भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार (टीका सहित) · अध्याय 15

15.1

निगमश्लोको गतार्थः ।
महायानसूत्रालंकारे अववादानुशासन्यधिकारश् चतुर्दशः
छपित्रे xव्
पञ्चदशो ऽधिकारः
उद्दानम् अधिमुक्तेर् बहुलता धर्मपर्येष्टिदेशने ।
प्रतिपत्तिस् तथा सम्यगववादानुशासनं

15.2

उपायसहितकर्मविभागे चत्वारः श्लोकाः ।
यथा प्रतिष्ठा वनदेहिपर्वतप्रवाहिनीनां पृथिवी समन्ततः ।
तथैव दानादिशुभस्य सर्वतो बुधेषु कर्म त्रिविधं निरुच्यते

15.3

अनेन श्लोकेन समुत्थानोपायं दर्शयति । सर्वप्रकारस्य दानादिशुभस्य पारमिताबोधिपक्षादिकस्य कर्मत्रयसमुत्थितत्वात् । बुधेष्व् इति बोधिसत्वेषु । वनादिग्रहणम् उपभोज्यास्थिरस्थिरवस्तुनिदर्शनार्थं ।
सुदुष्करैः कर्मभिरुद्यतात्मानां विचित्ररूपैर् बहुकल्पनिर्गतैः ।
न कायवाक्चित्तमयस्य कर्मणो जिनात्मजानां भवतीह संनतिः

15.4

यथा विषाच् छस्त्रमहाशनाद् रिपोर् निवारयेद् आत्महितः स्वम् आश्रयं ।
निहीनयानाद् विविधाज् जिनात्मजो निवारयेत् कर्म तथा त्रयात्मकं

15.5

आभ्यां श्लोकाभ्यां व्युत्थानोपायं दर्शयति । महायानखेदान्ययानपातव्युत्थानाद् यथाक्रमं । संनतिः खेद इत्य् अर्थः । विषादिसाधर्म्यं हीनयानप्रतिसंयुक्तस्य कर्मणो हीनयानचित्तपरिणामनात् महायाने कुशलमूलसमुच्छेदनात् अनुत्पन्नकुशलमूलानुत्पादाय । उत्पन्नकुशलमूलस्य ध्वंसनात् । बुद्धत्वसंपत्प्राप्तिविबन्धनाच् च ।
न कर्मिणः कर्म न कर्मणः क्रियां सदाविकल्पः समुदीक्षते त्रिधा ।
ततो ऽस्य तत्कर्म विशुद्धिपारगं भवत्य् अनन्तं तदुपायसंग्रहात्

मूल पाठ: Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa · Edition: Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907. · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc