महायानसूत्रालंकार (टीका सहित) · अध्याय 11
यत्र यादृश्याधिमुक्त्या यो यत्फलं परिगृह्लाति । विस्तीर्णे महायानधर्मे ऽपरिणीययोदाराधिमुक्त्या मतिमान् त्रिविधं फलं परिगृह्णाति । विपुलपुण्यवृद्धिं तस्या एवाधिमुक्तेर् वृद्धिं तद्धेतुकां चातुल्यगुणमहात्मतां बुद्धत्वं ।
महायानसूत्रालंकारे अधिमुक्त्यधिकारो दशमः
छपित्रे xइ
एकादशो ऽधिकारः
धर्मपर्येष्ट्यधिकारे आलम्बनपर्येष्टौ चत्वारः श्लोकाः
पिटकत्रयं द्वयं वा संग्रहतः कारणैर् नवभिर् इष्टम् ।
वासनबोधनशमनप्रतिवेधैस् तद् विमोचयति
पिटकत्रयं सूत्रविनयाभिधर्माः । तद् एव त्रयं हीनयानाग्रयानभेदेन द्वयं भवति । श्रावकपिटकं बोधिसत्वपिटकं च । तत्पुनस् त्रयं द्वयं वा केनार्थेन पिटकम् इत्य् आह । संग्रहतः सर्वज्ञेयार्थसंग्रहाद् वेदितव्यं । केन कारणेन त्रयं । नवभिः कारणैर् विचिकित्साप्रतिपक्षेण सूत्रं यो यत्रार्थे संशयितस् तस्य तन्निश्चयार्थं देशनात् । अन्तद्वयानुयोगप्रतिपक्षेण विनयः सावद्यपरिभोगप्रतिषेधतः कामसुखल्लिकानुयोगान्तस्यानवद्यपरिभोगानुज्ञानत आत्मक्लमथानुयोगान्तस्य । स्वयंदृष्टिपरामर्षप्रतिपक्षेणाभिधर्मो ऽविपरीतधर्मलक्षणाभिद्योतनात् । ( म्स 54 ) पुनः शिक्षात्रयदेशना सूत्रेण अधिशीलाधिचित्तसंपादनता विनयेन शीलवतो ऽविप्रतिसारादविप्रतिसारेण समाधिलाभात् । अधिप्रज्ञासंपादनाभिधर्मेणाविपरीतार्थप्रविचयात् । पुनर् धर्मार्थदेशना सूत्रेण । धर्मार्थनिष्पत्तिर्विनयेन क्लेशविनयसंयुक्तसस्य तयोः प्रतिवेधात् । धर्मार्थसांकथ्यविनिश्चयकौशल्यम् अभिधर्मेणेति । एभिर् नभिः कारणैः पिटकत्रयम् इष्टं । तच् च संसाराद् विमोचनार्थं । कथं पुनस् तद् विमोचयति । वासनबोधशमनप्रतिवेधैस् तद् विमोचयति । श्रुतेन चित्तवासनतः । चिन्तया बोधनतः । भावनया शमथेन शमनतः । विपश्यनया प्रतिवेधतः ।
सूत्राभिधर्मविनयाश् चतुर्विधार्था मताः समासेन ।
तेषां ज्ञानाद् धीमान् सर्वाकारज्ञताम् एति
ते च सूत्रविनयाभिधर्माः प्रत्येकं चतुर्विधार्थाः समासतस् तेषां ज्ञानाद् बोधिसत्वः सर्वज्ञतां प्राप्नोति । श्रावकस् त्व् एकस्या अपि गाथाया अर्थम् आज्ञायास्रवक्ष्यं प्राप्नोति ।
आश्रयतो लक्षणतो धर्माद् अर्थाच् च सूचनात् सूत्रम् ।
अभिमुखतो ऽथाभीक्ष्ण्याद् अभिभवगतितो ऽभिधर्मश् च
कथं प्रत्येकं चतुर्विधार्थः । आश्रयक्षणधर्मार्थसूचनात् सूत्रं । तत्राश्रयो यत्र देशे देशितं येन यस्मै च । लक्षणं संवृतिसत्यलक्षणं परमार्थसत्यलक्षणं च । धर्माः स्कन्धायतनधात्वाहारप्रतीत्यसमुत्पादादयः । अर्थो ऽनुसंधिः । अभिमुखत्वाद् अभीक्ष्णत्वाद् अभिभवनाद् अभिगमनाच् चाभिधर्मो वेदितव्यः । निर्वाणाभिमुखो धर्मो ऽभिधर्मः सत्यबोधिपक्षविमोक्षमुखादिदेशनात् । अभीक्ष्णं धर्मो ऽभिधर्म एकैकस्य धर्मस्य रूप्यरूपिसनिदर्शनादिप्रभेदेन बहुलनिर्देशात् । अभिभवतीत्य् अभिधर्मः परप्रवादाभिभवनाद् विवादाधिकरणादिभिः । अभिगम्यते सूत्रार्थ एतेनेत्य् अभिधर्मः ।
आपत्तेर् उत्थानाद् व्युत्थानान् निःसृतेश् च विनयत्वम् ।
पुद्गलतः प्रज्ञप्तेः प्रविभागविनिश्चयाच् चैव
आपत्तितः समुत्थानतो व्युत्थानतो निःसरणतश् च वेदितव्यः । तत्रापत्तिः ( म्स 55 ) पञ्चापत्तिनिकायाः । समुत्थानम् आपत्तीनाम् अज्ञानात् प्रमादात् क्लेशप्राचुर्यादनादराच् च । व्युत्थानम् आशयतो न दण्डकर्मतः । निःसरणं सप्तविधं । प्रतिदेशना । अभ्युपगमः शिक्षादत्तकादीनां दण्डकर्मणः । समवद्योतः प्रज्ञप्ते शिक्षापदे पुनः पर्यायेण । अज्ञानात् प्रस्रब्धिः समग्रेण संघेन शिक्षापदस्थ प्रतिप्रस्रम्भणात् । आश्रयपरिवृत्तिर् भिक्षुभिक्षुण्योः स्त्रीपुरुषव्यञ्जनपरिवर्तनाद् असाधारणा वेदापत्तिः । भूतप्रत्यवेक्षा धर्मोद्दानाकरैः प्रत्यवेक्षाविशेषः । धर्मताप्रतिलम्भश् च सत्यदर्शनेन क्षुद्रानुक्षुद्रापन्नाभावे धर्मप्रतिलम्भात् । पुनश् चतुर्विधेनार्थेन विनयो वेदितव्यः । पुद्गलतो यम् आगम्य शिक्षा प्रज्ञप्यते । प्रज्ञप्तितो यदा ऽरोचिते पुद्गलापराधे शास्ता संनिपात्य संघशिक्षां प्रज्ञापयति । प्रविभागतो यः प्रज्ञप्ते शिक्षापदे तद् उद्देशस्य विभागः । विनिश्चयतश् च तत्रापत्तिः कथं भवत्य् अनापत्तिर् वेति निर्धारणात् । आलम्बनलाभपर्येष्टौ त्रयः श्लोकाः ।
आलम्बनं मतो धर्मः आध्यात्मं बाह्यकं द्वयम् ।
लाभो द्वयोर् द्वयार्थेन द्वयोश् चानुपलम्भतः
..... बाह्यम् आध्यात्मिकं बाह्यं च । तत्र ग्राहकभूतं कायादिकमाध्यात्मिकं ग्राह्यभूतं बाह्यं तयोर् एव तथताद्वयं । तत्र द्वयोर् आध्यात्मिकबाह्ययोर् आलम्बनयोर् द्वयार्थेन लाभो यथाक्रमं । यदि ग्राह्यार्थाद् ग्राहकार्थम् अभिन्नं पश्यति ग्राहकार्थाच् च ग्राह्यार्थं द्वयस्य पुनः समस्तस्याध्यात्मिकबाह्यालम्बनस्य तथताया लाभस् तयोर् एव द्वयोर् अनुपलम्भाद् वेदितव्यः ।
मनोजल्पैर् यथोक्तार्थप्रसन्नस्य प्रधारणात् ।
अर्थख्यानस्य जल्पाच् च नाम्नि स्थानाच् च चेतसः
धर्मालम्बनलाभः स्यात् त्रिभिर् ज्ञानैः श्रुतादिभिः ।
त्रिविधालम्बनलाभश् च पूर्वोक्तस् तत् समाश्रितः
धर्मालम्बनलाभः पुनस् त्रिभिर् ज्ञानैर् भवति श्रुतचिन्ताभावनामयैः । तत्र समाहितेन चेतसा मनोजल्पैर् यथोक्तार्थप्रसन्नस्य तत्प्रधारणात् । श्रुतमयेन ज्ञानेन तल्लाभः मनोजल्पैर् इति संकल्पैः । प्रसन्नस्येत्य् अधिमुक्तस्य निश्चितस्य । प्रधारणाद् इति प्रविचयात् । जल्पाद् अर्थख्यानस्य प्रधारणाच् चिन्तामयेन तल्लाभः । यदि मनोजल्पाद् एवायम् अर्थः ख्यातीति पश्यति नान्यन् मनोजल्पाद् यथोक्तं द्वयालम्बनलाभे । चित्तस्य नाम्नि स्थानात् भावनामयेन ज्ञानेन तल्लाभो वेदितव्यो द्वयानुपलम्भाद् यथोक्तं द्वयालम्बनलाभे । अत एव च स पूर्वोक्तस् त्रिविधालम्बनलाभो धर्मालम्बनलाभसंनिश्रितो वेदितव्यः । मनसिकारपर्येष्टौ पञ्च श्लोकाः ।
त्रिधातुकः कृत्यकरः ससंबाधाश्रयो ऽपरः ।
अधिमुक्तिनिवेशी च तीव्रच्छन्दकरो ऽपरः
हीनपूर्णाश्रयो द्वेधा सजल्पो ऽजल्प एव च ।
ज्ञानेन संप्रयुक्तश् च योगोपनिषदात्मकः
संभिन्नालम्बनश् चासौ विभिन्नालम्बनः स च ।
पञ्चधा सप्तधा चैव परिज्ञा पञ्चधा ऽस्य च
चत्वारः सप्तत्रिंशच् च आकारा भावनागताः ।
मार्गद्वयस्वभावो ऽसौ द्व्यनुशंसः प्रतीच्छकः
प्रयोगी वशवर्ती च परीत्तो विपुलात्मकः ।
योगिनां हि मनस्कार एष सर्वात्मको मतः
अष्टादशविधो मनस्कारः । धातुनियतः कृत्यकर आश्रयविभक्तो ऽधिमुक्तिनिवेशकश् च्छन्दजनकः समाधिसंनिश्रितो ज्ञानसंप्रयुक्तः संभिन्नालम्बनो विभिन्नालम्बनः परिज्ञानियतो भावनाकारप्रविष्टः शमथविपश्यनामार्गस्वभावो ऽनुशंसमनस्कारः प्रतीच्छकः प्रायोगिकमनस्कारो वशवर्तिमनस्कारः परीत्तमनस्कारो विपुलमनस्कारश् च । तत्र धातुनियतो यः श्रावकादिगोत्रनियतः । कृत्यकरो यः संभृतसंभारस्य । आश्रयविभक्तो यः ससंबाधगृहस्थाश्रयो ऽसंबाधप्रव्रजिताश्रयश् च । अधिमुक्तिनिवेशको यो बुद्धानुस्मृतिसहगतः । च्छन्दजनको ( म्स 57 ) यस् तत् संप्रत्ययसहगतः । समाधिसंनिश्रितो यः समन्तकमौलसमाधिसहगतः सवितर्कसविचारमात्रावितर्काविचारसहगतश् च । ज्ञानसंप्रयुक्तो यो योगोपनिषद् योगसहगतः स पुनर्यथाक्रमं श्रुतचिन्तामन्यो भावनामयश् च । संभिन्नालम्बनः पञ्चविधः सूत्रोद्दानगाथानिपातयावदुद्गृहीतयावद्देशितालम्बनः । विभिन्नालम्बनः सप्तविधो नामालम्बनः पदालम्बनो व्यञ्जनालम्बनः पुद्गलनैरात्म्यालम्बनो धर्मनैरात्म्यालम्बनो रूपिधर्मालम्बनो ऽरूपिधर्मालम्बनश् च । तत्र रूपिधर्मालम्बनो यः कायालम्बनः । अरूपिधर्मालम्बनो यो वेदनाचित्तधर्मालम्बनः । परिज्ञानियतो यः परिज्ञेये वस्तुनि परिज्ञेये ऽर्थे परिज्ञायां परिज्ञाफले तत्प्रवेदनायां च । तत्र परिज्ञेयं वस्तु दुःखं परिज्ञेयो ऽर्थस् तस्यैवानित्यदुःखशून्यानात्मता । परिज्ञा मार्गः । परिज्ञाफलं विमुक्तिः । तत्प्रवेदना विमुक्तिज्ञानदर्शनं । भावनाकारप्रविष्टश् चतुराकारभावनः सप्तत्रिंशदाकारभावनश् च । तत्र चतुराकारभावनः पुद्गलनैरात्म्याकारभावनो धर्मनैरात्म्याकारभावनो दर्शनाकारभावनो ज्ञानाकारभावनश् च । तत्र सप्तत्रिंशदाकारभावनः । अशुभाकारभावनो दुःखाकारभावनो ऽनित्याकारभावनो ऽनात्माकारभावनः स्मृत्युपस्थानेषु । प्रतिलम्भाकारभावनो निसेवनाकारभावनो विनिर्धावनाकारभावनः प्रतिपक्षाकारभावनः सम्यक्प्रहाणेषु । संतुष्टिप्रातिपक्षिकमनस्कारभावनो यदा च्छन्दं जनयति । विक्षेपसंशयप्रातिपक्षिकमनस्कारभावनो यदा व्यायच्छते वीर्यम् आरभते यथाक्रमं । औद्धत्यप्रातिपक्षिकसमाध्याकारभावनो यदा चित्तं प्रदधाति । लयप्रातिपक्षिकसमाध्याकारभावनो यदा चित्तं प्रगृह्णाति । एते यथाक्रमं चतुर्षु ऋद्धिपादेषु वेदितव्याः । स्थितचित्तस्य लोकोत्तरसंपत्तिसंप्रत्ययाकारभावनो यथा संप्रत्ययाकारभावन एवं व्यवसायाकारभावनो धर्मासंप्रमोषाकारभावनश् चित्तस्थित्याकारभावनः प्रविचयाकारभावन इन्द्रियेषु । एत एव पञ्च निर्लिखितविपक्षमनस्कारा बलेषु । संबोधिसंप्रख्यानाकारभावनस् तत्रैव विचयोत्साहसौमनस्यकर्मण्यता चित्तस्थितिसमताकारभावनाः सप्तसंबोध्यङ्गेषु । प्राप्तिनिश्चयाकारभावनः परिकर्मभूमिसंरक्षणाकारभावनः परसंप्राप्त्याकारभावन आर्यकान्तशीलप्रविष्टाकारभावनः संलिखितवृत्तिसमुदाचारकारभावनः पूर्वपरिभावितप्रतिलब्धमार्गाभ्यासाकारभावनो धर्मस्थितिनिमित्तासंप्रमोषाकारभावनो ऽनिमित्तस्थित्याश्रयपरिवृत्त्याकारभावनश् च मार्गाङ्गेषु । शमथविपश्यनाभावनामार्गस्वभावयोर् न कश्चिन् निर्देशः । अनुशंसमनस्कारो द्विविधो दौष्ठुल्यापकर्षणो ( म्स 58 ) दृष्टिनिमित्तापकर्षणश्च । प्रतीच्छको यो धर्मस्रोतसि बुद्धबोधिसत्वानाम् अन्तिकाद् अववादग्राहकः । प्रायोगिकमनस्कारः पञ्चविधः समाधिगोचरे । संख्योपलक्षणप्रायोगिको येन सूत्रादिषु नामपदव्यञ्जनसंख्याम् उपलक्षयते । वृत्त्युपलक्षणप्रायोगिको येन द्विविधां वृत्तिम् उपलक्षयते परिमाणवृत्तिं च व्यञ्जनानाम् अपरिमाणवृत्तिं च नामपदयोः । परिकल्पोपलक्षणप्रायोगिको येन द्वयम् उपादाय द्वयपरिकल्पम् उपलक्षयते । नामपरिकल्पम् उपादायार्थपरिकल्पम् अर्थपरिकल्पमुपादाय नामपरिकल्पम् अपरिकल्पम् अक्षरं । क्रमोपलक्षणप्रायोगिको येन नामग्रहणपूर्विकाम् अर्थग्रहणप्रवृत्तिम् उपलक्षयते । प्रतिवेधप्रायोगिकश् च । स पुनर् एकादशविधो वेदितव्य आगन्तुकत्वप्रतिवेधतः संप्रख्याननिमित्तप्रतिवेधतो ऽर्थानुपलम्भप्रतिवेधत उपलम्भानुपलम्भप्रतिवेधतो धर्मधातुप्रतिवेधतः पुद्गलनैरात्म्यप्रतिवेधतो धर्मनैरात्म्यप्रतिवेधतो हीनाशयप्रतिवेधत उदारमाहात्म्याशयप्रतिवेधतो यथाधिगमधर्मव्यवस्थानप्रतिवेधतो व्यवस्थापितधर्मप्रतिवेधतश् च । वशवर्तिमनस्कारस्रिविधः आवरणसुविशुद्धः क्लेशज्ञेयावरणसुविशुद्धो गुणाभिनिर्हारसुविशुद्धश् च । धर्मतत्वपर्येष्टौ द्वौ श्लोकौ ।
तत्वं यत् सततं द्वयेन रहितं भ्रान्तेश् च संनिश्रयः शक्यं नैव च सर्वथाभिलपितुं यञ् चाप्रपञ्चात्मकम् ।
ज्ञेयं हेयम् अथो विशोध्यममलं यच् च प्रकृत्या मतम् यस्याकाशसुवर्णवारिसदृशी क्लेशाद् विशुद्धिर्मता
सततं द्वयेन रहितं तत्वं परिकल्पितः स्वभावो ग्राह्यग्राहकलक्षणेनात्यन्तमसत्वात् । भ्रान्तेः संनिश्रयः परतन्त्रस् तेन तत्परिकल्पनात् । अनभिलाप्यम् अप्रपञ्चात्मकं च परिनिष्पन्नः स्वभावः । तत्र प्रथमं तत्वं परिज्ञेयं द्वितीयं प्रहेयं तृतीयं विशोध्यं चागन्तुकमलाद्विशुद्धं च प्रकृत्या यस्य प्रकृत्या विशुद्धस्याकाशसुवर्णवारिसदृशी क्लेशाद् विशुद्धिः । न ह्य् आकाशादीनि प्रकृत्या अशुद्धानि । न चागन्तुकमलापगमाद् एषां विशुद्धिर् नेष्यत इति ।
न खलु जगति तस्माद् विद्यते किंचिद् अन्यज् जगद् अपि तद् अशेषं तत्र संमूढबुद्धि ।
कथम् अयम् अभिरूढो लोकमोहप्रकारो यदसदभिनिविष्टः सत्समन्ताद् विहाय
न खलु तस्माद् एवंलक्षणाद् धर्मधातोः किंचित् अन्यल् लोके विद्यते धर्मताया धर्मस्याभिन्नत्वात् । शेषं गतार्थं । तत्वे मायोपमपर्येष्टौ पञ्चदश श्लोकाः ।
यथा माया तथाऽभूतपरिकल्पो निरुच्यते ।
यथा मायाकृतं तद्वत् द्वयभ्रान्तिर्निरुच्यते
यथा माया यन्त्रपरिगृहीतं भ्रान्तिनिमित्तं काष्ठलोष्टादिकं तथाभूतपरिकल्पः परतन्त्रः स्वभावो वेदितव्यः । यथा मायाकृतं तस्यां मायायां हस्त्यश्वसुवर्णाद्याकृतिस् तद्भावेन प्रतिभासिता तथा तस्मिन्न् अभूतपरिकल्पे द्वयभ्रान्तिर्ग्राह्यग्राहकत्वेन प्रतिभासिता परिकल्पितस्वभावाकारा वेदितव्या ।
यथा तस्मिन् न तद्भावः परमार्थस् तथेष्यते ।
यथा तस्योपलब्धिस् तु तथा संवृतिसत्यता
यथा तस्मिन् न तद्भावो मायाकृते हस्तित्वाद्यभावस् तथा तस्मिन् परतन्त्रे परमार्थ इष्यते परिकल्पितस्य द्वयलक्षणस्याभावः । यथा तस्य मायाकृतस्य हस्त्यादिभावेनोपलब्धिस् तथाभूतपरिकल्पस्य संवृतिसत्यतोपलब्धिः ।
तदभावे यथा व्यक्तिस् तन्निमित्तस्य लभ्यते ।
तथाश्रयपरावृत्ताव् असत्कल्पस्य लभ्यते
यथा मायाकृत्यस्याभावे तस्य निमित्तस्य काष्ठादिकस्य व्यक्तिर् भूतार्थोपलभ्यते तथाश्रयपरावृत्तौ द्वयभ्रान्त्यभावाद् अभूतपरिकल्पस्य भूतो ऽर्थ उपलभ्यते ।
तन्निमित्ते यथा लोको ह्य् अभ्रान्तः कामतश् चरेत् ।
परावृत्ताव् अपर्यस् तः कामचारी तथा पतिः यतिः
यथा तन्निमित्ते काष्ठादाव् अभ्रान्तो लोकः कामतश् चरति स्वतन्त्रस् तथा ऽश्रयपरावृत्त्वपर्यस्त आर्यः कामचारी भवति स्वतन्त्रः ।
तदाकृतिश् च तत्रास्ति तद्भावश् च न विद्यते ।
तस्माद् अस्तित्वनास्तित्वं मायादिषु विधीयते
एष श्लोको गतार्थः
न भावस् तत्र चाभावो नाभावो भाव एव च ।
भावाभावाविशेषश् च मायादिषु विधीयते
न भावस् तत्र चाभावो यस् तदाकृतिभावो नासौ न भावः । नाभावो भाव एव च यो हस्तित्वाद्यभावो नासौ न भावः । तयोश् च भावाभावयोर् अविशेषो मायादिषु विधीयते । य एव हि तत्र तदाकृतिभावः । स एव हस्तित्वाद्यभावः । य एव हस्तित्वाद्यभावः स एव तदाकृतिभावः ।
तथा द्वयाभतात्रास्ति तद्भावश् च न विद्यते ।
तस्माद् अस्तित्वनास्तित्वं रूपादिषु विधीयते
तथा ऽत्राभूतपरिकल्पे द्वयाभासतास्ति द्वयभावश् च नास्ति । तस्माद् अस्तित्वनास्तित्वं रूपादिषु विधीयते ऽभूतपरिकल्पस्वभावेषु ।
न भावस् तत्र चाभावो नाभावो भाव एव च ।
भावाभावाविशेषश् च रूपादिषु विधीयते
न भावस् तत्र चाभावः । या द्वयाभासता ।
नाभावो भाव एव च । या द्वयता नास्तिता । भावाभावाविशेषश् च रूपादिषु विधीयते । य एव हि आभासताया भावः स एव द्वयस्याभाव इति ।
समारोपापवादाभप्रतिषेधार्थम् इष्यते ।
हीनयानेन यानस्य प्रतिषेधार्थम् एव च
किम् अर्थं पुनर् अयं भावाभावयोर् ऐकान्तिकत्वम् अविशेषश् चेष्यते । यथाक्रमं । समारोपापवादाभप्रतिषेधार्थम् इष्यते । हीनयानगमनप्रतिषेधार्थं च । अभावस्य ह्य् अभावत्वं विदित्वा समारोपं न करोति । भावस्य भावत्वं विदित्वापवादं न करोति । तयोश् चाविशेषं विदित्वा न भावाद् उद्विजयते तस्मान् न हीनयानेन निर्याति ।
भ्रान्तेर् निमित्तं भ्रान्तिश् च रूपविज्ञप्तिर् इष्यते ।
अरूपिणी च विज्ञप्तिर् अभावात् स्यान् न चेतरा
रूपभ्रान्तेर् या निमित्तविज्ञप्तिः सा रूपविज्ञप्तिर् इष्यते रूपाख्या । सा तु ( म्स 61 ) रूपभ्रान्तिर् अरूपिणी विज्ञप्तिः । अभावाद् रूपाविज्ञप्तेर् इतरापि न स्याद् अरूपिणी विज्ञप्तिः । कारणाभावात् ।
मायाहस्त्याकृतिग्राहभ्रान्तेर् द्वयम् उदाहृतम् ।
द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते
बिम्बसंकलिकाग्राहभ्रान्तेर् द्वयम् उदाहृतम् ।
द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते
मायाहस्त्याकृतिग्राह्यभ्रान्तितो द्वयम् उदाहृतं । ग्राह्यं ग्राहकं च तत्र यथा नास्ति द्वयं चैवोपलभ्यते । प्रतिबिम्बं संकलिकां च मनसिकुर्वतः तद्ग्राहभ्रान्तेर् द्वयम् उदाहृतं पूर्ववत् ।
तथा भावात् तथाभावाद् भावाभावविशेषतः ।
सदसन्तो ऽथ मायाभा ये धर्मा भ्रान्तिलक्षणाः
ये धर्मा भ्रान्तिलक्षणा विपक्षस्वभावास् ते सदसन्तो मायोपमाश् च । किं कारणं । सन्तस् तथा भावाद् अभूतपरिकल्पत्वेन । असन्तस् तथा ऽभावात् ग्राह्यग्राहकत्वेन । तयोश् च भावाभावयोर् अविशिष्टत्वात् सन्तो ऽप्य सन्तो ऽपि मायापि चैवंलक्षणास् तस्मान् मायोपमाः ।
तथा ऽभावात् तथा ऽ; भावात् तथा ऽभावाद् अलक्षणाः ।
मायोपमाश् च निर्दिष्टा ये धर्माः प्रातिपक्षिकाः
ये ऽपि प्रातिपक्षिका धर्मा बुद्धेनोपदिष्टाः स्मृत्युपस्थानादयस् ते ऽप्यलक्षणा मायाश् च निर्दिष्टाः । किं कारणं तथा ऽभावाद् यथा बालैर् गृह्यन्ते । तथा ऽभावाद् यथा देशिताः । तथा ऽभावाद् यथा संदर्शिता बुद्धेन गर्भावक्रमणजन्माभिनिष्क्रमणाभिसंबोध्यादयः । एवम् अलक्षणा अविद्यमानाश् च ख्यान्ति तस्मान् मायोपमाः ।
मायाराजैव चान्येन मायाराज्ञा पराजितः ।
ये सर्वधर्मान् पश्यन्ति निर्मारास् ते जिनात्मजाः
ये प्रातिपक्षिका धर्मास् ते मायाराजस्थानीयाः संक्लेशप्रहाणे व्यवदानाधिपत्यात् । ये ऽपि सांक्लेशिका धर्मास् ते ऽपि राजस्थानीयाः संक्लेशनिर्वृत्ताव् आधिपत्यात् । अतस् तैः प्रातिपक्षिकैः संक्लेशपराजयो मायाराज्ञेव राज्ञः पराजयो द्रष्टव्यः । तज्ज्ञानाच् च बोधिसत्वा निर्मानाः] भवन्ति उभयपक्षे । औपम्यार्थे श्लोकः ।
मायास्वप्नमरीचिबिम्बसदृशाः प्रोद्भासश्रुत्कोपमा विज्ञेयोदकचन्द्रबिम्बसदृशा निर्माणतुल्याः पुनः ।
षट् षट् द्वौ च पुनश् च षट् द्वयमता एकैकशश् च त्रयः संस्काराः खलु तत्र तत्र कथिता बुद्धैर् विबुद्धोत्तमैः
यत् तूक्तं भगवता मायोपमा धर्मा यावन् निर्माणोपमा इति । तत्र मायोपमा धर्माः षडाध्यात्मिकान्य् आयतनानि । असत्य् आत्मजीवादित्वे तथा प्रख्यानात् । स्वप्नोपमाः षट् बाह्यान्य् आयतनानि तदुपभोगस्यावस्तुकत्वात् । मरीचिकोपमौ द्वौ धर्मो चित्तं चैतसिकाश् च भ्रान्तिकरत्वात् । प्रतिबिम्बोपमाः पुनः षड् एवाध्यात्मिकान्य् आयतनानि पूर्वकर्मप्रतिबिम्बत्वात् । प्रतिभासोपमाः षड् एव बाह्यान्य् आयतनान्य् आध्यात्मिकानाम् आयतनानां छायाभूतत्वात् तदाधिपत्योत्पत्तितः । षट् द्वयं मताः षट् द्वयमताः । प्रतिश्रुत्कोपमा देशनाधर्माः । उदकचन्द्रबिम्बोपमाः समाधिसंनिश्रिता धर्माः समाधेर् उदकस्थानीयत्वाद् अच्छतया । निर्माणोपमाः संचिन्त्यभवोपपत्तिपरिग्रहे ऽसंक्लिष्टसर्वक्रियाप्रयोगत्वात् । ज्ञेयपर्येष्टौ श्लोकः ।
अभूतकल्पो न भूतो नाभूतो ऽकल्प एव च ।
न कल्पो नापि चाकल्पः सर्वं ज्ञेयं निरुच्यते
अभूतकल्पो यो न लोकोत्तरज्ञानानुकूलः कल्पः । न भूतो नाभूतो यस् तदनुकूलो यावन् निर्वेधभागीयः । अकल्पस् तथता लोकोत्तरं च ज्ञानं । न कल्पो ( म्स 63 ) नापि चाकल्पो लोकोत्तरपृष्ठलब्धं लौकिकं ज्ञानं । एतावच् च सर्वं ज्ञेयं । संक्लेशव्यवदानपर्येष्टौ श्लोकद्वयं ।
स्वधातुतो द्वयाभासाः साविद्याक्लेशवृत्तयः ।
विकल्पाः संप्रवर्तन्ते द्वयद्रव्यविवर्जिताः
स्वधातुत इति भावाङ्गाद् आलयविज्ञानतः । द्वयाभासा इति ग्राह्यग्राहकाभासाः । सहाविद्यया क्लेशैश् च वृत्तिर् एषां त इमे साविद्याक्लेशवृत्तयः । द्वयद्रव्यविवर्जिता इति ग्राह्यद्रव्येण ग्राहकद्रव्येण च । एवं क्लेशः पर्येषितव्यः ।
आलम्बनविशेषाप्तिः स्वधातुस्थानयोगतः ।
त एव ह्य् अद्वयाभासा वर्तन्ते चर्मकाण्डवत्
आलम्बनविशेषाप्तिर् इति यो धर्मालम्बनलाभः पूर्वम् उक्तः । स्वधातुस्थानयोगत इति स्वधातुर् विकल्पानां तथता तत्र स्थानं नाम्नि स्थानाच् चेतसः । योगत इत्य् अभ्यासात् । भावनामार्गेण त एव विकल्पा अद्वयाभासा वर्तन्ते परावृत्ताश्रयस्य । चर्मवत् काण्डवच् च । यथा हि खरत्वापगमात् तद् एव चर्म मृदु भवति । अग्निसंतापनया तद् एव काण्डं ऋजु भवति । एवं शमथविपश्यनाभावनाभ्यां चेतःप्रज्ञाविमुक्तिलाभे परावृत्ताश्रयस्य त एव विकल्पा न पुनर् द्वयाभासाः प्रवर्तन्ते इत्य् एव व्यवदानं पर्येषितव्यं । विज्ञप्तिमात्रतापर्येष्टौ द्वौ श्लोकौ ।
चित्तं द्वयप्रभासं रागाद्याभासम् इष्यते तद्वत् ।
श्रद्धाद्याभासं न तदन्यो धर्मः क्लिष्टकुशलो ऽस्ति
चित्तमात्रम् एव द्वयप्रतिभासम् इष्यते ग्राह्यप्रतिभासं ग्राहकप्रतिभासं च । तथा रागादिक्लेशाभासं तद् एवेष्यते । श्रद्धादिकुशलधर्माभासं वा । न तु तदाभासाद् अन्यः क्लिष्टो धर्मो ऽस्ति रागादिलक्षणः कुशलो वा श्रद्धादिलक्षणः ।
यथा द्वयप्रतिभासाद् अन्यो न द्वयलक्षणः ।
इति चित्तं चित्राभासं चित्राकारं प्रवर्तते
तथाभासाभावाभावो न तु धर्माणां मतः । तत्र चित्तम् एव वस्तु तच् चित्राभासं ( म्स 64 ) प्रवर्तते । पर्यायेण रागाभासं वा द्वेषाभासं वा तदन्यधर्माभासं वा । चित्राकारं च युगपत् श्रद्धाद्याकारं । भासो भावाभावः क्लिष्टकुशलावस्थे चेतसि । न तु धर्माणां कुशलानां तत्प्रतिभासव्यतिरेकेण तल्लक्षणाभावात् । लक्षणपर्येष्टौ श्लोका अष्टौ । एकेनोद्देशः शेषैर् निर्देशः ।
लक्ष्यं च लक्षणं चैव लक्षणा च प्रभेदतः ।
अनुग्रहार्थं सत्वानां संबुद्धैः संप्रकाशिता
अनेनोद्देशः ।
सदृष्टिकं च यच्चित्तं तत्रावस्थाविकारिता ।
लक्ष्यम् एतत् समासेन ह्य् अप्रमाणं प्रभेदतः
तत्र चित्तं विज्ञानं रूपं च । दृष्टिश् चैतसिका धर्माः । तत्रावस्था चित्तविप्रयुक्ता धर्माः । अविकारिता असंस्कृतम् आकाशादिकं तद्विज्ञप्तेर् नित्यं तथाप्रवृत्तेः । इत्य् एतत् समासेन पञ्चविधं लक्ष्यं प्रभेदेनाप्रमाणं ।
यथाजल्पार्थसंज्ञाया निमित्तं तस्य वासना ।
तस्माद् अप्य् अर्थविख्यानं परिकल्पितलक्षणं
लक्षणं समासेन त्रिविधं परिकल्पितादिलक्षणं । तत्र परिकल्पितलक्षणं त्रिविधं यथाजल्पार्थसंज्ञाया निमित्तं तस्य जल्पस्य वासना तस्माच् च वासनाद्यो ऽर्थः ख्याति अव्यवहारकुशलानां विनापि यथाजल्पार्थसंज्ञया । तत्र यथा ऽभिलापम् अर्थसंज्ञा चैतसिकी यथाजल्पार्थसंज्ञा । तस्या यद् आलम्बनं तन्निमित्तम् एवं यच् च परिकल्प्यते यतश् च कारणाद् वासनतस् तद् उभयं परिकल्पितलक्षणमत्राभिप्रेतं ।
यथा नामार्थम् अर्थस्य नाम्नः प्रख्यानता च या ।
असंकल्पनिमित्तं हि परिकल्पितलक्षणम्
अपरपर्यायो यथा नाम चार्थश् च यथानामार्थम् अर्थस्य नाम्नश् च प्रख्यानता यथानामार्थप्रख्यानता । यदि यथानामार्थः ख्याति यथार्थं वा नाम इत्य् एतद् अभूतपरिकल्पालम्बनं परिकल्पितलक्षणं एतावद् धि परिकल्प्यते यद् उत नाम वा अर्थो वेति ।
त्रिविधत्रिविधाभासो ग्राह्यग्राहकलक्षणः ।
अभूतपरिकल्पो हि परतन्त्रस्य लक्षणम्
त्रिविधस् त्रिविधश् चाभासो ऽस्येति त्रिविधत्रिविधाभासः । तत्र त्रिविधाभासः पदाभासो ऽर्थाभासो देहाभासश् च । पुनस् त्रिविधाभासो मनौद्ग्रहविकल्पाभासः । मनो यत् क्लिष्टं सर्वदा । उद्ग्रहः पञ्च विज्ञानकायाः । विकल्पो मनोविज्ञानं । तत्र प्रथमत्रिविधाभासो ग्राह्यलक्षणः । द्वितीयो ग्राहकलक्षणः । इत्य् अयम् अभूतपरिकल्पः परतन्त्रस्य लक्षणं ।
अभावभावता या च भावाभावसमानता ।
अशान्तशान्ता ऽकल्पा च परिनिष्पन्नलक्षणम्
परिनिष्पन्नलक्षणं पुनस् तथता सा ह्य् अभावता च सर्वधर्माणां परिकल्पिता नाभावता च तदभावत्वेन भावात् । भावाभावसमानता च तयोर् भावाभावयोर् अभिन्नत्वात् । अशान्ता चागन्तुकैर् उपक्लेशैः शान्ता च प्रकृतिपरिशद्धत्वात् । अविकल्पा च विकल्पागोचरत्वात् निष्प्रपञ्चतया । एतेन त्रिविधं लक्षणं तथतायाः परिदीपितं स्वलक्षणं क्लेशव्यवदानलक्षणम् अविकल्पलक्षणं च । उक्तं त्रिविधं लक्षनां ।
निष्पन्दधर्मम् आलम्ब्य योनिशो मनसिक्रिया ।
चित्तस्य धातौ स्थानं च सदसत्तार्थपश्यना
लक्षणा पुनः पञ्चविधा योगभूमिः । आधार आधानम् आदर्श आलोक आश्रयश् च । तत्राधारो निष्पन्दधर्मो यो बुद्धेनाधिगमो देशितः स तस्याधिगमस्य निष्पन्दः । आधानं योनिशो मनस्कारः । आदर्शः चित्तस्य धातौ स्थानं समाधिर् यद् एतत् पूर्वं नाम्नि स्थानम् उक्तं । आलोकः सदसत्वेनार्थदर्शनं लोकोत्तरा प्रज्ञा तथा सच् च सतो यथाभूतं पश्यत्य् असच्चासतः । आश्रय आश्रयपरावृत्तिः ।
समतागमनं तस्मिन्न् आर्यगोत्रं हि निर्मलम् ।
समं विशिष्टम् अन्यूनानधिकं लक्षणा मता
समतागमनमनास्रवधातौ आर्यगोत्रे तदन्यैर् आर्यैः । तच् च निर्मलम् आर्यगोत्रं बुद्धानां । समं विमुक्तिसमतया श्रावकप्रत्येकबुद्धैः । विशिष्टं पञ्चभिर् विशेषैः । विशुद्धिविशेषेण सवासनक्लेशविशुद्धितः । परिशुद्धिविशेषेण क्षेत्रपरिशुद्धितः । कायविशेषेण धर्मकायतया । संभोगविशेषेण पर्षन्मण्डलेष्व् अविच्छिन्नधर्मसंभोगप्रवर्तनतः । कर्मविशेषेण च तुषितभवनवासादिनिर्माणैः सत्वार्थक्रियानुष्ठानतः । न च तस्योनत्वं संक्लेशपक्षनिरोधे नाधिकत्वं व्यवदानपक्षोत्पाद इत्य् एषा ( म्स 66 ) पञ्चविधा योगभूमिर् लक्षणा । तथा हि तल्लक्ष्यं च लक्ष्यते । विमुक्तिपर्येष्टौ षट् श्लोकाः ।
पदार्थदेहनिर्भासपरावृत्तिर् अनास्रवः ।
धातुर् बीजपरावृत्तेः स च सर्वत्रगाश्रयः
बीजपरावृत्तेर् इत्य् आलयविज्ञानपरावृत्तितः । पदार्थदेहनिर्भासानां विज्ञानानां परावृत्तिर् अनास्रवो धातुर् विमुक्तिः । स च सर्वत्रगाश्रयः श्रावकप्रत्येकबुद्धगतः ।
चतुर्धा वशिता वृत्तेर् मनसश् चोद्ग्रहश् च च ।
विकल्पस्याविकल्पे हि क्षेत्रे ज्ञाने ऽथ कर्मणि
मनसश् चोद्ग्रहस्य च विकल्पस्य चावृत्तेः परावृत्तेर् इत्य् अर्थः । चतुर्धा वशिता भवति यथाक्रमम् अविकल्पे क्षेत्रे ज्ञानकर्मणोश् च ।
अचलादित्रिभूमौ च वशिता सा चतुर्विधा ।
द्विधैकस्यां तदन्यस्याम् एकैका वशिता मता
सा चेयम् अचलादिभूमित्रये चतुर्धा वशिता वेदितव्या । एकस्याम् अचलायां भूमौ द्विविधा । अविकल्पे न चानभिसंस्कारनिर्विकल्पत्वात् । क्षेत्रे च बुद्धक्षेत्रपरिशोधनात् । तदन्यस्यां भूमाव् एकैका वशिता साधुमत्यं ज्ञानवशिता प्रतिसंविद्विशेषलाभात् । धर्ममेधायां कर्मण्यभिज्ञाकर्मणाम् अव्याघातात् ।
विदित्वा नैरात्म्यं द्विविधम् इह धीमान् भवगतं समं तच् च ज्ञात्वा प्रविशति स तत्वं ग्रहणतः ।
ततस् तत्र स्थानान् मनस इह न ख्याति तद् अपि तदख्यानं मुक्तिः परम उपलम्भस्य विगमः
अपरो विमुक्तिपर्यायः । द्विविधं नैरात्म्यं विदित्वा भवत्रयगतं बोधिसत्वः समं तच् च ज्ञात्वा द्विविधिनैर् आत्म्यं परिकल्पितपुद्गलाभावात् परिकल्पितधर्माभावात् न तु सर्वथैवाभावतः । तत्वं प्रविशति विज्ञप्तिमात्रतां ग्रहणतो ग्रहणमात्रम् एतद् इति । ततस् तत्र तत्वविज्ञप्तिमात्रस्थानान् मनसस् तद् अपि तत्वं न ख्याति ( म्स 67 ) विज्ञप्तिमात्रं । तदख्यानं मुक्तिः परम उपलम्भस्य यो विगमः पुद्गलधर्मयोर् अनुपलम्भात् ।
आधारे संभाराद् आधाने सति हि नाममात्रं पश्यन् ।
पश्यति हि नाममात्रं तत्पश्यंस् तच् च नैव पश्यति भूयः
अपरपर्यायः । आधार इति श्रुतौ संभाराद् इति संभृतसंभारस्य पूर्वसंभारलाभात् । आधाने सतीति योनिशोमनस्कारे नाममात्रं पश्यन्न् इत्य् अभिलापमात्रम् अर्थरहितं । पश्यति हि नाममात्रम् इति विज्ञप्तिमात्रं नाम अरूपिणश् चत्वारः स्कन्धा इति कृत्वा तत्पश्यंस् तद् अपि भूयो नैव पश्यत्य् अर्थभावे तद्विज्ञप्त्यदर्शनाद् इत्य् अयम् अनुपलम्भो विमुक्तिः ।
चित्तम् एतत् सदौष्ठुल्यम् आत्मदर्शनपाशितम् ।
प्रवर्तते निवृत्तिस् तु तद् अध्यात्मस्थितेर् मता
अपरप्रकारश् चित्तम् एतत् सदौष्ठुल्यं प्रवर्तते जन्मसु । आत्मदर्शनपाशितम् इति दौष्ठुल्यकारणं दर्शयति । द्विविधेनात्मदर्शनेन पाशितमतः सदौष्ठुल्यम् इति । निवृत्तिस् तु तद् अध्यात्मस्थितेर् इति तस्य चित्तस्य चित्त एवावस्थानाद् आलम्बनानुपलम्भतः । निःस्वभावतापर्येष्टौ श्लोकद्वयं
स्वयं स्वेनात्मना ऽभावात् स्वभावे चानवस्थितेः ।
ग्राहवत्तदादभावाच् च निःस्वभावत्वम् इष्यते
स्वयम् अभावान् निःस्वभावत्वं धर्माणां प्रत्ययाधीनत्वात् । स्वेनात्मना ऽभावान् निःस्वभावत्वं निरुद्धानां पुनस् तेनात्मनानुत्पत्तेः । स्वभाव ऽनवस्थितत्वान् निःस्वभावत्वं क्षणिकत्वाद् इत्य् एतत्त्रिविधं निःस्वभावत्वं संस्कृतलक्षणत्रयानुगं वेदितव्यं । ग्राहवत् तदभावाच् च निःस्वभावत्वं तदभावाद् इति स्वाभावात् । यथा बालानां स्वभावग्राहो नित्यसुखशच्यात् तो वा ऽन्येन वा परिकल्पितलक्षणेन तथासौ स्वभावो नास्ति तस्माद् अपि निःस्वभावत्वं धर्माणाम् इष्यते । ....
निःस्वभावतया सिद्धा उत्तरोत्तरनिश्रयाः ।
अनुत्पादो ऽनिरोधश् चादिशन्तिः परिनिर्वृतिः
...... निःस्वभावतया ऽनुत्पादादयः । यो हि निःस्वभावः सो ऽनुत्पन्नो यो ऽनुत्पन्नः सो ऽनिरुद्धो यो ऽनिरुद्धः स आदिशान्तो य आदिशान्तः स प्रकृतिपरिनिर्वृत इत्य् एवम् उत्तरोत्तरनिश्रयैर् एभिर् निःस्वभावताभिर् निःस्वभावतया ऽनुत्पादादयः सिद्धा भवन्ति । अनुत्पत्तिधर्मक्षान्तिपर्येष्टावार्या ।
आदौ तत्वे ऽन्यत्वे स्वलक्षणे स्वयम् अथान्यथाभावे ।
संक्लेशे ऽथ विशेषे क्षान्तिर् अनुत्पत्तिधर्मोक्ता
अष्टास्व् अनुत्पत्तिधर्मेषु क्षान्तिर् अनुत्पत्तिकधर्मक्षान्तिः । आदौ संसारस्य न हि तस्याद्युत्पत्तिर् अस्ति । तत्वे ऽन्यत्वे च पूर्वपश्चिमानां न हि संसारे तेषाम् एव धर्माणाम् उत्पत्तिर्ये पूर्वम् उत्पन्नास् तद्भावेनानुत्पत्तेः । न चान्येषाम् अपूर्वप्रकारानुत्पत्तेः । स्वलक्षणे परिकल्पितस्य स्वभावस्य न हि तस्य कदाचिद् उत्पत्तिः । स्वयमनुत्पत्तौ परतन्त्रस्य । अन्यथाभावे परिनिष्पन्नस्य न हि तदन्यथा भावस्योत्पत्तिर् अस्ति । संक्लेशे प्रहीणे न हि क्षयज्ञानलाभिनः सक्लेशस्योत्पत्तिं पुनः पश्यन्ति । विशेषे बुद्धधर्मकायानां न हि तेषां विशेषोत्पत्तिर् अस्ति । इत्य् एतेष्व् अनुत्पत्तिधर्मेषु क्षान्तिर् अनुत्पत्तिधर्मोक्ता । एकयानतापर्येष्टौ सप्त श्लोकाः ।
धर्म नैरात्म्यमुक्तीनां तुल्यत्वात् गोत्रभेदतः ।
द्व्याशयाप्तेश् च निर्माणात् पर्यन्ताद् एकयानता
धर्मतुल्यत्वाद् एकयानता श्रावकादीनां धर्मधातोर् अभिन्नत्वात् यातव्यं यानम् इति कृत्वा नैरात्म्यस्य तुल्यत्वाद् एकयानता श्रावकादीनाम् आत्माभावतासामान्याद् याता यानम् इति कृत्वा विमुक्तितुल्यत्वाद् एकयानता याति यानम् इति कृत्वा । गोत्रभेदाद् एकयानता । अनियतश्रावकगोत्राणां महायानेन निर्याणाद् यान्ति तेन यानम् इति कृत्वा द्व्याशयाप्तेर् एकयानता बुद्धानां च सर्वसत्वेष्व् आत्माशयप्राप्तेः श्रावकाणां च तद्गोत्रनियतानां पूर्वं बोधिसंभारचरिताद् अनात्मनि बद्धाशयप्राप्तेर् अभिन्नसंतानाधिमोक्षलाभतो बुद्धानुभावेन तथागतानुग्रहविशेषप्रदेशलाभाय इत्य् एकत्वाशयलाभेनैकत्वात् बुद्धतच्छ्रावकाणाम् एकयानता । निर्माणाद् एकयानता यथोक्तम् अनेकशतकृत्वो ऽहं श्रावकयानेन परिनिर्वृत इति विनेयानाम् अर्थे तथा निर्माणसंदर्शनात् । पर्यन्ताद् अप्येकयानता यतः परेण यातव्यं नास्ति तद्यानम् इति कृत्वा । बुद्धत्वम् एकयानम् एवं तत्र तत्र सूत्रे तेन ( म्स 69 ) तनाभिप्रायेणैकयानता वेदितव्या न तु यानत्रयं नास्ति । किम् अर्थं पुनस् तेन तेनाभिप्रायेणैकयानता बुद्धैर् देशिता ।
आकर्षणार्थम् एकेषाम् अन्यसंधारणाय च ।
देशितानियतानां हि संबुद्धैर् एकयानता
आकर्षणार्थम् एकेषाम् इति ये श्रावकगोत्रा अनियताः । अन्येषां च संधारणाय ये बोधिसत्वागोत्रा अनियताः ।
श्रावको ऽनियतो द्वेधा दृष्टादृष्टार्थयानतः ।
दृष्टार्थो वीतरागश् चावीतरागो ऽप्य सौ मृदुः
श्रावकः पुनर् अनियतो द्विविधो वेदितव्यः । दृष्टार्थयानश् च यो दृष्टसत्यो महायानेन निर्याति अदृष्टार्थयानश् च यो न दृष्टसत्यो महायानेन निर्याति । दृष्टार्थः पुनर् वीतरागश् चावीतरागश् च कामेभ्यः । असौ च मृदुर् धन्धगतिको वेदितव्यः । यो दृष्टार्थो द्विविध उक्तः ।
तौ च लब्धार्यमार्गस्य भवेषु परिणामनात् ।
अचिन्त्यपरिणामिक्या उपपत्त्या समन्वितौ
तौ च दृष्टार्थो लब्धस्यार्यमार्गस्य भवेषु परिणामनात् । अचिन्त्यपरिणामिक्या उपपत्त्या समन्वागतौ वेदितव्यौ । अचिन्त्यो हि तस्यार्यमार्गस्य परिणाम उपपत्तौ तस्माद् अचिन्त्यपरिणामिकी ।
प्रणिधानवशाद् एक उपपत्तिं प्रपद्यते ।
एको ऽनागामितायोगान् निर्माणैः प्रतिपद्यते
तयोश् चैकः प्रणिधानवशाद् उपपत्तिं गृह्णाति यथेष्टं यो न वीतरागः । एको ऽनागामितायोगबलेन निर्माणैः ।
निर्वाणाभिरतत्वाच् च तौ धन्धगतिकौ मतौ ।
पुनः पुनः स्वचित्तस्य समुदाचारयोगतः
तौ च निर्वाणाभिरतत्वाद् उभाव् अपि धन्धगतिकौ मतौ चिरतरेणाभिसंबोधतः । स्वस्य श्रावकचित्तस्य निर्वित्सहगतस्याभीक्ष्णं समुदाचारात् ।
सो ऽकृतार्थो ह्य् अबुद्धे च जातो ध्यानार्थम् उद्यतः ।
निर्माणार्थी तदाश्रित्य परां बोधिम् अवाप्नुते
यः पुनर् असाव् अवीतरागो दृष्टसत्यः सो ऽकृतार्थः शैक्षो भवन् बुद्धरहिते काले जातो ध्यानार्थम् उद्यतो भवति निर्माणार्थी । तच्च निर्माणम् आश्रित्य क्रमेण परां बोधिं प्राप्नोति । तम् अवस्थात्रयस्थं संधायोक्तं भगवता श्रीमालासूत्रे । श्रावको भूत्वा प्रत्येकबुद्धो भवति पुनश् च बुद्ध इति । अग्निदृष्टान्ते च यदा च पूर्वं दृष्टसत्यावस्था सदा बुद्धरहिते काले स्वयं ध्यानम् उत्पाद्य जन्मकायं त्यक्त्वा निर्माणकायं गृह्णाति यदा च परां बोधिं प्राप्नोतीति । विद्यास्थानपर्येष्टौ श्लोकः ।
विद्यास्थाने पञ्चविधे योगमकृत्वा सर्वज्ञत्वं नैति कथंचित् परमार्यः ।
इत्य् अन्येषां निग्रहणानुग्रहणाय स्वाज्ञार्थं वा तत्र करोत्य् एव स योगम्
पञ्चविधं विद्यास्थानं । अध्यात्मविद्या हेतुविद्या शब्दविद्या चिकित्साविद्या शिल्पकर्मस्थानविद्या च । तद् यद् अर्थं बोधिसत्वेन पर्येषितव्यं तद् दर्शयति । सर्वज्ञत्वप्राप्त्यर्थम् अभेदेन सर्वं । भेदेन पुनर् हेतुविद्यां शब्दविद्यां च पर्येषते निग्रहार्थम् अन्येषां तद् अनधिमुक्तानां । चिकित्साविद्यां शिल्पकर्मस्थानविद्यां चान्येषाम् अनुग्रहार्थं तदर्थिकानां । अध्यात्मविद्यां स्वयम् आज्ञार्थं । धातुपुष्टिपर्येष्टौ त्रयोदश ( म्स 71 ) श्लोकाः । पारमितापरिपूरणार्थं ये पारमिताप्रतिसंयुक्ता एवं मनसिकारा धातुपुष्टये भवन्ति त एताभिर् गाथाभिर् देशिताः ।
हेतूपलब्धितुष्टिश् च निश्रयतदनुस्मृतिः ।
साधारणफलेच्छा च यथाबोधाधिमुच्यना
ते पुनर् हेतोपलब्धितुष्टिमनसिकारात् । यावद् अग्रत्वात्मावधारणमनसिकारः । तत्र हेतूपलब्धितुष्टिमनसिकार आदित एव तावत् । गोत्रस्थो बोधिसत्वः स्वात्मनि पारमितानां गोत्रं पश्यन् हेतूपलब्धितुष्ट्या पारमिताधातुपुष्टिं करोति । गोत्रस्थो ऽनुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयतीत्य् अतो ऽनन्तरं निश्रयतदनुस्मृतिमनसिकारः । स हि बोधिसत्वः स्वात्मनि पारमितानां संनिश्रयभूतं बोधिचित्तं समनुपश्यन्न् एवं मनसिकरोति नियतम् एताः पारमिताः परिपूरिं गमिष्यन्ति । तथा ह्य् अस्माकं बोधिचित्तं संविद्यते इति । उत्पादितबोधिचित्तस्य पारमिताभिः स्वपरार्थप्रयोगे साधारणफलेच्छामनसिकार आसां पारमितानां परसाधारणं व फलां भवत्व् अन्यथा वा मा भूद् इत्य् अभिसंस्करणात् । स्वपरार्थं प्रयुज्यमानो ऽसंक्लेशोपायं तत्वार्थं प्रतिविध्यतीत्य् अतो ऽनन्तरं यथाबोधाधिमुच्यनामनसिकारः । एवं सर्वत्रानुक्रमो वेदितव्यः । यथा बुद्धैर् भगवद्भिः पारमिता अभिसंबुद्धा अभिसंभोत्स्यन्ते ऽभिसंबुध्यन्ते च तथा ऽहम् अधिमुच्ये इत्य् अभिसंस्करणात् ।
चतुर्विधानुभावेन प्रीयणा खेदनिश्चयः ।
विपक्षे प्रतिपक्षे च प्रतिपत्तिश् चतुर्विधा
अनुभावप्रीयणामनसिकारश् चतुर्विधानुभावदर्शनप्रीयणा चतुर्विधानुभावो विपक्षप्रहाणं संभारपरिपाकः स्वपरानुग्रह आयत्यां विपाकफलनिःष्यन्दफलदानता च । सत्वस्वबुद्धधर्मपरिपाकम् आरभ्याखेदनिश्चयमनसिकारः सर्वसत्वविप्रतिपत्तिभिः सर्वदुःखापत्तिपातैश् चाखेदनिश्चयाभिसंस्करणात् परमबोधिप्राप्तये । विपक्षे प्रतिपक्षे च चतुर्विधप्रतिपत्तिमनसिकारः । दानादिविपक्षाणां च मात्सर्यादीनां प्रतिदेशना प्रतिपक्षाणां च दानादीनाम् अनुमोदना ( म्स 72 ) तदधिपतेयधर्मदेशनार्थं च बुद्धाध्येषणा । तासां च बोधौ परिणामना ।
प्रसादः संप्रतीक्षा च दानच्छन्दः परत्र च ।
संनाहः प्रणिधानं च अभिनन्दमनस्क्रिया
अधिमुक्तिबलाधानताम् आरभ्य पारमिताधिपतेयधर्मार्थे च प्रसादमनसिकारः । धर्मपर्येष्टिम् आरभ्य संप्रतीच्छनमनसिकारस् तस्यैव धर्मस्याप्रतिवहनयोगेन परिग्रहणतया । दशनाम् आरभ्य दानच्छन्दमनसिकारो धर्मस्यार्थस्य च प्रकाशनार्थं परेषां । प्रतिपत्तिम् आरभ्य संनाहमनसिकारो दानादिपरिपूरये संनहनात् । प्रणिधानमनसिकारस् तत्परिपूरिप्राप्तये समवधानार्थं । अभिनन्दमनसिकारो ऽहो बत दानादिप्रतिपत्त्या सम्यक् संपादयेयम् इत्य् अभिनन्दनात् । एत एव त्रयो मनसिकारा अववादानुशासन्यां योजयितव्याः । उपायोपसंहितकर्ममनसिकारः संकल्पैः सर्वप्रकारदानादिप्रयोगमनसिकरणात् ।
शक्तिलाभे सदाउत्सुक्यं दानादौ षड्विधे धनम् ।
परिपाके ऽथ पूजायां सेवायाम् अनुकम्पना
औत्सुक्यमनसिकारश् चतुर्विधः । शक्तिलाभे न दानादौ षड्विधे दानदाने यावत् प्रज्ञादाने । एवं शीलादिषु षड्विधेषु । पारमिताभिर् एव संग्रहवस्तुप्रयोगेण सत्वपरिपाके । पूजायां च दानेन लाभसत्कारपूजया । शेषाभिश् च प्रतिपत्तिपूजया । अविपरीतपारमितोपदेशापञ्चकल्याणमित्रसेवायाम् औत्सुक्यमनसिकारो वेदितव्यः । अनुकम्पामनसिकारश् चतुर्भिर् अप्रमाणैर् दानाद्युपसंहारेण मैत्रायतः । मात्सर्यादिसमवधानेन सत्वेषु करुणायतः । दानादिसमन्वागतेषु मुदितायतः । तदसंक्लेशाधिमोक्षतश् च उपेक्षायतः ।
अकृते कुकृते लज्जा कौकृत्यं विषये रतिः ।
अमित्रसंज्ञा खेदे च रचनोद्भावनामतिः
ह्रीधर्मम् आरभ्य लज्जामनस्कारो ऽकृतेषु वा दानादिष्व् अपरिपूर्णमिथ्याकृतेषु वा लज्जा लज्जायमानश् च प्रवृत्तिनिवृत्त्यर्थम् अनानुषङ्गिकं कौकृत्यायते । धृतिम् आरभ्य रतिमनस्कारो दानाद्यालम्बने ऽविक्षेपतश् चित्तस्य धारणात् । अखेदमनस्कारो ( म्स 73 ) दानादिप्रयोगपरिखेदे शत्रुसंज्ञाकरणात् । रचनाच् छन्दमनस्कारः पारमिताप्रतिसंयुक्तशास्त्ररचनाभिसंस्करणात् । लोकज्ञताम् आरभ्य उद्भावनामनस्कारस् तस्यैव शास्त्रस्य लोके यथाभाजनम् उद्भावनाभिसंस्करणात् ।
दानादयः प्रतिसरणं सम्बोधौ नेश्वरादयः ।
दोषाणां च गुणानां च प्रतिसंवेदनाद् द्वयोः
प्रतिसरणमनस्कारो बोधिप्राप्तये दानादीनां प्रतिसरणान् नेश्वरादीनां प्रतिसंविन्मनस्कारो मात्सर्यदानादिविपक्षप्रतिपक्षयोर् दोषगुणप्रतिसंवेदनात् ।
चयानुस्मरणप्रीतिर् माहार्थ्यस्य च दर्शनम् ।
योगे ऽभिलाषो ऽविकल्पे तद्धृत्यां प्रत्ययागमे
चयानुस्मरणप्रीतिमनस्कारो दानाद्युपचये पुण्यज्ञानसंभारोपचयसंदर्शनात् । माहार्थ्यसंदर्शनमनस्कारो दानादीनां बोधिपक्षे भावार्थेन महाबोधिप्राप्त्यर्थसंदर्शनात् । अभिलाषमनस्कारः स पुनश् चतुर्विधः । योगाभिलाषमनस्कारः शमथविपश्यनायोगभावनाभिलाषात् । अविकल्पाभिलाषमनस्कारः पारमितापरिपूरणार्थम् उपायकौशल्याभिलाषात् । धृत्यभिलाषमनस्कारः पारमिताधिपतेयधर्मार्थधारणाभिलाषात् । प्रत्ययाभिगमाभिलाषमनस्कारः सम्यक्प्रणिधानाभिसंस्करणात् ।
सप्तप्रकारासद्ग्राहव्युत्थाने शक्तिदर्शनम् ।
आश्चर्यं चाप्यनाश्चर्यं संज्ञा चैव चतुर्विधा
सप्तप्रकारासद्ग्राहव्युत्थानशक्तिदर्शनमनस्कारः । सप्तविधो ऽसद्ग्राहः । असति सद्ग्राहो दोषवति गुणवत्वग्राहो गुणवत्यगुणवत्वग्राहः । सर्वसंस्कारेषु च नित्यसुखासद्ग्राहौ । सर्वधर्मेषु चात्मासद्ग्राहः निर्वाणे चाशान्तासद्ग्राहः । यस्य प्रतिपक्षेण शून्यतासमाधित्रयं धर्मोद्दानचतुष्टयं च देश्यते । आश्चर्ये चतुर्विधसंज्ञामनस्कारः । पारमितासूदारसंज्ञा आयतत्वसंज्ञा प्रतिकारनिरपेक्षसंज्ञा विपाकनिरपेक्षसंज्ञा च । अनाश्चर्ये ऽपि चतुर्विधमनस्कारः । चतुर्विधम् अनाश्चर्यम् औदर्य आयतत्वे च सति पारमितानां बुद्धत्वफलाभिनिवर्तनात् । अस्मिन्न् एव च द्वये सति स्वपरसमचित्तावस्थापनात् तद्विशिष्टेभ्यश् च शरुदिभ्यः ( म्स 74 ) पूजादिलाभे सति प्रतिकारनिरपेक्षता ...
समता सर्वसत्वेषु दृष्टिश् चापि महात्मिका ।
परगुणप्रतिकारस् त्रयाशस्तिर् निरन्तरः
... प्रत्ययकाराशंसनमनस्कारो दानादिगुणप्रवृत्त्या परेभ्यः । आशास्तिमनस्कारः सत्वेषु त्रिस्थानाशंसनात् । पारमितानां बोधिसत्वभूमिनिष्ठाया बुद्धभूमिनिष्ठायाः सत्वावरणाशंसना च्च । निरन्तरमनस्कारो दानादिभिर् अवध्यकालकरणाभिसंस्करणात् ।
बुद्धप्रणीतानुष्ठानाद् अर्वागस्थानचेतनात् ।
तद्धानिवृद्ध्या सत्वेषु अनामोदः प्रमोदना
सम्यक्प्रयोगमनस्कारो ऽविपरीतानुष्ठानाद् अर्वागस्थानमनसिकारणात् । अनामोदमनस्कारो दानादिभिर् हीयमानेषु । प्रमोदमनस्कारो दानादिभिर्वर्धमानेषु सत्वेषु ।
प्रतिवर्णिकायां वर्णिकाभूतायां भावनायां च नारूचिः ।
नाधिवासमनस्कारो व्याकृतनियते स्पृहा
अरुचिमनस्कारः पारमिताप्रतिवर्णिका भावनायां । रुचिमनस्कारो भूतायां । अनधिवासनामनस्कारो मात्सर्यादिविपक्षविनयनाभिसंस्कारणात् । स्पृहामनस्कारो द्विविधिः पारमितापरिपूरिव्याकरणलाभस्पृहामनस्कारः पारमितानियतभूम्यवस्थालाभस्पृहामनस्कारश् च ।
आयत्यां दर्शनाद् वृत्तिचेतना समतेक्षणा ।
अग्रधर्मेषु वृत्त्या च अग्रत्वात्मावधारणात् धारणा
आयत्यां दर्शनाद् वृत्तिमनस्कारो यात्वा गतिं गत्वा बोधिसत्वेन सता ऽवश्यकरणीयता ऽभिसंस्कारणात् । दानादीनां समतेक्षणामनस्कारस् तदन्यैर् ( म्स 75 ) बोधिसत्वैः सहात्मनः पारमितासातत्यकरणाधिमोक्षार्थं । अग्रत्वात्मावधारणमनस्कारः पारमिताग्रधर्मप्रवृत्त्या स्वात्मनः प्रधानभावसंदर्शनात् ।
एते शुभमनस्कारा दशपारमितान्वयाः ।
सर्वदा बोधिसत्वानां धातुपुष्टौ भवन्ति हि
इति निगमनश्लोको गतार्थः । धर्मपर्येष्टिभेदे द्वौ श्लोकौ ।
पुष्टेर् अध्याशयतो महती पर्येष्टिर् इष्यते धीरे ।
सविवासा ह्य् अविवासा तथैव वैभुत्विकी तेषाम्
असकाया लघुलब्धकाया प्रपूर्णकाया च बोधिसत्वानाम् ।
बहुमानसूक्ष्ममाना निर्माणा चैषणाभिमता
त्रयोदशविधा पर्येष्टिः । पुष्टितः श्रुताधिमुक्तिपुष्ट्या । अध्याशयतो धर्ममुखस्रोतसा । महती चित्तत्वलाभिनां । सविप्रवासा प्रथमा । अविप्रवासा द्वितीया वैभुत्विकी तृतीया । अकाया श्रुतचिन्तामयी धर्मकायरहितत्वात् । सकाया भावनामयी अधिमुक्तिचर्याभूमौ । लघुकाया सप्तसु भूमिषु । परिपूर्णकाया शेषासु । बहुमानाधिमुक्तिचर्याभूमौ । सूक्ष्ममाना सप्तसु । निर्माणा शेषासु । धर्महेतुत्वपर्येष्टौ श्लोकः ।
रूपारूपे धर्मो लक्षणहेतुस् तथैव चारोग्यंग्ये ।
ऐश्वर्ये ऽभिज्ञाभिस् तदक्षयत्वे च धीराणाम्
रूपे लक्षणहेतुर् धर्मः । अरूपे आरोग्यहेतुः क्लेशव्याधिप्रशमनात् ऐश्वर्यहेतुर् अभिज्ञाभिस् तदक्षयत्वहेतुश् चानुपधिशेषनिर्वाणो ऽप्यनुपच्छेदात् । अत एवोक्तं ब्रह्मपरिपृच्छासूत्रे । चतुर्भिर् धर्मैः समन्वागता बोधिसत्वा धर्मं पर्येषन्ते । ( म्स 76 ) रत्नसंज्ञया दुर्लभार्थेन भैषज्यसंज्ञया क्लेशव्याधिप्रशमनार्थेन अर्थसंज्ञया अविप्रणाशार्थेन निर्वाणसंज्ञया सर्वदुःखप्रशमनार्थेन । रत्नाभूतानि हि लक्षणानि शोभाकरत्वाद् अतस् तद्धेतुत्वाद् धर्मरत्नसंज्ञा । आरोग्यहेतुत्वाद् भैषज्यसंज्ञा अभिज्ञाइश्वर्यहेतुत्वाद् अर्थसंज्ञा । तदक्षयहेतुत्वान् निर्वाणसंज्ञाक्षयनिर्भयतार्थेन । विकल्पपर्येष्टौ श्लोकः ।
अभावभावाध्यपवादकल्प एकत्वनानास्वविशेषकल्पाः ।
यथार्थनामाभिनिवेशकल्पाः जिनात्मजैः संपरिवर्जनीयाः
दशविधविकल्पो बोधिसत्वेन परिवर्जनीयः । अभावविकल्पो यस्य प्रतिपक्षेणाह । प्रज्ञापारमितायाम् इह बोधिसत्वो बोधिसत्व एव सन्न् इति । भावविकल्पो यस्य प्रतिपक्षेणाह । बोधिसत्वं न समनुपश्यतीत्य् एवम् आदि । अध्यारोपविकल्पो यस्य प्रतिपक्षेणाह । रूपं शारिपुत्र स्वभावेन शून्यम् इति । अपवादविकल्पो यस्य प्रतिपक्षेणाह । न शून्यतयेति । एकत्वविकल्पो यस्य प्रतिपक्षेणाह । या रूपस्य शून्यता न तद्रूपम् इति । नानात्वविकल्पो यस्य प्रतिपक्षेणाह । न चान्यत्र शून्यताया रूपं रूपम् एव शून्यता शून्यतैव रूपम् इति । स्वलक्षणविकल्पो यस्य प्रतिपक्षेणाह । नाममात्रम् इदं यद् इदं रूपम् इति । विशेषविकल्पो यस्य प्रतिपक्षेणाह । रूपस्य हि नोत्पादो न निरोधो न संक्लेशो न व्यवदानम् इति । यथानामार्थाभिनिवेशविकल्पो यस्य प्रतिपक्षेणाह । कृत्रिमं नामेत्य् एवम् आदि । यथार्थनामाभिनिवेशविकल्पश् च यस्य प्रतिपक्षेणाह । तानि बोधिसत्वः सर्वनामानि न समनुपश्यत् यसमनुपश्यन् नाभिनिविशते यथार्थतयेत्य भिप्रायः ।
इति शुभमतिर् एत्य यत्नम् उग्रं द्वयपर्येषितधर्मतासतत्वः ।
प्रतिशरणमतः सदा प्रजानां भवति गुणैः स समुद्रवत् प्रपूर्णः
मूल पाठ: Mahāyānasūtrālaṃkāra with Vasubandhu's commentary (Bhāṣya) = Msa · Edition: Sylvain Lévi: Mahāyānasūtrālaṃkāra, Exposé de la doctrine du Grand Véhicule, vol. I, Paris 1907. · Data entry Jens Braarvig · GRETIL (Göttingen) · CC BY-NC-SA 4.0