महायानसूत्रालंकार (अन्य संस्करण) · अध्याय 18
महायानसूत्रालंकारे पूजासेवाऽप्रमाणाधिकारः [ सप्तदशः] समाप्तः
अष्टादशो ऽधिकारः
लज्जाविभागे षोडश श्लोकाः ।
लज्जा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन ।
हीनानवद्यविषया सत्वानां पाचिका धीरे
षणां पारमितानां निषेवणालस्यतो भवति लज्जा ।
क्वेशानुकूलधर्मप्रयोगतश्चैव धीराणां
असमाहितस्वभावा मृदुमध्या हीनभूमिका लज्जा ।
हीनाशया समाना हीना हि तदन्यथा त्वधिका
लज्जारहितो धीमान् क्लेशानधिवासयत्ययोनिशतः ।
प्रतिघोपेक्षामानः सत्वानुपहन्ति शीलं च
कौकृत्यात्सविलेखो भवति स संमानहानिमाप्नोति ।
श्राद्धात्मा[मा]नुषसंघाच्छास्त्रा चोपेक्ष्यते तस्मात्
सहधार्मि कैर्जिनसुतैर्विनिन्द्यते लोकतो ऽयशो लभते ।
दृष्टे धर्मे ऽन्यत्र क्षणरहितो जायते भूयः
प्राप्ताप्राप्तविहानिं शुक्लैर्धर्मैः समाप्नुते तेन ।
दुःखं विहरति तस्मान्मनसो ऽप्यस्वस्थतामेति
एते सर्वे दोषा हिमत्सु भवन्ति नो जिनसुतेषु ।
देवेषु च मनुजेषु च नित्यं संजायते च बुधः
संभारांश्च स बोधेः क्षिप्रं पूरयति लज्जया धीमान् ।
सत्वानां पाचनया न खिद्यते चैव जिनपुत्रः
स विपक्षप्रतिपक्षै रहितो ऽरहितश्च जायते सततं ।
इत्येतमानुशंसं ह्रीमानाप्नोति जिनपुत्रः
दोषमलिनो हि बालो ह्रीविरहात्सुवसनैः सुगुप्तो ऽपि ।
निर्वसनो ऽपि जिनसुतो ह्रीवसनो मुक्तदोषमलः
आकाशमिव न लिप्तो ह्रीयुक्तः जिनसुतो भवति धर्मैः ।
ह्रीभूषितश्च शोभति संपर्कगतो जिनसुतानाम्
मातुरिव वत्सलत्वं ह्रियो विनेयेषु बोधिसत्वानां ।
आरक्षा चापि ह्रीः संसरतां सर्वदोषेभ्यः
सर्वेषु नाधिवासा सर्वेष्वधिवासनाप्रवृत्तिश्च ।
सर्वेषु च प्रवृत्तिर्ह्रीविहितं ह्रीमतो लिङ्गम्
ह्रीभावना प्रधाना स्वचित्ततो धर्मतो ऽधिमोक्षाच्च ।
आशयतो ऽपि विभुत्वादकल्पनादैक्यतश्चापि
धृतिश्च बोधिसत्वानां लक्षणेन प्रभेदतः ।
दृढत्वेन च सर्वेभ्यस्तदन्येभ्यो विशिष्यते
वीर्यं समाधिः प्रज्ञा च सत्वं धैर्यं धृतिर्मता ।
निर्भीतो बोधिसत्वो हि त्रयाद्यस्मात्प्रवर्तते
लीनत्वाच्च चलत्वाच्च मोहाच्चोत्पद्यते भयं ।
कृत्येषु तस्माद्विज्ञेया धृतिसंज्ञा निजे त्रये
प्रकृत्या प्रणिधाने च निरपेक्षत्व एव च ।
सत्वविप्रतिपत्तौ च गम्भीर्यौदार्यसंश्रवे
विनेयदुर्विनयत्वे कायाचिन्त्ये जिनस्य च ।
दुष्करेषु विचित्रेषु संसारात्याग एव च
निःसंक्लेशे च तत्रैव धृतिर्धीरस्य जायते ।
असमा च तदन्येभ्यः सो ऽग्रे धृतिमतां यतः[मतः]
कुमित्रदुःखगम्भीरश्रवाद्वीरो न कम्पते ।
शलभैः पक्षवातैश्च समुदैश्च सुमेरुवत्
अखेदो बोधिसत्त्वानामसमस्त्रिषु वस्तुषु ।
श्रुतातृप्तिमहावीर्यदुःखे ह्रीघृतिनिश्रितः
तीव्रच्छन्दो महाबोधावखेदो धीमतां मतः ।
अनिष्पन्नश्च निष्पन्नः सुनिष्पन्नश्च भूमिषु
वस्तुना चाधिकारेण कर्मणा च विशिष्यते ।
लक्षणेनाक्षयत्वेन फलस्योदागमेन च
शास्त्रज्ञता हि धीराणां समाधिमुखधारणी ।
गृहीता सत्वपाकाय सद्धर्मस्य च धारणे
कायेन वचसा चैव सत्यज्ञानेन चासमा ।
लोकज्ञता हि धीराणां तदन्येभ्यो विशिष्यते
सा पुनः किमर्थमित्याह सत्वानां भाजनत्वाय ।
कस्मिन्नर्थे भाजनत्वाय सद्धर्मप्रतिपत्तये
सत्यद्वयाद्यतश्चेष्टो लोकानामुदयो ऽसकृत् ।
द्वयादस्तंगमस्तस्मात् तज्ज्ञो लोकज्ञ उच्यते
शमाय प्राप्तये तेषां धीमान् सत्येषु युज्यते ।
सत्यज्ञानद्यतो धीमान् लोकज्ञो हि निरुच्यते
आर्षश्च देशनाधर्मो अर्थो ऽभिप्रायिको ऽस्य च ।
प्रामाणिकश्च नीतार्थो निर्जल्पा प्राप्तिरस्य च
प्रतिक्षेप्तुर्यथोक्तस्य मिथ्यासंतीरितस्य च ।
साभिलाष[प]स्य च प्राप्तेः प्रतिषेधो ऽत्र देशितः
अधिमुक्तेर्विचाराच्च यथावत्परतः श्रवात् ।
निर्जल्पादपि च ज्ञानादप्रणाशो हि धीमतां
असमा बोधिसत्त्वानां चतस्रः प्रतिसंविदः ।
पर्याये लक्षणे वाक्ये ज्ञाने ज्ञानाच्च ता मताः
देशनायां प्रयुक्तस्य यस्य येन च देशना ।
धर्मार्थयोर्द्वयोर्वाचा ज्ञानेनैव च देशना
धर्मस्योद्देशनिर्देशात्सर्वथा प्रापणाद् द्वयोः ।
परिज्ञाना[हाना]च्च चोद्यानां प्रतिसंविच्चतुष्टयम्
प्रत्यात्मं समतामेत्य योत्तरत्र प्रवेदना ।
सर्वसंशयनाशाय प्रतिसंविन्निरुच्यते
संभारो बोधिसत्वानां पुण्यज्ञानमयो ऽसमः ।
संसारे ऽभ्युदयायैकः अन्यो ऽसंक्लिष्टसंसृतौ
दानं शीलं च पुण्यस्य प्रज्ञा ज्ञानस्य संभृतिः ।
त्रयं चान्यद्द्व्यस्यापि पञ्चापि ज्ञानसंभृतिः
संतत्या भावनामेत्य भूयो भूयः शुभस्य हि ।
आहारो यः स संभारो वी[धी]रे सर्वार्थसाधकः
प्रवेशायानिमित्ताय अनाभोगाय संभृतिः ।
अभिषेकाय निष्ठायै धीराणामुपचीयते
चतुर्दशभिराकारैः स्मृत्युपस्थानभावना ।
धीमतामसमत्वात्सा तदन्येभ्यो विशिष्यते
निश्रयात्प्रतिपक्षाच्च अवतारात्तथैव च ।
आलम्बनमनस्कारप्राप्तितश्च विशिष्यते
आनुकूल्यानुवृत्तिभ्यां परिज्ञोत्पत्तितो ऽपरा ।
मात्रया परमत्वेन भावनासमुदागमात्
सम्यक्प्रहाणं धीराणामसमं सर्वदेहिभिः ।
समृत्युपस्थानदोषाणां प्रतिपक्षेण भाव्यते
संसारस्योपभोगे च त्यागे निवरणस्य च ।
मनस्कारस्य च त्यागे प्रवेशे चैव भूमिषु
अनिमित्तविहारे च लब्धौ व्याकरणस्य च ।
सत्वानां परिपाके च अभिषेके च धीमतां
क्षेत्रस्य च विशुद्ध्यर्थं निष्ठागमन एव च ।
भाव्यते बोधिसत्वानां विपक्षप्रतिपक्षतः
छन्दं निश्रित्य योगस्य भावना सनिमित्तिका ।
सर्वसम्यक्प्रहाणेषु प्रतिपक्षो निरुच्यते
ऋद्धिपादाश्च चत्वारो धीराणामग्रलक्षणाः ।
सर्वार्थसिद्धौ जायन्ते आत्मनश्च परस्य च
निश्रयाच्च प्रभेदाच्च उपायदभिनिर्हृतेः ।
व्यवस्था ऋद्धिपादानां धीमतां सर्वथेष्यते
ध्यानपारमिमाश्रित्य प्रभेदो हि चतुर्विधः ।
उपायश्चाभिनिर्हारः षड्विधश्च विधीयते
व्यावसायिक एकश्च द्वितीयो ऽनुग्रहात्मकः ।
नैबन्धिकस्तृतीयश्च चतुर्थः प्रातिपक्षिकः
दर्शनस्याववादस्य स्थितिविक्रीडितस्य च ।
प्रणिधेर्वशितायश्च धर्मप्राप्तेश्च निर्हृतिः
बोधिश्चर्या श्रुत चात्र[ग्रं]शमथो ऽथ विपश्यना ।
श्रद्धादीनां पदं ज्ञेयमर्थसिद्ध्यधिकारतः
भूमिप्रवेशसंक्लिष्टाश्चेष्टाः श्रद्धादयः पुनः ।
विपक्षदुर्बलत्वेन त एव बलसंज्ञिताः
भूमिविष्टस्य बोध्यङ्गव्यवस्थानं विधीयते ।
धर्माणां सर्वसत्वानां समतावगमात्पुनः
स्मृतिश्चरति सर्वत्र ज्ञेयाजितविनिर्जये ।
सर्वकल्पनिमित्तानां भङ्गाय विचयो ऽस्य च
यथा हस्तिरत्नं प्रत्यर्थिकभङ्गाय ।
आशु चाशेषबोधाय वीर्यस्य प्रवर्तते ।
धर्मालोकविवृद्ध्या च प्रीत्या आपूर्यते ध्रुवम्
सर्वावरणनिर्मोक्षात् प्रश्रब्ध्या सुखमेति च ।
चिन्तितार्थसमृद्धिश्च समाधेरूपजायते
उपेक्षया यथाकामं सर्वत्र विहरत्यसौ ।
प[पृ]ष्ठलब्धाविकल्पेन विकल्पेन [विहारेण] सदोत्तमः
एवंगुणो बोधिसत्त्वश्चक्रवर्तीव वर्तते ।
सप्तरत्नोपमैर्नित्यं बोध्यङ्गैः परिवारितः
निश्रयाङ्गं स्वभावाङ्गं निर्याणाङ्गं तृतीयकं ।
चतुर्थमनुशंसाङ्गमक्लेशाङ्गं त्रयात्मकम्
यथाबोधानुवृत्तिश्च तदूर्ध्वमुपजायते ।
यथाबोधव्यवस्थानं प्रवेशश्च व्यवस्थितौ
कर्मत्रयविशुद्धिश्च प्रतिपक्षस्य भावना ।
ज्ञेयावृत्तेश्च मार्गस्य वैशेषिकगुणस्य च
चित्तस्य चित्ते स्थानाच्च धर्मप्रविचयादपि ।
सम्यक् स्थितिमुपाश्रित्य शमथो ऽथ विपश्यना
सर्वत्रगा च सैकाशां नैकांशोपनिषन्मता ।
प्रतिवेधे च निर्याणे अनिमित्ते ह्यसंस्कृते
परिशुद्धौ विशुद्धौ च शमथो ऽथ विपश्यना ।
सर्वभूमिगता धीरे स योगः सर्वसाधकः
पूरये बुद्धधर्माणां सत्वानां परिपाचने ।
क्षिप्रप्राप्तौ क्रियाशुद्धौ वर्त्माच्छेदे च कौशलं
उपाये बोधिसत्त्वानामसमं सर्वभूमिषु ।
यत्कौशल्यं समाश्रित्य सर्वार्थान्साधयन्ति ते
विपाकेन श्रुताभ्यासात् धारण्यपि समाधिना ।
परीत्ता महती सा च महती त्रिविधा पुनः
अप्रविष्टप्रविष्टानां धीमतां मृदुमध्यमा ।
अशुद्धभूमिकानां हि महती शुद्धभूमिका
धारणी[णीं]तां समाश्रित्य बोधिसत्वा पुनः पुनः ।
प्रकाशयन्ति सद्धर्मं नित्यं संधारयन्ति च
चेतना छन्दसहिता ज्ञानेन प्रेरिता च तत् ।
प्रणिधानं हि धीराणामसमं सर्वभूमिषु
हेतुभूतं च विज्ञेयं चित्तात्सद्यः फलं च तत् ।
आयत्यामर्थसिद्ध्यर्थं चित्तमात्रात्समृद्धितः
चित्रं महद्विशुद्धं च उत्तरोत्तरभूमिषु ।
आबोधेर्बोधिसत्त्वानां स्वपरार्थप्रसाधकं
नैरात्म्यं द्विविधं ज्ञेयो ह्यात्मग्राहस्य चाश्रयः ।
तस्य चोपशमो नित्यं समाधित्रयगोचरः
समाधिस्त्रिविधो ज्ञेयो ग्राह्यग्राहकभावतः ।
निर्विकल्पो ऽपि विमुखो रतियुक्तश्च सर्वदा
परिज्ञायै प्रहाणाय पुनः साक्षात्क्रियाय च ।
शून्यतादिसमाधीनां त्रिधार्थः परिकीर्तितः
समाध्युपनिषत्त्वेन धर्मोद्दानचतुष्टयं ।
देशितं बोधिसत्त्वेभ्यः सत्वानां हितकाम्यया
असदर्थो ऽविकल्पार्थः परिकल्पार्थ एव च ।
विकल्पोपशमार्थश्च धीमतां तच्चतुष्टयम्
अयोगाद्धेतुतोत्पत्तेर्विरोधात्स्वयमस्थितेः ।
अभावाल्लक्षणैकान्त्यादनुवृत्तेर्निरोधतः
परिणामोपलब्धेश्च तद्धेतुत्वफलत्वतः ।
उपात्तत्वाधिपत्वा[त्या]च्च शुद्धसत्वानुवृत्तितः
आद्यस्तरतमेनापि चयेनाश्रयभावतः ।
विकारपरिपाकाभ्यां तथा हीनविशिष्टतः
भास्वराभास्वरत्वेन देशान्तरगमेन च ।
सबीजाबीजभावेन प्रतिबिम्बेन चोदयः
चतुर्दशविधोत्पत्तौ हेतुमानविशेषतः ।
चयाया[पा]र्थादयोगाच्च आश्रयत्व असंभवात्
स्थितस्यासंभवादन्ते आद्यनाशाविकारतः ।
तथा हीनविशिष्टत्वे भास्वराभास्वरे ऽपि च
गत्यभावात्स्थितायोगाच्चरमत्व असंभवात् ।
अनुवृत्तेश्च चित्तस्य क्षणिकं सर्वसंस्कृतम्
भूतानां षड्विधार्थस्य क्षणिकत्वं विधीयते ।
शोषवृद्धेः प्रकृत्या च चलत्वाद् वृद्धिहानितः
तत्संभवात्पृथिव्याश्च परिणामचतुष्टयात् ।
वर्णगन्धरसस्पर्शतुल्यत्वाच्च तथैव तत्
इन्धनाधीनवृत्तित्वात्तारतम्योपलब्धितः ।
चित्तानुवृत्तेः पृच्छातः क्षणिकं बाह्यमप्यतः
प्रज्ञप्त्यस्तितया वाच्यः पुद्गलो द्रव्यतो न तु ।
नोपलम्भाद्विपर्यासात् संक्लेशात् क्लिष्टहेतुतः
एकत्वान्यत्वतोवाच्यस्तस्माद्दोषद्वयादसौ ।
स्कन्धात्मत्वप्रसङ्गाच्च तद्द्रव्यत्वप्रसङ्गतः
द्रव्यसन् यद्यवाच्यश्च वचनीयं प्रयोजनं ।
एकत्वान्यत्वतो ऽवाच्यो न युक्तो निष्प्रयोजनः
लक्षणाल्लोकदृष्टाच्च शास्त्रतो ऽपि न युज्यते ।
इन्धनाग्न्योरवाच्यत्वमुपलब्धेर्द्वयेन हि
द्वये सति च विज्ञानसंभवात्प्रत्ययो न सः ।
नैरर्थक्यादतो द्रष्टा यावन्मोक्ता न युज्यते
स्वामित्वे सति चानित्यमनिष्टं न प्रवर्तयेत् ।
तत्कर्मलक्षणं साध्यं संबोधो बाध्यते त्रिधा
दर्शनादौ च तद्यत्नः स्वयंभूर्न त्रयादपि ।
तद्यत्नप्रत्ययत्वं च निर्यत्नं दर्शनादिकं
अकर्तृत्वादनित्यत्वात्सकृत्रित्यप्रवृत्तितः ।
दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते
तथा स्थितस्य नष्टस्य प्रागभावादनित्यतः ।
तृतीयपक्षाभावाच्च प्रत्ययत्वं न युज्यते
सर्वधर्मा अनात्मानः परमार्थेन शून्यता ।
आत्मोपलम्भे दोषश्च देशितो यत एव च
संक्लेशव्यवदाने च अवस्थाच्छेदभिन्नके ।
वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः
आत्मदृष्टिरनुत्पाद्या अभ्यासो ऽनादिकालिकः ।
अयत्नमोक्षः सर्वेषां न मोक्षः पुद्गलो ऽस्ति वा
प्रज्ञप्त्यस्तितया वाच्यः पुद्गलो द्रव्यतो न तु ।
एकत्वान्यत्वतोवाच्यस्तस्मादसौ ।
स्कन्धात्मत्वप्रसङ्गाच्च तद्द्रव्यत्वप्रसङ्गतः ।
द्रव्यसन्यद्यवाच्यश्च वचनीयं प्रयोजनं ।
एकत्वान्यत्वतो ऽवाच्यो न युक्तो निष्प्रयोजनः ।
लक्षणाल्लोकदृष्टाच्च शास्त्रतो ऽपि न युज्यते ।
इन्धनाग्न्योरवाच्यत्वमुपलब्धेर्द्वयेन हि ।
द्वयं प्रतीत्य विज्ञानसंभवात्प्रत्ययो न सः ।
स्वामित्वे सति वानित्यमनिष्टं न प्रवर्तयेत् ॥
तद्यत्नप्रत्ययत्वं च निर्यत्नं दर्शनादिकम् ।
अकर्तृत्वादनित्यत्वात्सकृन्नित्यप्रवृत्तितः ।
दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते ॥
तथा स्थितस्य नष्टस्य प्रागभावादनित्यतः ।
तृतीयपक्षाभावाच्च प्रत्ययत्वं न युज्यते ॥
सर्वे धर्मा अनात्मानः परमार्थेन शून्यता ।
आत्मोपलम्भे दोषश्च देशितो यत एव च ॥
संक्लेशे व्यवदाने च अवस्थाच्छेदभिन्नके ।
वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः ॥
आत्मदृष्टिरनूत्पाद्या पूर्वमेवोत्पन्नत्वात् ।
नापि तदभ्यासार्थं यस्मादात्मदृष्टेर्
अभ्यासो ऽनादिकालिकः ।
यदि चात्मदर्शनेन मोक्ष इत्यसौ देश्येत ।
एवं सति स्यात्
अयत्नमोक्षः सर्वेषां
एवमेभिर्गुणैर्नित्यं बोधिसत्वाः समन्विताः ।
आत्मार्थं च न रिञ्चन्ति परार्थं साधयन्ति च
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahayana sutralankara of Asanga with its Svavrtti. Darbhanga : The Mithila Institute, 1970, 1-180 (karika only). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0