महायानसूत्रालंकार (अन्य संस्करण) · अध्याय 9
महायानसूत्रालंकारे परिपाकाधिकारो ऽष्टमः
नवमो ऽधिकारः
सर्वाकारज्ञतायां द्वौ श्लोकौ ।
तृतीयस्तयोरेव निर्देशभूतः ।
अमेयैर्दुष्करशतैरमेयैः कुशलाचयैः ।
अप्रमेयेण कालेन अमेयावरणक्षयात्
सर्वाकारज्ञतावाप्तिः सर्वावरणनिर्मला ।
विवृता रत्नपेटेव बुद्धत्वं समुदाहृतम्
कृत्वा दुष्करमद्भुतं श्रमशतैः संचित्यसर्वशुभं कालेनोत्तमकल्पयानमहता सर्वावृतीनां क्षयात् ।
सूक्ष्मस्यावरणस्य भूमिषु गतस्योत्पाटनाद् बुद्धता रत्नानामिव सा प्रभावमहतां पेटा समुद्धाति[टि?]ता
सर्वधर्माश्च बुद्धत्वं धर्मो नैव न कश्चन ।
शुक्लधर्ममयं तच्च न च तैस्तन्निरूप्यते
धर्मरत्ननिमित्तत्वाल्लब्धरत्नाकरोपमम् ।
शुभस्यनिमित्तत्वाल्लब्धमेघोपमं मतम्
बुद्धत्वं सर्वधर्मः समुदितमथ वा सर्वधर्मव्यपेतं प्रोद्भूतेर्धर्मरत्नप्रततसुमहतो धर्मरत्नाकराभम् ।
भूतानां शुक्लसस्यप्रसवसुमहतो हेतुतो मेघभूतं दानाद्धर्माम्बुवर्षप्रततसुविहितस्याक्षयस्य प्रजासु
परित्राणं हि बुद्धत्वं सर्वक्लेशगणात्सदा ।
सर्वदुश्चरितेभ्यश्च जन्ममरणतो ऽपि च
उपद्रवेभ्यः सर्वेभ्यो अपायादनुपायतः ।
सत्कायाद्धीनयानाच्च तस्माच्छरणमुत्तमम्
शरणमनुपमं तच्छ्रेष्ठबुद्धत्वमिष्टं जननमरणसर्वक्लेशपापेषु रक्षा ।
विविधभयगतानां सर्वरक्षापयानं प्रततविविधदुःखापायनोपायगानां
बौद्धैर्धर्मैर्यच्च सुसंपूर्णशरीरं यत्सद्धर्मे वेत्ति स सत्त्वान्प्रविनेतुम् ।
यातं पारं यत्कृपया सर्वजगत्सु तद् बुद्धत्वं श्रेष्ठमिहत्यं[हेष्टं] शरणानाम्
आलोकात्[कालात्]सर्वसत्त्वानां बुद्धत्वं शरणं महत् ।
सर्वव्यसनसंपत्तिव्यावृत्त्यभ्युदये मतम्
क्लेशज्ञेयवृतीनां सततमनुगतं बीजमुत्कृष्टकालं यस्मिन्नस्तं प्रयातं भवति सुविपुलैः सर्वहानिप्रकारैः ।
बुद्धत्वं शुक्लधर्मप्रवरगुणयुता आ[चा]श्रयस्यान्यथाप्तिस् तत्प्राप्तिर्निर्विकल्पाद्विषयसुमहतो ज्ञानमार्गात्सुशुद्धात्
स्थितश्च तस्मिन्स तथागतो जगन्महाचलेन्द्रस्थ इवाभ्युदीक्षते ।
शमाभिरामं करूणायते जनमघा[भवा]भिरामे ऽन्यजने तु का कथा
प्रवृत्तिरूद्धित्तिरवृतिराश्रयो निवृत्तिरावृत्तिरथो द्वयाद्वया ।
समाविशिष्टा अपि सर्वगात्मिका तथागतानां परिवृत्तिरिष्यते
यथाम्बरं सर्वगतं सदामतं तथैव तत्सर्वगतं सदामतम् ।
यथाम्बरं रूपगणेषु सर्वगं तथैव तत्सत्वगणेषु सर्वगम्
यथोदभाजने भिन्ने चन्द्रबिम्बं न दृश्यते ।
तथ दुष्टेषु सत्त्वेषु बुद्धबिम्बं न दृश्यते
यथाग्निर्ज्वलते ऽन्यत्र पुनरन्यत्रशाम्यति ।
बुद्धेष्वपि तथा ज्ञेयं संदर्शनमदर्शनम्
अघटितेभ्यस्तूर्येभ्यो यथा स्याच्छब्दसंभवः ।
तथा जिणे विनाभोगं देशनायाः समुद्भवः
यथा मणेर्विना यत्नं स्वप्रभाव[स]निदर्शनम् ।
बुद्धेष्वपि विनाभोगं तथा कृत्यनिदर्शनम्
यथाकाशे अविच्छिन्ना दृश्यन्ते लोकतः क्रियाः ।
तथैवानास्रवे घातौ अविच्छिन्ना जिनक्रियाः
यथाकाशे क्रियाणां हि हानिरभ्युदयः सदा ।
तथैवानास्रवे धातौ बुद्धकार्योदयव्ययः
पौर्वापर्याविशिष्टापि सर्वावरणनिर्मला ।
नशुद्धा नापि चाशुद्धा तथता बुद्धता मता
शून्यतायां विशुद्धायां नैरात्म्यान्मार्गलाभतः ।
बुद्धाः शुद्धात्मलाभित्वात् गता आत्ममहात्मताम्
न भावो नापि चाभावो बुद्धत्वं तेन कथ्यते ।
तस्माद्बुद्धतथाप्रश्ने अव्याकृतनयो मतः
दाहशान्तिर्यथा लोहे दर्शने तिमिरस्य च ।
चित्तज्ञाने तथा बौद्धे भावाभावो न शस्यते
बुद्धानाममले धातौ नैकता बहुता न च ।
आकाशवददेहत्वात्पूर्वदेहानुसारतः
बलादिबुद्धधर्मेषु बोधी रत्नाकरोपमा ।
जगत्कुशलसस्येषु महामेघोपमा मता
पुण्यज्ञानसुपूर्णत्वात्पूर्णचन्द्रोपमा मता ।
ज्ञानालोककरत्वाच्च महादित्योपमा मता
अमेया रश्मयो यद्वद्व्यमिश्रा भानुमण्डले ।
सदैककार्या वर्तन्ते लोकमालोकयन्ति च
तथैवानास्रवे धातौ बुद्धानामप्रमेयता ।
मिश्रैककार्या कृत्येषु ज्ञानालोककरामता
यथैकरश्मिनिःसारात्सर्वरश्मिविनिःसृतिः ।
भानोस्तथैव बुद्धानां ज्ञेया ज्ञानविनिःसृतिः
यथैवादित्यरश्मीनां वृत्तौ नास्ति ममायितम् ।
तथैव बुद्धज्ञानानां वृत्तौ नास्ति ममायितम्
यथा सूर्यैकमुक्ताभै रश्मिभिर्भास्यते जगत् ।
सकृत् ज्ञेयं तथा सर्वं बुद्धज्ञानैः प्रभास्यते
यथैवादित्यरश्मीनां मेघाद्यावरणं मतम् ।
तथैव बुद्धज्ञानानामावृतिः सत्वदुष्टता
यथा पांशुवशाद्वस्रे रङ्गचित्राविचित्रता ।
तथा ऽवेधवशान्मुक्तौ ज्ञानचित्राविचित्रता
गाम्भीर्यममले धातौ लक्षणस्थानकर्मसु ।
बुद्धानामेतदुदितं रङ्गैर्वाकाशचित्रणा
सर्वेषामविशिष्टापि तथता शुद्धिमागता ।
तथागतत्वं तस्माच्च तद्गर्भाः सर्वदेहिनः
श्रावकाणां विभुत्वेन लौकिकस्याभिभूयते ।
प्रत्येकबुद्धेभ्यो मनः[बुद्धभौमेन] श्रावकस्याभिभूयते
बोधिसत्त्वविभुत्वस्य तत्कलां नानुगच्छति ।
तथागतविभुत्वस्य तत्कलां नानुगच्छति
अप्रमेयमचिन्त्यं च विभुत्वं बौद्धमिष्यते ।
यस्य यत्र यथा यावत्काले यस्मिन्प्रवर्तते
पञ्चेन्द्रियपरावृत्तौ विभुत्वं लभ्यते परम् ।
सर्वार्थवृत्तौ सर्वेषां गुनद्वादशशतोदये
मनसो ऽपि परावृत्तौ विभुत्वं लभ्यते परम् ।
विभुत्वानुचरे ज्ञाने निर्विकल्पे सुनिर्मले
सार्थोद्ग्रहपरावृत्तौ विभुत्वं लभ्यते परम् ।
क्षेत्रशुद्धौ यथाकामं भोगसंदर्शनाय हि
विकल्पस्य परावृत्तौ विभुत्वं लभ्यते परम् ।
अव्याघाते सदाकालं सर्वेषां ज्ञानकर्मणाम्
प्रतिष्ठायाः परावृत्तौ विभुत्वं लभ्यते परम् ।
अप्रतिष्ठितनिर्वाणं बुद्धानामचले[मले]पदे
मैथुनस्य परावृत्तौ विभुत्वं लभ्यते परम् ।
बुद्धसौख्यबिहारे ऽथ दाराऽसंक्लेशदर्शने
आकाशसंज्ञाव्यावृत्तौ विभुत्वं लभ्यते परम् ।
चिन्तितार्थसमृद्धौ च गतिरूपविभावने
इत्येमेयपरावृत्तावमेयविभुता मता ।
अचिन्त्यकृत्यानुष्ठानाद्बुद्धानाममलाश्रये
शुभे वृद्धो लोको व्रजति सुविशुद्धौ परमतां शुभे चानारब्ध्वा व्रजति शुभवृद्धौ परमताम् ।
व्रजत्येवं लोको दिशि दिशि जिनानां सुकथितैर् अपक्वः पक्वो वा [न]च पुनरशेषं ध्रुवमिह
तथा कृत्वा चर्यां [कृच्छ्रावाप्यां] परमगुणयोगाद्भुतवर्ती महाबोधिं नित्यां ध्रुवमशरणानां च शरणम् ।
लभन्ते यद्धीरा [दिशि दिशि] गसदा [सदा]सर्वसमयं तदाश्चर्यं लोके सुविधचरणान्नाद्भुतमपि
क्वचिद्धर्माञ्चकं [धर्म्यं चक्रं] बहुमुखशतैर्दर्शयति यः क्वचिज्जन्मान्तर्धिं क्वचिदपि विचित्रां जनचरीम् ।
क्वचित्कृत्स्नां बोधिं क्वचिदपि च निर्वाणमसकृत् न च स्थानात्तस्माद्विचलति स सर्वं च कुरुते
न बुद्धानामेवं भवति ममपक्वो ऽयमिति चाप्रपाच्यो ऽयं देही अपि च अधुनापाच्यत इति ।
विना संस्कारं तु प्रपचमुपयात्येव जनता शुभैर्धर्मैर्नित्यं दिशि दिशिः समन्तात्त्रयमुखम्
यथायत्नं भानुः प्रततविषदैरंशविसरैः प्रपाक[कं] सस्यानां दिशि [दिशि] समन्तात्प्रकुरूते ।
तथा धर्मार्को ऽपि प्रशमविधिधर्मांशुविसरैः प्रपाकं सस्यानां दिशि दिशि समन्तात्प्रकुरूते
यथैकस्माद्दीपाद्भवति सुमहान्दीपनिचयो ऽप्रमेयो ऽसंख्येयो न च स पुनरेति व्ययमतः ।
तथैकस्माद् बुद्धाद् [पाका]भवति सुमहान् परिपाक[पाक]निचयो ऽप्रमेयो ऽसंख्येयो न च पुनरेति[पुनरुपैति] व्ययमतः
यथा तोयैस्तृप्तिं व्रजति न महासागर इव न वृद्धिं वा याति प्रततविषदाम्बु प्रविशनैः ।
तथा बौद्धौ धातुः सततसमितैः शुद्धिविशनैर् नतृप्तिं वृद्धिं वा व्रजति परमाश्चर्यमिह तत्
सर्वधर्मद्वयावारतथताशुद्धिलक्षणः ।
वस्तुज्ञानतदालम्बवशिताक्षयलक्षणः
क्लेशज्ञेयावरणद्वयात्सर्वधर्मतथताविशुद्धिलक्षणश्च वस्तुतदालम्बनज्ञानयोरक्षयवशिता लक्षणश्च ।
सर्वतस्तथताज्ञानभावना समुदागमः सर्वसत्वद्वयाधानसर्वथाऽक्षयता फलम्
कायवाक्चित्तनिर्माणप्रयोगोपायकर्मकः ।
समाधिधारणीद्वारद्वयामेयसमन्वितः
स्वभावधर्मसंभोगनिर्माणैर्भिन्नवृत्तिकः ।
धर्मधातुर्विशुद्धो ऽयं बुद्धानां समुदाहृतः
स्वाभाविको ऽथ सांभोग्यः कायो नैर्माणिको ऽपरः ।
कायभेदा हि बुद्धानां प्रथमस्तु द्वयाश्रयः
सर्वधातुषु सांभोग्यो भित्रो गणपरिग्रहैः ।
क्षेत्रैश्च नामभिः कायैर्धर्मसंभोगचेष्टितैः
समः सूक्ष्मश्च तच्छिष्टः[च्छ्लिष्टः] कायः स्वाभाविको मतः ।
संभोगविभुताहेतुर्यथेष्टं भोगदर्शने
अमेयं बुद्धनिर्माणं कायो नैर्माणिको मतः ।
द्वयोर्द्वयार्थसंपत्तिः सर्वाकारा प्रतिष्ठिता
शिल्पजन्ममहाबोधिसदानिर्वाणदर्शनैः ।
बुद्धनिर्माणकायो ऽयं महामायो[महोपायो] विमोचने
त्रिभिः कायैस्तु विज्ञेयो बुद्धानां कायसंग्रहः ।
साश्रयः स्वपरार्थो यस्त्रिभिः कायैर्निर्दर्शितः
आश्रयेणाशयेनापि कर्मणा ते समा मताः ।
प्रकृत्या ऽस्रंसनेनापि प्रबन्धेनैषु नित्यता
आदर्शज्ञानमचलं त्रयज्ञानं तदाश्रितम् ।
समताप्रत्यवेक्षायां कृत्यानुष्ठान एव च
आदर्शज्ञानमममापरिच्छिन्नं सदानुगम् ।
सर्वज्ञेयेष्वसंमूढं न च तेष्वामुखं सदा
सर्वज्ञाननिमित्तत्वान्महाज्ञानाकरोपमम् ।
संभोगबुद्धता ज्ञानप्रतिबिम्बोदयाच्च तत्
सत्त्वेषु समताज्ञानं भावनाशुद्धितो ऽमलं [मतम्] ।
अप्रतिष्ठस[श]माविष्टं समताज्ञानमिष्यते
महामैत्रीकृपाभ्यां च सर्वकालानुगं मतम् ।
यथाधिमोक्षं सत्वानां बुद्धबिम्बनिदर्शकम्
प्रत्यवेक्षणकं ज्ञाने [नं]ज्ञेयेष्वव्याहतं सदा ।
धारणीनां समाधीनां निधानोपममेव च
परिषन्मण्डले सर्वविभूतीनां निदर्शकम् ।
सर्वसंशयविच्छेदि महाधर्मप्रवर्षकम्
कृत्यानुष्ठानताज्ञानं निर्माणैः सर्वधातुषु ।
चित्राप्रमेयाचिन्त्यैश्च सर्वसत्त्वार्थकारकम्
कृत्यनिष्पत्तिभिर्भेदैः संख्याक्षेत्रैश्च सर्वदा ।
अचिन्त्यं बुद्धनिर्माणं विज्ञेयं तच्च सर्वथा
धारणात्समचित्ताच्च सम्यग्धर्मप्रकाशनात् ।
कृत्यानुष्ठानतश्चैव चतुर्ज्ञानसमुद्भवः
गोत्रभेदादवैयर्थ्यात्साकल्यादप्यनादितः ।
अभेदान्नैकबुद्धत्वं बहुत्वं चामलाश्रये
या ऽविद्यमानता सैव परमा विद्यमानता ।
सर्वथा ऽनुपलम्भश्च उपलम्भः परो मतः
भावना परमा चेष्टा भावनामविपश्यताम् ।
प्रतिलम्भः परश्चेष्टः प्रतिलम्भं च पश्यताम्
पश्यतां गुरुत्वं [तां] दीर्घं निमित्तं वीर्यमात्मनः ।
मानिनां बोधिसत्त्वानांदु [दू]रे बोधिर्निरूप्यते
पश्यताम्, कल्पनामात्रं सर्वमेतद्यथोदितं ।
अकल्पबोधिसत्वानां प्राप्ता बोधिर्निरूप्यते
भिन्नाश्रया भिन्नजलाश्च नद्यः अल्पोदकाः कृत्यपृथक्त्वकार्याः ।
जलाश्रितप्राणितनूपभोग्या भवन्ति पातालमसंप्रविष्टाः
समुद्रविष्टाश्च भवन्ति सर्वा एकाश्रया एकमहाजलाश्च ।
मिश्रैककार्याश्च महोपभोग्या जलाश्रितप्राणिगणस्य नित्यम्
भिन्नाश्रया भिन्नमताश्च धीराः स्वल्पावबोधाः पृथगात्मकृत्याः ।
परीत्तसत्वार्थसदोपभोग्या भवन्ति बुद्धत्वमसंप्रविष्टाः
बुद्धत्वविष्टाश्च भवन्ति सर्वे एकाश्रया एकमहावबोधाः ।
मिश्रेककार्याश्च महोपभोग्याः सदा महासत्वगणस्य ते हि
इतिनिरूपमशुक्लधर्मयोगाद् हितसुखहेतुतया च बुद्धभूमेः ।
शुभपरमसुखाक्षयाकरत्वात् शुभमतिरर्हति बोधिचित्तमाप्तुम्
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahayana sutralankara of Asanga with its Svavrtti. Darbhanga : The Mithila Institute, 1970, 1-180 (karika only). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0