महायानसूत्रालंकार (टीका सहित) · अध्याय 5
शिरसि महान्तं सत्वभारं विनिधाय बोधिसत्वः शिथिलं पराक्रममाणो न शोभते शतगुणं हि स वीर्यं कर्तुम् अर्हति श्रावकवीर्यात् तथा हि स्वपरवविधैर् विविधैर् अत्यर्थं बद्धः क्लेशकर्मजन्मस्वभावैः ।
महायानसूत्रालंकारे चित्तोपादाधिकारश् चतुर्थः
छपित्रे व्
पञ्चमो ऽधिकारः
प्रतिपत्तिलक्षणे श्लोकः ।
महाश्रयारम्भफलोदयात्मिका जिनात्मजानां प्रतिपत्तिर् इष्यते ।
सदा महादानमहाधिवासना महार्थसंपादनकृत्यकारिका
तत्र महाश्रय चित्तोत्पादाश्रयत्वात् । महा रम्भा स्वपरार्थारम्भात् । महाफलोदया महाबोधिफलत्वात् । अत एव यथाक्रमं महादाना सर्वसत्वोपादानात् । महाधिवासना सर्वदुःखाधिवासनात् । महार्थसंपादनकृत्यकारिका विपुलसत्वार्थसंपादनात् । स्वपरार्थनिर्विशेषत्वे श्लोकः ।
परत्रलब्ध्वात्मसमानचित्ततां स्वतो ऽधि वा श्रेष्ठतरेष्टतां परे ।
तथात्मनो ऽन्यार्थविशिष्टसंज्ञिनः स्वकार्थता का कतमा परार्थता
परत्रात्मसमानचित्ततां लब्ध्वा ऽधिमुक्तितो वा सांकेतिकचित्तोत्पादलाभे ज्ञानतो वा पारमार्थिकचित्तोत्पादलाभे । आत्मतो वा पुनः परत्र विशिष्टतराम् इष्टतां लब्ध्वा तेनैव च कारणेनात्मनः परार्थे विशिष्टसंज्ञिनो बोधिसत्वस्य ( म्स 20 ) कः स्वार्थः परार्थो वा । निर्विशेषं हि तस्योभयमित्यर्थः । परार्थविशेषणे श्लोकः ।
परत्र लोको न तथातिनिर्दयः प्रवर्तते तापनकर्मणा रिपौ ।
यथा परार्थं भृशदुःखतापने कृपात्मकः स्वात्मनि संप्रवर्तते
यथा स्वात्मनः परार्थो विशिष्यते तत् साधयति परार्थम् आत्मनो ऽत्यर्थं संतापनात् । परार्थप्रत्तिपत्तिविभागे द्वौ श्लोकौ ।
निकृष्टमध्योत्त्तमधर्मतास्थिते सुदेशनावर्जनता ऽवतारणा ।
विनीतिर् अर्थे परिपाचना शुभे तथाववादस्थितिबुद्धिमुक्तयः
गुणैर् विशिष्टैः समुदागमस् तथा कुलोदयो व्याकरणाभिषिक्तता ।
तथागतज्ञानम् अनुत्तरं पदं परार्थ एष त्र्यधिको दशात्मकः
त्रिविधे सत्वनिकाये हीनमध्यविशिष्टगोत्रस्थे त्रयोदशविधो बोधिसत्वस्य परार्थः । सुदेशना ऽनुशासन्यादेशनाप्रतिहार्याभ्यां । आवर्जना ऋद्धिप्रातिहार्येण । अवतारणा शासनाभ्युपगमनात् । विनीतिर् अर्थे ऽवतीर्णानां संशयच्छेदनं । परिपाचना कुशले । अववादश् चित्तस्थितिः । प्रज्ञा विमुक्तिः अभिज्ञादिभिर् विशेषकैर् गुणैः । समुदागमः । तथागत कुले जन्म । अष्टम्यां भूभौ व्याकरणं दशम्याम् अभिशेकश् च । सह तथागतज्ञानेने त्य् एष त्रिषु गोत्रस्थेषु यथायोगं त्रयोदशविधः परार्थो बोधिसत्वस्य । परार्थप्रतिपत्तिसंपत्तौ स्लोकः ।
जनानुरूपाविपरीतदेशना निरुन्नता चाप्य् अममा विचक्षणा ।
क्षमा च दान्ता च सुदूरगा ऽक्षया जिनात्मजानां प्रतिपत्तिर् उत्तमा
यथा ऽसौ परार्थप्रतिपत्तिः संपन्ना भवति तथा संदर्शयति । कथं चासौ संपन्ना भवति । यदि गोत्रस्थ जनानुरूपा ऽविपरीता च देशना भवति । अनुन्नता चावर्जना । अममा चावतारणा । न ऋद्धा मन्यते न चावतारितान् सत्वान् ममायति । विचक्षणा चार्थे विनीतिप्रतिपत्तिर् भवति । क्षमा च शुभे परिपाचनाप्रतिपत्तिः । दान्ता चाववादादिप्रतिपत्तिः । न ह्य् अदान्ता ऽववादादिषु परेषां समर्थः । सुदूरगा च कुलोदयादिप्रतिपत्तिः । न ह्य् अदूरगतया प्रतिपत्त्या कुलोदयादयः परेषां कर्तुं शक्याः । सर्वा चैषा परार्थप्रतिपत्तिर् बोधिसत्वानाम् अक्षया ( म्स 21 ) भवत्य् अभ्युपगतसत्वाक्षयत्वाद् अतो ऽपि संपन्ना वेदितव्या । प्रतिपत्ति विशेषणे द्वौ श्लोकौ ।
महाभये कामिजनः प्रवर्तते चले विपर्याससुखे भवप्रियः ।
प्रतिस्वम् आधिप्रशमे शमप्रियः सदा तु सर्वाधिगमे कृपात्मकः
जनो विमूढः स्वसुखार्थम् उद्यतः सदा तद् अप्राप्य परैति दुःखताम् ।
सदा तु धीरो हि परार्थम् उद्यतो द्वयार्थम् आधाय परैति निर्वृतिम्
तत्र कामानां महाभय त्वं बहुकायिकचैतसिकदुःखदुर्गतिगमनहेतुत्वात् । चलं विपर्याससुखं रूपरूप्यभवप्रियाणाम् अनित्यत्वात् परमार्थदुःखत्वाच् च संस्कारदुःखतया । आधयः क्लेशा वेदितव्या दुःखाधानात् । विमूढो जनः सदा स्वसुखार्थं प्रतिपन्नः सुखं नाप्नोति दुःखम् एवाप्नोति । बोधिसत्वस् तु परार्थं प्रतिपन्नः स्वपरार्थं संपाद्य निर्वृतिसुखं प्राप्नोत्य् अयम् अस्यापरः प्रतिपत्तिविशेषः ।
गोचरपरिणामने श्लोकः ।
यथा यथा ह्य् अक्षविचित्रगोचरे प्रवर्तते चारगतो जिनात्मजः ।
तथा तथा युक्तसमानतापदैर् हिताय सत्वेष्व् अभिसंस्करोति तत्
येन येन प्रकारेण चक्षुरादीन्द्रियगोचरे विचित्रे बोधिसत्वः प्रवर्तते । ईर्यापथव्यापारचारे वर्तमानस् तेन तेन प्रकारेण संबद्धसादृश्यवचनैर् हितार्थं सत्वेषु तत् सर्वम् अभिसंस्करोति । यथा गोचरपरिशुद्धिसूत्रे विस्तरेण निर्दिष्टं । सत्वेष्व् अक्षान्तिप्रतिषेधे श्लोकः ।
सदा ऽस्वतन्त्रीकृतदोषचेतने जने न संदोषम् उपैति बुद्धिमान् ।
अकामकारेण हि विप्रपत्तयो जने भवन्तीति कृपाविवृद्धितः
सदा क्लेशैर् अस्वतन्त्री कृत चेतने जने न संदोषम् उपैति बोधिसत्वः । किं कारणं । ( म्स 22 ) अकामकारेनैषां विप्रतिपत्तयो भवन्तीति विदित्व करुणावृद्धिगमनात् । प्रतिपत्तिमाहात्म्ये श्लोकः ।
भवगति सकलाभिभूयगन्त्री परमशमानुगता प्रपत्तिर् एव ।
विविधगुणगणैर् विवर्धमाना जगद् उपगुह्य सदा कृपाशयेन
मूल पाठ: Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa · Edition: Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907. · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0