भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार (टीका सहित) · अध्याय 2

2.1

प्रकृतिप्रदुष्ट इति प्रकृतिसावद्यः । तस्माद् उपेक्षैव वरं । कस्मात् । सा ह्य् अदोषा । प्रतिघातस् तु सदोषः ।
महायानसूत्रालंकारे महायानसिद्ध्यधिकारः प्रथमः
छपित्रे इइ
द्वितीयो ऽधिकारः
शरणगमनविशेषसंग्रहश्लोकः
रत्नानि यो हि शरणप्रगतो ऽत्र याने ज्ञेयः स एव परमः शरणणगतानाम् ।
सर्वत्रगाभ्युपगमाधिगमाभिभूतिभेदैश् चतुर्विधमयार्थविशेषणेन

2.2

स एव परमः शरणं गतानाम् इति । केन कारणेन । चतुर्विधस्वभावार्थविशेषणेन । चतुर्विधो ऽर्थः सर्वत्रगाभ्युपगमाधिगमाभिभूतिभेदतो वेदितव्यः । ( म्स 9 ) सर्वत्रगार्थः । अभिभवार्थः । ते पुनर् उत्तरत्र निर्देक्ष्यन्ते । तथाप्य् अत्र शरणप्रगतानां बहुदुष्करकार्यत्वात् केचिन् नोत्सहन्ते श्लोकः ।
यस्माद् आदौ दुष्कर एष व्यवसायो दुःसाधो ऽसौ नैकसहस्रैर् अपि कल्पैः ।
सिद्धो यस्मात् सत्वहिताधानमहार्थस् तस्माद् अग्रे यान इहाग्रशरणार्थः

2.3

एतेन तस्य शरणगमनव्यवसायस्य प्रणिधानप्रतिपत्तिविशेषाभ्यां यशोहेतुत्वं दर्शयति । फलप्राप्तिविशेषेण महार्थत्वं । पुर्वाधिकृते सर्वत्रगार्थे श्लोकः ।
सर्वान् सत्वांस् तारयितुं यः प्रतिपन्नो यनो ज्ञाने सर्वगते कौशल्ययुक्तः ।
यो निर्वाणे संसरणे ऽप्य् एकरसो ऽसौ संसृतिशान्त्येकरसो ऽसौ ज्ञेयो धीमान् एष हि सर्वत्रग एवम्

2.4

एतेन चतुर्विधं सर्वत्रगार्थं ...
... असांकेतिकं धर्मता
प्रातिलम्भिकं चेति प्रभेदलक्षणा प्रवृत्तिर् औदारिकसूक्ष्मप्रभेदेन । शरणप्रतिपत्तिविशेषणे श्लोकः ।
शरणगतिम् इमां गतो महार्थां गुणगणवृद्धिम् उपैति सो ऽप्रमेयाम् ।
स्फुरति जगद् इदं कृपाशयेन प्रथयति चाप्रतिमं महार्थधर्मम्

मूल पाठ: Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa · Edition: Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907. · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc