महायानसूत्रालंकार (अन्य संस्करण) · अध्याय 8
प्रभावाधिकारः महायानसूत्रालंकारे सप्तमः
अष्टमो ऽधिकारः
बोधिसत्त्वपरिपाके संग्रहः श्लोकः ।
रूचिः प्रसादः प्रशमो ऽनुकम्पना क्षमाथ मेधा प्रबलत्वमेव च ।
अहार्यताङ्गैः समुपेतता भृशं जिनात्मजे तत्परिपाकलक्षणम्
सुमित्रतादित्रयमुग्रवीर्यता परार्धनिष्ठोत्तमधर्मसंग्रहः ।
कृपालुसद्धर्ममहापरिग्रहे मतं हि सम्यक्परिपाकलक्षणम्
गुणज्ञताथाशुसमाधिलाभिता फलानुभूतिर्मनसो ऽध्यभेद[द्य?]ता ।
जिनात्मजे शास्तरि संप्रपत्तये मतं हि सम्यक्परिपाकलक्षणम्
सुसंवृत्तिः क्लिष्टवितर्कवर्जना निरन्तरायो ऽथ शुभाभिरामता ।
जीनात्मजे क्लेशविनोदनायतन् मतं हि सम्यक्परिपाकलक्षणम्
कृपा प्रकृत्या परदुःखदर्शनं निहीनचित्तस्य च संप्रवर्जनम् ।
विशेषगत्वं जगदग्रजन्मता परानुकम्पापरिपाकलक्षणम्
धृतिः प्रकृत्या प्रतिसंख्यभावना सुदःखशीताद्यधिवासना सदा ।
विशेषगामित्वशुभाभिरामता मतं क्षमायाः परिपाकलक्षणम्
विपाकशुद्धिः श्रवणाद्यमोषता प्रविष्टता सूक्तदुरूक्तयोस्तथा ।
स्मृतेर्महाबुद्धयुदये च योग्यता सुमेधतायाः परिपाकलक्षणम्
शुभद्वयेन द्वयधातुपुष्टता फलोदये चाश्रययोग्यता परा ।
मनोरथाप्तिर्जगदग्रभूतता बलोपलम्भे परिपाकलक्षणम्
सुधर्मतायुक्तिविचारणाशयो विशेषलाभः परपक्षदूषणम् ।
पुनः सदा मारनिरन्तरायता अहार्यतायाः परिपाकलक्षणम्
शुभाचयो ऽथाश्रययत्नयोग्यता विवेकतोदग्रशुभाभिरामता ।
जिनात्मजे ह्यङ्गसमन्वये पुनर्मतं हि सम्यक्परिपाकलक्षणम्
इति नवविधवस्तुपाचितात्मा परपरिपाचनयोग्यतामुपेतः ।
शुभ[धर्म]मयसततप्रवर्धितात्मा भवति सदा जगतो ऽग्रबन्धुभूतः
व्रणे ऽपि भोज्ये परिपाक इष्यते यथैव तत्स्रावणभोगयोग्यता ।
तथाश्रये ऽस्मिन्द्वयपक्षशान्तता[तां]तथोपभोगत्वसुशान्तपक्षता [मुशन्तिपक्वताम्]
विपाचनोक्ता परिपाचना तथा प्रपाचना चाप्यनुपाचनापरा ।
सुपाचना[चा]प्यधिपाचना मता निपाचनोत्पाचनना च देहिषु
हिताशयेनेह यथा जिनात्मजो व्यवस्थितः सर्वजगद्विपाचयन् ।
तथा न माता न पिता न बन्धवः सुतेषु बन्धुष्वपि सुव्यवस्थिताः
तथाजनो नात्मनि वत्सलो मतः कुतो ऽपि सुस्निग्धपराश्रये जने ।
यथा कृपात्मा परसत्ववत्सलो हिते सुखे चैव नियोजनात्मतः
न बोधिसत्त्वस्य शरीरभोगयोः परेष्वदेयं पुनरस्ति सर्वथा ।
अनुग्रहेण द्विविधेन पाचयन् परं समैर्दानगुणैर्न तृप्यते
सदाप्रकृत्याध्यविहिंसकः स्वयं रतो ऽप्रमत्तो ऽत्र परं निवेशयन् ।
परंपरानुग्रहकृत् द्विधा परे विपाकनिष्यन्दगुणेन पाचकः
परे ऽपकारिण्युपकारिबुद्धिमान् प्रमर्षयन्नुग्रमपि व्यतिक्रमम् ।
उपायचित्तैरपकारमर्षणैः शुभे समादापयते ऽपकारिणः
पुनः स यत्नं परमं समाश्रितो न खिद्यते कल्पसहस्रकोटिभिः ।
जिनात्मजः स[त्त्व]गणं प्रपाचयन् परैकचित्तस्य शुभस्य कारणात्
वशित्वमागम्य मनस्यनुत्तरं परं समावर्जयते ऽत्र शासने ।
निहत्य सर्वामवमानकामतां शुभेन संवर्धयते च तं पुनः
स तत्वभावार्थनये सुनिश्चितः करोति सत्वान्सुविनीत संशयान् ।
ततश्च ते तज्जिनशासनादराद् विवर्धयन्ते स्वपरं गुणैः शुभैः
इति सुगतिगतौ शुभत्रये वा जगदखिलं कृपया स बोधिसत्त्वः ।
तनुपरमविमध्यमप्रकारैर्विनयति लोकसमानभावगत्या
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahayana sutralankara of Asanga with its Svavrtti. Darbhanga : The Mithila Institute, 1970, 1-180 (karika only). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0