भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार (टीका सहित) · अध्याय 4

4.1

स्वपरहितफलस्य बोधिवृक्षस्य प्रशस्तमूलत्वम् अनेन बोधिसत्वगोत्रं संदर्शितं ।
महायानसूत्रालंकारे गोत्राधिकारस् तृतीयः
छपित्रे इव्
चतुर्थो ऽधिकारः
चित्तोत्पादलक्षणे श्लोकः ।
महोत्साहा महारम्भा महार्थाथ महोदया ।
चेतना बोधिसत्वानां द्वयार्था चित्तसंभवः

4.2

महोत्साहा संनाहवीर्येण गम्भीरदुष्करदीर्घकालप्रतिक्षेपोत्सहनात् । महारम्भा यथासंनाहप्रयोगवीर्येण । महार्था आत्मपरहिताधिकारात् । महोदया महाबोधिसत्वसमुदागमत्वात् । ( म्स 14 ) सो ऽयं त्रिविधो गुणाः परिदीपितः पुरुषकारगुणो द्वाभ्यां पदाभ्याम् अर्थक्रियागुणः फलपरिग्रहगुणश् च द्वाभ्यां । द्वयार्था महाबोधिसत्वार्थक्रियालम्बनत्वात् । इति त्रिगुणा द्वयालम्बना च चेतना चित्तोत्पाद इत्य् उच्यते । चित्तोत्पादभेदे श्लोकः ।
चित्तोत्पादो ऽधिमोक्षो ऽसौ शुद्धाध्याशयिको ऽपरः ।
वैपाक्यो भूमिषु मतस् तथावरणवर्जितः

4.3

चतुर्विधो बोधिसत्वानां चित्तोत्पादः । आधिमोक्षिको ऽधिमुक्तिचर्याभूमौ । शुद्धाध्याशयिकः सप्तसु भूमिषु । वैपाकिको ऽष्टम्यादिषु । अनावरणको बुद्धभूमौ । चित्तोत्पादविनिश्चये चत्वारः श्लोकाः ।
करुणामूल इष्टो ऽसौ सदासत्वहिताशयः ।
धर्माधिमोक्षस् तज्ज्ञानपर्येष्ट्यालम्बनस् तथा

4.4

उत्तरच्छन्दयानो ऽसौ प्रतिष्ठाशीलसंवृतिः ।
उत्थापना विपक्षस्य परिपन्थो ऽधिवासना

4.5

शुभवृद्ध्यनुशंसो ऽभौ पुण्यज्ञानमयः स हि ।
सदा पारमितायोगनिर्याणश् च स कथ्यते

4.6

भूमिपर्यवसानो ऽसौ प्रतिस्वं तत्प्रयोगतः ।
विज्ञेयो बोधिसत्वानां चित्तोत्पादविनिश्चयः

4.7

तथायं विनिश्चयः । किंमूल एष चतुर्विधो बोधिसत्वानां चित्तोत्पादः किमाशयः किमधिमोक्षः किमालम्बनः किंयानः किंप्रतिष्ठः किमादीनवः किमनुशंसः किंनिर्याणः किंपर्यवसान इति । आह । करुणामूलः । सदासत्वहिताशयः । महायान धर्माधिमोक्षः । तज्ज्ञानपर्येष्ट्य् आकारेण तज्ज्ञानालम्बनात् । उत्तरो त्तरच्छन्दयानः। । बोधिसत्व शीलसंवरप्रतिष्ठः । परिपन्थ आदीनवः । कः पुनस् तत्परिपन्थो । विपक्षस्या न्ययानचित्तस्योत्थापना ऽधिवासना वा । पुण्यज्ञानमय कुशलधर्म वृद्ध्यनुशंसः । सदा पारमिता भ्यास निर्याणः । भूमिपर्यवसानश् च प्रतिस्वं भूमि प्रयोगात् । यस्यां भूमौ यः प्रयुक्तस् तस्य तद्भूमिपर्यवसानः । समादानसांकेतिकचित्तौत्पादे श्लोकः ।
मित्रबलाद् हेतुबलान् मूलबलाच् छ्रुतबलाच् छुभाभ्यासात् ।
अदृढदृढोदय उक्तश् चित्तोत्पादः पराख्यानात्

4.8

यो हि पराख्यानाच् चित्तोत्पादः परविज्ञापनात् स उच्यते समादानसांकेतिकः । स पुनर् मित्रबलाद् वा भवति कल्याणमित्रानुरोधात् । हेतुबलाद् वा गोत्रसामर्थ्यात् । कुल्शल मूलबलाद् वातीतपुष्टितः । छ्रुतबलाद् वा तत्र तत्र धर्मपर्याये भाष्यमाणे बहूनां बोधिचित्तोत्पादात् । शुभाभ्यासाद् वा दृष्ट इव धर्मे सततश्रवणोद्ग्रहणधारणादिभिः । स पुनर् मित्रबलाद् अदृढोदयो वेदितव्यः । हेत्वादिबलाद् दृढोदयः पारमार्थिकचित्तोत्पादे सप्त श्लोकाः ।
सूपासितसंबुद्धे सुसंभृतज्ञानपुण्यसंभारे ।
धर्मेषु निर्विकल्पज्ञानप्रसवात् परमतास्य

4.9

धर्मेषु च सत्वेषु च तत्कृत्येषूत्तमे च बुद्धत्वे ।
समचित्तोपात्तोपलम्भात् प्रामोद्यविशिष्टता तस्य

4.10

जन्माउदार्यं तस्मिन्न् उत्साहः शुद्धिर् आशयस्यापि ।
कौशल्यं परिशिष्टे निर्याणं चैव विज्ञेयम्

4.11

धर्माधिमुक्तिबीजात् पारमिताश्रेष्ठमातृतो जातः ।
ध्यानमये सुखगर्भे करुणा संवर्धिका धात्री

4.12

औदार्यं विज्ञेयं प्रणिधानमहादशाभिनिर्हारात् ।
उत्साहो बोद्धव्यो दुष्करदीर्घाधिकाखेदात्

4.13

आसन्नबोधिबोधात् तदुपायज्ञानलाभतश् चापि ।
आशयशुद्धिर् ज्ञेया कौशल्यं त्व् अन्यभूमिगतम्

4.14

निर्याणं विज्ञेयं यथाव्यवस्थानमनसिकारेण ।
तत्कल्पनताज्ञानाद् अविकल्पनया च तस्यैव

4.15

प्रथमेन श्लोकेनोपदेशप्रतिपत्त्यधिगमविशेषैः पारमार्थिकत्वं चित्तोत्पादस्य दर्शयति । स च पारमार्थिकश् चित्तोत्पादः प्रमुदितायां भूमाव् इति । प्रामोद्यविशिष्टायास् तत्र कारणं दर्शयति । तत्र धर्मेषु समचित्तता धर्मनैरात्म्यप्रतिबोधात् । सत्वेषु समचित्तता आत्मपरमतोपगमात् । सत्व कृत्येषु समचित्तता आत्मन इव तेषां दुःखक्षयाकाङ्क्षणात् । बुद्धत्वे समचित्तता तद्धर्मधातोर् आत्मन्य् अभेदप्रतिबोधात् । तस्मिन्न् एव च पारमार्थिकचोत्तोत्पादे षडर्था वेदितव्याः । जन्म औदार्यम् उत्साह आशयशुद्धिः परिशिष्टकौशल्यं निर्याणं च । तत्र जन्म मातृगर्भधात्रीविशेषाद् वेदितव्यं । औदार्यं दशमहाप्रणिधानाभिनिर्हारात् । उत्साहो दीर्घकालिकदुष्कराखेदात् । आशयशुद्धिर् आसन्नबोधि ज्ञानात् तदुपायज्ञानलाभाच् च । ( म्स 16 ) परिशिष्ट कौशल्यन् अन्यसु भूमिषु कौशल्यं । निर्याणं यथाव्यवस्थान भूमि मनसिकारेण । कथं मनसिकारेण तस्य भूमिव्यवस्थानस्य कल्पनाज्ञानात् कल्पनामात्रम् एतद् इति । तस्यैव च कल्पनाज्ञानस्या विकल्पनात् । औपम्यमाहात्म्ये षड् श्लोकाः ।
पृथिवीसम उत्पादः कल्याणसुवर्णसंनिभश् चान्यः ।
शुक्लनवचन्द्रसदृशो वह्निप्रख्यो ऽपरोच्छ्रायः ज्ञेयः

4.16

भूयो महानिधानवदन्यो रत्नाकरो यथैवान्यः ।
सागरसदृशो ज्ञेयो वज्रप्रख्यो ऽचलेन्द्रनिभः

4.17

भैषज्यराजसदृशो महासुहृत्संनिभो ऽपरो ज्ञेयः ।
चिन्तामणिप्रकाशो दिनकरसदृशो ऽपरो ज्ञेयः

4.18

गन्धर्वमधुरघोषवदन्यो राजोपमो ऽपरो ज्ञेयः ।
कोष्ठागारप्रख्यो महापथसमस् यथैवान्यः

4.19

यानसमो विज्ञेयो गन्धर्वसमश् च वेतसगचेतसःप्रभवः ।
आनन्दशब्दसदृशो महानदीश्रोतसदृशश् च

4.20

मेघसदृशश् च कथितश् चित्तोत्पादो जिनात्मजानां हि ।
तस्मात् तथा गुणाढ्यं चित्तं मुदितैः समुत्पाद्यम्

4.21

प्रथमचित्तो त्पादो बोधिसत्वाणां पृथिवीसमः सर्वबुद्धधर्मतत्संभारप्रसवस्य प्रतिष्ठाभूतत्वात् । आशयसहगतश् च चित्तोत्पादः कल्याणसुवर्ण सदृशो हितसुखाध्याशयस्य विकाराभजनात् । प्रयोगसहगतः शुक्ल पक्ष नवचन्द्रो पमः कुशलधर्मवृद्धिगमनात् । अध्याशयसहगतो वह्नि सदृश इन्धनाकरविशेषेणेवाग्निस् तस्योत्तरोत्तरविशेषाधिगमनात् । विशेषाधिगमाशयो ह्य् अध्याशयः । दानपारमितासहगतो महानिधानोपम आमिषसंभोगेनाप्रमेयसत्वसंतर्पणाद् अक्षयत्वाच् च । शीलपरमितासहगतो रत्नाकरो पमः सर्वगुणरत्नानां ततः प्रसवात् । क्षान्तिपारमितासहगतः सागरो पमः सरवानिष्टोपरिपातैर् अक्षोभ्यत्वात् । वीर्यपारमितासहगतो वज्रो पमो दृढत्वाद् अभेद्यतया । ध्यानपारमितासहगतः पर्वतराजोपमो निष्कम्पत्वाद् अविक्षेपतः । प्रज्ञापारमितासहगतो भैषज्यराजो पमः सर्वक्लेशज्ञेयावरणव्याधिप्रशमनात् । अप्रमाणसहगतो महासुहृत्संनिभः सर्वावस्थं सत्वानुपेक्षकत्वात् । अभिज्ञासहगतश् चिन्तामणि सदृशो यथाधिमोक्षं तत्फलसमृद्धेः । संग्रहवस्तुसहगतो दिनकरसदृशो विनेयसस्यपरिपाचनात् । प्रतिसंवित्सहगतो गन्धर्वमधुरघोषो पमो विनेयावर्जकधर्मदेशकत्वात् । प्रतिशरणसहगतो महा राजोपमो ऽविप्रणाशहेतुत्वात् । पुण्यज्ञानसंभारसहगतः कोष्ठागारो पमो बहुपुण्यज्ञानसंभारकोषस्थानत्वात् । बोधिपक्षसहगतो महा राज पथो पमः सर्वार्यपुद्गलयातानुयातत्वात् । ( म्स 17 ) शमथविपश्यनासहगतो यानो पमः सुखवहनात् । धारणाप्रतिभानसहगतो गन्धर्व उपमः उदकधारणाक्षयोद्भेदसाधर्म्येण श्रुतश्रुतधर्मार्थधारणोद्भेदतः । धर्मोद्दानसहगत आनन्दशब्दसदृशो मोक्षकामानां विनेयानां प्रियश्रवणात् । एकायनमार्गसहगतो नदीश्रोत समः स्वरसवाहित्वात् । अनुत्पत्तिकधर्मक्षान्तिलाभे एकायनत्वं तद्भूमिगतानां बोधिसत्वानाम् अभिन्नकार्यक्रियात्वात् । उपायकौशल्यसहगतो मेघो पमः सर्वसत्वार्थक्रियातदधीनत्वात् तुषितभवनवासादिसंदर्शनतः । यथा मेघात् सर्वभाजनलोकसंपत्तयः । एष च द्वाविंशत्युपमश् चित्तोत्पाद आर्याक्षयमतिसूत्रे ऽक्षगतानुसारेणानुगन्तव्यः । चित्तानुत्पादपरिभाषायां श्लोकः ।
परार्थचित्तात् तदुपायलाभतो महाभिसंध्यर्थसुतत्वदर्शनात् ।
महार्हचित्तोदयवर्जिता जनाः शमं गमिष्यन्ति विहाय तत् सुखम्

4.22

तेन चित्तोत्पादेन वर्जिताः सत्वाश् चतुर्विधं सुखं न लभन्ते यद् बोधिसत्वानां परार्थचिन्तनात् सुखं । यच् च परार्थो पायलाभात् । यच् च महाभिसंध्यर्थसंदर्शनात् गम्भीरमहायानस्वताभिप्रायिकार्थविबोधतः । यच् च परमत्वस्य धर्मनैरात्म्यस्य संदर्शनात् सुखं । चित्तोत्पादप्रशंसायां दुर्गतिपरिखेदनिर्भयताम् उपादाय श्लोकः ।
सहोदयाच् चित्तवरस्य धीमतः सुसंवृतं चित्तम् अनन्तदुष्कृतात् ।
सुखेन दुःखेन च मोदते सदा शुभी कृपालुश् च विवर्धनद्वयम्

4.23

तस्य चित्तवरस्य सहोदयात् बोधिसत्वस्य सुसंवृतं चित्तं भवत्य् अनन्त सत्वाधिष्ठानाद् ( म्स 18 ) दुष्कृताद् अतो ऽस्य दुर्गतितो भयं न भवति । स च द्वयं वर्धयन् शुभं च कर्म कृपा च नित्यं च शुभी भवति कृपालुश् च तेन च सदा मोदते । सुखेना पि शुभित्वात् । दुःखेना पि परार्थक्रियानिमित्तेन कृपालुत्वात् । अतो ऽस्य बहुकर्तव्यतापरिखेदादपि भयं न भवति । अकरणसंवरलाभे श्लोकः ।
यद् आनपेक्षः स्वशरीरजीविते परार्थम् अभ्येति परं परिश्रमम् ।
परोघातेन तथाविधः कथं स दुष्कृते कर्मणि संप्रवत्स्यति

4.24

अस्य पिण्डार्थो यस्य पर एव प्रियतरो नात्मा परार्थं स्वशरीरजीविते आनपेक्षत्वात् अभ्येति परं परिश्रमम् । स कथम् आत्मार्थं परोघातेन दुष्कृते कर्मणि प्रवत्स्यती ति । चित्ताव्यावृत्तौ श्लोकौ ।
मायोपमान् वीक्ष्य स सर्वधर्मान् उद्यानयात्राम् इव चोपपत्तीः ।
क्लेशाच् च दुःखाच् च बिभेति नासौ संपत्तिकाले ऽथ विपत्तिकाले

4.25

स्वका गुणाः सत्वहिताच् च मोदः संचिन्त्यजन्म र्द्धिविकुर्वितं च ।
विभूषणं भोजनम् अग्रभूमिः क्रीडारतिर् नित्यकृपात्मकानाम्

4.26

मायोपम सर्वधर्मलक्षणात् स बोधिसत्वः संपत्तिकाले क्लेशेभ्यो न बिभेति । उद्यानयात्रो पमो पपत्ती लक्षणात् विपत्तिकाले दुःकान् न बिभेति । तस्य कुतो भयाद् बोधिचित्तं व्यावर्तिष्यते । अपि च स्वगुणा मण्डनं बोधिसत्वानां । परहितात् प्रीतिर् भोजनं । संचिन्त्यो पपत्तिर् उद्यान भूमिः । ऋद्धिविकुर्वितं क्रीडारतिर् बोधिसत्वानाम् एवास्ति । नाबोधिसत्वानां ।
परार्थम् उद्योगवतः कृपात्मनो ह्य् अवीचिर् अप्य् एति यतो ऽस्य रम्यताम् ।
कुतः पुनस् त्रस्यति तादृशो भवन् पराश्रयैर् दुःखसमुद्भवैर् भवे

4.27

अपि च यस्य परार्थम् उद्योगवतः करुणात्मत्वाद् अवीचिर् अप्य् रम्यः स कथं परार्थनिमित्तैर् दुःखो त्पादैर् भवे पुनस् त्रासम् आपत्स्यते यतो ऽस्य दुःखत्रासः स्याच् चित्तस्य व्यावृत्तिर् भवति । सत्वोपेक्षाप्रतिषेधे श्लोकः ।
महाकृपाचार्यसदोषितात्मनः परस्य दुःखैर् उपतप्तचेतसः ।
परस्य कृत्ये समुपस्थिते पुनः परैः समादापनतो ऽतिलज्जना

4.28

यस्य महाकरुणाचार्येण नित्योषितो आत्मा परदुःखैश् च दुःखितं चेतस् तस्योत्पन्ने परार्थं करणीये यदि परैः समादापना कर्तव्या भवति अतिलज्जना । कौसीद्यपरिभाषायां श्लोकः ।
शिरसि विनिहितोच्चसत्वभारः शिथिलगतिर् न हि शोभते ऽग्रसत्वः ।
स्वपरविविधबन्धनातिबद्धः शतगुणम् उत्सहम् अर्हति प्रकर्तुम्

मूल पाठ: Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa · Edition: Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907. · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc