् ईदृशो यतो ऽविपश्यन् सदसन् निरीक्षते
कथं नामायं लोको भ्रान्तिमात्रम् आत्मदर्शनं निश्रित्य सततानुबद्धं दुःखस्वभावं संस्काराणां न पश्यति । अवेदको ज्ञानेन तस्या दुःखप्रकृतेः । वेदको ऽनुभवेन दुःखस्यादुःखितो दुःखस्याप्रहीणत्वात् । न दुःखितो दुःखयुक्तस्यात्मनो ऽसत्वात् । धर्ममयो धर्ममात्रत्वात् पुद्गलनैरात्म्येन । न च धर्ममयो धर्मनैरात्म्येन । यदा च लोको भावानां प्रतीत्यसमुत्पादं प्रत्यक्षं पश्यति तं तं प्रत्ययं प्रतीत्य ते ते भावा भवन्तीति । तत् कथम् एतां दृष्टिं श्रयते ऽन्यकारितं दर्शनादिकं न प्रतीत्यसमुत्पन्नम् इति । कतमो ऽयम् ईदृशस् तमःप्रकारो लोकस्य यद् विद्यमानं प्रतीत्यसमुत्पादम् अविपश्यन् न विद्यमानम् आत्मानं निरीक्षते । शक्यं हि नाम तमसा विद्यमानम् अद्रष्टुं स्यान् न त्वविद्यमानं द्रष्टुम् इति । असत्य् आत्मनि शमजन्मयोगे श्लोकः ।
त चान्तरं किंचन विद्यते ऽनयोः सदर्थवृत्त्या शमजन्मनोर् इह ।
तथापि जन्मक्षयतो विधीयते शमस्य लाभः शुभकर्मकारिणाम्
न चास्ति संसारनिर्वाणयोः किंचिन् नानाकरणं परमार्थवृत्त्या नैरात्म्यस्य समतया । तथापि जन्मक्षयान् मोक्षप्राप्तिर् भवत्य् एव शुभकर्मकारिणां ये मोक्षमार्गं भावयन्ति । विपर्यासपरिभाषां कृत्वा तत्प्रतिपक्षपारमार्थिकज्ञानप्रवेशे चत्वारः श्लोकाः ।
संभृत्य संभारम् अनन्तपारं ज्ञानस्य पुण्यस्य च बोधिसत्वः ।
धर्मेषु चिन्तासुविनिश्रिश् चितत्वाज् जल्पान्वयाम् अर्थगतिं परैति
अर्थान् स विज्ञाय च जल्पमात्रान् संतिष्ठते तन्निभचित्तमात्रे ।
प्रत्यक्षताम् एति च धर्मधातुस् तस्माद् वियुक्तो द्वयलक्षणेन
नास्तीति चित्तात् परम् एत्य बुद्ध्या चित्तस्य नास्तित्वम् उपैति तस्मात् ।
द्वयस्य नास्तित्वम् उपेत्य धीमान् संतिष्ठते ऽतद्गतिधर्मघातौ
अकल्पनाज्ञानबलेन धीमतः समानुयातेन समन्ततः सदा ।
तदाश्रयो गह्वरदोषसंचयो महागदेनेव विषं निरस्यते
एकेन संभृत संभार त्वं धर्मचिन्तासुविनिश्रितत्वं समाधिनिश्रित्यभावनात् मनोजल्पाच् च तेषां धर्माणाम् अर्थप्रख्यानावगमात् तत्प्रवेशं दर्शयति । असंख्येयप्रभेदकालं पारमस्य परिपूरणम् इत्य् अनन्तपारं । द्वितीयेन मनो जल्पमात्रा नर्थान् विदित्वा तदाभासे चित्तमात्रे ऽवस्थानमियं बोधिसत्वस्य निर्वेधभागीयावस्था । ततः परेण धर्मधातोः प्रत्यक्षतो गमने द्वयलक्षणेन वियुक्तो ग्राह्यग्राहकलक्षणेन इयं दर्शनमार्गावस्था । तृतीयेन यथासौ धमधातुः प्रत्यक्षताम् एति तद् दर्शयति । कथं चासौ धर्मधातुः प्रत्यक्षताम् एति । चित्ताद् अन्यदालम्बनं ग्राह्यं नास्तीत्य् अवगम्य बुद्ध्या तस्यापि चित्तमात्रस्य नास्तित्वावगमनं ग्राह्यंभावे ग्राहकाभावात् । द्वये चास्य नास्तित्वं विदित्वा धर्मधातौ अवस्थानम् अतद्गतिर् ग्राह्यग्राहकलक्षणाभ्यां रहित एवं धर्मधातुः प्रत्यक्षताम् एति । चतुर्थेन भावनामार्गावस्थायाम् अश्रयपरिवर्तनात् पारमार्थिकज्ञानप्रवेशं दर्शयति । सदा सर्वत्र समतानुगतेना विकल्पज्ञानबलेन यत्र तत्समतानुगतं परतन्त्रे स्वभावे तदाश्रयस्य दूर-अनुप्रविष्टस्य दोषसंचयस्य दौष्ठुल्यलक्षणस्य महागदेनेव विषस्य निरसनात् । परमार्थज्ञानमाहात्म्ये श्लोकः ।
मुनिविहितसुधर्मसुव्यवस्थो मतिम् उपधाय समूलधर्मधातौ ।
स्मृतिम् अगतिम् अवगम्य कल्पमात्रां व्रजति गुणार्णवपारमाशुधीरः
मूल पाठ: Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa · Edition: Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907. · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0