भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार (अन्य संस्करण) · अध्याय 10

10.1

महायानसूत्रालंकारे बोध्यधिकारो नवमः
दशमोधिकारः
उद्दानम्
आदिः सिद्धिः शरणं गोत्रं चित्ते तथैव चोत्पादः ।
स्वपरार्थस्तत्वार्थः प्रभावपरिपाकबोधिश्च

10.2

जाता जाता ग्राहिका ग्राह्यभूता मित्रादात्ता स्वात्मतो भ्रान्तिका च ।
अभ्रान्तान्या आमुखा नैव चान्या घोषाचारा चैषिका चेक्षिका च

10.3

हार्या कीर्णाऽव्यावकीर्णा विपक्षैर्हीनोदारा आवृताऽनावृता च ।
युक्ताऽयुक्ता संभृताऽसंभृता च गाढं विष्टा दूरगा चाधिमुक्तिः

10.4

अमनस्कारबाहुल्यं कौशीद्यं योगविभ्रमः ।
कुमित्रं शुभदौर्बाल्यमयोनिशोमनस्क्रिया

10.5

प्रमादो ऽल्पश्रुतत्वं च श्रुतचिन्ताल्पतुष्टता ।
शममात्राभिमानश्च तथा ऽपरिजयो मतः

10.6

अनुद्वेगस्तथोद्वेग आवृतिश्चाप्ययुक्तता ।
असंभृतिश्च विज्ञेयाऽधिमुक्तिपरिपन्थता

10.7

पुण्यं महदकौकृत्यं सौमनस्यं सुखं महत् ।
अविप्रणाशः स्थैर्यं च विशेषगमनं तथा

10.8

धर्माभिसमयश्चाथ स्वपरार्थाप्तिरूत्तमा ।
क्षिप्राभिज्ञत्वमेते हि अनुशंसाधिमुक्तितः

10.9

कामिनां सा श्वसदृशी कूर्मप्रख्या समाधिनाम् ।
भृत्योपमा स्वार्थिनां सा राजप्रख्या परार्थिनाम्

10.10

तथा कामिस्थातृस्वपरजनकृत्यार्थमुदिते विशेषो विज्ञेयः सततमधिमुक्तया विविधया ।
महायाने तस्य विधिवदिह मत्वा परमतां भृशं तस्मिन् धीरः सततमिह ताभेव वृणुयात्

10.11

मनुष[ष्य] भूताः संबोधिं प्राप्नुवन्ति प्रतिक्षणम् ।
अप्रमेया यतः सत्त्वा लयं नातो ऽधिवासयेत्

10.12

यथा पुण्यं प्रसवते परेषां भोजनं ददत् ।
न तु स्वयं स भुञ्जानस्तथा पुण्यमहोदयः

10.13

सूत्रोक्तो लभ्यते धर्मात्परार्थाश्रयदेशितात् ।
न तु स्वार्थाश्रयाद्धर्माद्देशितादुपलभ्यते

10.14

इति विपुलगतौ महोघ[महार्य]धर्मे जनिय[परिजनयन्?] सदा मतिंमान्महाधिमुक्तिम् ।
विपुलसततपुण्यतद्विवृद्धिं व्रजति गुणैरसमैर्महात्मतां च

मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahayana sutralankara of Asanga with its Svavrtti. Darbhanga : The Mithila Institute, 1970, 1-180 (karika only). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc