महायानसूत्रालंकार (टीका सहित) · अध्याय 3
अत्र शरणगमनस्थां महार्थां स्वपरार्थप्रतिपत्तिभ्यां दर्शयति । स्वार्थप्रतिपत्तिः ( म्स 10 ) पुनर् बहुप्रकारा ऽप्रमेयगुणवृद्धा । अप्रमेयत्वं तर्कसंख्या कालाप्रमेयतया वेदितव्यं । न हि सा गुणवृद्धिस् तर्केण प्रमेया न संख्या न कालेनात्यन्तिकत्वात् । परार्थप्रतिपत्तिर् आशयतश् च करुणा स्फुरणेन प्रयोगतश् च महायानधर्मप्रथनेन । महायानं हि महार्यदृशां धर्मः ।
महायानसूत्रालंकारे शरणगमनाधिकारो द्वितीयः
छपित्रे इइइ
तृतीयो ऽधिकारः
गोत्रप्रभेदसंग्रहश्लोकः
सत्वाग्रत्वं स्वभावश् च लिङ्गं गोत्रप्रभेदता ।
आदीनवो ऽनुशंसश् च द्विधाउपम्यं चतुर्विधा
अनेन गोत्रस्यास्तित्वम् अग्रत्वं स्वभावो लिङ्गं प्रभेद आदीनवो ऽनुशंसो द्विधाउपम्यं चेत्य् एष प्रभेदः संगृहीतः । एते च प्रभेदाः प्रत्येकं चतुर्विधाः । अनेन गोत्रास्तित्वविभागे श्लोकः ।
धातूनाम् अधिमुक्तेश् च प्रतिपत्तेश् च भेदतः ।
फलभेदोपलब्धेश् च गोत्रास्तित्वं निरूप्यते
नानाधातुकत्वानाम् अपरिमाणो धातुप्रभेदो यथोक्तम् अक्षराशिसूत्रे । तस्माद् एवं जातीयको ऽपि धातुभेदः प्रत्येतव्य इति । अस्ति यानत्रये गोत्रभेदः । अधिमुक्तिभेदो ऽपि सत्वानाम् उपलभ्यते प्रथमत एव कस्यचित् क्वचिद् एव यादे ऽधिमुक्तिर् भवति सो ऽन्तरेण गोत्रभेदं न स्यात् । उत्पादितायाम् अपि च प्रत्ययवशेनाधिमुक्तौ प्रतिपत्तिभेद उपलभ्यते कश्चिन् निर्वोहा भवति कश्चिन् नेति सो ऽन्तरेण गोत्रप्रभेदं न स्यात् । फलभेदश् चोपलभ्यते हीनमध्यविशिष्टा बोधयः ( म्स 11 ) सो ऽन्तरेण गोत्रभेदं न स्यात् बीजानुरूपत्वात् फलस्य । अग्रत्वविभागे श्लोकः ।
उदग्रत्वे ऽथ सर्वत्वे महार्थत्वे ऽक्षयाय च ।
शुभस्य तन्निमित्तत्वात् गोत्राग्रत्वं विधीयते
अत्र गोत्रस्य चतुर्विधेन निमित्तत्वेनाग्रत्वं दर्शयति । तद् धि गोत्रं कुशलमुलानाम् उदग्रत्वे निमित्तं सर्वत्वे महार्थत्वे अक्षयत्वे च । न हि श्रावकाणां तथोदग्राणि न च सर्वाणि सन्ति बलवैशारद्याद्यभावात् । न च महार्थान्यपरार्थत्वात् । न चाक्षयाण्य् अनुपधिशेषनिर्वाणावसानत्वात् । लक्षणविभागे श्लोकः ।
प्रकृत्या परिपुष्टं च आश्रयश् चाश्रितं च तत् ।
सदसच् चैव विज्ञेयं गुणोत्तारणतार्थतः
एतेन चतुर्विधं गोत्रं दर्शयति । प्रकृतिस्थं समुदानीतम् आश्रयस्वभावम् आश्रितस्वभावं च तद् एव यथाक्रमं । तत्पुनर्हेतुभावेन सत् फलभावेनासत् । गुणोत्तारणार्थन गोत्रं वेदितव्यं गुणा उत्तरन्त्य् अस्माद् उद्धवन्तीति कृत्वा । लिङ्गविभागे श्लोकः ।
कारुण्यम् अधिमुक्तिश् च क्षान्तिश् चादिप्रयोगतः ।
समाचारः सुभस्यापि गोत्रे लिङ्गं निरुप्यते
चतुर्विधं लिङ्गं बोधिसत्वगोत्रे । आदिप्रयोगत एव कारुण्यं सत्वेषु । अधिमुक्तिर् महायानधर्मे । क्षान्तिर्दुष्करचर्यायां सहिष्णुतार्थेन । समाचारश् च पारमितामयस्य कुशलस्येति । प्रभेदविभागे श्लोकः ।
नियतानियतं गोत्रम् अहार्यं हार्यम् एव च ।
प्रत्ययैर् गोत्रभेदो ऽयं समासेन चतुर्विधः
समासेन चतुर्विधं गोत्रं नियतानियतं तदेव यथाक्रमं प्रत्ययैरहार्यं हार्यं चेति । आदीनवविभागे श्लोकः ।
क्लेशाभ्यासः कुमित्रत्वं विधातः परतन्त्रता ।
गोत्रस्यादीनवो ज्ञेयः समासेन चतुर्विधः
बोधिसत्वगोत्रे समासेन चतुर्विध आदीनवः येन गोत्रस्थो ऽगुणेषु प्रवर्तते । ( म्स 12 ) क्लेशबाहुल्यं । अकल्याणमित्रता । उपकरणविधातः । पारतन्त्र्यं च । अनुशंसविभागे श्लोकः ।
चिराद् अपायगमनम् आशुमोक्षश् च तत्र च ।
तनुदुःखोपसंवित्तिः सोद्वेगा सत्वपाचना
चतुर्विधो बोधिसत्वस्य गोत्रे ऽनुशंसः । चिरेणापायान् गच्छति । क्षिप्रं च तेभ्यो मुच्यते । मृदुकं च दुःखं तेषूपपन्नः प्रतिसंवेदयते । संविग्नचेतास् तदुपपन्नांश् च सत्वान् करुणयमानः परिपाचयति । महासुवर्णगोत्राउपम्ये श्लोकः ।
चोम्परैसोन् अवेच् उने ग्रन्दे fअमिल्ले द्ऽओर्, एन् उन् वेर्स्.
सुवर्णगोत्रवत् ज्ञेयम् अमेयशुभताश्रयः ।
ज्ञाननिर्मलतायोगप्रभावाणां च निश्रयः
महासुवर्णगोत्रं हि चतुर्विधस्य सुवर्णस्याश्रयो भवति । प्रभूतस्य प्रभास्वरस्य निर्मलस्य कर्मण्यस्य च । तत्साधर्म्येण बोधिसत्वगोत्रम् अप्रमेयकुशलमूलाश्रयः । ज्ञानाश्रयः । क्लेशनैर्मल्यप्राप्त्याश्रयः । अभिज्ञादिप्रभावाश्रयश् च । तस्मान् महासुवर्णगोत्रोपं वेदितव्यं । महारत्नगोत्राउपम्ये श्लोकः ।
सुरत्नगोत्रवत् ज्ञेयं महाबोधिनिमित्ततः ।
महाज्ञानसमाध्यार्यमहासत्वार्थनिश्रयात्
महारत्नगोत्रं हि चतुर्विधरत्नाश्रयो भवति । जात्यस्य वर्णसंपन्नस्य संस्थानसंपन्नस्य प्रमाणसंपन्नस्य च । तदुपमं बोधिसत्वगोत्रं वेदितव्यं महाबोधिनिमित्तत्वात् महाज्ञाननिमित्तत्वाद् आर्यसमाधिनिमित्तत्वात् चित्तस्य हि संस्थितिः समाधिः महासत्वपरिपाकनिमित्तत्वाच् च बहुसत्वपरिपाचनात् । अगोत्रन्नस्थविभागे श्लोकः ।
ऐकान्तिको दुश्चरिते ऽस्ति कश्चित् कश्चित् समुद्घातितशुक्लधर्मा ।
अमोक्षभागीयशुभो ऽस्ति कश्चिन् निहीनशुक्लो ऽस्त्य् अपि हेतुहीनः
अपरिनिर्वाणधर्मक एतस्मिन्न् अगोत्रस्थो ऽभिप्रेतः । स च समादतो द्विविधः । तत्कालापरिनिर्वाणधर्मा अत्यन्तं च । तत्कालापरिनिर्वाणधर्मा चतुर्विधः । दुश्चरितैकान्तिकः समुच्छिन्नकुश्लमूलः । हीनकुशलमूलश् चापरिपूर्णसंभारः । ( म्स 13 ) अत्यन्तापरिनिर्वाणधर्मा तु हेतुहीनो यस्य परिनिर्वाणगोत्रम् एव नास्ति । प्रकृतिपरिपुष्टगोत्रमाहात्म्ये श्लोकः ।
गाम्भीर्याउदार्यवादे परहितकरणायोदिते दीर्घधर्मे अज्ञात्वैवाधिमुक्तिर् भवति सुविपुला संप्रपत्तिक्षमा च ।
संपत्तिश् चावसाने द्वयगतपरमा यद् भवत्य् एव तेषां तज्ज्ञेयं बोधिसत्वप्रकृतिगुणवतस् तत्प्रपुष्टाच् च गोत्रात्
यद्गाभीर्याउदार्यवादिनि परहितक्रियार्थमुक्ते विस्तीर्णे महायानधर्मे गाम्भीर्याउदार्यार्थम् अज्ञात्वैवाधिमुक्तिर् विपुला भवति । प्रतिपत्तौ चोत्साहः । संपत्तिश् चावसाने महाबोधिर्द्वयगतायाः संपत्तेः परमा तत्प्रकृत्या गुणवतः परिपुष्टस्य च बोधिसत्वगोत्रस्य माहात्म्यं वेदितव्यं । द्वयगता इति द्वये लौकिकाः श्रावकाश् च । परमेति विशिष्टा । फलतो गोत्रविशेषणे श्लोकः ।
सुविपुलगुणबोधिवृक्षवृद्ध्यै धनसुखदुःखशमोपलब्धये च ।
स्वपरहितसुखक्रियाफलत्वाद् भवति समुदग्रसमूलम् उदग्रगोत्रम् एतत्
मूल पाठ: Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa · Edition: Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907. · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0