भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार (अन्य संस्करण) · अध्याय 19

19.1

महायानसूत्रालंकारे बोधिपक्षाधिकारः[अष्टादशः] समाप्तः
एकोनविंशत्यधिकारः
आश्चर्य विभागे त्रयः श्लोकाः ।
स्वदेहस्य परित्यागः संपत्तेश्चैव संवृत्तौ ।
दुर्बलेषु क्षमा काये जीविते निरपेक्षिणः

19.2

वीर्यारम्भो ह्यनास्वादो धानेषु सुख एव च ।
निष्कल्पना न प्रज्ञायामाश्चर्यं धीमतां ग[म]तं

19.3

तथागतकुले जन्मलाभो व्याकरणस्य च ।
अभिषेकस्य च प्राप्तिर्बोधेश्चाश्चर्यमिष्यते

19.4

वैराग्यं करुणां चैत्य भावनां परमामपि ।
तथैव समचित्तत्वं नाश्चर्यं तासु युक्तता

19.5

न तथात्मनि दारेषु सुतमित्रेषु बन्धुषु ।
सत्वानां प्रगतः स्नेहो यथा सत्वेषु धीमतां

19.6

अर्थिष्वपक्षपातश्च शीलस्याखण्डना ध्रुवं ।
क्षान्तिः सर्वत्र सत्वार्थं[सर्वार्थं]वीर्यारम्भो महानपि

19.7

ध्यानं च कुशलं नित्यं प्रज्ञा चैवाविकल्पिका ।
विज्ञेया बोधिसत्वानां तास्वेव समचित्तता

19.8

स्थापना भाजनत्वे च शीलेष्वेव च रोपणं ।
मर्षणा चापकारस्य अर्थे व्यापारगामिता

19.9

आवर्जना शासने ऽस्मिंश्छेदना संशयस्य च ।
सत्वेषु उपकारित्वं धीमतामेतदिष्यते

19.10

समाशयेन सत्वानां धारयन्ति सदैव ये ।
जनयन्त्यार्यभूमौ च कुशलैर्वर्धयन्ति च

19.11

दुष्कृतात्परिरक्षन्ति श्रुतं व्युत्पादयन्ति च ।
पञ्चभिः कर्मभिः सत्वमातृकल्पा जिनात्मजाः

19.12

श्रद्धायाः सर्वसत्वेषु सर्वदा चावरोपणात् ।
अधिशीलादिशिक्षायां विमुक्तौ च नियोजनात्

19.13

बुद्धाध्येषणतश्चैषामावृतेश्च विवर्जनात् ।
पञ्चभिः कर्मभिः सत्वपितृकल्पा जिनात्मजाः

19.14

अनर्हदेशनां ये च सत्वानां गूहयन्ति हि ।
शिक्षाविपत्तिं निन्दन्ति शंसन्त्येव च संपदम्

19.15

अववादं च यच्छन्ति मारानावेदयन्ति हि ।
पञ्चभिः कर्मभिः सत्त्वबन्धुकल्पा जिनात्मजाः

19.16

संक्लेशे व्यवदाने च स्वयमश्रान्तबुद्धयः ।
यच्छन्ति लौकिकीं कृत्स्नां संपदं चातिलौकिकीम्

19.17

सुखे हिते चाभिन्ना[अखेदित्वादभिन्ना] ये सदा सुखहितैषिणः ।
पञ्चभिः कर्मभिः सत्वमित्रकल्पा जिनात्मजाः

19.18

सर्वदोद्यमवन्तो ये सत्वानां परिपाचने ।
सम्यग्निर्याणवक्तारः क्षमा विप्रतिपत्तिषु

19.19

द्वयसंपत्तिदातारस्तदुपाये च कोविदाः ।
पञ्चभिः कर्मभिः सत्वदासकल्पा जिनात्मजाः

19.20

अनुत्पत्तिकधर्मेषु क्षान्तिं प्राप्ताश्च ये मताः ।
सर्वया[नो]पदेष्टारः सिद्वयोगानियोजकाः

19.21

सुमुखाः प्रतिकारे च विपाके चानपेक्षिणः ।
पञ्चभिः कर्मभिः सत्वाचार्यकल्पा जिनात्मजाः

19.22

सत्वकृत्यार्थमुद्युक्ताः संभारान्पूरयन्ति ये ।
संभृतान्मोचयन्त्याशु विपक्षं हापयन्ति च

19.23

लोकसंपत्तिभिश्चित्रैरलोकैर्योजयन्ति च ।
पञ्चभिः कर्मभिः सत्वोपाध्यायकल्पा जिनात्मजाः

19.24

असक्त्या चैव भोगेषु शीलस्य च न खण्डनैः ।
कृतज्ञतानुयोगाच्च प्रतिपत्तौ च योगतः

19.25

षट्सु पारमितास्वेव वर्तमाना हि देहिनः ।
भवन्ति बोधिसत्वानां तथा प्रत्युपकारिणः

19.26

वृद्धिं हानिं च काङ्क्षन्ति सत्वानां च प्रपाचनं ।
विशेषगमनं भूमौ बोधिं चानुत्तरां सदा

19.27

त्रासहानौ समुत्पादे संशयच्छेदने ऽपि च ।
प्रतिपत्त्यववादे च सदाबन्ध्या जिनात्मजाः

19.28

दानं निष्प्रतिकाङ्क्षस्य निःस्पृहस्य पुनर्भवे ।
शीलं क्षान्तिश्च सर्वत्र वीर्यं सर्वशुभोदये

19.29

विना[आ?]रूप्यं तथा ध्यानं प्रज्ञा चोपायसंहिता ।
सम्यक्प्रयोगो धीराणां षट्सु पारमितासुहि

19.30

भोगसक्तिः सच्छिद्रत्वं मानश्चैव सुखल्लिका ।
आस्वादनं विकल्पश्च धीराणां हानिहेतवः

19.31

स्थितानां बोधिसत्वानां प्रतिपक्षेषु तेषु च ।
ज्ञेया विशेषभागीया धर्मा एतद्विपर्ययात्

19.32

प्रवा[ता]रणापि कुहना सौमुख्यस्य च दर्शना ।
लोभत्वेन तथ वृत्तिः शान्तवाक्कायता तथा

19.33

सुवाक्करणसंपच्च प्रतिपत्तिविवर्जिता ।
एते हि बोधिसत्वानामभूतत्वाय देशिताः ।
विपर्ययात्प्रयुक्तानां तद्भूतत्वाय देशिताः

19.34

ते दानाद्युपंसहारैः सत्वानां विनयन्ति हि ।
षट्प्रकारं विपक्षं हि धीमन्तः सर्वभूमिषु

19.35

धीमद्व्याकरणं द्वेधा कालपुद्गलभेदतः ।
बोधौ व्याकरणे चैव महाच्चान्यदुदाहृतं

19.36

नोत्पत्तिक्षान्तिलाभेन मानाभोगविहानितः ।
एकीभावगमत्वाच्च सर्वबुद्धजिनात्मजैः

19.37

क्षेत्रेणं नाम्ना कालेन कल्पनाम्ना च तत्पुनः ।
परिवारानुवृत्या च सद्धर्मस्य तदिष्यते

19.38

संपत्युत्पत्तिनैयम्यपातो ऽखेदे च धीमतां ।
भावनायाश्च सातत्ये समाधानाच्युतावपि ।
कृत्यसिद्धावनाभोगे क्षान्तिलाभे च सर्वथा

19.39

पूजा शिक्षासमादानं करुणा शुभभावना ।
अप्रमादस्तथारण्ये श्रुतार्थातृप्तिरेव च ।
सर्वभूमिषु धीराणामवश्यकरणीयता

19.40

कामेष्वादीनवज्ञानं स्खलितेषु निरीक्षणा ।
दुःखाधिवासना चैव कुशलस्य च भावना

19.41

अनास्वादः सुखे चैव निमित्तानामकल्पना ।
सातत्यकरणीयं हि धीमतां सर्वभूमिषु

19.42

धर्मदानं शीलशुद्धिर्नोत्पत्तिक्षान्तिरेव च ।
वीर्यारम्भो महायाने अन्त्या सकरुणा स्थितिः ।
प्रज्ञा पारमितानां च प्रधानं धीमतां मतम्

19.43

विद्यास्थानव्यवस्थानं सूत्राद्याकारभेदतः ।
ज्ञेयं धर्मव्यवस्थानं धीमतां सर्वभूमिषु

19.44

पुनः सत्वव्यवस्थानं सप्तधा तथताश्रयात् ।
चतुर्धा च त्रिधा चैव युक्तियानव्यवस्थितिः

19.45

योनिशश्च मनस्कारः सम्यग्दृष्टिः फलान्विता ।
प्रमाणैर्विचयो ऽचिन्त्यं ज्ञेयं युक्तिचतुष्टयम्

19.46

आशयाद्देशनाच्चैव प्रयोगात्संभृतेरपि ।
समुदागमभेदाच्च त्रिविधं यानमिष्यते

19.47

आगन्तुकत्वपर्येषा अन्योन्यं नामवस्तुनोः ।
प्रज्ञप्तेर्द्विविधस्यात्र तन्मात्रत्वस्य वैषणा

19.48

सर्वस्यानुपलम्भाच्च भूतज्ञानं चतुर्विधं ।
सर्वार्थसिद्ध्यै धीराणां सर्वभूमिषु जायते

19.49

प्रतिष्ठाभोगबीजं हि निमित्तं बन्धनस्य हि ।
साश्रयाश्चित्तचैत्तास्तु बध्यन्ते ऽत्र सबीजकाः

19.50

पुरतः स्थापितं यच्च निमित्तं यत्स्थितं स्वयं ।
सर्वं विभावयन्धीमान् लभते बोधिमुत्तमाम्

19.51

तथतालम्बनं ज्ञानं द्वयग्राहविवर्जितं ।
दौष्ठुल्यकायप्रत्यक्षं तत्क्षये धीमतां मतम्

19.52

तथतालम्बनं ज्ञानमनानाकारभावितं ।
सदसत्तार्थे प्रत्यक्षं विकल्पविभु चोच्यते

19.53

तत्त्वं संच्छाद्य बालानामतत्त्वं ख्याति सर्वतः ।
तत्त्वं तु बोधिसत्वानां सर्वतः ख्यात्यपास्य तत्

19.54

अख्यानख्यानता ज्ञेया असदर्थसदर्थयोः ।
आश्रयस्य परावृत्तिर्मोक्षो ऽसौ कामचारतः

19.55

अन्योन्यं तुल्यजातीयः ख्यात्यर्थः सर्वतो महान् ।
अन्तरायकरस्तस्मात्परिज्ञायैनमुत्सृजेत्

19.56

परिपाच्यं विशोध्यं च प्राप्यं योग्यं च पाचने ।
सम्यक्त्वदेशनावस्तु अप्रमेयं हि धीमताम्

19.57

बोधिसत्व[चित्त]स्य चोत्पादो नोत्पादक्षान्तिरेव च ।
चक्षुश्च निर्मलं हीनमाश्रवक्षय एव च

19.58

सद्धर्मस्य स्थितिर्दीर्घा व्युत्पत्तिच्छित्तिभोगता ।
देशनायाः फलं ज्ञेयं तत्प्रयुक्तस्य धीमतः

19.59

आलम्बनमहत्वं च प्रतिपत्तेर्द्वयोस्तथा ।
ज्ञानस्य वीर्यारम्भस्य उपाये कौशलस्य च

19.60

उदागममहत्वं च महत्वं बुद्धकर्मणः ।
एतन्महत्वयोगाद्धि महायानं निरुच्यते

19.61

गोत्रं धर्माधिमुक्तिश्च चित्तस्योत्पादना तथा ।
दानादिप्रतिपत्तिश्च न्याया[मा]वक्रान्तिरेव च

19.62

सत्वानां परिपाकश्च क्षेत्रस्य च विशोधना ।
अप्रतिष्ठितनिर्वाणं बोधिः श्रेष्ठा च दर्शनात्[दर्शना]

19.63

आधिमोक्षिक एकश्च शुद्धाध्याशयिको ऽपरः ।
निमित्ते चानिमित्ते च चार्यप्यनभिसंस्कृते ।
बोधिसत्वा हि विज्ञेयाः पञ्चैते सर्वभूमिषु

19.64

कामेष्वसक्तस्स्त्रिविशुद्धकर्मा क्रोधाभिभूम्यं गुणतत्परश्च ।
धर्मे ऽचलस्तत्वगभीरदृष्टिर्बोधौ स्पृहावान् खलु बोधिसत्त्वः

19.65

अनुग्रहेच्छो ऽनुपघातदृष्टिः परोपघातेष्वधिवासकश्च ।
धीरो ऽप्रमत्तश्च बहुश्रुतश्च परार्थयुक्तः खलु बोधिसत्त्वः

19.66

आदीनवज्ञः स्वपरिग्रहेषु भोगेष्वसक्तो ह्यनिगूढवैरः ।
योगी निमित्ते कुशलो ऽकुदृष्टिरध्यात्मसंस्थः खलु बोधिसत्त्वः

19.67

दयान्वितो ह्रीगुणसंनिविष्टो दुःखाधिवासात्स्वसुखेष्वसक्तः ।
स्मृतिप्रधानः सुसमाहितात्मा यानाविकार्यः खलु बोधिसत्त्वः

19.68

दुःखापहो दुःखकरो न चैव दुःखाधिवासो न च दुःखभीतः ।
दुःखाद्विमुक्तो न च दुःखकल्पो दुःखाभ्युपेतः खलु बोधिसत्त्वः

19.69

धर्मेरतो ऽधर्मरतः [धर्मे ऽरतो ऽधर्मरतः] प्रकृत्या धर्मे जुगुप्सी धरमाभियुक्तः ।
धर्मे वशी धर्मनिरन्धकारो धर्मप्रधानः खलु बोधिसत्त्वः

19.70

भोगाप्रमत्तो नियमाप्रमत्तो रक्षाप्रमत्तः कुशलाप्रमत्तः ।
सुखाप्रमत्तो धरमाप्रमत्तो यानाप्रमत्तो खलु बोधिसत्त्वः

19.71

विमानलज्जास्तनुदोषलज्ज अमर्षलज्जः परिहाणिलज्जः ।
विशाल[विसार]लज्जस्तनुदृष्टिलज्जः यानान्यलज्जः खलु बोधिसत्त्वः

19.72

इहापि चामुत्र उपेक्षणेन संस्कारयोगेन विभुत्वलाभैः ।
शमोप[समौप]देशेन महाफलेन अनुग्रहे वर्तति बोधिसत्त्वः

19.73

बोधिसत्वो महासत्वो धीमांश्चैवोत्तमद्युतिः ।
जिनपुत्रो जिनाधारो विजेताथ जिनाङ्कुरः

19.74

विक्रान्तः परमाश्चर्यः सार्थवाहो महायशाः ।
कृपालुश्च महापुण्य ईश्वरो धार्मिकस्तथा

19.75

सुतत्वबोधैः सुमहार्थबोधैः सर्वाव[र्थ]बोधैरपि नित्यबोधैः ।
उपायबोधैश्च विशेषणेन तेनोच्यते हेतुन बोधिसत्वः

19.76

आत्मानुबोधात्तनुदृष्टिबोधाद्विचित्रविज्ञप्तिविबोधतश्च ।
सर्वस्य चाभूतविकल्पबोधात्तेनोच्यते हेतुन बोधिसत्वः

19.77

अबोधबोधादनुबोधबोधादभावबोधात्प्रभवानुबोधात् ।
अबोधबोधप्रतिबोधतश्च तेनोच्यते हेतुन बोधिसत्त्वः

19.78

अनर्थबोधात्परमार्थबोधात्सर्वाव[र्थ]बोधात्सकलार्थबोधात् ।
बोद्धव्यबोधाश्रयबोधबोधात्तेनोच्यते हेतुन बोधिसत्त्वः

19.79

निष्पन्नबोधात्पदबोधतश्च गर्भानुबोधात् क्रमदर्शनस्य ।
बोधाद्भृशं संशयहानिबोधात् तेनोच्यते हेतुन बोधिसत्त्वः

19.80

लाभी ह्यलाभी धीसंस्थितश्च बोद्धानुबोद्धा प्रतिदेशकश्च ।
निर्जल्पबुद्धिर्हतमानमानी ह्यपक्कसंपक्कमतिश्च धीमान्

मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahayana sutralankara of Asanga with its Svavrtti. Darbhanga : The Mithila Institute, 1970, 1-180 (karika only). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc