भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार (टीका सहित) · अध्याय 17

17.1

एतेन यथोक्तासु षट्सु पारमितासु स्थितस्य बोधिसत्वस्य संग्रहवस्तुप्रयोग दर्शयति स्वपरार्थसंपादनात् पारमिताभिः संग्रहवस्तुभिश् च यथाक्रमं ।
महायानसूत्रालंकारे पारमिताधिकारः षोडशः समाप्तः
छपित्रे xविइ
सप्तदशो ऽधिकारः
बुद्धपूजाविभागे सप्त श्लोकाः ।
संमुखं विमुखं पूजा बुद्धानां चीवरादिभिः ।
गाढप्रसन्नचित्तस्य संभारद्वयपूरये

17.2

अबन्ध्यबुद्धजन्मत्वे प्रणिधानवतः सतः ।
त्रयस्यानुपलम्भस् तु निष्पन्ना बुद्धपूजा

17.3

सत्वानाम् अप्रमेयानां परिपाकाय चापरा ।
उपधेश् चित्ततश् चान्या अधिमुक्तेर् निधानतः

17.4

अनुकम्पाक्षमाभ्यां च समुदाचारतो ऽपरा ।
वस्त्वाभोगावबोधाच् च विमुक्तेश् च तथात्वतः

17.5

इत्य् एभिश् चतुर्भिः श्लोकैः ।
आश्रयाद् वस्तुतः पूजा निमित्तात् परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च प्रदर्शिता

17.6

वेदितव्या । तत्राश्रयः समक्षपरोक्षा बुद्धाः । वस्तु चीवरादयः । निमित्तं प्रगाढप्रसादसहगतं चित्तं । परिणामना उत्पादः स्याद् इति पूर्वप्रणिधानं । ज्ञानं निर्विकल्पं पूजकपूज्यपूजानुपलम्भतः । क्षेत्रम् अप्रमेयाः सत्वाः । तत्परिपाचनाय तैस् तत्प्रयोजतात् तेषु तद्रोपणतः । निश्रय उपधिश्रितं च । तत्रोपधिं निश्रित्य पूजा चीवरादिभिश् चित्तं निश्रित्यास्वादनानुमोदनाभिनन्दनमनस्कारैः । तथोक्तैश् चाधिमुक्त्यादिभिर् यद् उत महायानधर्माधिमुक्तः बोधिचित्तोत्पादतः । प्रणिधानम् एव हि निधानम् अत्रोक्तं श्लोकवत्त्वानुरोधात् । सत्वानुकम्पनतः । दुष्करचर्या दुःखक्षमणतः । पारमितासमुदाचारतः । योनिशो धर्ममनसिकारतः । स ह्य् अविपर्ययस्तत्वाद् वस्त्वाभोगः । सम्यग्दृष्टितो दर्शनमार्गे । स हि यथाभूतावबोधाद् वस्त्ववबोधः । विमुक्तितः क्लेशविमोक्षाच् छ्रावकाणां । तथा त्व् अतो महाबोधिप्राप्तेर् इत्य् अयं पूजायाः प्रकारभेदः ।
हेतुतः फलतश् चैव आत्मना च परैर् अपि ।
लाभसत्कारतश् चैव प्रतिपत्तेर् द्विधा च सा

17.7

परीत्ता महती पूजा समानामानिका च सा ।
प्रयोगाद् गतितश् चैव प्रणिधानाच् च सा मता

17.8

इत्य् अयम् अर्थादिभेदेनापरः प्रकारभेदः ।
तत्रातीता हेतुः प्रत्युत्पन्ना फलं प्रत्युत्पन्ना हेतुर् अनागता फलम् इत्य् एवं हेतुफलतो ऽतीतानागतप्रत्युत्पन्ना वेदितव्या । आत्मनेत्य् आध्यात्मिकी परैर् इति बाह्या । लाभसत्कारतो औदारिकी । प्रतिपत्तितः सूक्ष्मा । परीत्ता हीना महती प्रणीता । पुनः समाना हीना निर्माना प्रणीता त्रिमण्डलाविकल्पनात् । कालान्तरप्रयोज्या दूरे । तत्कालप्रयोज्यान्तिके । पुनर् विच्छिन्नायां गतौ दूरे । समनन्तरायाम् अन्तिके । पुनर् यां पूजाम् आयत्यां प्रयोजयितुं प्रणिदधाति सा दूरे यां प्रणिहितः कर्तुं सान्तिके । कतमा पुनर् बुद्धपूजा परमा वेदितव्येत्य् आह ।
बुद्धेषु पूजा परमा स्वचित्तात् धर्माधिमुक्त्याशयतो विभुत्वात् ।
अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश् च

17.9

इत्य् एभिः पञ्चभिर् आकारैः स्वचित्तपूजा बुद्धेषु परमा वेदितव्या । यद् उत पूजोपसंहितमहायानधर्माधिमुक्तितः । आशयतो नवभिर् आशयैः । आस्वादनानुमोदनाभिनन्दनाशयैः । अतृप्तविपुलम् उदितोपकरनिर्लेपकल्याणाशयैश् च ये पारमिताभावनायां निर्दिष्टाः । विभुत्वतो गगनगञ्जादिसमाधिभिः । निर्विकल्पज्ञानोपायपरिग्रहतः । सर्वमहाबोधिसत्वैककार्यत्वप्रवेशतश् च मिश्रोपमिश्रकार्यत्वात् । कल्याणमित्रसेवाविभागे सप्त श्लोकाः । तत्रार्धपञ्चमैः श्लोकैः ।
आश्रयाद् वस्तुतः सेवा निमित्तात् परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रान् निश्रयाच् च प्रदर्शिता

17.10

मित्रं श्रयेद् दान्तशमोपशान्तं गुणाधिकं सोद्यमम् आगमाढ्यं ।
प्रबुद्धतत्वं वचस् आभ्युपेतं कृपात्मकं खेदविवर्जितं च

17.11

इत्य् एवं गुणमित्रं सेवाया आश्रयः । दान्तं शीलयोगाद् इन्द्रियदमेन । शान्तं समाधियोगाद् अध्यात्मं चेतःशमथेन । उपशान्तं प्रयोगाद् उपस्थितक्लेशोपशमनतः । गुणैर् अधिकं न समं वा न्यूनं वा । सोद्यमं नोदासीनं परार्थे । आगमाढ्यं ( म्स 120 ) नाल्पश्रुतं । प्रबुद्धतत्वं तत्वाधिगमात् । वचसाभ्युपेतं वाक्करणेनोपेतं । कृपात्मकं निरामिषचित्तत्वात् । खेदविवर्जितं सातत्यसत्कृत्यधर्मदेशनात् ।
सत्कारलाभैः परिचर्यया च सेवेत मित्रं प्रतिपत्तितश् च ।
इति । सेवायास् तु ।
17.11च्-द्
धर्मे तथाज्ञाशय एव धीमान् मित्रं प्रगच्छेत् समये नतश् च

17.12

इति त्रिविधं निमित्तं । आज्ञातुकामता । कालज्ञता । निर्मानता च ।
सत्कारलाभेषु गतस्पृहो ऽसौ प्रपत्तये तं परिणामयेच् च ।
इति परिणामना प्रतिपत्त्यर्थं सेवनान् न लाभसत्कारार्थं ।
यथानुशिष्टप्रतिपत्तितश् च संराधयेच् चित्तम् अतो ऽस्य धीरः

17.13

इति । यथानुशिष्टप्रतिपत्तिः सेवाहेतुः । तया तच्चित्ताराधनात् ।
यानत्रये कौशलम् एत्य बुद्ध्या स्वस्यैव यानस्य यतेत सिद्धौ ।
इति यानत्रयकौशलात् ज्ञानं ।
सत्वान् अमेयान् परिपाचनाय क्षेत्रस्य शुद्धस्य च साधनाय

17.14

इति द्विविधं क्षेत्रं तत्सेवायाः । अप्रमेयाश् च सत्वाः परिशुद्धं च बुद्धक्षेत्रं । धर्मं श्रुत्वा येषु प्रतिष्ठापनात् । यत्र च स्थितेन ।
धर्मेषु दायाद् अगुणेन युक्तो नैवामिषेण प्रवेसत् स मित्रम् ।
इति निश्रयः सेवायाः । धर्मदायादतां निश्रित्य कल्याणमित्रं सेवेत । नामिषदायादतां ।
अत ऊर्ध्वमध्यर्धेन श्लोकेन प्रकारभेदः सेवाया वेदितव्यः ।
हेतोः फलाद् धर्ममुखानुयानात् सेवेत मित्रं बहितश् च धीमान्

17.15

श्रुतश्रवाच् चेतसि योगतश् च समाननिर्मानमनो ऽनुयोगात् ।
हेतोः फलाद् इत्य् अतीतादिभेदतः पूर्ववत् धर्ममुखानुयानात् सेवेत मित्रं ( म्स 121 ) बहितश् च धीमान् इत्य् आध्यात्मिकबाह्यभेदः । धर्ममुखस्रोतो हि धर्ममुखानुयानं बहिर्धा बहितः श्रुतश्रवाच् चेतसि योगतश् चेत्य् औदारिकसूक्ष्मभेदः । श्रवणं ह्य् औदारिकं चिन्तनभावनं सूक्ष्मं । तद् एव चेतसि योगः । समाननिर्मानमनोऽनुयोगाद् इति हीनप्रणीतभेदः ।
गतिप्रयोगप्रणिधानतश् च कल्याणमित्रं हि भजेत् धीमान्

17.16

इति दूरान्तिकभेदः पुर्ववद् योजयितव्यः ।
कतमा पुनः परमा सेवेति सप्तमः श्लोकः ।
सन्मित्रसेवा परमा स्वचित्ताद् धर्माधिमुक्त्याशयतो विभुत्वैः ।
अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश् च

17.17

इति पूर्ववत् । अप्रमाणविभागे द्वादश श्लोकाः ।
ब्राह्मा विपक्षहीना ज्ञानेन गताश् च निर्विकल्पेन ।
त्रिविधालम्बनवृत्ताः सत्वानां पाचका धीरे

17.18

ब्राह्म्या विहाराश् चत्वार्य् अप्रमाणानि । मैत्री करुणा मुदितोपेक्षा च । ते पुनर् बोधिसत्वे चतुर्लक्षणा वेदितव्याः । विपक्षहानितः । प्रतिपक्षविशेषयोगतः । वृत्तिविशेषतस् त्रिविधालम्बनवृत्तित्वात् । तथा हि ते सत्वालम्बना धर्मालम्बनाश्च । कर्मविशेषतश् च । सत्वपरिपाचकत्वात् । सत्वधर्मालम्बनात् । पुनः कतमस्मिन् सत्वनिकाये धर्मे वा प्रवर्तन्ते । अनालम्बनाश् च कतमस्मिन्न् आलम्बने ।
सौख्यार्थिनि दुःखार्ते सुखिते क्लिष्टे च ते प्रवर्तन्ते ।
तद्देशिते च धर्मे तत् तथतायां च धीराणाम्

17.19

सत्वालम्बनाः सुखार्थिनि यावत् क्लिष्टे सत्वनिकाये प्रवर्तन्ते । तथा हि मैत्री सत्वेषु सुखसंयोगाकारा । करुणा दुःखवियोगाकारा । मुदिता सुखावियोगाकारा । उपेक्षासु वेदनासु तेषां सत्वानां निःक्लेशतोपसंहाराकारा । धर्मालम्बनास् तद्देशिते धर्मे । यत्र ते विहारा देशिताः । अनालम्बनास् तत्तथतायां । ते ह्य् अविकल्पत्वाद् अनालम्बना इवेत्य् अनालम्बनाः । अपि खलु ।
तस्याश् च तथतार्थत्वात् क्षान्तिलाभाद् विशुद्धितः ।
कर्मद्वयाद् अनालम्बा मैत्री क्लेशक्षयाद् अपि

17.20

एभिश् चतुर्भिः कारणैर् अनालम्बना मैत्री वेदितव्या । तथतालम्बनत्वात् । अनुत्पत्तिकधर्मक्षान्तिलाभेनाष्टम्यां भूमौ । धातुपुष्ट्या तद्विशुद्धितः । कर्मद्वयतश् च । या मैत्री निष्पन्देन कायकर्मणा संगृहीता । क्लेशक्षयतश् च । तथा हि क्लेश आलम्बनम् उक्तं । मनोमयानां ग्रन्थानां प्रहाणाद् उच्छिद्यते आलम्बनम् इति वचनात् ।
ते निश्चलाश् च चलाश् च कृपणैर् आस्वादिता न च ज्ञेयाः ।
ते च ब्राह्म्या विहाराश् चतुर्विधा वेदितव्याः । तत्र चला हानभागीयाः परिहाणीयत्वात् । अचलाः स्थितिविशेषभागीया अपरिहाणीयत्वात् । आस्वादिताः क्लिष्टाः अनास्वादिता अक्लिष्टाः । कृपणैर् इति सुखलोलैर् अनुदारचित्तैः । एष ब्राह्म्यविहाराणां हानभागीयादिप्रकारमेदः । तेषु पुनः ।
अचलेषु बोधिसत्वाः प्रतिष्ठिताः सक्तिविगतेषु

17.21

न चलेषु नाप्य् आस्वादितेषु ।
असमाहितस्वभावा मृदुमध्या हीनभूमिका ये ऽपि ।
हीनाशयाः समाना हीनास् ते ह्य् अन्यथा त्व् अधिकाः

17.22

एष मृद्वधिमात्रताभेदः । तत्र षड्विधा मृदुका असमाहितस्वभावाः । सर्वे समाहिता अपि । ये मृदुमध्याः । हीनभूमिका ये ऽपि उत्तरां बोधिसत्वभूमिम् अपेक्ष्य । हीनाशया अपि । श्रावकादीनां समाना अपि । ये ऽनुत्पत्तिकधर्मक्षान्तिरहिता हीनास् ते मृदुका इत्य् अर्थः । अन्यथा त्व् अधिका इति यथोक्तविपर्ययेणाधिमात्रता वेदितव्या ।
ब्राह्म्यैर् विहृतविहारः कामिषु संजायते यदा धीमान् ।
संभारान् पूरयते सत्वांश् च विपाचयति तेन

17.23

सर्वत्र चाविरहितो ब्राह्म्यै रहितश् च तद्विपक्षेण ।
तत्प्रत्ययैर् अपि भृशैर् न याति विकृतिं प्रमत्तो ऽपि

17.24

हेतुफललिङ्गभेदः । तत्र ब्राह्म्यैर् विहृतो विहारैर् इति हेतुः । कामिषु सत्वेषु ( म्स 123 ) संजायत इति विपाकफलं । संभारान् पूरयत्य् अधिपतिफलं । सत्वान् परिपाचयतीति पुरुषकारफलं । सर्वत्र चाविरहितो ब्राह्म्यैर् विहारैर् जायत इति निष्पन्दफलं । रहितश् च तद्विपक्षेणेति विसंयोगफलं भृशैर् अपि तत्प्रत्ययैर् अविकृतिगमनं लिङ्गं । प्रमत्तो ऽपीत्य् असंमुखीभूते ऽपि प्रतिपक्षे । अन्यैश् चतुर्भिः श्लोकैर् गुणदोषभेदः ।
व्यापादविहिंसाभ्याम् अरतिव्यापादकामरागैश् च ।
युक्तो हि बोधिसत्वो बहुविधम् आदीनवं स्पृशति

17.25

इति दोषः । ब्राह्म्यविहारभावे तद्विपक्षयोगात् । तत्र व्यापादादयो मैत्र्यादीनां यथाक्रमं विपक्षाः । व्यापादकामरागाव् उपेक्षायाः । कथं बहुविधादीनवं स्पृशतीत्य् आह ।
क्लेशैर् हन्त्यात्मानं सत्वान् उपहन्ति शीलम् उपहन्ति ।
सविलेखलाभहीनो रक्षाहीनस् तथा शास्त्रा

17.26

साधिकरणो ऽशयस्वी परत्र संजायते ऽक्षणेषु स च ।
प्राप्ताप्राप्तविहीनो मनसि महद् दुःखम् आप्नोति

17.27

तत्र प्रथमैस् त्रिभिः पदैर् आत्मव्याबाधाय चेतयते परव्याबाधायोभयव्याबाधायेत्य् एतम् आदीनवं दर्शयति । सविलेखादिभिः षड्भिः पदैर् दृष्टधार्मिकम् अवद्यं प्रसवतीति दर्शयति । कथं च प्रसवति । आत्मास्यापवदते । परे ऽपि देवता अपि । शास्ताप्यन्ये ऽपि विज्ञाः सब्रह्मचारिणो धर्मतया विगर्हन्ते । दिग्विदिक्षु चास्य पापको ऽवर्णशब्दश्लोको निश्चरतीत्य् एवं सविलेखो यावद् अयशस् वीत्य् अनेन यथाक्रमं दर्शयति । शेषैस् त्रिभिः पदैर् यथाक्रमं सांपरायिकं दृष्टधर्मसांपरायिकम् अवद्यं प्रसवति । तज्जं चैतसिकं दुःखदौर्मनस्यं प्रतिसंवेदयत इत्य् एतद् आदीनवं दर्शयति ।
एते सर्वे दोषा मैत्र्यादिषु सुस्थितस्य न भवन्ति ।
अक्लिष्टः संसारं सत्वार्थं नो च संत्यजति

17.28

इति । ब्राह्मविहारयोगे त्रिविधं गुणं दर्शयति । यथोक्तदोषाभावं अक्लिष्टस्य सत्वहेतोः संसारापरित्यागं ।
न तथैकपुत्रकेष्व् अपि गुणवत्स्व् अपि भवति सर्वसत्वानां ।
मैत्र्यादिचेतनेयं सत्वेषु यथा जिनसुतानां

17.29

इत्य् एते च बोधिसत्वमैत्रादीनां तीव्रतां दर्शयति । करुणाविभागे तदालम्बनप्रभेदम् आरभ्य द्वौ श्लोकौ ।
प्रदीप्तान् शत्रुवशगान् दुःखाक्रान्तांस् तमोवृतान् ।
दुर्गमार्गसमारूढान् महाबन्धनसंयुतान्

17.30

महाशनविषाक्रान्तलोलान् मार्गप्रनष्टकान् ।
उत्पथप्रस्थितान् सत्वान् दुर्बलान् करुणायते

17.31

तत्र प्रदीप्ताः कामरागेण कामसुखभक्ताः । शत्रुवशगा मारकृतान्तरायाः कुशले ऽप्रयुक्ताः दुःखाक्रान्ताः दुःखाभूता नरकादिषु । तमोवृता औरभ्रिकादयो दुश्चरितैकान्तिकाः । कर्मविपाकसंमूढत्वात् । दुर्गमार्गसमारूढा अपरिनिर्वाणधर्माणः संसारवर्त्मात्यन्तानुपच्छेदात् । महाबन्धनसंयुता अन्यतीर्थ्याः । मोक्षसंप्रस्थिता नानाकुदृष्टिगाढबन्धनबद्धत्वात् । महाशनविषाक्रान्तलोलाः समापत्तिसुखसक्ताः । तेषां हि तत् क्लिष्टं समापत्तिसुखं । यथा मृष्टम् अशनं विषाक्रान्तं । ततः प्रच्यावनात् । मार्गप्रणष्टका अभिमानिका मोक्षमार्गभ्रान्तत्वात् । उत्पथप्रस्थिता हीनयानप्रयुक्ता अनियताः । दुर्बला अपरिपूर्णसंभारा बोधिसत्वाः । इत्य् एते दशविधाः सत्वा बोधिसत्वकरुणाया आलम्बनं । पञ्चफलसंदर्शने करुणायाः श्लोकः ।
हेठापहं ह्य् उत्तमबोधिबीजं सुखावहं तायपकम् इष्टहेतुं ।
स्वभावदं धर्मम् उपाश्रितस्य बोधिर् न दूरे जिनात्मजस्य

17.32

ततः हेठापहत्वेन तद्विपक्षविहिंसाप्रहाणाद् विसंयोगफलं दर्शयति । उत्तमबोधिबीजत्वेनाधिपतिफलं । परात्मनोर् यथाक्रमं सुखावहतायकत्वेन पुरुषकारफलं । इष्टहेतुत्वेन विपाकफलं । स्वभावदत्वेन निष्पन्दफलम् आयत्यां विशिष्टकरुणाफलदानात् । एवं पञ्चविधां करुणाम् आश्रित्य बुद्धत्वम् अदूरे वेदितव्यं । अप्रतिष्ठितसंसारनिर्वाणत्वे श्लोकः ।
विज्ञाय संसारगतं समग्रं दुःखात्मकं चैव निरात्मकं च ।
नोद्वेगम् आयाति न चापि दोषैः प्रबाध्यते कारुणिको ऽग्रबुद्धिः

17.33

सर्वं संसारं यथाभूतं परिज्ञाय बोधिसत्वो नोद्वेगम् आयाति कारुणिकत्वात् । ( म्स 125 ) न दोषैर् बाध्यते ऽग्रबुद्धित्वात् । एवं निर्वाणे प्रतिष्ठितो भवति न संसारे यथाक्रमं । संसारपरिज्ञाने श्लोकः ।
दुःखात्मकं लोकम् अवेक्षमाणो दुःखायते वेत्ति च तद्यथावत् ।
तस्याभ्युपायं परिवर्जने च न खेदम् आयत्य् अपि वा कृपालुः

17.34

दुःखायत इति करुणायते । वेत्ति च तद् यथावद् इति दुःखं यथाभूतं तस्य च दुःखस्य परिवर्जने ऽभ्युपायं । वेत्ति येनास्य दुःखं निरुध्यते । एतेन जानन्न् अपि संसारदुःखं यथाभूतं तत्परित्यागोपायं च न खेदम् आपद्यते बोधिसत्वः करुणाविशेषाद् इति प्रदर्शयति । करुणाप्रभेदे द्वौ श्लोकौ ।
कृपा प्रकृत्या प्रतिसंख्यया च पूर्वं तदभ्यासविधानयोगात् ।
विपक्षहीना च विशुद्धिलाभात् चतुर्विधेयं करूणात्मकानां

17.35

सेयं यथाक्रमं गोत्रविशेषतः । गुणदोषपरीक्षणतः । जन्मान्तरपरिभावनतः । वैराग्यलाभतश् च वेदितव्या । तद्विपक्षविहिंसाप्रहाणे सति विशुद्धिलाभत इति वैराग्यलाभतः ।
न सा कृपा या न समा सदा वा नाध्याशयाद् वा प्रतिपत्तितो वा ।
वैराग्यतो नानुपलम्भतो वा न बोधिसत्वो ह्य् अकृपस् तथा यः

17.36

तत्र समा सुखितादिषु यत्किंचिद् वेदितम् इदम् अत्र दुःखस्येति विदित्वा । सदा निरुपधिशेषनिर्वाणे तदक्षयात् । अध्याशयाद् भूमिप्रविष्टानाम् आत्मपरसमताशयलाभात् । प्रतिपत्तितो दुःखपरित्राणक्रियया । वैराग्यतस् तद्विपक्षविहिंसाप्रहाणात् । अनुपलम्भतो ऽनुत्पत्तिकधर्मक्षान्तिलाभात् । करुणावृक्षप्रतिबिम्बके पञ्च श्लोकाः ।
करुणा क्षान्तिश् चिन्ता प्रणिधानं जन्मसत्वपरिपाकः ।
करुणा तरुर् एष महान् मूलादिः पुष्पपत्रफलः

17.37

इत्य् एष मूलस्कन्धशाखापत्रपुष्पफलावस्थः करुणावृक्षो वेदितव्यः । एतस्य करुणा मूलं । क्षान्तिः स्कन्धः । सत्वार्थचिन्ता शाखा । प्रणिधानं शोभनेषु जन्मसु पत्राणि । शोभनं जन्म पुष्पं । सत्वपरिपाकः फलं ।
मूलं करुणा न भवेद् दुष्करचर्यासहिष्णुता न भवेत् ।
दुःखाक्षमश् च धीमान् सत्वार्थं चिन्तयेन् नैव

17.38

चिन्ताविहीनबुद्धिः प्रणिधानं शुक्लजन्मसु न कुर्यात् ।
शुभजन्मान् अनुगच्छन् सत्वान् परिपाचयेन् नैव

17.39

आभ्यां श्लोकाभ्यां पूर्वोत्तरप्रसवसाधर्म्यात् करुणादीनां मूलादिभावं साधयति ।
करुणासेको मैत्री तद्दुःखे सौख्यतो विपुलपुष्टिः ।
शाखावृद्धिर् विशदा योनिमनस्कारतो ज्ञेया

17.40

पर्णत्यागादानं प्रणिधीनां संततेर् अनुच्छेदात् ।
द्विविधप्रत्ययसिद्धेः पुष्पमबन्ध्यं फलं चास्मात्

17.41

एताभ्यां श्लोकाभ्यां वृक्षमूलसेकादिसाधर्म्यं करुणावृक्षस्य दर्शयति । करुणा हि मूलवृक्षा । तस्याः सेको मैत्री तया तदाप्य् आयनात् । मैत्रिचित्तो हि परदुःखेन दुःखायते । ततश् च करुणोद्भवदुःखम् उत्पद्यते बोधिसत्वस्य स्वार्थप्रयुक्तस्य तत्र सौख्योत्पादाद् विपुलपुष्टिः क्षान्तिपुष्टिर् इत्य् अर्थः । सा हि स्कन्ध इत्य् उक्ता । स्कन्धश् च विपुलः । योनिशोमनस्काराद् बहुविधा महायाने शाखावृद्धिः । चिन्ता हि शाखेत्य् उक्ता । पूर्वापरनिरोधोत्पादक्रमेण प्रणिधानसंतानस्यानुच्छेदात् । पर्णत्यागादानसाधर्म्यं प्रणिधानानां वेदितव्यं । आध्यात्मिकप्रत्ययसिद्धितः स्वसंतानपरिपाकात् पुष्पम् इव जन्माबन्ध्यं वेदितव्यं । बाह्यप्रत्ययसिद्धितः परसंतानपरिपाकात् फलभूतः सत्वपरिपाको वेदितव्यः । करुणानुशंसे श्लोकः ।
कः कुर्वीत न करुणां सत्वेषु महाकृपागुणकरेषु ।
दुःखे ऽपि सौख्यम् अतुलं भवति यद् एषां कृपाजनितं

17.42

अत्र महाकरुणागुण उत्तरार्धेन संदर्शितः । शेषो गतार्थः । करुणानिःसङ्गतायां श्लोकाः ।
अविष्टानां कृपया न तिष्ठति मनः शमे कृपालूनां ।
कुत एव लोकसौख्ये स्वजीविते वा भवेत् स्नेहः

17.43

सर्वस्य हि लोकस्य लौकिके सौख्ये स्वजीविते च स्नेहः । तत्रापि च निःस्नेहानां श्रावकप्रत्येकबुद्धानां सर्वदुःखोपशमे निर्वाणे प्रतिष्ठितं मनः । बोधिसत्वानां ( म्स 127 ) तु करुणाविष्टत्वान् निर्वाणे ऽपि मनो न प्रतिष्ठितं । कुत एव तयोः स्नेहो भविष्यति । करुणास्नेहवैशेष्ये त्रयः श्लोकाः ।
स्नेहो न विद्यते ऽसौ यो ऽनिरवद्यो न लौकिको यश् च ।
धीमत्सु कृपास्नेहो निरवद्यो लोकसमतीतः

17.44

मातापितृप्रभृतीनां हि तृष्णामयः स्नेहः सावद्यः । लौकिककरुणाविहारिणां निरवद्यो ऽपि लौकिकः । बोधिसत्वानां तु करुणामयः स्नेहो निरवद्यश् च लौकिकातिक्रान्तश् च । कथं च पुनर् निरवद्य इत्य् आह ।
दुःखाज्ञानमहाउघे महान्धकारे च निश्रितं लोकं ।
उद्धर्तुं य उपायः कथम् इव न स्यात् स निरवद्यः

17.45

दुःखमहाउघ अज्ञानमहान्धकारे चेति योज्यं । शेषं गतार्थं । कथं लोकातिक्रान्त इत्याह ।
स्नेहो न सो ऽस्त्य् अरिहतां लोके प्रत्येकबोधिबुद्धानां ।
प्राग् एव तद् अन्येषां कथम् इव लोकोत्तरो न स्यात्

17.46

प्रत्येकां बोधिं बुद्धाः । शेषं गतार्थं । त्रासाभिनन्दननिमित्तत्वे श्लोकः ।
दुःखाभावे दुःखं यत्कृपया भवति बोधिसत्वानां ।
संत्रासयति तद् आदौ स्पृष्टं त्व् अभिनन्दयति गाढं

17.47

दुःखाभावे इति दुःखाभावो निमित्तं । सत्वेषु करुणया बोधिसत्वानां यद् दुःखम् उत्पद्यते तदादौ संत्रासयति अधिमुक्तिचर्याभूमौ । आत्मपरसमतया दुःखस्य यथाभूतम् अस्पृष्टत्वात् । स्पृष्टं तु शुद्धाध्याशयभूमाव् अभिनन्दयत्य् एवेत्य् अर्थः । करुणादुःखेन सुखाभिभवे श्लोकः ।
किम् अतः परमाश्चर्यं यद् दुःखं सौख्यम् अभिभवति सर्व ।
कृपया जनितं लौक्यं येन विमुक्तो अपि कृतार्थः

17.48

नास्त्य् अत आश्चर्यतरं यद् दुःखम् एव करुणाजनितं बोधिसत्वानां तथा सुखं ( म्स 128 ) भवति । यत् सर्वं लौकिकं सुखम् अभिभवति । येन सुखेन विमुक्ता अर्हन्तो ऽपि कृतार्थाः प्राग् एवान्ये । कृपाकृतदानानुशंसे श्लोकः ।
कृपया सहितं दानं यद् दानसुखं करोति धीराणां ।
त्रैधातुकम् उपभोगैर् न तत्सुखं तत्कलां स्पृशति

17.49

यच्च त्रैधातुकं सुखम् उपभोगैः कृतं न तत्सुखं तस्य सुखस्य कलां स्पृशतीत्य् अयम् उत्तरार्धस्यार्थः । शेषं गतार्थं । कृपया दुःखाभ्युपगमे श्लोकः ।
दुःखमयं संसारं यत्कृपया न त्यजति सत्वार्थं ।
परहितहेतोर् दुःखं किं कारूणिकैर् न समुपेतम्

17.50

सर्वं हि दुःखं संसारदुःखे ऽन्तर्भूतं । तस्याभ्युपगमात् सर्वं दुःखम् अभ्युपगतं भवति । तत्र तत्फलवृद्धौ श्लोकः ।
करूणा दानं भोगाः सदा कृपालोर् विवृद्धिम् उपयान्ति ।
स्नेहानुग्रहजनितं तच् छक्तिकृतं सुखं चास्मात्

17.51

त्रयं बोधिसत्वानां सर्वजन्मसु वर्धते करुणायोगात् । करुणा तदभ्यासात् । दानं करुणावशात् । भोगाश् च दानवशात् । तस्माच् च त्रयात् फलं त्रिविधं सुखं भवति । स्नेहजनितं करुणातः । सत्वानुग्रहजनितं दानात् । तदनुग्रहक्रियाशक्तिकृतं भोगेभ्यः । दानप्रोत्साहनायां श्लोकः ।
वर्धे च वर्धयामि च दाने परिपाचयामि सुखयामि ।
आकर्षामि नयामि च करुणासन्नान् प्रवदतीव

17.52

दाने सन्नान् इति संबन्धनीयं । षड्भिर् गुणैर् दाने ऽवसन्नान् बोधिसत्वान्करुणा प्रोत्सहयतीव । स्वभाववृद्ध्या । भोगैस् तद्वर्धनया । दानेन सत्वपरिपाचनया । दातुश् च सुखोत्पादनात् । महाबोधिसंभारस्यान्यस्याकर्षणात् । महाबोधिसमीपनयनाच् च । परसौख्येन सुखाभवे श्लोकः ।
दुःखे दुःखी कृपया सुखान्य् अनाधाय केन सुखितः स्यात् ।
सुखयत्य् आत्मानम् अतः कृपालुर् आधाय परसौख्यम्

17.53

करुणया बोधिसत्वः परदुःखैर् दुःखितः सत्वेष्व् अनाधाय सुखं कथं सुखितः ( म्स 129 ) स्यात् । तस्मात् परेषु सुखम् आधाय बोधिसत्व आत्मानम् एव सुखयतीति वेदितव्यं । कृपया दानसमनुशास्तौ षट् श्लोकाः ।
स्वं दानं कारुणिकः शास्तीव सदैव निःस्वसुखकामः ।
भोगैः सुखय परं वा माम प्य् अयुतसौख्यम्

17.54

न हि कारुणिकस्य विना परसुखेनास्ति सुखं । तस्यायुतसौख्यत्वाद् बोधिसत्वस् तेन विना नो दानस्य फलं सुखं नेच्छति ।
सफलं दानं दत्तं तन् मे सत्वेषु तत् सुखसुखेन ।
फल तेष्व् एव निकामं यदि मे कर्तव्यता ते ऽस्ति

17.55

दानं ददता दानं च दानफलं च तन्मया सत्वेषु दत्तं । तत्सुखम् एव मे सुखं यस्मात् । अतस् तेष्व् एव यावत् फलितव्यं तावत् फलेति लोट् । बोधिसत्वः करुणया दानम् अनुशास्ति ।
भोगे द्वेष्टुर् दातुर् भोगा बहुशुभतरोपसर्पन्ति ।
न हि तत्सुखं मतं मे दाने पारंपरो ऽस्मि यतः

17.56

भोगविमुखस्य दातुर् भोगा बहुतराश् चोपतिष्ठन्ते । शोभनतराश् च । धर्मतैवेयं चित्तस्योदारतरत्वात् । न हि तत्सुखं मतं मे यद् भोगास् तथोपतिष्ठते । यस्माद् अहं दाने पारंपरस् तत्प्रबन्धकामत्वान् न सुखे ।
सर्वस्तिपरित्यागे यत्कृपया मां निरीक्षसे सततं ।
ननु ते तेन ज्ञेयं न मत्फलेनार्थिता ऽस्येति

17.57

यो ऽहं दानफलं सर्वम् एव करुणया नित्यं परित्यजामि नन्व् अत एव वेदितव्यं नास्ति मे दानफलेनार्थित्वम् इति बोधिसत्वो दानं समनुशास्ति ।
दानाभिरतो न स्यां प्राप्तं चेत् तत्फलं न विसृजेयं ।
तथा हि ।
क्षणम् अपि दानेन विना दानाभिरतो भवति नैव

17.58

इति गतार्थः श्लोकः ।
अकृतं न फलसि यस्मात् प्रतिकारापेक्षया न मे तुल्यं ।
यस् त्वा करोति तस्य त्वं फलसि । तस्मात् त्वं प्रतिकारापेक्षया न मत्तुल्यं । तथा ह्य् अहं ।
प्रतिकारनिर्व्यपेक्षः परत्र फलदो ऽस्य कामं ते

17.59

गतार्थम् एतत् । कृपादाने द्वौ श्लोकौ ।
निरवद्यं शुद्धपदं हिताव् अहं चैव सानुरक्षं च ।
निर्मृग्यं निर्लेपं जिनात्मजानां कृपादानम्

17.60

तत्र निरवद्यं परम् अनुपहृत्य दानात् । शुद्धपदं कल्पिकवसुदानात् । विषशस्त्रमद्यादिविवर्जनतः । हितावहं दानेन संगृह्य कुशले नियोजनात् । सानुरक्षं परिजनस्याविघातं कृत्वा अन्यस्मै दानात् । निर्मृग्यम् अयाचमाने ऽप्य् अर्थित्वं विघातं वावगम्य स्वयम् एव दानात् दक्षिणीयापरिमार्गणाच् च । निर्लेपं प्रतिकारविपाकनिःस्पृहत्वात् । अपरः प्रकारः ।
सकलं विपुलं श्रेष्ठं सततं मुदितं निरामिषं शुद्धं ।
बोधिनतं कुशलनतं जिनात्मजानां कृषादानम्

17.61

तत्र सकलम् आध्यात्मिकबाह्यवस्तुदानात् । विपुलं प्रभूतवस्तुदानात् । श्रेष्ठं प्रणीतवस्तुदानात् । सततम् अभीक्ष्णदानात् । मुदितप्रतिसंख्याय प्रहृष्टदानात् । निरामिषं यथा निर्लेपं । शुद्धं यथा शुद्धपदं । बोधिनतं महाबोधिपरिणामनात् । कुशलनतं यथा हितावहं । उपभोगविशेषे श्लोकः ।
न तथोपभोगतुष्टिं लभते भोगी यथा परित्यागात् ।
तुष्टिम् उपैति कृपालुः सुखत्रयाप्यायितमनस्कः

17.62

तत्र सुखत्रयं दानप्रीतिः परानुग्रहप्रीतिः बोधिसंभारसंभरणप्रीतिश् च । शेषं गतार्थं । पारमिताभिनिर्हारकरुणायां श्लोकः ।
कृपणकृपा रौद्रकृपा संक्षुब्धकृपा कृपा प्रमत्तेषु ।
विषयपरतन्त्रकरुणा मिथ्याभिनिविष्टकरुणा च

17.63

तत्र कृपणा मत्सरिणः । रौद्रा दुःशीलाः परोपतानिः । संक्षुब्धाः ( म्स 131 ) क्रोधनाः । प्रमत्ताः कुशीदाः । विषयपरतन्त्राः कामेषु विक्षिप्तचित्ताः । मिथ्याभिनिविष्टाः दुःप्रज्ञाः तीर्थिकादयः । एषु पारमिताविपक्षधर्मावस्थितेषु या करुणा सा कृपणादिकरुणा । सा च तद्विपक्षविदूषणात् पारमिताभिनिर्हाराय संपद्यते । तस्मात् पारमिताभिनिर्हारकरुणेत्य् उच्यते । करुणाप्रत्ययसंदर्शने श्लोकः ।
करुणा बोधिसत्वानां सुखाद् दुःखात् तदन्वयात् ।
करुणा बोधिसत्वानां हेतोर् मित्रात् स्वभावतः

17.64

तत्र पूर्वार्धेनालम्बनप्रत्ययं करुणायाः संदर्शयति । त्रिविधां वेदनाम् आलम्ब्य तिसृभिर् दुःखताभिः करुणायनात् । अदुःखासुखा हि वेदना सुखदुःखयोर् अन्वयः पुनस् तदावाहनात् । उत्तरार्धेन यथाक्रमं हेतुमित्रस्वभावैः करुणाया हेत्वधिपतिसमनन्तरप्रत्ययान् संदर्शयति । महाकरुणत्वे श्लोकः ।
करुणा बोधिसत्वानां समा ज्ञेया तदाशयात् ।
प्रतिपत्तेर् विरागाच् च नोपलम्भाद् विशुद्धितः

17.65

तत्र समा त्रिविधवेदनावस्थेषु यत् किंचिद् वेदितम् इदम् अत्र दुःखस्येति विदित्वा । सा पुनर् आशयतो ऽपि चित्तेन करुणायनात् । प्रतिपत्तितो ऽपि तत्परित्राणात् । विरागतो ऽपि तद्विपक्षविहिंसाप्रहाणात् । अनुपलम्भतो ऽप्य् आत्मपरकरुणानुपलम्भात् । विशुद्धितो ऽप्य् अष्टम्यां भूमाव् अनुत्पत्तिकधर्मक्षान्तिलाभात् ।
मैत्रादिभावनाग्रा स्वचित्ततो धर्मतो ऽधिमोक्षाच् च ।
आशयतो ऽपि विभुत्वाद् अविकल्पाद् ऐक्यतश् चापि

17.66

इति । पूर्वनिर्देशानुसारेणार्थो ऽनुगन्तव्यः ।
इति भगवति जातसुप्रसादो महदुपधिध्रुवसत्क्रियाभिपूजी ।
बहुगुणहितमित्रनित्यसेवो जगदनुकम्पक एति सर्वसिद्धिं

मूल पाठ: Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa · Edition: Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907. · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc