महायानसूत्रालंकार (टीका सहित) · अध्याय 13
पञ्चभिः कारणैः सुकथिकत्वं । सूर्यवत् प्रतपनं चानुशंसः । लोकावर्जनतो बहुमतत्वात् । पञ्च कारणानि सुकथिकत्वस्य येनाविपरीतं दर्शयति अभीक्ष्णं निरामिषचित्त आदेयवाक्यविनेयानुरूपं च ।
महायानसूत्रालंकारे देशनाधिकारो द्वादशः
छपित्रे xइइइ
त्रयोदशो ऽधिकारः
प्रतिपत्तिविभागे षट् श्लोकाः ।
द्वेधा नैरात्म्यम् आज्ञाय धीमान् पुद्गलधर्मयोः ।
द्वयमिथ्यात्वसम्यक्त्वं विवर्ज्येत त्रयेण हि
यथार्थम् आज्ञाय धर्ममाज्ञाय धर्मानुधर्मप्रतिपन्नो भवति सामीचीप्रतिपन्नो ऽनुधर्मचारी तत्संदर्शयति । तत्र द्विधा पुद्गलधर्मनैरात्म्यज्ञानं ग्राह्यग्राहकाभावतः । द्वयमिथ्यात्वसम्यक्त्वं विवर्ज्यं त्रयं । अभावे च शून्यतासमाधिः परिकल्पितस्य स्वभावस्य । भावे चाप्रणिहितानिमित्तौ परतन्त्रनिष्पन्नयोः स्वभावयोः । ( म्स 85 ) एतत् समाधित्रयं लौकिकं न मिथ्यात्वं लोकोत्तरज्ञानावाहनात् । न सम्यक्त्वम् अलोकोत्तरत्वात् ।
अर्थज्ञः सर्वधर्माणां वेत्ति कोलसमानतां ।
श्रुततुष्टिप्रहाणाय धर्मज्ञस् तेन कथ्यते
एवम् अर्थज्ञः सर्वधर्माणां सूत्रादीनां कोलोपमतां जानाति । श्रुतमात्रसंतुष्टिप्रहाणाय तेन धर्मज्ञो भवति ।
पार्थग्जनेन ज्ञानेन प्रतिविध्य द्वयं तथा ।
तज्ज्ञानपरिनिष्पत्ताव् अनुधर्मं प्रपद्यते
एतेन द्विविधेन पार्थग्जनेनार्थधर्मज्ञानेन द्वयं नैरात्म्यभावं प्रतिविध्य यथाक्रमं तस्य ज्ञानस्य परिनिष्पत्त्यर्थं प्रतिपद्यते । एवम् अनुधर्मं प्रतिपद्यते ।
ततो ज्ञानं स लभते लोकोत्तरमनुत्तरं ।
आदिभूमौ समं सर्वैर् बोधिसत्वैस् तदात्मभिः
ततो ज्ञानं स लभते लोकोत्तरमनुत्तरम् इति । विशिष्टतरयानाभावात् । आदिभूमौ प्रमुदितायां भूमौ समं सर्वैर् बोधिसत्वैस् तदात्मभिर् इति तद्भूमिकैर् एवं सामीचीप्रतिपन्नो भवति तद्भूमिकबोधिसत्वसमतया ।
कृत्वा दर्शनज्ञेयानां हेयानां क्लेशानां सर्वसंक्षयम् ।
ज्ञेयावरणज्ञानाय हानाय भवनायां प्रयुज्यते
श्लोको गतार्थः ।
व्यवस्थानाविकल्पेन ज्ञानेन सहचारिणा ।
अनुधर्मं चरत्य् एवं परिशिष्टासु भूमिषु
शेषेणानुधर्मचारित्वं दर्शयति । व्यवस्थानाविकल्पेनाति भूमिव्यवस्थानज्ञानेनाविकल्पेन ( म्स 86 ) च । सहचारिणेत्य् अनुसंबद्धचारिणा अन्योन्यनैरन्तर्येण । एतेन श्लोकद्वयेनानुधर्मचारित्वं दर्शितं । प्रतिपत्ताव् अप्रमादक्रियायां चत्वारः श्लोकाः ।
सुलाभो ऽथ स्वधिष्ठानः सुभूमिः सुसहायकः ।
सुयोगो गुणवान् देशो यत्र धीमान् प्रपद्यते
चतुर्भिश् चक्रैर् अप्रमादक्रियां दर्शयति प्रतिरूपदेशवासादिभिः । तत्रानेन श्लोकेन प्रतिरूपदेशवासं दर्शयति । सुलाभश् चीवरपिण्डपातादीनां जीवितपरिष्काराणाम् अकृच्छेन लाभात् । स्वधिष्ठानो दुर्जनैर् दस्युप्रभृतिभिर् अनधिष्ठितत्वात् । सुभूमिर् आरोग्यभूमित्वात् । सुसहायकः सभागशीलदृष्टिसहायकत्वात् । सुयोगो दिवाल्पाकीर्णाभिलापकत्वात् रात्रौ चाल्पशब्दादिकत्वात् ।
बहुश्रुतो दृष्टसत्यो वाग्मी समनुकम्पकः ।
अखिन्नो बोधिसत्वश् च ज्ञेयः सत्पुरूषो महान्
अनेन द्वितीयेन सत्पुरुषं दर्शयति । आगमाधिगमवाक्करणनिरामिषचित्ताकिलासित्वगुणयोगात् ।
स्वालम्बना सुसंभारा सुसंस्तब्धा सुभावनैव देशिता ।
सुनिर्याणप्रयोगा चात्मसम्यक्प्रधानता
अनेन तृतीयेन योनिशोमनस्कारसंगृहीतामात्मनः सम्यक्प्रणिधानतां दर्शयति । सद्धर्मालम्बनतया सुसंभृतसंभारतया शमथादिनिमित्तानां कालेन कालं भावनातया अल्पमात्रासंतुष्टितया सत्युत्तरकरणीये सातत्यसत्कृत्यप्रयोगतया च ।
रतेः क्षणोपपत्तेश् च आरोग्यस्यापि कारणं ।
समाधेर् विचयस्यापि पूर्वे हि कृतपुण्यता
अनेन चतुर्थेन पूर्वकृतपुण्यतां पञ्चविधेन हेतुत्वेन दर्शयति । रतिहेतुत्वेन यतः प्रतिरूपदशवासे ऽभिरमते । क्षणौपपत्तिहेतुत्वेन यतः सत्पुरुषायाश्रयं ( म्स 87 ) लभते । आरोग्यसमाधिप्रज्ञाहेतुत्वेन च यत आत्मनः सम्यक्प्रणिधानं संपद्यते । क्लेशत एव क्लेशनिःसरणे श्लोकास् त्रयः ।
धर्मधातुविनिर्मुक्तो यस्माद् धर्मो न विद्यते ।
तस्माद् रागादयस् तेषां बुद्धैर् निःसरणं मताः
यद् उक्तं भगवता । नाहम् अन्यत्र रागाद् रागस्य निःसरणं वदाम्य् एवं द्वेषान् मोहाद् इति । तत्राभिसंधिं दर्शयति । यस्माद् धर्मधातुविनिर्मुक्तो धर्मो नास्ति धर्मताव्यतिरेकेण धर्माभावात् । तस्माद् रागादिधर्मतापि रागाद्याख्यां लभते स च निःसरणं रागादीनाम् इत्य् एवं तत्राभिसंधिर् वेदितव्यः ।
धर्मधातुविनिर्मुक्तो यस्माद् धर्मो न विद्यते ।
तस्मात् संक्लेशनिर्देशे स संविद् धीमतां मतः
यद् उक्तं । अविद्या च बोधिश् चैकम् इति । तत्रापि सक्लेशनिर्देशे स एवाभिसंधिः । अविद्या बोधिधर्मता स्यात् तद् उपचारात् ।
यतस् तान् एव रागादीन् योनिशः प्रतिपद्यते ।
ततो विमुच्यते तेभ्यस् तेनैषां निःसृतिस् ततः
तान् एव रागादीन् योनिशः प्रतिपद्यमानस् तेभ्यो विमुच्यते तस्मात् परिज्ञातास् त एव तेषां निःसरणं भवतीत्य् अयम् अत्राभिसंधिः । श्रावकप्रत्येकबुद्धमनसिकारपरिवर्जने श्लोकद्वयं ।
न खलु जिनसुतानां बाधकं दुःखमुग्रं नरकभवनवासैः सत्वहेतोः कथंचित् ।
शमभवगुणदोषप्रेरिता हीनयाने विविधशुभविकल्पा बाधका धीमतां तु
न खलु नरकवासो धीमतां सर्वकालं विमलविपुलबोधेरन्तरायं करोति ।
स्वहितपरमशीतस् त्वन्ययाने विकल्पः परमसुखविहारे ऽप्यन्तरायं करोति
अनयोः श्लोकयोर् एकस्य द्वितीयः साधकः । उभौ गतार्थो ।
निःस्वभावताप्रकृतिपरिशुद्धित्रासप्रतिषेधे चत्वारः श्लोकाः ।
धर्माभावोपलब्धिश् च निःसंक्लेशविशुद्धिता ।
मायादिसदृशी ज्ञेया आकाशसदृशी तथा
यथैव चित्रे विधिवद्विचित्रिते नतोन्नतं नस्ति च दृश्यते ऽथ च ।
अभूतकल्पे ऽपि तथैव सर्वथा द्वयं सदा नस्ति च दृश्यते ऽथे च
यथैव तोये लुतिटिते प्रसादिते न जायते सा पुनर् अच्छतान्यतः ।
मलापकर्षस् तु स तत्र केवलः स्वचित्तशुद्धौ विधिर् एष एव हि
मतं च चित्तं प्रकृतिप्रभास्वरं सदा तदागन्तुकदोषदूषितं ।
न धर्मताचित्तमृते ऽन्यचेतसः प्रभास्वरत्वं प्रकृतौ विधीयते
धर्माभावश् च धर्मोपलब्धिश् चेति त्रासस्थानं निःसंक्लेशता च धर्मधातोः प्रकृत्या विशुद्धता च पश्चाद् इति त्रासस्थानं बालानां । तद्यथाक्रमं मायादिसादृश्येनाकाशसादृश्येन च प्रसाधयंस् ततस् त्रासं प्रतिषेधयति । तथा चित्रे नतोन्नतसादृश्येन लुतितप्रसादिततोयसादृश्येन च यथाक्रमं । चतुर्थेन श्लोकेन तोयसाधर्म्यं चित्ते प्रतिपादयति । यथा तोयं प्रकृत्या प्रसन्नम् आगन्तुकेन तु कालुष्येण लुतितं भवत्य् एवं चित्तं प्रकृत्या प्रभास्वरं मतम् आगन्तुकैस् तु दोषैर् दूषितम् इति । न च धर्मताचित्ताद् ऋते ऽन्यस्य चेतसः परतन्त्रलक्षणस्य प्रकृतिप्रभास्वरत्वं विधीयते । तस्माच् चित्ततथतैवात्र चित्तं वेदितव्यं । रागजापत्तिप्रतिषेधे चत्वारः श्लोकाः ।
बोधिसत्वस्य सत्वेषु प्रेम मज्जगतं महत् ।
यथैकपुत्रके तस्मात् सदा हितकरं मतम्
सत्वेषु हितकारित्वान् नैत्य् आपत्तिं स रागजां ।
द्वेषो विरुद्यते त्वस्य सर्वसत्वेषु सत्पथा
यथा कपोती स्वसुतातिवत्सला स्वभावकांस् तान् उपगुह्य तिष्ठति ।
तथाविधायं प्रतिघो विरुध्यते सुतेषु तद्वत् सकृपे ऽपि देहिषु
मैत्री यतः प्रतिघचित्तम् अतो विरुद्धं शान्तिर् यतो व्यसनचित्तम् अतो विरुद्धं ।
अर्थो यतो निकृतिचित्तम् अतो विरुद्धं ल्हादो यतः प्रतिभयं न च ततो विरुद्धं
यत् सत्वेषु बोधिसत्वस्य प्रेम सो ऽच रागो ऽभिप्रेतस् तत्कृताम् आपत्तिं तेषां प्रतिषेधयति । सत्वहितक्रियाहेतुत्वात् । कपोतीम् उदाहरति तद्बहुरागत्वात् अपत्यस्नेहाधिमात्रतया सकृपे बोधिसत्वे देहिषु सत्वेषु प्रतिघो विरुध्यते । बोधिसत्वानां सत्वेषु मैत्री भवति व्यसनशान्तिः अर्थदानं ह्लादश् च प्रीत्युत्पादात् । यत इमे मैत्र्यादयस् तत एव प्रतिघचित्तं विरुद्धं । तत्पूर्वकाणि च व्यसनचित्तादीनि । प्रतिपत्तिभेदे पञ्च श्लोकाः ।
यथातुरः सुभैषज्ये संसारे प्रतिपद्यते ।
आतुरे च यथा वैद्यः सत्वेषु प्रतिपद्यते
अनिष्पन्ने यथा चेटे स्वात्मनि प्रतिपद्यते ।
वणिग्यथा पुनः पुण्ये कामेषु प्रतिपद्यते
यथैव रजको वस्त्रे कर्मणे प्रतिपद्यते ।
पिता यथा सुते बाले सत्वाहेठे प्रपद्यते
अग्न्यर्थी वाधरारण्यां सातत्ये प्रतिपद्यते ।
वैश्वासिको वानिष्पन्ने अधिचित्ते प्रपद्यते
मायाकार इव ज्ञेये प्रज्ञया प्रतिपद्यते ।
प्रतिपत्तिर्यथा यस्मिन् बोधिसत्वस्य सा मता
यथा यस्मिन् प्रतिपद्यते तद् अभिद्योतयति । यथेति सुभैषज्यादिष्व् इवातुरादयः । यत्रेति संसारादिषु प्रतिसंख्याय संसारनिषेवणात् । कारुण्येन क्लेशातुरसत्वापरित्यागात् । स्वप्रणिहितत्वचित्तकरणात् । दानादिपारमिताभिश् च यथाक्रमं भोगवृद्धिनयनात् । कायादिकर्मपरिशोधनात् । सत्वापकाराकोपात् । कुशलभावनानिरन्तराभियोगात् । समाध्यनास्वादनात् । ज्ञेयाविपर्यासाच् च । प्रतिपत्तित्रिमण्डलपरिशुद्धौ श्लोकः ।
इति सततम् उदारयुक्तवीर्यो द्वयपरिपाचनशोधने सुयुक्तः ।
परमविमलनिर्विकल्पबुद्ध्या व्रजति स सिद्धिम् अनुत्तमां क्रमेण
मूल पाठ: Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa · Edition: Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907. · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0