भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार (टीका सहित) · अध्याय 14

14.1

इति निर्विकल्पेन धर्मनैरात्म्यज्ञानेन प्रतिपत्तुः प्रतिपत्तव्यस्य प्रतिपत्तेश् चाविकल्पना त्रिमण्डलपरिशुद्धिर् वेदितव्या । द्वयपरिपाचनशोधनेषु युक्त इति सत्वानाम् आत्मनश् च ।
महायानसूत्रालंकारे प्रतिपत्त्यधिकारस् त्रयोदशः
छपित्रे xइव्
चतुर्दशो ऽधिकारः
अववादानुशासनीविभागे श्लोका एकपञ्चाशत् ।
कल्पासंख्येयनिर्यातो ह्य् अधिमुक्तिं विवर्धयन् ।
संपूर्णः कुशलैर् धर्मैः सागरो वारिभिर्यथा

14.2

अधिमुक्तिं विवर्धयन्न् इत्य् अधिमात्रावस्थानयनात् । शेषं गतार्थः ।
तथा संभृतसंभारो ह्य् आदिशुद्धौ जिनात्मजः ।
सुविज्ञः कल्पचित्तश् च भावनायां प्रयुज्यते

14.3

आदिशुद्धो बोधिसत्वसंवरपरिशोधनान् महायाने दृष्टिऋज्जुकरणाच् चाविपरीतार्थग्रहणतः । सुविज्ञो बहुश्रुतत्वात् । कल्पचित्तो विनिवरणत्वात् ।
धर्मस्रोतसि बुद्धेभ्यो ऽववादं लभते तदा ।
विपुलं शमथज्ञानवैपुल्यगमनाय हि

14.4

श्लोको गतार्थः ।
ततः सूत्रादिके धर्मे सो ऽद्वयार्थविभावके ।
सूत्रादिनाम्नि बन्धीयाच् चित्तं प्रथमतो यतिः

14.5

ततः पदप्रभेदेषु विचरेद् अनुपूर्वशः ।
विचारयेत् तदर्थांश् च प्रत्यात्मयोनिशश् च सः

14.6

अवधृत्य च तान् अर्थान् धर्मे संकलयेत् पुनः ।
ततः कुर्यात् समाशस्तिं तदर्थाधिगमाय सः

14.7

सूत्रगेयादिके धर्मे यत्सूत्रादिनाम दशभूमिकम् इत्य् एवमादि तत्र चित्तं प्रथमतो बध्नीयात् । एभिस् त्रिभिः श्लोकैः षट् चित्तान्य् उपदिष्टानि । मूलचित्तम् अनुचरचित्तं विचारणाचित्तम् अवधारणाचित्तं संकलनचित्तम् आशास्तिचित्तं च । तत्र मूलचित्तं यत्सूत्रादीनां धर्माणां नामालम्बनं । अववादं श्रुत्वा स्वयं वा कल्पयित्वा । तद्यथा ऽनित्यं दुःखं शून्यम् अनात्म्यं च योनिशो न चेत्य् आदि । अनुचरचित्तं येन सूत्रादीनां नामत आलम्बितानां पदप्रभेदम् अनुगच्छति । विचारणाचित्तं येनार्थं व्यञ्जनं च विचारयति । तत्रार्थं चतुर्भिर् आकारैर् विचारयति गणनया तुलनया मीमांसया प्रत्यवेक्षणया च । तत्र गणना संग्रहणं तद्यथा रूपं दशायतनान्य् एकस्य च प्रदेशो वेदना षड् वेदनाकाया इत्य् एवम् आदि । तुलना संख्यावतो धर्मस्य शमलक्षग्रहणम् अनाध्यारोपान् अपवादतः । मीमांसा प्रमाणपरीक्षा । प्रत्यवेक्षणा । गणिततुलितमीमांसितस्यार्थस्यावलोकनं । व्यञ्जनं द्वाभ्याम् आकाराभ्यां विचारयति । सार्थतथा च समस्तानां व्यञ्जनानां निरर्थतया च व्यस्तानां । अवधारणाचित्तं येन यथानुचरितं विचारितं वा तन्निमित्तम् अवधारयति । संकलनचित्तं तद्यथा विचारितम् अर्थं मूलचित्ते संक्षिप्य परिपिण्डिताकारं वर्तते । आशास्तिचित्तं यदर्थं प्रयुक्तो भवति समा तत्परिपूर्यर्थं वा श्रामण्यफलार्थं वा भूमिप्रवेशार्थं वा विशेषगमनार्थं वा तच्छन्दसहगतं वर्तते । चित्तम् एव ह्य् आलम्बनप्रतिभासं वर्तते न चित्ताद् अन्यद् आलम्बनम् अस्तीति जानतो वा चित्तमात्रम् अजानतो वा चित्तम् एवालम्बनं नान्यत् । इति षड्विधं चित्तम् आलम्बनं व्यवस्थाप्यते ।
एषेत प्रत्यवेक्षेत मनोजल्पैः प्रबन्धतः ।
निर्जल्पैकरसैश् चापि मनस्कारैर् विचारयेत्

14.8

ज्ञेयः शमथमार्गो ऽस्य धर्मनाम च पिण्डितं ।
ज्ञेयो विपश्यनामार्गस् तदर्थानां विचारणा

14.9

युगनद्धश् च विज्ञेयो मार्गस् तत्पिण्डितं पुनः ।
लीनं चित्तस्य गृह्णीयाद् उद्धतं शमयेत् पुनः

14.10

शमप्राप्तम् उपेक्षेत तस्मिन्न् आलम्बने पुनः ।
सातत्येनाथ सत्कृत्य सर्वस्मिन् योजयेत् पुनः

14.11

एभिश् चतुर्भिः श्लोकैर् एकादश मनस्कारा उपदिष्टाः । सवितर्कः सविचारः । अवितर्को विचारमात्रः । अवितर्को ऽविचारः । शमथमनस्कारः । विपश्यनामनस्कारः । ( म्स 92 ) युगनद्धमनस्कारः । शमथनिमित्तमनस्कारः । उपेक्षानिमित्तमनस्कारः । सातत्यमनस्कारः । सत्कृत्यमनस्कारश् च ।
निबध्यालम्बने चित्तं तत्प्रवेधं न विक्षिपेत् ।
अवगम्याशु विक्षेपं तस्मिन् प्रतिहरेत् पुनः

14.12

प्रत्यात्मं संक्षिपेच् चित्तम् उपर्य् उपरि बुद्धिमान् ।
ततश् च रमयेच् चित्तं समाधौ गुणदर्शनात्

14.13

अरतिं शमयेत् तस्मिन् विक्षेपदोषदर्शनात् ।
अभिध्या दौर्मनस्यादीन् व्युत्थितान् शमयेत् तथा

14.14

ततश् च साभिसंस्कारां चित्ते स्वरसवाहितां ।
लभेतानभिसंस्कारान्रां तदभ्यासात् पुनर् यतिः

14.15

एभिश् चतुर्भिः श्लोकैर् नवाकारया चित्तस्थित्या स्थित्युपाय उपदिष्टः । चित्तं स्थापयति संस्थापयति अवस्थापयति उपस्थापयति दमयति शमयति व्युपशमयत्य् एकोतीकरोति चित्तं समादधातीति नवाकाराः ।
ततः स तनुकां लब्ध्वा प्रश्रब्धिं कायचेतसोः ।
विज्ञेयः समनस्कारः पुनस् तान्स् तां स विवर्धयन्

14.16

वृद्धिदूरंगमत्वेन मौली स लभते स्थितिं ।
तां शोधयन्न् अभिज्ञार्थम् एति कर्मण्यतां परां

14.17

ध्याने ऽभिज्ञाभिनिर्हाराल् लोकधातून् स गच्छति ।
पूजार्थम् अप्रमेयाणां बुद्धायां श्रवणाय च

14.18

अप्रमेयान् उपास्यासौ बुद्धान् कल्पैर् अमेयगैः ।
कर्मण्यतां पराम् एति चेतसस् तदुपासनात्

14.19

एति कर्मण्यतां परां ध्याने इति संबन्धनीयं । कल्पैर् अमेयगैर् इत्य् अप्रमेयसंख्यागतैः । शेषम् एषां श्लोकानां गतार्थं ।
ततो ऽनुशंसान् लभते पञ्च शुद्धैः स पूर्वगान् ।
विशुद्धिभाजनत्वं च ततो याति निरुत्तरं

14.20

कृत्स्नादौ स्वल्पदौष्ठुल्य कायो हि द्रवते ऽस्य प्रतिक्षणं ।
आपूर्यते च प्रश्रब्ध्या कायचित्तं समन्ततः

14.21

अपरिच्छिन्नम् आभासं धर्माणां वेत्ति सर्वतः ।
अकल्पितानि संशुद्धौ निमित्तानि प्रपश्यति

14.22

प्रपूरौ च विशुद्धौ च धर्मकायस्य सर्वथा ।
करोति सततं धीमान् एवं हेतुपरिग्रहं

14.23

ततः शुद्धेः पूर्वंगमान् पञ्चानुशंसान् लभते । शुद्धेर् इति शुद्ध्याशयभूमेः । तेषां च लाभाद्विशुद्धिभाजनत्वं प्राप्नोति । निरुत्तरं यानानन्तर्यात् । प्रपूरौ च विशुद्धौ च धर्मकायस्येति दशम्यां भूमौ परिपूरि र्बुद्धभूमौ विशुद्धिः । एतेषां पञ्चानाम् अनुशंसानां त्रयः शमथपक्षा द्वौ विपश्यनापक्षौ वेदितव्यौ । अतो यावल् लौकिकः समुदागमः ।
ततश् चासौ तथाभूतो बोधिसत्वः समाहितः ।
मनोजल्पाद् विनिर्मुक्तान् सर्वार्थान् न प्रपश्यति

14.24

धर्मलोकस्य वृद्ध्यर्थं वीर्यम् आरभते दृढं ।
धर्मालोकविवृध्द्या च चित्तमात्रे ऽवतिष्ठते

14.25

सर्वार्थप्रतिभासत्वं ततश् चित्ते प्रपश्यति ।
प्रहीनो ग्राह्यनिविक्षेपस् तदा तस्य भवत्य् असौ

14.26

ततो ग्राहकविक्षेपः केवलो ऽस्यावशिष्यते ।
आनन्तर्यसमाधिं च स्पृशत्य् आशु तदा पुनः

14.27

अत ऊर्ध्वं निर्वेधभागीयानि । तथाभूतो बोधिसत्वः समाहितचित्तो मनोजल्पाद् विनिर्मुक्तान् सर्वधर्मान् न पश्यति स्वलक्षणसामान्यलक्षणाख्यान् मनोजल्पमात्रम् एव ख्याति । सास्योष्मगतावस्था । अयं स आलोको यम् अधिकृत्योक्तं क्षारनद्याम् । आलोक इति धर्मनिध्यानक्षान्तेर् एतद् अधिवचनम् इति । स तस्यैव धर्मालोकस्य विवृद्ध्यर्थम् आस्थितक्रियया दृढं वीर्यम् आरभते । सास्य मूर्धावस्था धर्मालोकविवृद्ध्या च चित्तमात्रे ऽवतिष्ठते । चित्तम् एतद् इति प्रतिवेधात् । ततश् चित्त एव सर्वार्थप्रतिभासत्वं पश्यति । न चित्ताद् अन्यम् अर्थं । तदा चास्य ग्राह्यविक्षेपः प्रहीनो भवति । ग्राहकविक्षेपः केवलो ऽवशिष्यते । सास्य क्षान्त्यवस्था । तदा च क्षिप्रम् आनन्तर्यसमाधिं स्पृशति । सास्य लौकिकाग्रधर्मावस्था । केन कारणेन स आनन्तर्य उच्यते ।
यतो ग्राहकविक्षेपो हीयते तदनन्तरं ।
ज्ञेयान्य् उष्मगतादीनि एतानि हि यथाक्रमं

14.28

इत्य् एतान्य् उष्मगतादीनि निर्वेधभागीयानि ।
द्वयग्राहविसंयुक्तं लोकोत्तरम् अनुत्तरं ।
निर्विकल्पं मलापेतं ज्ञानं स लभते पुनः

14.29

अतः परेण दर्शनमार्गावस्था । द्वयग्राहविसंयुक्तं ग्राह्यग्राहग्राहकग्राहविसंयोगात् । अनुत्तरं यानानन्तर्येण । निर्विकल्पं ग्राह्यग्राहकविकल्पविसंयोगात् । मलापेतं दर्शनज्ञेयक्लेशप्रहाणात् । एतेन विरजो विगतमलम् इत्य् उक्तं भवति ।
सास्याश्रयपरावृत्तिः प्रथमा भूमिर् इष्यते ।
अमेयैश् चास्य सा कल्पैः सुविशुद्धिं निगच्छति

14.30

श्लोको गतार्थः ।
धर्मधातोश् च समतां प्रतिविध्य पुनस् तदा ।
सर्वसत्वेषु लभते सदात्मसमचित्ततां

14.31

निरात्मतायां दुःखार्थे कृत्ये निःप्रतिकर्मणि ।
सत्वेषु समचित्तो ऽसौ यथान्ये ऽपि जिनात्मजाः

14.32

धर्मनैरात्म्येन च धर्मसमतां प्रतिविध्य सर्वसत्वेषु सदा आत्मसमचित्ततां प्रतिलभते । पञ्चविधया समतया । नैरात्म्यसमतया दुःखसमतया स्वपरसंतानेषु नैरात्म्यदुःखतयोर् अविशेषात् । कृत्यसमतया स्वपरदुःखप्रहाणकामतासामान्यात् । निष्प्रतिकारसमतया । आत्मन इव परतः प्रतिकारानभिनन्दनात् । तदन्यबोधिसत्वसमतया च यथा तैर् अभिसमितं तथाभिसमयात् ।
त्रैधातुकात्मसंस्कारानभूतपरिकल्पतः ।
ज्ञानेन सुविशुद्धेन अद्वयार्थेन पश्यति

14.33

स त्रैधातुकात्मसंस्कारान् अभूतपरिकल्पनामात्रान् पश्यति । सुविशुद्धेन ज्ञानेन लोकोत्तरत्वात् ।
तदभावस्य भावं च विमुक्तं दृष्टिहायिभिः ।
लब्ध्वा दर्शनमार्गो हि तदा तेन निरूच्यते

14.34

तस्य ग्राह्यग्राहकाभावस्य भावं धर्मधातून् दर्शनप्रहातव्यैः क्लेशैर् विमुक्तं पश्यति ।
अभावशून्यतां ज्ञात्वा तथा भावस्य शून्यतां ।
प्रकृत्या शून्यतां ज्ञात्वा शून्यज्ञ इति कथ्यते

14.35

स च बोधिसत्वः शून्यज्ञ इत्य् उच्यते । त्रिविधिशून्यताज्ञानात् । अभावशून्यता परिकल्पितः स्वभावः स्वेन लक्षणेनाभावात् । तथा भावस्य शून्यता परतन्त्रस्य स हि न तथाभावो यथा कल्प्यते स्वेन लक्षणेन भावः । प्रकृतिशून्यता परिनिष्पन्नः स्वभावः शून्यतास्वभावत्वात् ।
अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः ।
अभूतपरिकल्पश् च तदप्रणिहितस्य हि

14.36

अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः । अभूतपरिकल्पस् तदप्रणिधानस्य पदम् आलम्बनम् इत्य् अर्थः ।
तेन दर्शनमार्गेण सह लाभः सदा मतः ।
सर्वेषां बोधिपक्षाणां विचित्राणां जिनात्मजे

14.37

तेन दर्शनमार्गेण सह बोधिसत्वस्य सर्वेषां बोधिपक्षाणां धर्माणां लाभो वेदितव्यः स्मृत्युपस्थानादीनां ।
संस्कारमात्रं जगद् एत्य बुद्ध्या निरात्मकं दुःखिविरूढिमात्रं ।
विहाय यानर्थमयात्मदृष्टिः महात्मदृष्टिं श्रयते महार्थां

14.38

विनात्मदृष्ट्या य इहात्मदृष्टिर् विनापि दुःखेन सुदुःखितश् च ।
सर्वार्थकर्ता न च कारकाङ्क्षी यथात्मनः स्वात्महितानि कृत्वा

14.39

यो मुक्तचित्तः परया विमुक्त्या बद्धश् च गाढायतबन्धनेन ।
दुःखस्य पर्यन्तम् अपश्यमानः प्रयुज्यते चैव करोति चैव

14.40

स्वं दुःखम् उद्वोढुम् इहासमर्थो लोकः कुतः पिण्डितम् अन्यदुःखं ।
जन्मैकम् आलोकयते गतं त्वचिन्तो विपर्ययात् तस्य तु बोधिसत्वः

14.41

यत्प्रेम या वत्सलता प्रयोगः सत्वेष्व् अखेदश् च जिनात्मजानां ।
आश्चर्यम् एतत् परमं भवेषु न चैव सत्वात्मसमान् अभावात्

14.42

एभिः पञ्चभिः श्लोकैर् दर्शनमार्गलाभिनो बोधिसत्वस्य माहात्म्योद्भावनं । अनर्थमयात्मदृष्टिर् या क्लिष्टा सत्कायदृष्टिः । महात्मदृष्टिर् इति महार्था या सर्वसत्वेष्व् आत्मसमचित्तलाभात्मदृष्टिः । सा हि सर्वसत्वार्थक्रियाहेतुत्वात् महार्था । विनात्मदृष्ट्या अनर्थमय्यात्मदृष्टिर् महार्था या विनापि दुःखेन स्वसंतानजेन सुदुःखिता सर्वसत्वसंतानजेन । यो विमुक्तचित्तो दर्शनप्रहातव्येभ्यः परया विमुक्त्यानुत्तरेण यानेन । बद्धश् च गाढायतबन्धनेन सर्वसत्वसांन्तानिंकेन ( म्स 96 ) दुःखस्य पर्यन्तं न पश्यति स्वधातोर् अनन्तत्वाद् आकाशवत् प्रयुज्यते च दुःखस्यान्तक्रियायै सत्वानां करोति चैव ताम् अप्रमेयाणां सत्वानां । विपर्ययात् तस्य तु बोधिसत्वः स हि संपिण्डितसर्वसत्वदुःखं यावल् लोकगतम् उद्वोढुं समर्थः । या सत्वेषु बोधिसत्वस्य प्रियता या च हितसुखैषिता यश् च तदर्थं प्रयोगो यश् चित्तप्रयुक्तस्याखेद एतत् सर्वम् आश्चर्यं परमं लोकेषु । न चैवाश्चर्यं सत्वानाम् आत्मसमानत्वात् ।
ततो ऽसौ भावनामार्गे परिशिष्टासु भूमिषु ।
ज्ञानस्य द्विविधस्येह भावनायै प्रयुज्यते

14.43

निविर्कल्पं च तज्ज्ञानं बुद्धधर्मविशोधकं ।
अन्यद् यथाव्यवस्थानं सत्वानां परिपाचकं

14.44

भावनायाश् च निर्याणं द्वयसंख्येयसमाप्तितः ।
पश्चिमां भावनाम् एत्य बोधिसत्वौ ऽभिषिक्तकः

14.45

वज्रोपमं समाधानं विकल्पाभेद्यम् एत्य च ।
निष्ठाश्रयपरावृत्तिं सर्वावरणनिर्मलां

14.46

सर्वाकारज्ञतां चैव लभते ऽनुत्तरं पदं ।
यत्र स्थः सर्वसत्वानां हिताय प्रतिपद्यते

14.47

एभिर् भावनामार्गः परिदीपितः । द्विविधं ज्ञानं । निर्विकल्पं च येनात्मनो बुद्धधर्माण् विशोधयति । यथाव्यवस्थानं च लोकोत्तरपृष्ठलब्धं लौकिकं येन सत्वान् परिपाचयति । असंख्येयद्वयस्य समाप्तौ पश्चिमां भावनाम् आगम्यावसानगताम् अभिषिक्तो वज्रोपमं समाधिं लभते । विकल्पानुशयाभेद्यार्थेन वज्रोपमः । ततो निष्ठागताम् आश्रयपरावृत्तिं लभते सर्वक्लेशज्ञेयावरणनिर्मलां । सर्वाकारज्ञतां चानुत्तरपदं यत्रस्थो यावत् संसारम् अभिसंबोधिनिर्वाणसंदर्शनादिभिः सत्वानां हिताय प्रतिपद्यते ।
कथं तथा दुर्लभदर्शने मुनौ भवेन् महार्थं न हि नित्यदर्शनं ।
भृशं समाप्यायितचेतसः सदा प्रसादवेगैर् असमश्रवोद्भवैः

14.48

अप्रचोद्यमानः सततं च संमुखं तथागतैर् धर्मसुमुखे व्यवस्थितः ।
निगृह्य केशेष्व् इव दोषगह्वरात् निकृष्य बोधौ स बलान् निवेश्यते

14.49

स सर्वलोकं सुविशुद्धदर्शनैर् अकल्पबोधैर् अभिभूय सर्वथा ।
महान्धकारं विधमय्य भासते जगन्महादित्य इवात्युदारतः

14.50

एभिस् त्रिभिः श्लोकैर् अववादमाहात्म्यं दर्शयति । यो हि धर्ममुखश्रोतस्य् अववादं लभते तस्य नित्यं बुद्धदर्शनं भवति । ततश् चासमं धर्मश्रवणं । यतो ऽस्यात्यर्थं प्रसादः प्रसादवेगैर् आप्यायितचेतसस् तन्नित्यदर्शनं बुद्धानां महार्थं भवति । शेषं गतार्थं ।
बुद्धाः सम्यक्प्रशंसां विदधति सततं स्वार्थसम्यक्प्रयुक्ते निन्दाम् ईर्ष्याप्रयुक्ते स्थितिविचयपरे चान्तरायानुकूलान् ।
धर्मान् सर्वप्रकारान् विधिवद् इह जिना दर्शयन्त्य् अग्रसत्वे यान् वर्ज्यासेव्य योगे भवति विपुलता सौगते शासने ऽस्मिम्

14.51

चतुर्विधाम् अनुशासनीम् एतेन श्लोकेन दर्शयति । अधिशीलम् अधिकृत्य सम्यक्स्वार्थप्रयुक्ते बोधिसत्वे प्रशंसाविधानतः । अधिचित्तम् अधिप्रज्ञं चाधिकृत्य स्थितिविचयपरे तदन्तरायाणां तदनुकूलानां च सर्वप्रकाराणां धर्माणां देशनतः । यान् वर्ज्यासेव्येत्य् अन्तरायान् अनुकूलांश् च यथाक्रमं । योग इति शमथविपश्यनाभावनायां ।
इति सततशुभाचयप्रपूर्णः सुविपुलम् एत्य स चेतसः समाधिं ।
मुनिसततमहाववादलब्धो भवति गुणार्णवपारगो ऽग्रसत्वः

मूल पाठ: Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa · Edition: Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907. · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc