महायानसूत्रालंकार (अन्य संस्करण) · अध्याय 20
महायानसूत्रालंकारे गुणाधिकारः [एकोनविंशतितमः?] समाप्तः
विंशतितमःएकविंशतितमश्चाधिकारः
लिङ्गविभागे द्वौ श्लोकौ
अनुकम्पा प्रियाख्यानं धीरता मुक्तहस्तता ।
गम्भीरसंधिनिर्मोक्षो लिङ्गान्येतानि धीमतां
परिग्रहे ऽधिमुक्त्याप्तावखेदे द्वयसंग्रहे ।
आशयाच्च प्रयोगाच्च विज्ञेयं लिङ्गपञ्चकं
बोधिसत्वा हि सततं भवन्तश्चक्रवर्तिनः ।
प्रकुर्वन्ति हि सत्वार्थं गृहिणः सर्वजन्मसु
आदानलब्धा प्रव्रज्या धर्मतोपगता परा ।
निदर्शिका च प्रव्रजया धीमतां सर्वभूमिषु
अप्रमेयैर्गुणैर्युक्तः पक्षः प्रव्रजितस्य तु ।
गृहिणो बोधिसत्वाद्धि यतिस्तस्माद्विशिष्यते
परत्रेष्टफलेच्छा च शुभवृत्ताविहैव च ।
निर्वाणेच्छा च धीराणां सत्वेष्वाशय इष्यते ।
अशुद्धश्च विशुद्धश्च सुविशुद्धः सर्वभूमिषु
प्रणिधानात्समाच्चित्तादाधिपत्यात्परिग्रहः ।
गणस्य कर्षणत्वाच्च धीमतां सर्वभूमिषु
कर्मणश्चाधिपत्येन प्रणिधानस्य चापरा ।
समाधेश्च विभुत्वस्य चोत्पत्तिर्धीमतां मता
लक्षणात्पुद्गगलाच्छिक्षास्कन्धनिष्पत्तिलिङ्गतः ।
निरुक्तेः प्राप्तितश्चैव विहारो भूमिरेव च
शून्यता परमात्मस्य कर्मानाशे व्यवस्थितिः ।
विहृत्य ससुखैर्ध्यानैर्जन्म कामे ततः परम्
ततश्च बोधिपक्षाणां संसारे परिणामना ।
विना च चित्तसंक्लेशं सत्वानां परिपाचना
उपपत्तौ च संचित्य संक्लेशस्यानुरक्षणा ।
एकायनपथश्लिष्टा ऽनिमित्तैकान्तिकः पथः
अनिमित्ते ऽप्यनाभोगः क्षेत्रस्य च विशोधना ।
सत्वपाकस्य निष्पत्तिर्जायते च ततः परम्
समाधिधारणीनां च बोधेश्चैव विशुद्धता ।
एतस्माच्च व्यवस्थानाद्विज्ञेयं भूमिलक्षणम्
विशुद्धदृष्टिः सुविशुद्धशीलः समाहितो धर्मविभूतमानः ।
संतानसंक्लेशविशुद्धिभेदे निर्माण एकक्षणलब्धबुद्धिः
उपेक्षकः क्षेत्रविशोधकश्च स्यात्सत्वपाके कुशलो महर्द्धिः ।
संपूर्णकायश्च निदर्शने च शक्तो ऽभिषिक्तः खलु बोधिसत्वः
धर्मतां प्रतिविध्येह अधिशीले ऽनुशिक्षणे ।
अधिचित्ते ऽप्यधिप्रज्ञे प्रज्ञा तु द्वयगोचरा
धर्मतत्वं तदज्ञानज्ञानाद्या वृत्तिरेव च ।
प्रज्ञाया गोचरस्तस्माद् द्विभूमौ तद्व्यवस्थितिः
शिक्षाणां भावनायाश्च फलमन्यच्चतुर्विधम् ।
अनिमित्तससंस्कारो विहारः प्रथमं फलम्
स एवानभिसंस्कारो द्वितीयं फलमिष्यते ।
क्षेत्रशुद्धिश्च सत्वानां पाकनिष्पत्तिरेव च
समाधिधारणीनां च निष्पत्तिः परमं फलं ।
चतुर्विधं फलं ह्येतत् चतुर्भूमिसमाश्रितम्
धर्मतां प्रतिविध्येह शीलस्कन्धस्य शोधना ।
समाधिप्रज्ञास्कन्धस्य तत ऊर्ध्वं विशोधना
विमुक्तिमुक्तिज्ञानस्य तदन्यासु विशोधना ।
चतुर्विधादावरणात् प्रतिघातावृतेरपि
अनिष्पन्नाश्च निष्पन्ना विज्ञेयाः सर्वभूमयः ।
निष्पन्ना अप्यनिष्पन्ना निष्पन्नाश्च पुनर्मताः
निष्पत्तिर्विज्ञेया यथाव्यवस्थानमनसिकारेण ।
तत्कल्पनताज्ञानादविकल्पनया च तस्यैव
भावना अपि निष्पत्तिरचिन्त्यं सर्वभूमिषु ।
प्रत्यात्मवेदनीयत्वात् बुद्धानां विषयादपि
अधिमुक्तिर्हि सर्वत्र सालोका लिङ्गमिष्यते ।
अलीनत्वमदीनत्वमपरप्रत्ययात्मता
प्रतिवेधश्च सर्वत्र सर्वत्र समचित्तता ।
अनेयानुनयोपायज्ञानं मण्डलजन्म च
नाच्छन्दो न च लुब्धह्रस्वहृदयो न क्रोधनो नालसो नामैत्रीकरूणाशयो न कुमतिः कल्पैर्विकल्पैर्हतः ।
नो विक्षिप्तमतिः सुखैर्न च हतो दुःखैर्न वा [व्या]वर्तते सत्यं मित्रमुपाश्रितः श्रुतपरः पूजापरः शास्तरि
सर्वं पुण्यसमुच्चयं सुविपुलं कृत्वान्यसाधारणं संबोधौ परिणामयत्यहरहर्यो ह्युत्तमोपायवित् ।
जातः स्वायतने सदा शुभकरः क्रीडत्यभिज्ञागुणैः सर्वेषामुपरिस्थितो गुणनिधिर्ज्ञेयः स बुद्धात्मनः
शमथे विपश्यनायां च द्वयपञ्चात्मको मतः ।
धीमतामनुशंसो हि सर्वथा सर्वभूमिषु
पश्यतां बोधिमासन्नां सत्वार्थस्य च साधनं ।
तीव्र उत्पद्यते मोदो मुदिता तेन कथ्यते
दौः शील्याभोगवैमल्याद्विमला भूमिरुच्यते ।
महाधर्मावभासस्य करणाच्च प्रभाकरी
अर्चिर्भूता यतो धर्मा बोधिपक्षाः प्रदाहकाः ।
अर्चिष्मतीति तद्योगात्सा भूमिर्द्वयदाहतः
सत्वानां परिपाकश्च स्वचित्तस्य च रक्षणा ।
धीमद्भिर्जीयते दुःखं दुर्जया तेन कथ्यते
आभिमुख्याद् द्व्यस्येह संसारस्यापि निर्वृतेः ।
उक्ता ह्यभिमुखी भूमिः प्रज्ञापारमिताश्रयात्
एकायनपथश्लेषाद्भूमिर्दूरंगमा मता ।
द्व्यसंज्ञाविचलनादचला च निरुच्यते
प्रतिसंविन्मतिसाधुत्वाद्भूमिः साधुमति मता ।
धर्ममेघा द्वयव्याप्तेर्धर्माकाशस्य मेघवत्
विविधे शुभनिर्हारे रत्या विहरणात्सदा ।
सर्वत्र बोधिसत्वानां विहारभूमयो मताः
भूयो भूयो ऽमितास्वासु ऊर्ध्वंगमनयोगतः ।
भूतामिताभयार्थाय त एवेष्टा हि भूमयः
भूमिलाभे[भो]ऽधिमुक्तेश्च चरितेषु च वर्तनात् ।
प्रतिवेधाच्च भूमीनां निष्पत्तेश्च चतुर्विधः
महायाने ऽधिमुक्तानां हीनयाने च देहिनां ।
द्वयोरावर्जनार्थाय विनयाय च देशिताः ।
चर्याश्चतस्रो धीराणां यथासूत्रानुसारतः
अनुकम्पकसत्वेषु संयोगविगमाशय ।
अवियोगाशय सौख्यहिताशय नमो ऽस्तुते
सर्वावरणनिर्मुक्त सर्वलोकाभिभू मुने ।
ज्ञानेन ज्ञेयं व्याप्तं ते मुक्तचित्त नमो ऽस्तुते
अशेषं सर्वसत्वानां सर्वक्लेशविनाशक ।
क्लेशप्रहारक क्लिष्टसानुक्रोश नमो ऽस्तुते
अनाभोग निरासङ्ग अव्याघात समाहित ।
सदैव सर्वप्रश्नानां विसर्जक नमो ऽस्तु ते
आश्रये ऽथाश्रिते देश्ये वाक्ये ज्ञाने च देशिके ।
अव्याहतमते नित्यं सुदेशिक नमो ऽस्तुते
उपेत्य वचनैस्तेषां चरिज्ञ आगतौ गतौ ।
निः सारे चैव सत्वानां स्वववाद नमो ऽस्तु ते
सत्पौरुष्यं प्रपद्यन्ते त्वां दृष्ट्वा सर्वदेहिनः ।
दृष्टमात्रात्प्रसादस्य विधायक नमो ऽस्तु ते
आदानस्थानसंत्यागनिर्माणपरिणामने ।
समाधिज्ञानवशितामनुप्राप्त नमो ऽस्तु ते
उपाये शरणे शुद्धौ सत्वानां विप्रवादने ।
महायाने च निर्याणे मारभञ्ज नमो ऽस्तु ते
ज्ञानप्रहाणनिर्याणविघ्नकारकदेशिक ।
स्वपरार्थे ऽन्यतीर्थ्यानां निराधृष्य नमो ऽस्तु ते
वि[नि]गृह्यवक्ता पर्षत्सु द्व्यसंक्लेशवर्जित ।
निरारक्ष असंमोष गणकर्ष नमो ऽस्तु ते
चारे विहारे सर्वत्र नास्त्यसर्वज्ञचेष्टितं ।
सर्वदा तव सर्वज्ञ भूतार्थिक नमो ऽस्तु ते
सर्वसत्त्वार्थकृत्येषु कालं त्वं नातिवर्तसे ।
अबन्ध्यकृत्य सततमसंमोषः नमो ऽस्तु ते
सर्वलोकमहोरात्रं षट्कृत्वः प्रत्यवेक्षसे ।
महाकरुणया युक्त हिताशय नमो ऽस्तु ते
चारेणाधिगमेनापि ज्ञानेनापि च कर्मणा ।
सर्वश्रावकप्रत्येकबुद्धोत्तम नमो ऽस्तु ते
त्रिभिः कायैर्महाबोधिं सर्वाकारामुपागत ।
सर्वत्र सर्वसत्वानां काङ्क्षाछिद नमो ऽस्तु ते
निरवग्रह निर्दोष निष्कालुष्यानवस्थित ।
आनिङ्क्ष्य सर्वधर्मेषु निष्प्रपञ्च नमो ऽस्तु ते
निष्पन्नपरमार्थों ऽसि सर्वभूमिविनिःसृतः ।
सर्वसत्वाग्रतां प्राप्तः सर्वसत्वविमोचकः
अक्षयैरसमैर्युक्तो गुणैर्लोकेषु दृश्यसे ।
मण्डलेष्वप्यदृश्यश्च सर्वथा देवमानुषैः
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahayana sutralankara of Asanga with its Svavrtti. Darbhanga : The Mithila Institute, 1970, 1-180 (karika only). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0