भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार (टीका सहित) · अध्याय 12

12.1

अनेन निगमनश्लोकेन पर्येष्टिमाहात्म्यं त्रिविधं दर्शयति । उपायमाहात्म्यम् उग्रवीर्यतया संवृतिपरमार्थसत्यधर्मतापर्येषणतश् च तत्वं सत्यम् इत्य् अर्थः ।
परार्थमाहात्म्यं प्रतिशरणीभावात् प्रजानां । स्व-अर्थमाहात्म्यं च गुणैः समुद्रवत् प्रपूर्णत्वात् ।
महायानसूत्रालंकारे धर्मपर्येष्ट्यधिकार एकादशः
छपित्रे xइइ
द्वादशो ऽधिकारः
धर्मदेशनायां मात्सर्यप्रतिषेधे श्लोकः
प्राणान् भोगांश् च धीराः प्रमुदितमनसः कृच्छ्रलब्धान् असारान् सत्वेभ्यो दुःखितेभ्यः सततम् अवसृजन्त्य् उच्चदानप्रकारैः ।
प्राग् एवोदारधर्मं हितकरम् असकृत् सर्वथैव प्रजानां कृच्छ्रे नैवोपलब्धं भृशमवसृजतां वृद्धिगं चाव्ययं च

12.2

कृच्छ्रलब्धान् अप्य् असारान् क्षयित्वा प्राणान् भोगांश् च बोधिसत्वा दुःखितेभ्यः कारुण्यात् सततम् उदारैर् विसर्गैर् उत्सृजन्ति प्राग् एव धर्मं यो नैव कृच्छ्रेण वा भृशम् अपि वावसृजतां वृद्धिं गछति न क्षयं । धर्मनैरर्थक्यसार्थक्ये श्लोकद्वयं ।
धर्मो नैव च देशितो भगवता प्रत्यात्मवेद्यो यत आकृष्टा जनता च युक्तयुक्तिविहितैर् धर्मैः स्वकीं धर्मतां ।
स्वशान्त्यास्यपुटे विशुद्धिविपुले साधारणे ऽथाक्षये लालेनेव कृपात्मभिस् त्वजगरप्रख्यैः समापादिता

12.3

तत्र बुद्धा अजगरोपमास् तेषां स्वशान्तिर् आस्यपुटं धर्मकायः । विशुद्धिविपुलं सवासनक्लेशज्ञेयावरणविशुद्धितः । साधारणं सर्वबुद्धैः अक्षयम् आत्यन्तिकत्वात् ।
तस्मान् नैव निरर्थिका भवति सा या भावना योगिनां तस्मान् नैव निरर्थिका भवति सा या देशना सौगती ।
दृष्टो ऽर्थः श्रुतमात्रकाद् यदि भवेत् स्याद् भावनापार्थिका अश्रुत्वा यदि भावनाम् अनुविशेत् स्याद् देशनापार्थिका

12.4

तस्मान् न निरर्थिका योगिनां भावना भवति प्रत्यात्मवेद्यस्य धर्मस्य तद्वशेनाभिगमात् । न निरर्थिका देशना भवति युक्तिविहितैर् धर्मैः स्वधर्मतायां जनताकर्षणात् । यथा पुनर्भावना सार्थिका भवेद् देशना वा तत् श्लोकार्धेन दर्शयति । शेषं गतार्थं । देशनाविभागे श्लोकः ।
आगमतो अधिगमतो विभुत्वतो देशनाग्रसत्वानां ।
मुखतो रूपात् सर्वाकाशाद् उच्चरणता ऽपि............

12.5

तत्र विभुत्वतो या महाभूमिप्रविष्टानां । सर्वतो रूपाद्या वृक्षवादित्रादिभ्यो ऽपि निश्चरति । शेषं गतार्थं । देशनासंपत्तौ श्लोकद्वयं ।
विषदा संदेहजहा आदेया तत्वदर्शिका द्विविधा ।
संपन्नदेशनेयं विज्ञेयंया बोधिसत्वानां

12.6

अयं चतुष्कार्थनिर्देशेन श्लोकः । यद् उक्तं ब्रह्मपरिपृच्छायां । चतुर्भिर् धर्मैः समन्वागता बोधिसत्वा महाधर्मदानं वितरन्ति सद्धर्मपरिग्रहणतया आत्मनः प्रज्ञोत्तापनतया सत्पुरुषकर्मकरणतया संक्लेशव्यवदानसंदेशनतया च । एकेन हि बाहुश्रुत्याद् विषदा देशना भवति । द्वितीयेन महाप्राज्ञत्वात् संशयजहा परेषां संशयच्छेदात् । तृतीयेनानवद्यकर्मत्वाद् आदेया । चतुर्थेन तत्वदर्शिका द्विविधा संक्लेशलक्षणस्य च तत्वस्य व्यवदानलक्षणस्य च द्वाभ्यां द्वाभ्यां सत्याभ्यां ।
मधुरा मदव्यपेता न च खिन्ना देशनाग्रसत्वानां ।
स्फुटचित्रयुक्तगमिका निरामिषा सर्वगा चैव

12.7

अस्मिन् द्वितीये श्लोके मधुरा परेणाक्षिप्तस्यापरुषवचनात् । मदव्यपेता स्तुतौ सिद्धौ वा मदाननुगमनात् । अखिन्ना अकिलासिकत्वात् । स्फुटा निराचार्यमुष्टित्वात् कृत्स्नदेशनतः । चित्रा अपुनरुक्तत्वात् । युक्ता प्रमाणाविरुद्धवात् । गमिका प्रतीतपदव्यञ्जनत्वात् निरामिषा प्रसन्नाधिकारानधिकत्वात् । सर्वत्रगा यानत्रयगतत्वात् । वाक्संपत्तौ श्लोकः ।
अदीना मधुरा सूक्ता प्रतीता विषदा तथा वाग् जिनात्मजे ।
यथार्हा निरामिषा च परिमिताक्षया तथा

12.8

अदीना पौरी पर्षन्पूरणात् । मधुरा वल्गुः । सूक्ता विस्पष्टा सुनिरुक्ताक्षरत्वात् । प्रतीता विज्ञेया प्रतीताभिधानत्वात् । यथार्हा श्रवणीया विनेयानुरूपत्वात् । अनामिषा अनिःश्रितलाभसत्कारा लोके । प्रतता अप्रतिकूला । परिमिता आयामखेदात् । विषदा अपर्यात्ता । व्यञ्जनसंपत्तौ श्लोकद्वयं ।
उद्देशान् निर्देशात् तथैव यानानुलोमनात् श्लाक्ष्ण्यात् ।
प्रातीत्याद् याथार्हान् नैर्याण्याद् आनुकूल्यत्वात्

12.9

युक्तैः पदव्यञ्जनैर् उद्देशात् प्रमाणाविरोधेन । सहितैर् निर्देशाद् उद्देशाविरोधेन । यानानुलोमनाद् आनुलोमिकैर् यानत्रयाविरोधेन । श्लाक्ष्ण्याद् अनुच्छविकैर् अकष्टशब्दतया । प्रातीत्याद् औपयिकैः प्रतीतार्थतया चार्थोपगमनात् । याथार्हात् प्रतिरूपैर् विनेयानुरूपतया । नैर्याण्यात् प्रदक्षिणैर् निर्वाणाधिकारतया । आनुकूल्यान् निपकस्याङ्गसंभारैः शैक्षस्यार्याष्टाङ्गमार्गानुकूल्यात् ।
व्यञ्जनसंपच् चैषा विज्ञेया सर्वथाग्रसत्वानां ।
षष्ट्यङ्गी साचिन्त्या घोषो ऽनन्तस् तु सुगतानां

12.10

षष्ट्यङ्गी साचिन्त्या या गुह्यकाधिपतिनिर्देशे बुद्धस्य षष्ट्याकारा वाग् निर्दिष्टा । पुनर् अपरं शान्तमते तथागतस्य षष्ट्याकारोपेता वाग् निश्चरति स्निग्धा च मृदुका च मनोज्ञा च मनोरमा च शुद्धा चेति विस्तरः । तत्र ( म्स 80 ) स्निग्धा सत्वधातुकुशलमूलोपस्तम्भिकत्वात् । मृदुका दुष्ट एव धर्मे सुखसंस्पर्शत्वात् । मनोज्ञा स्वर्थत्वात् । मनोरमा सुव्यञ्जनत्वात् । शुद्धा निरुत्तरलोकोत्तरपृष्ठलब्धत्वात् । विमला सर्वक्लेशानुशयवासनाविसंयुक्तत्वात् । प्रभास्वरा प्रतीतपदव्यञ्जनत्वात् । वल्गुः सर्वतीर्थ्यकुमतिदृष्टिविघातबलगुणयुक्तत्वात् । श्रवणीया प्रतिपत्तिनैर्याणिकत्वात् । अनन्ता सर्वपरप्रवादिभिर् अनाछेद्यत्वात् । कला रञ्जिकत्वात् । विनीता रागादिप्रतिपक्षत्वात् । अकर्कशा शिक्षाप्रज्ञप्तिसुखोपायत्वात् । अपरुषा तद्व्यतिक्रमसंपन्निःसरणोपदेशकत्वात् । सुविनीता यानत्रयनयोपदेशिकत्वात् । कर्णसुखा विक्षेपप्रतिपक्षत्वात् । कायप्रह्लादनकरी समाध्यावाहकत्वात् । चित्ताउद्विल्यकरी विपश्यनाप्रामोद्यावाहफलकत्वात् । हृदयसंतुष्टिकरी संशयच्छेदिकत्वात् । प्रीतिसुखसंजननी मिथ्यानिश्चयापकर्षिकत्वात् । निःपरिदाहा प्रतिपत्तावविप्रतिसारत्वात् । आज्ञेया संपन्नश्रुतमयज्ञानाश्रयत्वात् । विज्ञेया संपन्नचिन्तामयज्ञानाश्रयत्वात् ।
विष्पष्टा अनाचार्यमुष्टिधर्मविहितत्वात् । प्रेमणीया ऽनुप्राप्तस्वक-अर्थानां प्रेमकरत्वात् । अभिनन्दनीया ऽननुप्राप्तस्वकार्थानां स्पृहणीयत्वात् । आज्ञापनीया अचिन्त्यधर्मसम्यग्दर्शिकत्वात् । विज्ञापनीया ऽचिन्त्यधर्मसम्यग्देशिकत्वात् । युक्ता प्रमाणाविरुद्धत्वात् । सहिता यथार्हविनेयदेशिकत्वात् । पुनरुक्तदोषजहा अवन्ध्यत्वात् । सिंहस्वरवेगा सर्वतीर्थ्यसंत्रासकत्वात् । नागस्वरशब्दा उदारत्वात् । मेघस्वरघोषा गम्भीरत्वात् । नागेन्द्ररुता आदेयत्वात् । किन्नरसंगीतिघोषा मधुरत्वात् । कलविङ्कस्वररुतरविता ऽभीक्ष्णभङ्गरत्वात् । ब्रह्मस्वररुतरविता दूरंगमत्वात् । जीवंजीवकस्वररुतरविता सर्वसिद्धिपूर्वंगमनङ्गलत्वात् । देवेन्द्रमधुरनिर्घोषा अनतिक्रमणीयत्वात् । दुन्दुभिस्वरा सर्वमारप्रत्यर्थिकविजयपूर्वंगमत्वात् । अनुन्नता स्तुत्यसंक्लिष्टत्वात् । अनवनता निन्दाऽसंक्लिष्टत्वात् । सर्वशब्दानुप्रविष्टा सर्वव्याकरणसर्वाकारलक्षणानुप्रविष्टत्वात् । अपशब्दविगता स्मृतिसंप्रमोषे तदनिश्चरणत्वात् । अविकला विनेयकृत्यसर्वकालप्रत्युपस्थितत्वात् । अलीना लाभसत्कारानिश्रितत्वात् । अदीना सावद्यापगतत्वात् । प्रमुदिता अखेदित्वात् । प्रसृता सर्वविद्यास्थानकौशल्यानुगतत्वात् । अखिला सत्वानां तत्सकलार्थसंपादकत्वात् । सरिता प्रबन्धानुपच्छिन्नत्वात् । ललिता विचित्राकारप्रत्युपस्थानत्वात् । सर्वस्वरपूरणी एकस्वरनैकशब्दविज्ञप्तिप्रत्युपस्थापनत्वात् । सर्वसत्वेन्द्रियसंतोषणी एकानेकार्थविज्ञप्तिप्रत्युपस्थानत्वात् । अनिन्दिता यथाप्रतिज्ञत्वात् । अचञ्चला आगमितकालप्रयुक्तत्वात् । अचपला अत्वरमाणविहितत्वात् । सर्वपर्षदनुरविता दूरान्तिकपर्षत्तुल्यश्रवणत्वात् । ( म्स 81 ) सर्वाकारवरोपेतो सर्वलौकिकार्थदृष्टान्तधर्मपरिणामिकत्वात् । देशनामाहात्म्ये चत्वारः श्लोकाः ।
वाचा पदैः सुयुक्तैर् अनुदेशविभागसंशयच्छेदैः ।
बहुलीकारानुगता ह्य् उद्धटितविपञ्चितज्ञेषु

12.11

आख्याति वाचा । प्रज्ञापयति पदैः सुयुक्तैः । प्रस्थापयति विभाजयति विवृणोति यथाक्रममुद्देशविभागसंशयच्छेदैः । उत्तानीकरोति उत्तानीकरणं बहुलीकारानुगता देशना निश्चयबलाधानर्थं । देशयत्य् उद्घटितज्ञेषु । संप्रकाशयति विपञ्चितज्ञेषु ।
शुद्धा त्रिमण्डलेन हितेयं देशना हि बुद्धानां ।
दोषैर् विवर्जिता पुनर् अष्टभिर् एषैव विज्ञेया

12.12

शुद्धा त्रिमण्डलेनेति । येन च देशयति वाचा पदैश् च । यथा चोद्देशादिप्रकारैः । येषु चोद्घटितविपञ्चितज्ञेषु । एषैव च देशना पुनर् अष्टदोषविवर्जिता वेदितव्या यथाक्रमं ।
कौशीद्यम् अनवबोधो ह्य् अवकाशस्याकृतिर् ह्य् अनीतत्वम् ।
संदेहस्याच्छेदस् तद्विगमस्यादृढीकरणम्

12.13

ते पुनर् अष्टौ दोषाः कौशीद्यम् अनवसंबोधः अवकाशस्याकरणं अनीतार्थत्वं संदेहस्याच्छेदना तद्विगमस्यादृढीकरणं निश्चयस्येत्य् अर्थः ।
खेदो ऽथ मत्सरित्वं दोषा ह्य् एते मता कथायां हि ।
तदभावाद् बुद्धानां निरुत्तरा देशना भवति

12.14

खेदो येनाभीक्ष्णं न देशयेत् । मत्सरित्वं चाकृत्स्नप्रकाशन्ता । अर्थसंपत्तौ श्लोकद्वयं ।
कल्याणो धर्मो ऽयं हेतुत्वाद् भक्तितुष्टिबुद्धीनां ।
द्विविधार्थः सुग्राह्यश् चतुर्गुणब्रह्मचर्यवदः

12.15

परैर् असाधारणयोगकेवलं त्रिधातुकक्लेशविहानिपूरकम् ।
स्वभावशुद्धं मलशुद्धितश् च तच् चतुर्गुणब्रह्मविचर्यम् इष्यते

12.16

चतुर्गुणब्रह्मचर्यसंप्रकाशको धर्मः । आदिमध्यपर्यवसानकल्याणो यथाक्रमं श्रुतचिन्ताभावनाभिर् भक्तितुष्टिबुद्धिहेतुत्वात् । तत्र भक्तिर् अधिमुक्तिः संप्रत्ययः तुष्टिः प्रामोद्यं युक्तिनिध्यानाच् छक्यप्राप्तितां विदित्वा । बुद्धिः समाहितचित्तस्य यथाभूतज्ञानं । द्विविधार्थ इत्यतः स्वर्थः संवृत्तिपरमार्थसत्ययोगात् । सुग्राह्य इत्यतः सुव्यञ्जनः प्रतीतपदव्यञ्जनत्वात् । चतुर्गुणं ब्रह्मचर्यं । केवलं परैर् असाधारणत्वात् परिपूर्णं त्रिधातुक्लेशप्रहाणपरिपूरणात् । परिशुद्धं स्वभावविशुद्धितो ऽनास्रवत्वात् । पर्यवदातं मलविशुद्धितः संतानविशुद्ध्या क्षीणास्रवाणां । अभिसंधिविभागे श्लोकद्वयं ।
अवतारणसंधिश् च संधिर् लक्षणतो ऽपरः ।
प्रतिपक्षाभिसंधिश् च संधिः परिणताव् अपि

12.17

श्रावकेषु स्वभावेषु दोषाणां विनये तथा ।
अभिधानस्य गाम्भीर्ये संधिर् एष चतुर्विधः

12.18

असारे सारमतयो विपर्यासे च सुस्थिताः ।
क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिमुक्तमां ॥ अम्स_12.17* ॥ ॥ इति ॥
चतुर्विधो ऽभिसंधिर्देशनायां बुद्धस्य वेदितव्यः । अवतारणाभिसंधिर् लक्षणाभिसंधिः प्रतिपक्षाभिसंधिः परिणामन-अभिसंधिश्च । तत्रावतारणाभिसंधिः श्रावकेषु द्रष्टव्यः । शासनावतारणार्थम् अनुत्त्रासाय रूपाद्यस्तित्वदेशनात् । लक्षणाभिसंधिस् त्रिषु परिकल्पितादिस्व् अभावेषु द्रष्टव्यो निःस्वभावानुत्पन्नादिसर्वधर्मदेशनात् । प्रतिपक्षाभिसंधिर् दोषाणां विनये द्रष्टव्यो यथाष्टावरणप्रतिपक्षाग्रयानसंभाषानुशंसे गाथाद्वयं वक्ष्यति । परिणामनाभिसंधिर् अभिधानगाम्भीर्ये द्रष्टव्यो यथाह ।
असारे सारतयो विपर्यासेच सुखिताः ।
क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिम् उत्तमां ॥ इति
अयम् अत्राभिसंधिः । असारे सारमतय इत्य् अविक्षेपे येषां सारबुद्धिः प्रधानबुद्धिर्विक्षेपो हि विसारश् चेतसः । विपर्यासे च सुस्थिता इति नित्यसुखशुच्यात्मग्राहविपर्ययेणानित्यादिके विपर्यासे सुस्थिता अपरिहाणितः । क्लेशेन च स संक्लिष्टा इति दीर्घदुष्करव्यायाम् अश्रमेणात्यर्थं परिक्लिष्टाः । अभिप्रायविभागे श्लोकः ।
समता ऽर्थान्तरे ज्ञेयस् तथा कालान्तरे पुनः ।
पुद्गलस्याशये चैव अभिप्रायश् चतुर्विधः

12.19

चतुर्विधो ऽभिप्रायः । सतताभिप्रायो यद् आह । अहम् एव स तस्मिन् समये विपश्वी सम्यक्संबुद्धो ऽभूवम् इत्य् अविशिष्टधर्मकायत्वात् । अर्थान्तराभिप्रायो यद् आह । निःस्वभावाः सर्वधर्मा अनुत्पन्ना इत्य् एवम् आदि अयथारुतार्थत्वात् कालान्तराभिप्रायो यदाह । ये सुखावत्यां प्राणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति कालान्तरेणेत्य् अभिप्रायः । पुद्गलाशयाभिप्रायो यत् तद् एव कुशलमूलं कस्यचित् प्रशंसते कस्यचिद् विगर्हते ऽल्पमात्रसंतुष्टस्य वैपुल्यसंग्रहात् महायानसूत्रान्तसानुशंसं गाथाद्वयम् उपादायाह ।
बुद्धे धर्मे ऽवज्ञा कौशीद्यं तुष्टिर् अल्पमात्रेण ।
रागे माने चरितं कौकृतं चानियतभेदः

12.20

सत्वानाम् आवरणं तत्प्रतिपक्षो ऽग्रयान् असंभाषा ।
सर्वान्तरायदोषप्रहाणम् एषां ततो भवति

12.21

यो ग्रन्थतो ऽर्थतो वा गाथाद्वयधारणे प्रयुज्येत ।
स हि दशविधमनुशंसं लभते सत्वोत्तमो धीमान्

12.22

कृत्स्नां च धातुपुष्टिं प्रामोद्यं चोत्तमं मरणकाले ।
जन्म च यथाभिकामं जातिस्मरतां च सर्वत्र

12.23

बुद्धैश् च समवधानं तेभ्यः श्रवणं तथाग्रयान् अस्य ।
अधिमुक्तिं सह बुद्ध्या द्वयमुखताम् आशुबोधिं च

12.24

बुद्धे धर्मे ऽवज्ञेति पञ्च गाथाः । तत्रानियतभेदो बोधिसत्वानाम् अनियतानां महायानद्भेदः । अग्रयान् असंभाषा या महायानदेशना । बुद्धे ऽवज्ञावरणस्य प्रतिपक्षसंभाषा । अहम् एव स तेन कालेन विपश्वी सम्यक्संबुद्धो ऽभूवम् इति । धर्मे ऽवज्ञावरणस्य प्रतिपक्षसंभाषा । इयतो गंगानदीवालिकासमानबुद्धान् पर्युपास्य महायाने ऽवबोध उत्पद्यत इति । कौशीद्यावरणस्य प्रतिपक्षसंभाषा । ये सुखावत्यां प्रणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति । विमलचन्द्रप्रभस्य च तथागतस्य नामधेयग्रहणमात्रेण नियतो भवत्य् उनत्तरायां सम्यक्संबोधाव् इति । अल्पमात्रसंतुष्ट्यावरस्य प्रतिपक्षसंभाषा । यत्र भगवान् क्वचिद् दानादि विवर्णयति अन्यत्र वर्णितवान् । रागचरितस्य चावरणस्य प्रतिपक्षसंभाषा । यत्र भगवान् बुद्धक्षेत्रविभूतिं वर्णयति । मानचरितस्यावरणस्य प्रतिपक्षसंभाषा । यत्र भगवान् कस्यचिद् बुद्धस्याधिकां संपत्तिं वर्णयति । कौकृत्यावरणस्य ( म्स 84 ) प्रतिपक्षसंभाषा । ये बुद्धबोधिसत्वेष्व् अकारं करिष्यन्ति ते सर्वे स्वर्गोपगा भविष्यन्तीति । अनियतभेदस्यावरणस्य प्रतिपक्षसंभाषा । महाश्रावकाणां बुद्धत्वे व्याकरणदेशना एकयानदेशना च । कृत्स्नधातुपुष्टिः सर्वमहायानाधिष्ठानाय धातुपुष्टिस् तदावरणविगमात् सर्वत्र महायाने ऽधिमुक्तिलाभतः । द्वयमुखता समाधिमुखता धारणीमुखता च । दृष्टे धर्मे द्विविधो ऽनुशंसः सांपरायिके ऽष्टविधः क्रमेणोत्तराउत्तरविशेषलाभाद् वेदितव्यः । देशनानुशंसे श्लोकः ।
इति सुगतिरखेदवान् कृपालुः प्रथितयशाः सुविधिज्ञताम् उपेतः ।
भवति सुकथिको हि बोधिसत्वस् तपति जने कथितैर् यथैव सूर्यः

मूल पाठ: Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa · Edition: Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907. · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc