भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार (टीका सहित) · अध्याय 16

16.1

अनेन श्लोकेन चतुर्थेन विशुद्ध्युपायं कर्मणो दर्शयति । मण्डलपरिशुद्धितः कर्तृकर्मक्रियाणाम् अनुपलम्भात् । अनन्तम् इत्य् अक्षयं ।
महायानसूत्रालंकारे उपायसहितकर्माधिकारः पञ्चदशः
छपित्रे xवि
षोडशो ऽधिकारः
पारमिताप्रभेदसंग्रहे उद्दानश्लोकः ।
सांख्याथ तल्लक्षणम् आनुपूर्वी निरुक्तिर् अभ्यासगुणश् च तासां ।
प्रभेदनं संग्रहणं विपक्षो ज्ञेयो गुणो ऽन्योन्यविनिश्चयश् च

16.2

संख्याविभागे षट् श्लोकाः ।
भोगात्मभावसंपत्परिचारारम्भसंपदभ्युदयः ।
क्लेशावशगत्वम् अपि च कृत्येषु सदाविपर्यासः

16.3

इति प्रथमः । तत्र चतसृभिः पारमिताभिश् चतुर्विधो ऽभ्युदयः । दानेन भोगसंपत् । शीलेनात्मभावसंपत् । क्षान्त्या परिचारसंपत् । तथा हि तदासेवनाद् आयत्याद् बहुजनसुप्रियो भवति । वीर्येणारम्भसंपत् सर्वकर्मान्तसंपत्तितः । पञ्चम्या क्लेशावशगत्वं ध्यानेन क्लेशविष्कम्भनात् । षष्ट्या कृत्येष्व् अविपर्यासः सर्वकार्ययथाभूतपरिज्ञानात् । इत्य् अभ्युदयः तत्र चासंक्लेशमविपरीतकृत्यारम्भं चाधिकृत्य षट् पारमिता व्यवस्थिताः ।
सत्वार्थेषु सुयुक्तस् त्यागानुपघातमर्षणैः कुरुते ।
सनिदानस्थितिमुक्त्या आत्मार्थं सर्वथा चरति

16.4

इति द्वितीयः । सत्वार्थेषु सम्यक्प्रयुक्तो बोधिसत्वस् तिसृभिर् दानशीलक्षान्तिपारमिताभिर् यथाक्रमं त्यागेनानुपघातेनाउपघातमर्षणेन च सत्वार्थं कुरुते । तिसृभिः सनिदानतया चित्तस्थित्या विमुक्त्या च सर्वप्रकारम् आत्मार्थं चरति । वीर्यं निश्रित्य यथाक्रमं ध्यानप्रज्ञाभ्यासमाहितस्य चित्तस्य समवधानात् समाहितस्य मोचनात् । इति परार्थम् आत्मार्थं चारभ्य षट् पारमिताः ।
अविघातैर् अविहेठैर् विहेठसंमर्षणैः क्रियाखेदैः ।
आवर्जनैः सुलपितैः परार्थ आत्मार्थ एतस्मात्

16.5

इति तृतीयः । दानादिभिर्बोधिसत्वस्य सकलः परार्थो भवति । यथाक्रम परेषाम् उपकरणाविघातै । अविहेठैः विहेठनामर्षणैः । साहाय्यक्रियास्वखेदैः ऋद्ध्यादिप्रभावावर्जनैः सुभाषितसुलपितैश् च संशयच्छेदनात् । एतस्मात् परार्थात् बोधिसत्वस्यात्मार्थो भवति । परकार्यस्वकार्यत्वान् महाबोधिप्राप्तितश् च । इति सकलपरार्थाधिकारात् षट् पारमिताः ।
भोगेषु चानभिरतिस् तीव्रा गुरुताद्वये अखेदश् च ।
योगश् च निर्विकल्पः समस् तम् इदम् उत्तमं यानं

16.6

इति चतुर्थः । दानेन बोधिसत्वस्य भोगेष्व् अभिरतिर् निरपेक्षत्वात् । शीलसमादानेन बोधिसत्वशिक्षासु तीव्रा गुरुता । क्षान्त्या वीर्येण चाखेदो द्वये यथाक्रमं दुःखे च सत्वासत्वकृते कुशलप्रयोगे च । ध्यानप्रज्ञायां निर्विकल्पो ( म्स 100 ) योगः शमथविपश्यनासंगृहीतः । एतावच् च समस्तमहायानसंग्रहाधिकारात् षट् पारमिताः ।
विषयेष्व् असक्तिमार्गस् तदाप्तिविक्षेपसंयमेष्व् अपरः ।
सत्वाविसृजनवर्धन आवरणविशोधनेष्व् अपरः

16.7

इति पञ्चमः । तत्र दानं विषयेष्व् असक्तिमार्गस् त्यागाभ्यासेन तत्सक्तिविगमात् । शीलं तदाप्तिविक्षेपसंयमेषु भिक्षुसंवरस्थस्य विषयाप्राप्तये सर्वकर्मान्तविक्षेपाणाम् अप्रवृत्तेः । क्षान्तिः सत्वानुत्सर्गे सर्वोपकारदुःखानुद्वेगात् । वीर्यं कुशलविवर्धन आरब्धवीर्यस्य तद्वद्धिगमनात् । ध्यानं प्रज्ञा चावरणविशोधनेषु मार्गस् ताभ्यां क्लेशज्ञेयावरणविशोधनात् । मार्ग इत्य् उपायः । एवं सर्वकारमार्गाधिकारात् षट् पारमिताः ।
शिक्षात्रयम् अधिकृत्य च षड् पारमिता जिनैः समाख्याताः ।
आद्या तिस्रो द्वेधा अन्त्यद्वयतस् तिसृष्व् एका

16.8

इति षष्ठः । तत्राद्या अधिशीलं शिक्षा तिस्रः पारमिताः ससंभारसपरिवारग्रहणात् । दानेन हि भोगनिरपेक्षः शीलं समादत्ते समात्तं च क्षान्त्या रक्षत्य् आक्रुष्टाप्रत्याक्रोशनादिभिः । द्विधेत्य् अधिचित्तम् अधिप्रज्ञं च शिक्षा सा अन्तेन द्वयेन संगृहीता यथाक्रमं ध्यानेन प्रज्ञया च । तिसृष्व् अपि शिक्षास्व् एका वीर्यपारमिता वेदितव्या । सर्वासां वीर्यसहायत्वात् । लक्षणविभागे श्लोकाः षट् ।
दानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन ।
सर्वेच्छापरिपूरकम् अपि सत्वविपाचकं त्रेधा

16.9

बोधिसत्वानां दानं चतुर्विधलक्षणं । विपक्षहीनं तात्पर्यस्य प्रहीणत्वात् । निर्विकल्पज्ञानसहगतं धर्मनैरात्म्यप्रतिवेधयोगात् सर्वेच्छापरिपूरकं यो यद् इच्छति तस्मै तस्य दानात् । सत्वपरिपाचकं त्रेधा दानेन सत्वान् संगृह्य त्रिषु यानेषु यथाभव्यनियोजनात् ।
शीलं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन ।
सर्वेच्छापरिपूरकम् अपि सत्वविपाचकं त्रेधा

16.10

क्षान्तिर्विपक्षहीना ज्ञानेन गता च निर्विकल्पेन ।
सर्वेच्छापरिपूरा अपि सत्वविपाचिका त्रेधा

16.11

वीर्यं विपक्षहीनं ज्ञानेन गतं च निविकल्पेन ।
सर्वेच्छापरिपूरकम् अपि सत्वाविपाचकं त्रेधा

16.12

ध्यानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन ।
सर्वेच्छापरिपूरकम् अपि सत्वविपाचकं त्रेधा

16.13

प्रज्ञा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन ।
सर्वेच्छापरिपूरा अपि सत्वविपाचिका त्रेधा

16.14

यथा दानलक्षणं चतुर्विधम् एवं शीलादीनां वेदितव्यं । एषां तु विपक्षा दौःशील्यं क्रोधः कौशीद्यं विक्षेपो दौष्प्रज्ञ्यं यथाक्रमं । सर्वेच्छापरिपूरकत्वं शीलादिभिः परेषां सर्वकायवाक्संयमापराधमर्षणसाहाय्यमनोरथसंशयच्छेदनेच्छापरिपूरणात् । सत्वपरिपाचकत्वं शीलादिभिर् आवर्ज्य त्रिषु यानेषु परिपाचनात् । अनुक्रमविभागे श्लोकः ।
पूर्वोत्तरविश्रयतश् चोत्पत्तेस् तत्क्रमेण निर्देशः ।
हीनोत्कर्षस्थानाद् औदारिकसूक्ष्मतश् चापि

16.15

त्रिभिः कारणैस् तेषां दानादीनां क्रमेण निर्देशः । पूर्वसंनिश्रयेणोत्तरस्योत्पत्तेः । भोगनिरपेक्षो हि शीलं समात्ते शीलवान् क्षमो भवति क्षमावान् वीर्यम् आरभते आरब्धवीर्यः समाधिम् उत्पादयति समाहितचित्तो यथाभूतं प्रजानाति । पूर्वस्य च हीनत्वात् उत्तरस्योत्कर्षस्थानत्वात् । हीनं हि दानम् उत्कृष्टं शीलम् एवं यावद् धीनं ध्यानम् उत्कृष्टा प्रज्ञेति । पूर्वस्य चाउदारिकत्वाद् उत्तरस्य सूक्ष्मत्वात् । औदारिकं हि दानं सुप्रवेशत्वात् सुकरत्वाच् च । सूक्ष्मं शीलं ततो दुष्प्रवेशत्वाद् दुष्करत्वाच् च । एवं यावद् औदारिकं ध्यानं सूक्ष्मा प्रज्ञेति । निर्वचनविभागे श्लोकः ।
दारिद्यस्यापनयाच् छैत्यस्य च लम्भनात् क्षयात् क्रुद्धेः ।
वरयोगमनोधारणपरमाथज्ञानतश् चोक्तिः

16.16

दारिद्र्यम् अपनयतीति दानं । शैत्यं लम्भयतीति शीलं तद्वतो विषयनिमित्तक्लेशपरिदाहाभावात् क्षयः क्रुद्धेर् इति क्षान्तिस् तया क्रोधक्षयात् । वरेण योजयतीति ( म्स 102 ) वीर्यं कुशलधर्मयोजनात् । धारयत्य् अध्यात्मं मन इति ध्यानं । परमार्थ जानात्य् अनयेति प्रज्ञा । भावनाविभागे श्लोकः ।
भावनोपधिम् आश्रित्य मनस्कारं तथाशयं ।
उपायं च विभुत्वं च सर्वासाम् एव कथ्यते

16.17

पञ्चविधा पारमिताभावना । उपधिसंनिश्रिता । तत्रोपधिसंनिश्रिता चतुराकारा हेतुसंनिश्रिता यो गोत्रबलेन पारमितासु प्रतिपत्त्यभ्यासः । विपाकसंनिश्रिता य आत्मभावसंपत्तिबलेन । प्रणिधानसंनिश्रिता यः पूर्वप्रणिधानबलेन । प्रतिसंख्यानसंनिश्रिता यः प्रज्ञाबलेन पारमितासु प्रतिपत्त्यभ्यासः । मनसिकारसंनिश्रिता पारमिताभावना चतुराकारा । अधिमुक्तिमनस्कारेण सर्वपारमिताप्रतिसंयुक्तं सूत्रान्तम् अधिमुच्यमानस्य । आस्वादनामनस्कारेण लब्धाः पारमिता आस्वादयतो गुणसंदर्शयोगेन । अनुमोदनामनस्कारेण सर्वलोकधातुषु सर्वसत्वानां दानादिकम् अनुमोदमानस्य । अभिनन्दनामनस्कारेणात्मनः सत्वानां चानागतं पारमिताविशेषम् अभिनन्दमानस्य । आशयसंनिश्रिता पारमिताभावना षडाकारा । अतृप्ताशयेन विपुलाशयेन मुदिता--आशयेन उपकाराशयेन निर्लेपाशयेन कल्याणाशयेन च । तत्र बोधिसत्वस्य दाने ऽतृप्ताशयो यद् बोधिसत्व एकसत्वस्यैकक्षणे गंगानदीवालुकासमान् लोकधातून् सप्तरत्नपरिपूर्णान् कृत्वा प्रतिपादयेत् । गंगानदीवालिकासमांश् चात्मभावान् । एवं च प्रतिक्षणं गंगानदीवालिकासमान् कल्पान् प्रतिपादयेत् । यथा चैकस्य सत्वस्यैवं यावान् सत्वधातुर् अनुत्तरायां सम्यक्संबोधौ परिपाचयितव्यस् तम् अनेन पर्यायेण प्रतिपादयेत् । अतृप्त एव बोधिसत्वस्य दानाशय इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य दाने ऽतृप्ताशयः । न च बोधिसत्व एवंरूपां दानपरंपरां क्षणमात्रम् अपि हापयति । न विच्छिनत्त्या बोधिमण्डनिषदनाद् इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य दाने विपुलाशय इति । मुदिततरश् च बोधिसत्वो भवति तान् सत्वान् दानेन तथानुगृह्णन् । न त्व् एव ते सत्वास् तेन दानेनानुगृह्यमाणा इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य दाने मुदिताशयः । उपकारकतरांश् च स बोधिसत्वस् तान् सत्वान् आत्मनः समनुपश्यति । येषां तथा दानेनोपकरोति नात्मानं । तेषाम् अनुत्तरसम्यक्संबोध्युपस्तम्भताम् उपादाय इति । य एवंरूप आशयो ऽयं आशयः । न च बोधिसत्वः सत्वेषु तथा विपुलम् अपि दानमयं पुण्यम् अभिसंस्कृत्य प्रतिकारेण वा अर्थो भवति विपाकेन वा इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य दानपारमिताभावनायां निर्लेपाशयः । यद्बोधिसत्वस् तथा विपुलस्यापि ( म्स 103 ) दानस्कन्धस्य विपाकम् सत्वेष्व् अभिनन्दति नात्मनः । सर्वसत्वसाधारणं च कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य दानपारमिताभावनायां कल्याणाशयः । तत्र बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायाम् अतृप्ताशयः । यद् बोधिसत्वो गंगानदीवालिकासमेष्व् आत्मभावेषु गंगानदीवालिकासमकल्पायुष्प्रमाणेषु सर्वाउपकरणनिरन्तरविघाती त्रिसाहस्रमहासाहस्रलोकधाताव् अग्निप्रतिपूर्णे चतुर्विधम् ईर्यापथं कल्पयन्न् एकं शीलपारमिताक्षणं यावत् प्रज्ञापारमिताक्षणं भावयेद् एतेन पर्यायेण यावांश् छीलस्कन्धो यावान् च प्रज्ञासकन्धो येनानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते शीलस्कन्धं यावत् प्रज्ञास्कन्धं भावयेद् अतृप्त एव बोधिसत्वस्य शीलपारमिताभावनायाम् आशयो यावत् प्रज्ञापारमिताभावनायाम् आशय इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायाम् अतृप्ताशयो यावत् प्रज्ञापारमिताभावनायाम् आशयः । यद्बोधिसत्वास्तां शीलपारमिताभावनापरंपरां यावत् प्रज्ञापारमिताभावना परंपरामा बोधिमण्डनिषदनान् न स्रंसयति न विच्छिनत्ति इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायां विपुलाशयः । मुदिततरश् च बोधिसत्वो भवति तया शीलपारमिताभावनया यावत् प्रज्ञापारमिताभावनया सत्वाननुगृह्लन् । न त्व् एव ते सत्वा अनुगृह्यमाणा इति । य एवंरूप आश्यो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायां मुदिताशयः । उपकारकतरांश् च बोधिसत्वस्तान् सत्वानात्मनः समनुपश्यति । येषां तथा शीलपारमिताभावनया यावत् प्रज्ञापारमिताभावनया उपकरोति नात्मानं । तेषाम् अनुत्तरसम्यक्संबोध्युपस्तम्भताम् उपादाय इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायाम् उपकाराशयः । न च बोधिसत्वस्तथा विपुलम् अपि शीलपारमिताभावनामयं यावत् प्रज्ञापारमिताभावनामयं पुण्यम् अभिसंस्कृत्य प्रतिकारेण वार्थो भवति विपाकेन वा इति । य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायां निर्लेपाशयः । तत्र यद् बोधिसत्व एवं शीलपारमिताभावनामयस्य यावत् प्रज्ञापारमिताभावनामयपुण्यस्कन्धस्य विपाकं सत्वेष्व् एवाभिनन्दति नात्मनः । सर्वसत्वसाधारणं च कृत्वानुत्तरायां सम्यक्सम्बोधौ परिणामयतीति । य एवंरूप आशयो ऽयं बोधिसत्वस्य शीलपारमिताभावनायां यावत् प्रज्ञापारमिताभावनायां कल्याणाशयः । उपायसंनिश्रिता भावना त्र्याकारा । निर्विकल्पेन ज्ञानेन त्रिमण्डलपरिशुद्धिप्रत्यवेक्षणताम् उपादाय । तथा हि स उपायः सर्वमनसिकाराणाम् अभिनिष्पत्तये । विभुत्वसंनिश्रिता पारमिताभावना त्र्याकारा । कायविभुत्वतः । चर्याविभुत्वतः । देशनाविभुत्वतश् च । तत्र कायविभुत्वं ( म्स 104 ) तथागते द्वौ कायौ द्रष्टव्यौ स्वाभाविकः सांभोगिकश् च । तत्र चर्याविभुत्वं नैर्माणिकः कायो द्रष्टव्यः । येन सर्वाकारां सर्वसत्वानां सहधार्मिकचर्यां दर्शयति । देशनाविभुत्वं
षट्पारमितासर्वाकारदेशनायाम् अव्याघातः । प्रभेदसंग्रहे द्वादश श्लोकाः । दानादीनां प्रत्येकं षडर्थप्रभेदतः । षडर्थाः स्वभावहेतुफलकर्मयोगवृत्त्यर्थाः । तत्र दानप्रभेदे द्वौ श्लोकौ ।
प्रतिपादनम् अर्थस्य चेतना मूलनिश्चिता ।
भोगात्मभावसंपत्ती द्वयानुग्रहपूरकं

16.18

अमात्सर्ययुतं तच् च दृष्टधर्मामिषाभये ।
दानम् एव परिज्ञाय पण्डितः समुदानयेत्

16.19

अर्थप्रतिपादनं प्रतिग्राहकेषु दानस्य स्वभावः । अलोभादिसहजा चेतना हतुः । भोगसंपत्तिर् आत्मभावसंपत्तिश् चायुरादिसंगृहीता फलं पञ्चस्थानसूत्रवत् । स्वपरानुग्रहो महाबोधिसंभारपरिपूरिश् च कर्म । अमात्सर्ययोगो अमत्सरिषु वर्तते । दृष्टधर्मामिषाभयप्रदानप्रभेदेन चेति वृत्तिः । शीलप्रभेदे द्वौ श्लोकौ ।
षडङ्गशमभावान्तं सुगतिस्थितिदायकं ।
प्रतिष्ठाशान्तनिर्भीतं पुण्यसंभारसंयुतं

16.20

संकेतधर्मतालब्धं संवरस्थेषु विद्यते ।
शीलम् एवं परिज्ञाय पण्डितः समुदानयेत्

16.21

षडङ्गम् इति स्वभावः । षडङ्गीति शीलवान् विहरति यावत् समादाय शिक्षते शिक्षापदेष्व् इति । शमभावान्तम् इति हेतुः । निर्वाणाभिप्रायेण समादानात् । सुगतिस्थितिदायकम् इति फलं । शीलेन सुगतिगमनात् । अविप्रतिसारादिक्रमेण चित्तस्थितिलाभाच् च । प्रतिष्ठाशान्तनिर्भीतम् इति कर्म । शीलं हि सर्वगुणानां प्रतिष्ठा भवति । क्लेशपरिदाहशान्त्या च शान्तं । प्राणातिपातादिप्रत्ययानां ( म्स 105 ) च भयावद्यवैराणाम् अप्रसवान् निर्भोतं । पुण्यसंभारसंयुतम् इति योगः सर्वकालं कायवाङ्मनस्कर्मसमावरणात् । संकेतधर्मतालब्धं संवरस्थेषु विद्यत इति वृत्तिस् तत्र संकेतलब्धं प्रातिमोक्षसंवरसंगृहीतं । धर्मताप्रतिलब्धं ध्यानानास्रवसंवरसंगृहीतम् एषास्य प्रभेदवृत्तिः त्रिविधेन प्रभेदेन वर्तनात् । संवरस्थेषु विद्यत इत्य् आचारवृत्तिः । क्षान्तिप्रभेदे द्वौ श्लोकौ ।
मर्षाधिवासनज्ञानं कारुण्याद् धर्मसंश्रयात् ।
पञ्चानुशंसम् आख्यातं द्वयोर् अर्थकरं च तत्

16.22

तपः प्राबल्यसंयुक्तं तेषु तत्त्रिविधं मतं ।
क्षान्तिम् एवं परिज्ञाय पण्डितः समुदानयेत्

16.23

मर्षाधिवासज्ञानम् इति त्रिविधियाः क्षान्तेः स्वभावः । अपकारमर्षणक्षान्तेर् मर्षणां मर्ष इति कृत्वा । दुःखाधिवासक्षान्तेर् धर्मनिध्यानक्षान्तेश् च यथाक्रमं ।
कारुण्याद् धर्मसंश्रयाद् इति हेतुः । धर्मसंश्रयः पुनः । शीलसमादानं श्रुतपर्यवाप्तिश् च । पञ्चानुशंसम् आख्यातम् इति फलं । यथोक्तं सूत्रे । पञ्चानुशंसाः क्षान्तौ । न वैरबहुलो भवति । न भेदबहुलो भवति । सुखसौमनस्य बहुलो भवति । अविप्रतिसारी कालं करोति । कायस्य न भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते इति । द्वयोर् अर्थकरं च तद् इति मर्षाधिवासनम् इत्य् अधिकृतं इदं कर्म । यथोक्तं ।
द्वयोर् अर्थं स कुरूते आत्मनश् च परस्य च ।
यः परं कुपितं ज्ञात्वा स्वयं तत्रोपशाम्यति ॥ इति ॥
तपःप्राबल्यसंयुक्तम् इति योगः । यथोक्तं । क्षान्तिः परमं तप इति । तेषु तद् इत्य् आधारवृत्तिः क्षमिषु तद्वृत्तेः । त्रिविधं मतम् इति प्रभेदवृत्तिस् त्रिविधक्षान्तिप्रभेदेन यथोक्तं प्राक् । वीर्यप्रभेदे द्वौ श्लोकौ ।
उत्साहः कुशले सम्यक् श्रद्धाच्छन्दप्रतिष्ठितः ।
स्मृत्यादिगुणवृद्धौ च संक्लेशप्रातिपक्षिकः

16.24

अलोभादिगुणोपेतस् तेषु सप्तविधश् च सः ।
वीर्यम् एव परिज्ञाय पण्डितः समुदानयेत

16.25

उत्साहः कुशले सम्यग् इति स्वभावः । कुशल इति तदन्यकृत्योत्साहव्युदासाथ सम्यग् इत्य् अन्यतीर्थिकमोक्षार्थोत्साहव्युदासार्थं । श्रद्धाच् छन्दप्रतिष्ठित इति हेतुः श्रद्दधानो ह्य् अतीव वीर्यम् आरभति । स्मृत्यादिगुणवृद्धाव् इति फलं । आरब्धवीर्यस्य ( म्स 106 ) स्मृतिसमाध्यादिगुणोद्भवात् । संक्लेशप्रातिपक्षिक इति कर्म । यथोक्तं आरब्धवीर्यस् तु सुखं विहरत्य् अव्यवकीर्णः पापकैर् अकुशलैर् धर्मैर् इति । अलोभादिगुणोपेत इति योगः । तेष्व् इत्य् आरब्धवीर्येषु इयम् आधारवृत्तिः । सप्तविध इति प्रभेदवृत्तिः । स पुनर् अधिशीलादिशिक्षात्रये कायिकं चेतसिकं च सातत्येन सत्कृत्य च यद् वीर्यं । ध्यानप्रभेदे द्वौ श्लोकौ ।
स्थितिश् चेतस अध्यात्मं स्मृतिवीर्यप्रतिष्ठितं ।
सुखोपपत्तये ऽभिज्ञाविहारवशवर्तकम्

16.26

धर्माणां प्रमुखं तेषु विद्यते त्रिविधश् च सः ।
ध्यानम् एवं परिज्ञाय पण्डितः समुदानयेत्

16.27

स्थितिश् चेतस अध्यात्मम् इति स्वभावः । स्मृतिवीर्यप्रतिष्ठितम् इति हेतुः । आलम्बनासंप्रमोषे सति वीर्यं निश्रित्य समापत्त्यभिनिर्हारात् । सुखोपपत्तये इति फलं ध्यानस्याव्याबाधोपपत्तिफलत्वात् । अभिज्ञाविहारवशवर्तकम् इति कर्म । ध्यानेनाभिज्ञावशवर्तनात् । आर्यदिव्यब्राह्मविहारवशवर्तनाच् च । धर्माणां प्रमुखम् इति प्रामुख्येन योगः । यथोक्तं । समाधिप्रमुखाः सर्वधर्मा इति । तेषु विद्यत इति ध्यायिष्व् इयम् आधारवृत्तिः । त्रिविधश् च स इति सवितर्कः सविचारः अवितर्को विचारमात्रः । अवितर्को अविचारः । पुनः प्रीतिसहगतः । सातसहगतः । उपेक्षासहगतश् च । इयं प्रभेदवृत्तिः । प्रज्ञाप्रभेदे द्वौ श्लोकौ ।
सम्यक्प्रविचयो ज्ञेयः शसमाधानप्रतिष्ठितः ।
सुविमोक्षाय संक्लेशात् प्रज्ञाजीवसुदेशनः

16.28

धर्माणाम् उत्तरस् तेषु विद्यते त्रिविधश् च सः ।
प्रज्ञाम् एवं परिज्ञाय पण्डितः समुदानयेत्

16.29

सम्यक् प्रविचयो ज्ञेय इति स्वभावः । सम्यग् इति न मिथ्या ज्ञेय इति लौकिककृत्यसम्यक्प्रविचयव्युदासार्थं । समाधानप्रतिष्ठित इति हेतुः । समाहितचित्तो यथाभूतं प्रजानाति । यस्मात् सुविमोक्षाय संक्लेशाद् इति फलं । तेन हि संक्लेशात् सुविमोक्षो भवति । लौकिकहीनलोकोत्तरमहालोकोत्तरेण प्रविचयेन । प्रज्ञाजीवसुदेशन इति प्रज्ञाजीवः सुदेशना चास्य कर्म । तेन ह्य् अनुत्तरप्रज्ञा जीवकानां जीवति । सम्यग् धर्म देशयतीति । धर्माणाम् उत्तर इत्य् उत्तरत्वेन योगः । यथोक्तं । प्रज्ञोत्तराः सर्वधर्मा इति । तेषु विद्यते त्रिविधश् च स इति वृत्तिः । प्राज्ञेषु वर्तनात् त्रिविधेन च प्रभेदेन । लौकिको हीनलोकोत्तरो ( म्स 107 ) महालोकोत्तरश् च । उक्तः प्रत्येकं दानादीनां षडर्थप्रभेदेन प्रभेदः । संग्रहविभागे श्लोकः ।
सर्वे शुक्ला धर्मा विक्षिप्तसमाहितोभया ज्ञेयाः ।
द्वाभ्यां द्वाभ्यां द्वाभ्यां पारमिताभ्यां परिगृहीताः

16.30

सर्वे शुक्ला धर्मा दानादिधर्माः । तत्र विक्षिप्ता द्वाभ्यां पारमिताभ्यां संगृहीताः प्रथमाभ्यां दानसमादानशीलयोर् असमाहितत्वात् । समाहिता द्वाभ्यां पश्चिमाभ्यां ध्यानयथाभूतप्रज्ञयोः समाहितत्वात् । उभये द्वाभ्यां क्षान्तिवीर्याभ्यां । तयोः समाहितासमाहितत्वात् । विपक्षविभागे श्लोकाः षट् ।
न च सक्तं न च सक्तं न च सक्तं सक्तम् एव न च दानं ।
न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम्

16.31

सप्तविधा सक्तिर् दानस्य विपक्षः । भोगसक्तिः विलम्बनशक्तिः तन्मात्रसंतुष्टिसक्तिः पक्षपातसक्तिः प्रतिकारसक्तिः विपाकसक्तिः । विपक्षसक्तिस्तु तद्विपक्षलाभानुशयासमुद्घातात् । विक्षेपसक्तिश् च । स पुनर् विक्षेपो द्विविधः । मनसिकारविक्षेपश् च हीनयानस्पृहणात् । विकल्पविक्षेपश् च दायकप्रतिग्राहकदानविकल्पनात् । अतः सप्तविधसक्तिमुक्तत्वात् सप्तकृत्वो दानस्यासक्तत्वम् उक्तं ।
न च सक्तं न च सक्तं न च सक्तं सक्तम् एव न च शीलं ।
न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम्

16.32

न च सक्ता न च सक्ता न च सक्ता सक्तिका न क्षान्तिः ।
न च सक्ता न च सक्ता न च सक्ता बोधिसत्वानाम्

16.33

न च सक्तं न च सक्तं न च सक्तं सक्तम् एव च न वीर्यं ।
न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम्

16.34

न च सक्तं न च सक्तं न च सक्तं सक्तम् एव न च ध्यानं ।
न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम्

16.35

न च सक्ता न च सक्ता न च सक्ता सक्तिका न च प्रज्ञा ।
न च सक्ता न च सक्त न च सक्ता बोधिसत्वानाम्

16.36

यथा दानासक्तिर् उक्ता एवं शीले यावत् प्रज्ञायां वेदितव्या । अत्र तु विशेषभोगसक्तिपरिवर्तेन दौःशील्याद्यासक्तिर् वेदितव्या विपक्षसक्तिस् तद्विपक्षानुशयासमुद्घातनात् । विकल्पविक्षेपश् च यथायोगं त्रिमण्डलपरिकल्पनात् । गुणविभागे त्रयोविंशतिः श्लोकाः ।
त्यक्तं बुद्धसुतैः स्वजीवितम् अपि प्राप्यार्थिनं सर्वदा कारुण्यात् परतो न च प्रतिकृतिर् नेष्टं फलं प्रार्थितं ।
दानेनैव च तेन सर्वजनता बोधित्रये रोपिता दानं ज्ञानपरिग्रहेण च पुनर् लोके ऽज्ञयं स्थापितम्

16.37

इति सुबोधः पदार्थः ।
आत्तं बुद्धसुतैर् यमोद्यममयं शीलत्रयं सर्वदा स्वर्गो नाभिमतः समेत्य च पुनः सक्तिर्न तत्राहिता ।
शीलेनैव च तेन सर्वजनता बोधित्रये रोपिता शीलं ज्ञानपरिग्रहेण च पुनर् लोके ऽक्षयं स्थापितम्

16.38

त्रिविधं शीलं । संवरशीलं । कुशलधर्मसंग्राहकशीलं । सत्वार्थक्रियाशीलं च । एकात्मकं यमस्वभावं । द्वे उद्यमस्वभावे ।
क्षान्तं बुद्धसुतैः सुदुष्करमथो सर्वापकारं नृणां न स्वर्गार्थम् असशक्तिमतो न च भयान् नैवोपकारेक्षणात् ।
क्षान्त्यानुत्तरया च सर्वजनता बोधित्रये रोपिता क्षान्तिर् ज्ञानपरिग्रहेण च पुनर् लोके ऽक्षया स्थापिता

16.39

इति । क्षान्त्यानुत्तरया चैति दुःखाधिवासनक्षान्त्या च परापकारमर्षणक्षान्त्या च यथाक्रमं ।
वीर्यं बुद्धसुतैः कृतं निरूपमं संनाहयोगात्मकं हन्तुं क्लेशगणं स्वतो ऽपि परतः प्राप्तुं च बोधिं परां ।
वीर्येणैव च तेन सर्वजनता बोधित्रये रोपिता वीर्यं ज्ञानपरिग्रहेण च पुनर् लोके ऽक्षयं स्थापितम्

16.40

इति । संनाहवीर्यं प्रयोगवीर्यं च ।
ध्यानं बुद्धसुतैः समाधिबहुलं संपादितं सर्वथा श्रेष्ठैर् ध्यानसुखैर् विहृत्य कृपया हीनापपत्तिः श्रिता ।
ध्यानेनैव च तेन सर्वजनता बोधित्रये रोपिता ध्यानं ज्ञानपरिग्रहेण च पुनर् लोके ऽक्षयं स्थापितम्

16.41

इति । समाधिंबहुलम् इति अनन्तबोधिसत्वसमाधिसंगृहीतं ।
ज्ञातं बुद्धसुतैः सतत्वम् अखिलं ज्ञेयं च यत् सर्वथा सक्तिर् नैव च निर्वृतौ प्रजनिता बुद्धैः कुतः संवृतौ ।
ज्ञानेनैव च तेन सर्वजनता बोधित्रये रोपिता ज्ञानं सत्वपरिग्रहेण पुनर् लोके ऽक्षयं स्थापितम्

16.42

इति । सतत्वं परमार्थसंगृहीतं सामान्यलक्षणं पुद्गलधर्मनैरात्म्यं । ज्ञेयं च यत् सर्वथेत्य् अनन्तस्वसंकेतादिलक्षणभेदभिन्नं यद् अज्ञेयं । दानादीनां निर्विकल्पज्ञानपरिग्रहेणाक्षयत्वं निरुपधिशेषनिर्वाणे ऽपि तदक्षयात् । ज्ञानस्य पुनः सत्वपरिग्रहेण करुणया सत्वानाम् अपरित्यागात् । एषां पुनः षणां श्लोकानां पिण्डार्थः सप्तमेन श्लोकेन निर्दिष्टः ।
औदार्यानामिषत्वं च महार्थाक्षयतापि च ।
दानादीनां समस् तं हि ज्ञेयं गुणचतुष्टयम्

16.43

इति । तत्र दानादीनां प्रथमेन पादेनोदारता परिदीपिता । द्वितीयेन निरामिषता । तृतीयेन महार्थताः महतः सत्वार्थस्य संपादनात् । चतुर्थेनाक्षयता इत्य् एषां गुणचतुष्टयम् एभिः श्लोकैर् वेदितव्यं ।
दर्शनपूरणतुष्टिं याचनके ऽतुष्टिम् अपि समाशस्तिं ।
अभिभवति स तां दाता कृपालुराधिक्ययोगेन

16.44

याचनके हि जने दायकदर्शनात् ततश् च यथा-ईप्सितं लब्ध्वा मनोरथपरिपूरणाद्या तुष्टिर् उत्पद्यते । अतुष्टिश् चादर्शनाद् अपरिपूरणाच् च । आशास्तिश् च या तद्दर्शने मनोरथपरिपूरणे च । सा बोधिसत्वस्याधिकोत्पद्यते ( म्स 110 ) सर्वकालं याचनकदर्शनात् तन्मनोरथपरिपूरणाच् च । अदर्शनाद् अपरिपूरणाच् चातुष्टिः । अतो दाता कृपालुस् तां सर्वम् अभिभवत्य् आधिक्ययोगात् ।
प्राणान् भोगान् दारान् सत्वेषु सदान्यत्यजनकृपालुत्वात् ।
आमोदते निकामं तद्विरतिं पालयात्र कथम्

16.45

तेभ्यो विरतिं तद्विरतिं परकीयेभ्यः प्राणभोगदारेभ्यः । एतेन त्रिविधात् कायदुश्चरिताद् विरतिशीलगुणं दर्शयति ।
निरपेक्षः समचित्तो निर्भीः सर्वप्रदः कृपाहेतोः ।
मिथ्यावादं ब्रूयात् परोपघाताय कथम् आर्यः

16.46

एतेन मृषावादाद् विरतिगुणं दर्शयति । आत्महेतोर् मृषावाद उच्येत कायजीवितापेक्षया । परहेतोर् वा प्रियजनप्रेम्ना । भयेन वा राजादिभयात् । आमिषकिंचित्कहेतोर् वा लाभार्थं । बोधिसत्वश् च स्वकायजीवितनिरपेक्षः । समचित्तश् च सर्वसत्वेष्व् आत्मसमचित्ततया । निर्भयश् च पञ्चभयसमतिक्रान्तत्वात् । सर्वप्रदश् चार्थिभ्यः सर्वस्वपरित्यागात् । स केन हेतुना मृषावादं ब्रूयात् ।
समहितकामः सकृपः परदुःखोत्पादने ऽतिभीरूश् च ।
सत्वविनये सुयुक्तेः सुविदूरे त्रिविधवाग्दोषात्

16.47

बोधिसत्वः सर्वसत्वेषु समं हितकामः स कथं परेषां मित्रभेदार्थं पैशुन्यं करिष्यतीति । सकृपश् च परदुःखापनयाभिप्रायात् । परदुःखोत्पादने चात्यर्थं भीरुः स कथं परेषां दुःखोत्पादनार्थं परुषं वक्ष्यति । सत्वानां विनये सम्यक्प्रयुक्तः स कथं संभिन्नप्रलापं करिष्यति तस्माद् असौ सुविदूरे त्रिविधवाग्दोषात् पैशुन्यात् पारुष्यात् संभिन्नप्रलापाच् च ।
सर्वप्रदः कृपालुः प्रतीत्यधर्मोदये सुकुशलश् च ।
अधिवासयेत् कथम् असौ सर्वाकारं मनः क्लेशम्

16.48

अभिध्या व्यापादो मिथ्यादृष्टिर् वा यथाक्रमं । एष दौःशील्यप्रतिपक्षधर्मविशेषयोगाच् छीलविशुद्धिगूणो बोधिसत्वानां वेदितव्यः ।
उपकरसंज्ञामोदं ह्य् अपकारिणिपरहित संज्ञांपरहिते सदा दुःखे ।
लभते यदा कृपालुः क्षमितव्यं तस्य किं न स्यात्

16.49

यस्य नापकारिसंज्ञा प्रवर्तते न दुःखसंज्ञा ।
परपरसंज्ञापगमात् स्वतो ऽधिकतरात् सदा परस्नेहात् ।
दुष्करचरणात् सकृपे ह्य् अदुष्करं वीर्यं

16.50

सकृपो बोधिसत्वः । तत्र सकृपे यत् परार्थं दुष्करचरणाद् वीर्थं तददुष्करं च सुदुष्करं च ।
कथम् अदुष्करं । परत्र परसंज्ञापगमात् । स्वतोऽधिकतराच् च सर्वदा परेषु स्नेहात् । कथं सुदुष्करं । यद् एवं परसंज्ञापगतं च स्वतोधिकतरस्नेहं च तद्वीर्यं ।
अल्पसुखं ह्य् आत्मसुखं लीनं परिहाणिकं क्षयि समोहं ।
ध्यानं मतं त्रयाणां विपर्ययाद् बोधिसत्वानाम्

16.51

अल्पसुखं ध्यानं लौकिकानाम् आत्मसुखं श्रावकप्रत्येकबुद्धानां । लीनं लौकिकानां सत्काये श्रावकप्रत्येकबुद्धानां च निर्वाणे । परिहाणिकं लौकिकानां क्षयि श्रावकप्रत्येकबुद्धानां निरुपधिशेषनिर्वाणे तत्क्षयात् । समोहं सर्वेषां यथायोगक्लिष्टाक्लिष्टेन मोहेन । बोधिसत्वानां पुनर् ध्यानं बहुसुखम् आत्मपरसुखम् अलीनमपरिहाणिकम् अक्षय्यसमोहं च ।
आमोषैस् तमसि यथा दीपैर् नुन्नं तथा त्रयज्ञानं ।
दिनकरकिरणौरिव तु ज्ञानमतुल्यं कृपालुनाम्

16.52

यथा हस्तामोषैस् तमसि ज्ञानं परीत्तविषयमप्रत्यक्षम् अव्यक्तं च तथा पृथग्जनानां । यथावचरके दीपैर्ज्ञानं प्रादेशिकं प्रत्यक्षं नातिनिर्मलं तथा श्रावकाणां प्रत्येकबुद्धानां च । यथा दिनकरकिरणैर् ज्ञानं समन्तात् प्रत्यक्षं सुनिर्मलं च तथा बोधिसत्वानां । अत एव तद् अतुल्यं ।
आश्रयाद् वस्तुतो दानं निमित्तात् परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परं मतम्

16.53

तत्राश्रयो बोधिसत्वः । वस्तु आमिषदानस्याध्यात्मिकं वस्तु परमं । अभ्यदानस्यापायसंसारभीतेभ्यस् तु ( म्स 112 ) तदभयं ।
धर्मदानस्य महायानं । निमित्तं करुणा । परिणामना तेन महाबोधिफलप्रार्थना । हेतुः पूर्वदानपारमिताभ्यासवासना । ज्ञानं निर्विकल्पं येन त्रिमण्डलपरिशुद्धं दानं ददाति दातृदेयप्रतिग्राहकाविकल्पनात् । क्षेत्रं पञ्चविधं । अर्थी दुःखितो निःप्रतिसरणो दुश्चरितचारी गुणवांश् च । चतुर्णाम् उत्तरं क्षेत्रं परं । तदभावे पञ्चमं । निश्रयस् त्रिविधो यं निश्रित्य ददाति । अधिमुक्तिर् मनसिकारः समाधिश् च । अधिमुक्तिर् यथा भावनाविभागे ऽधिमुक्तिमनस्कार उक्तः । मनस्कारो यथा तत्रैवास्वादनाभिनन्दनमनस्कार उक्तः । समाधिर् आदिर् यथा तत्रैव विभुत्वम् उक्तं । एवम् आश्रयादिपरसमयो दानं परमं । सोऽयं चापदेशो वेदितव्यः । यश् च ददाति यच् च येन च यस्मै च यतश् च यस्य च परिग्रहेण यत्र च यावत् प्रकारं तद् दानं ।
आश्रयाद् वस्तुतः शीलं निमित्तात् परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परं मतम्

16.54

आश्रयाद् वस्तुतो वीर्यं निमित्तात् परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परं मतम्

16.55

आश्रयाद् वस्तुतो ध्यानं निमित्तात् परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परं मतम्

16.56

आश्रयाद् वस्तुतः प्रज्ञा निमित्तात् परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च परा मता

16.57

शीलस्य परमं वस्तु बोधिसत्वसंवरः । क्षान्तेः प्राणापहारिणौ हीनदुर्बलौ । वीर्यस्य पारमिताभावना तद्विपक्षप्रहाणं च । धानस्य बोधिसत्वसमाधयः । प्रज्ञायास् तथता । सर्वेषां शीलादीनां क्षेत्रं महायानं । शेषं पूर्ववद् वेदितव्यं ।
एकसत्वसुखं दानं बहुकल्पविघातकृत् ।
प्रियं स्याद् बोधिसत्वानां प्राग् एव तद्विपर्ययात्

16.58

यदि बोधिसत्वानां दानम् एकस्यैव सत्वस्य सुखदं स्याद् आत्मनश् च बहुकल्पविघातकृत् । तथापि तत् तेषां प्रियं स्यात् करुणाविशेषात् किं पुनर् यद् अनेकसत्वसुखं च भवत्या त्मनश् च बहुकल्पानुग्रहकृत् ।
यद् अर्थम् इच्छन्ति धनानि देहिनस् तदेव धीरा विसृजन्ति देहिषु ।
शरीरहेतोर् धनम् इष्यते जनैस् तद् एव धीरैः शतशो विसृज्यते

16.59

अत्र पूर्वार्धम् उत्तरार्धे व्याख्यातं ।
शरीरम् एवोत्सृजतो न दुःख्यते यदा मनः का द्रविणे ऽवरे कथा ।
तदस्य लोकोत्तरम् इति यन् मुदं स तेन तत् तस्य तद् उत्तरं पुनः

16.60

अत्र शरीरम् एवाउत्सृजतो यदा मनो न दुःख्यते तदस्य लोकोत्तरम् इति संदर्शितं । एति यन् मुदं स तेन दुःखेन तत् तस्य तदुत्तरम् इति तस्माल् लोकोत्तराद् उत्तरं ।
प्रतिग्रहैर् इष्टनिकामलब्धर्न तुष्टिम् आयाति तथार्थिको ऽपि ।
सर्वस्तिदानेन यथेह धीमान् तुष्टिं व्रजत्य् अर्थिजनस्य तुष्ट्या

16.61

इष्टनिकाम् अलब्धैर् इत्य् अभिप्रेतपर्याप्तलब्धैः । सर्वास्तिदानेनेति यावत् स्वजीवितदानेन ।
संपूर्णभोगो न तथास्तिमन्तम् आत्मानम् अन्वीक्षति याचको ऽपि ।
सर्वस्तिदानाद् अधनो ऽपि धीमान् आत्मानम् अन्वेति यथास्तिमन्तं

16.62

सुविपुलम् अपि वित्तं प्राप्य नैवोपकारं विगणयति तथार्थी दायकाल् लाभहेतोः ।
विधिवद् इह सुदानैर् अर्थिनस् तर्पयित्वा महदुपकरसंज्ञां तेषु धीमान् यथैति

16.63

करुणाविशेषाद् । गतार्थो श्लोकौ ।
स्वयम् अपगतशोका देहिनः स्वस्थरूपा विपुलम् अपि गृहीत्वा भुञ्जते यस्य वित्तं ।
पथि परमफलाढ्याद् भोगवृक्षाद् यथैव प्रविसृतिर् अतिभोगी बोधिसत्वान् न सो ऽन्यः

16.64

प्रविसृतिर् अतिभोगश् चास्येति प्रविसृतिर् अतिभोगी स च नान्यो बोधिसत्वाद् वेदितव्यः । शेषं गतार्थं ।
प्राधान्यतत्कारणकर्मभेदात् प्रकारभेदाश्रयभेदतश् च ।
चतुर्विबन्धप्रतिपक्षभेदात् वीर्यं परिज्ञेयम् इति प्रदिष्टम्

16.65

षड्विधेन प्रभेदेन वीर्यं परिज्ञेयं । प्राधान्यभेदेन । तत्कारणभेदेन । प्रकारभेदेन । आश्रयभेदेन । चतुर्विबन्धप्रतिपक्षभेदेन च । अस्याद् देशस्योत्तरैः श्लोकैर् निर्देशः ।
वीर्यं परं शुक्लगणस्य मध्ये तन्निश्रितस् तस्य यतो ऽनुलाभः ।
वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगतां च सिद्धिः

16.66

वीर्यं परं शुक्लगणस्य मध्ये इति सर्वशुक्लगणस्य मध्ये इति सर्वकुशलधर्मप्राधान्यं वीर्यस्य निर्दिष्टं । तन्निश्रितस्तस्य यतो ऽनुलाभ इति प्राधान्यकारणं निर्दिष्टं । यस्माद् वीर्याश्रितः सर्वकुशलधर्मलाभः । वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगता च सिद्धिर् इति कर्म निर्दिष्टं । वीर्येण हि दृष्टधर्मे परमः सुखविहारः । सर्वा च लोकोत्तरा सिद्धिर् लौकिकी च क्रियते ।
वीर्यावद् अवाप्तं भवभोगम् इष्टं वीर्येण शुद्धिं प्रबलाम् उपेताः ।
वीर्येण सत्कायम् अतीत्य मुक्ता वीर्येण बोधिं परमां विबुद्धाः

16.67

इति । पर्यायद्वारेण वीर्यस्य कर्म निर्दिष्टं । लौकिकलोकोत्तरसिद्धिभेदात् । तत्र प्रबला लौकिकी सिद्धिर् अनात्यन्तिकत्वात् ।
पुनर् मतं हानिविवृद्धिवीर्यं मोक्षाधिपं पक्षविपक्षम् अन्यत् ।
तत्त्वे प्रविष्टं परिवर्तकं च वीर्यं महार्थं च निरुक्तम् अन्यत्

16.68

संनाहवीर्यं प्रथमं ततश् च प्रयोगवीर्यं विधिवत्प्रहितं ।
अलीनम् अक्षोभ्यम् अतुष्टिवीर्यं सर्वप्रकारं प्रवदन्ति बुद्धाः

16.69

इत्य् एष प्रकारभेदः । तत्र हानिविवृद्धिवीर्यं सम्यक्प्रहाणेषु च द्वयोः कुशलधर्माभिवृद्धये । मोक्षाधिपं वीर्यम् इन्द्रियेषु । मोक्षाधिपत्यार्थेन यस्माद् इन्द्रियाणि । पक्षविपक्षं बलेषु विपक्षानवमृद्यार्थेन यस्माद् बलानि । तत्वे प्रविष्टं बोध्यङ्गेषु दर्शनमार्गे तद्व्यवस्थापनात् । परिवर्तकं मार्गाङ्गेषु भावनामार्गे ऽन्तस्याश्रयपरिवृत्तिहेतुत्वात् । महार्थं वीर्यं पारमितास्वभावं स्वपरार्थाधिकारात् । संनाहवीर्यं प्रयोगाय संनह्यतः । प्रयोगवीर्यं तथा प्रयोगतः । अलीनवीर्यम् उदारे ऽप्यधिगन्तव्ये लयाभावतः । अक्षोभ्यवीर्यं शीतलोष्णादिभिर् दुःखैर् अविकोपनतः । असंतुष्टिवीर्यम् अल्पेनाधिगमेनासंतुष्टितः । एभिर् एव ( म्स 115 ) संनाहवीर्यादिभिः सूत्रे । स्थामवान् वीर्यवानुत्साही दृढपराक्रमो अनिक्षिप्तधुरः कुशलेषु धर्मेष्व् इत्य् उच्यते यथाक्रमं ।
निकृष्टमध्योत्तमवीर्यम् अन्यत् यानत्रये युक्तजनाश्रयेण ।
लीनात्युदाराशयबुद्धियोगात् वीर्यं तद् अल्पार्थमहार्थम् इष्टम्

16.70

अत्राश्रयप्रभेदेन वीर्यभेदो निर्दिष्टः । यानत्रये प्रयुक्तो यो जनस् तदाश्रयेण यथाक्रमं निकृष्टमध्योत्तमं वीर्यं वेदितव्यं । किं कारणं । लीनात्युदाराशयबुद्धियोगात् । लीनो हि बुद्ध्याशयो यानद्वये प्रयुक्तानां केवलात्मार्थाधिकारात् । अत्युदारो महायाने प्रयुक्तानां परार्थाधिकारात् । अत एव यथाक्रमं वीर्यं त दल्पार्थं महार्थम् इव स्वार्थाधिकाराच् च ।
न वीर्यवान् भोगपराजितो ऽस्ति नो वीर्यवान् क्लेशपराजितो ऽस्ति ।
न वीर्यवान् खेदपराजितो ऽस्ति नो वीर्यवान् प्राप्तिपराजितो ऽस्ति

16.71

इत्य् अयं चतुर्विबन्धप्रतिपक्षभेदः । चतुर्विधो दानादीनां विबन्धो येन दानादिषु न प्रवर्तते । भोगसक्तिस् तदाग्रहतः । क्लेशसक्तिस् तत्परिभोगाध्यवसानतः । खेदो दानादिषु प्रयोगाभियोगपरिखेदतः । प्राप्तिर् अल्पमात्रदानादिसंतुष्टितः । तत्प्रतिपक्षभेदेनैतच् चतुर्विधं वीर्यम् उक्तं । अन्योन्यविनिश्चयविभागे श्लोकः ।
अन्योन्यं संग्रहतः प्रभेदतो धर्मतो निमित्ताच् च ।
षण्णां पारमितानां विनिश्चयः सर्वथा ज्ञेयः

16.72

अन्योन्यसंग्रहतो विनिश्चयः । अभयप्रदानेन शीलक्षान्तिसंग्रहो यस्मात् ताभ्याम् अभयं ददाति । धर्मदानेन ध्यानप्रज्ञयोर् यस्मात् ताभ्यां धर्मं ददाति । उभाभ्यां वीर्यस्य यस्मात् तेनाभयं ददाति । कुशलधर्मसंग्राहकेण शीलेन सर्वेषां दानादीनां संग्रहः । एवं क्षान्त्यादिभिर् अन्योन्यसंग्रहो यथायोगं योज्यः । प्रभेदतो विनिश्चयः । दानं षड्विधं दानदानं शीलदानं यावत् प्रज्ञादानं । परसंतानेषु शीलादिनिवेशनात् । धर्मतो विनिश्चयः । ये सूत्रादयो येषु दानादिष्व् अर्थेषु संदृश्यन्ते । ये च दानादयो येषु सूत्रादिषु धर्मेषु संदृश्यन्ते । तेषां परस्परं संग्रहो वेदितव्यः । निमित्ततो विनिश्चयः । दानं शीलादीनां निमित्तं भवति । भोगनिरपेक्षस्य शीलादिषु प्रवृत्तेः । शीलम् अपि दानादीनां भिक्षुसंवरसमादानं सर्वस्वपरिग्रहत्यागाच् छीलप्रतिष्ठितस्य च क्षान्त्यादियोगात् । कुशलधर्मसंग्राहकशीलसमादानं च सर्वेषां दानादीनां निमित्तं । एवं ( म्स 116 ) क्षान्त्यादीनाम् अन्योन्यनिमित्तभावो यथा योज्यः । संग्रहवस्तुविभागे सप्त श्लोकाः । चत्वारि संग्रहवस्तूनि । दानं प्रियवादिता अर्थचर्या समानार्थता । तत्र ।
दानं समं प्रियाख्यानम् अर्थचर्या समार्थता ।
तद्देशना समादाय स्वानुवृत्तिभिर् इष्यते

16.73

दानं समम् इष्यते यथा पारमितासु प्रियाख्यानं तद्देशना । अर्थचर्या तत्समादापना । तच् छब्देन पारमितानां ग्रहणात् पारमितादेशना पारमितासमादापनेत्य् अर्थः । समानार्थता यत्र परं समादापयति तत्र स्वयम् अनुवृत्तिः । किम् अर्थं पुनर् एतानि चत्वारि संग्रहवस्तूनीष्यन्ते । एष हि परेषां ।
उपायो ऽनुग्रहकरो ग्राहको ऽथ प्रवर्तकः ।
तथानुवर्तको ज्ञेयश् चतुःसंग्रहवस्तुतः

16.74

दानम् अनुग्राहक उपायः । आमिषदानेन कायिकानुग्रहोत्पादनात् । प्रियवादिता ग्राहकः । अव्युत्पन्नसंदिग्धार्थग्राहणात् । अर्थचर्या प्रवर्तकः । कुशले प्रवर्तनात् । समानार्थता ऽनुवर्तकः । यथावादितथाकारिणं हि समादापकं विदित्वा यत्र कुशले तेन प्रवर्तिताः परे भवन्ति तद् अनुवर्तन्ते ।
आद्येन भाजनीभावो द्वितीयेनाधिमुच्यना ।
प्रतिपत्तिस् तृतीयेन चतुर्थेन विशोधना

16.75

आमिषदानेन भाजनीभवति धर्मस्य विधेयतापत्तेः । प्रियवादितया तं धर्मम् अधिमुच्यते तदर्थव्युत्पादनसंशयच्छेदनतः । अर्थचर्यया प्रतिपद्यते यथाधर्म । समानार्थतया तां प्रतिपत्तिं विशोधयति दीर्घकालानुष्ठानाद् । इदं संग्रहवस्तूनां कर्म ।
चतुः संग्रहवस्तुत्वं संग्रहद्वयतो मतं ।
आमिषेणापि धर्मेण धर्मेणालम्बनाद् अपि

16.76

यद् अप्य् अन्यत् संग्रहवस्तुद्वयम् उक्तं भगवता आमिषसंग्रहो धर्मसंग्रहश् च । ताभ्याम् एतान्य् एव ( म्स 117 ) चत्वारि संग्रहवस्तूनि संगृहीतानि । आमिषसंग्रहेण प्रथमे । धर्मसंग्रहेणावशिष्टानि । तानि पुनस् त्रिविधेन धर्मेण । आलम्बनधर्मेण प्रतिपत्तिधर्मेण तद्विशुद्धिधर्मेण च यथाक्रमं ।
हीनमध्योत्तमः प्रायो वन्ध्यो ऽवन्ध्यश् च संग्रहः ।
अबन्ध्यः सर्वथा चैव ज्ञेयो ह्य् आकारभेदतः

16.77

एष संग्रहस्य प्रकारभेदः । तत्र हीनमध्योत्तमः संग्रहो बोधिसत्वानां यानत्रयप्रयुक्तेषु वेदितव्यो यथाक्रमं । प्रायेण वन्ध्यो ऽधिमुक्तिचर्याभूमौ । प्रायेणाबन्ध्यो भूमिप्रविष्टानां । अवन्ध्यः सर्वथा अष्टम्यादिषु भूभिषु सत्वार्थस्यावश्यं संपादनात् ।
पर्षत्कर्षणप्रयुक्तैर् विधिर् एष समाश्रितः ।
सर्वार्थसिद्धौ सर्वेषां सुखोपायश् च शस्यते

16.78

ये केचित् पर्षत्कर्षणे प्रयुक्ताः सर्वैस् तैर् अयम् एवोपायः समाश्रितो यदुत चत्वारि संग्रहवस्तूनि । तथा हि सर्वार्थसिद्धये सर्वेषां सुखश् चैष उपायः प्रशस्यते बुद्धैः ।
संगृहीता ग्रहीष्यन्ते संगृह्यन्ते च ये ऽधुना ।
सर्वे त एवं तस्माच् च वर्त्म तत् सत्वपाचने

16.79

एतेन लोकत्रये ऽपि सर्वसत्वानां परिपाचने चतुर्णां संग्रहवस्तूनाम् एकायनमार्गत्वं दर्शयति । अन्यमार्गाभावात् ।
इति सततम् असक्तभोगबुद्धिः शमयमनोद्यमपारगः स्थितात्मा ।
भवविषयनिमित्तनिर्विकल्पो भवति स सत्वगणस्य संगृहीता

मूल पाठ: Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa · Edition: Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907. · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc