भाषा

ENहिગુ
ग्रंथ पाठ

महायानसूत्रालंकार (अन्य संस्करण) · अध्याय 17

17.1

महायानसूत्रालंकारे पारमिताधिकारः [षोडशः] समाप्तः
सप्तदशो ऽधिकारः
बुद्धपूजाविभागे सप्त श्लोकाः ।
संमुखं विमुखं पूजा बुद्धानां चीवरादिभिः ।
गाढप्रसन्नचित्तस्य संभारद्वयपूरये

17.2

अबन्ध्यबुद्धजन्मत्वे प्रणिधानवतः सतः ।
त्रयस्यानुपलम्भस्तु निष्पन्ना बुद्धपूजा

17.3

सत्वानामप्रमेयानां परिपाकाय चापरा ।
उपधेश्चित्ततश्चान्या अधिमुक्तेर्निधानतः

17.4

अनुकम्पाक्षमाभ्यां च समुदाचारतो ऽपरा ।
वस्त्वाभोगावबोधाच्च विमुक्तेश्च तथात्वतः

17.5

आश्रयाद्वस्तुतः पूजा निमित्तात्परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च प्रदर्शिता

17.6

हेतुतः फलतश्चैव आत्मना च परैरपि ।
लाभसत्कारतश्चैव प्रतिपत्तेर्द्विधा च सा

17.7

परीत्ता महती पूजा समानामानिका च सा ।
प्रयोगाद्गतितश्चैव प्रणिधानाच्च सा मता

17.8

बुद्धेषु पूजा परमा स्वचित्तात् धर्माधिमुक्त्याशयतो विभुत्वात् ।
अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश्च

17.9

आश्रयाद्वस्तुतः सेवा निमित्तात्परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च प्रदर्शिता

17.10

मित्रं श्रयेद्दान्तशमोपशान्तं गुणाधिकं सोद्यममागमाढ्यं ।
प्रबुद्धतत्वं वचसाभ्युपेतं कृपात्मकं खेदविवर्जितं च

17.11

सत्कारलाभैः परिचर्यया च सेवेत मित्रं प्रतिपत्तितश्च ।
धर्मे तथाज्ञाशय एव धीमान् मित्रं प्रगच्छेत्समये नतश्च

17.12

सत्कारलाभेषु गतस्पृहो ऽसौ प्रपत्तये तं परिणामयेच्च ।
यथानुशिष्टप्रतिपत्तितश्च संराधयेच्चित्तमतो ऽस्य धीरः

17.13

यानत्रये कौशलमेत्य बुद्ध्या स्वस्यैव यानस्य यतेत सिद्धौ ।
इति मानत्रयकौशलात् ज्ञानं ।
सत्वानमेयान्परिपाचनाय क्षेत्रस्य शुद्धस्य च साधनाय

17.14

धर्मेषु दायादगुणेन युक्तो नैवामिषेण प्रवेसत्स मित्रम् ।
हेतोः फलाद्धर्ममुखानुयानात्सेवेत मित्रं बहितश्च धीमान्

17.15

श्रुतश्रवाच्चेतसि योगतश्च समाननिर्मानमनो ऽनुयोगात् ।
गतिप्रयोगप्रणिधानतश्च कल्याणमित्रं हि भजेत् धीमान्

17.16

सन्मित्रसेवा परमा स्वचित्ताद् धर्माधिमुक्त्याशयतो विभुत्वैः ।
अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश्च

17.17

ब्राह्मा विपक्षहीना ज्ञानेन गताश्च निर्विकल्पेन ।
त्रिविधालम्बनवृत्ताः सत्वानां पाचका धीरे

17.18

सौख्यार्थिनि दुःखार्ते सुखिते क्लिष्टे च ते प्रवर्तन्ते ।
तद्देशिते च धर्मे तत्तथतायां च धीराणाम्

17.19

तस्याश्च तथतार्थत्वात् क्षान्तिलाभाद्विशुद्धितः ।
कर्मद्वयादनालम्बा मैत्री क्लेशक्षयादपि

17.20

ते निश्चलाश्च चलाश्च कृपणैरास्वादिता न च ज्ञेयाः ।
अचलेषु बोधिसत्त्वाः प्रतिष्ठिताः सक्तिविगतेषु

17.21

असमाहितस्वभावा मृदुमध्या हीनभूमिका ये ऽपि ।
हीनाशयाः समाना हीनास्ते ह्यन्यथा त्वधिकाः

17.22

ब्राह्म्यैर्विहृतविहारः कामिषु संजायते यदा धीमान् ।
संभारान्पूरयते सत्वांश्च विपाचयति तेन

17.23

सर्वत्र चाविरहितो ब्राह्म्यै रहितश्च तद्विपक्षेण ।
तत्प्रत्ययैरपि भृशैर्न याति विकृतिं प्रमत्तो ऽपि

17.24

व्यापादविहिंसाभ्यामरतिव्यापादकामरागैश्च ।
युक्तो हि बोधिसत्त्वो बहुविधमादीनवं स्पृशति

17.25

क्लेशैर्हन्त्यात्मानं सत्वानुपहन्ति शीलमुपहन्ति ।
सविलेखलाभहीनो रक्षाहीनस्तथा शास्त्रा[ता]

17.26

साधिकरणो ऽशयस्वी परत्र संजायते ऽक्षणेषु स च ।
प्राप्ताप्राप्तविहीनो मनसि महद् दुःखमाप्नोति

17.27

एते सर्वे दोषा मैत्र्यादिषु सुस्थितस्य न भवन्ति ।
अक्लिष्टः संसारं सत्वार्थं नो च संत्यजति

17.28

न तथैकपुत्रकेष्वपि गुणवत्स्वपि भवति सर्वसत्वानां ।
मैत्र्यादिचेतनेयं सत्वेषु यथा जिनसुतानां

17.29

प्रदीप्तान् शत्रुवशगान् दुःखाक्रान्तांस्तमोवृतान् ।
दुर्गमार्गसमारूढान्महाबन्धनसंयुतान्

17.30

महाशनविषाक्रान्तलोलान्मार्गप्रनष्टकान् ।
उत्पथप्रस्थितान् सत्वान्दुर्बलान् करुणायते

17.31

हेठापहं ह्युत्तमबोधिबीजं सुखावहं ताय[प]कमिष्टहेतुं ।
स्वभावदं धर्ममुपाश्रितस्य बोधिर्न दूरे जिनात्मजस्य

17.32

विज्ञाय संसारगतं समग्रं दुःखात्मकं चैव निरात्मकं च ।
नोद्वेगमायाति न चापि दोषैः प्रबाध्यते कारुणिको ऽग्रबुद्धिः

17.33

दुःखात्मकं लोकमवेक्षमाणो दुःखायते वेत्ति च तद्यथावत् ।
तस्याभ्युपायं परिवर्जने च न खेदमायत्यपि वा कृपालुः

17.34

कृपा प्रकृत्या प्रतिसंख्यया च पूर्वं तदभ्यासविधानयोगात् ।
विपक्षहीना च विशुद्धिलाभात् चतुर्विधेयं करूणात्मकानां

17.35

न सा कृपा या न समा सदा वा नाध्याशयाद्वा प्रतिपत्तितो वा ।
वैराग्यतो नानुपलम्भतो वा न बोधिसत्त्वो ह्यकृपस्तथा यः

17.36

करुणा क्षान्तिश्चिन्ता प्रणिधानं जन्मसत्वपरिपाकः ।
करुणातरुरेष महान्मूलादिः पुष्पपत्र[पश्चिमाग्र] (पश्चिमान्त)फलः

17.37

मूलं करुणा न भवेद् दुष्करचर्यासहिष्णुता न भवेत् ।
दुःखाक्षमश्च धीमान् सत्वार्थं चिन्तयेन्नैव

17.38

चिन्ताविहीनबुद्धिः प्रणिधानं शुक्लजन्मसु न कुर्यात् ।
शुभजन्माननुगच्छन्सत्वान्परिपाचयेन्नैव

17.39

करुणासेको मैत्री तद्दुःखे सौख्यतो विपुलपुष्टिः ।
शाखावृद्धिर्विशदा योनिमनस्कारतो ज्ञेया

17.40

पर्णत्यागादानं प्रणिधीनां संततेरनुच्छेदात् ।
द्विविधप्रत्ययसिद्धेः पुष्पमबन्ध्यं फलं चास्मात्

17.41

कः कुर्वीत न करुणां सत्वेषु महाकृपागुणकरेषु ।
दुःखे ऽपि सौख्यमतुलं भवति यदेषां कृपाजनितं

17.42

अविष्टानां कृपया न तिष्ठति मनः शमे कृपालूनां ।
कुत एव लोकसौख्ये स्वजीविते वा भवेत्स्नेहः

17.43

स्नेहो न विद्यते ऽसौ यो ऽनिरवद्यो न लौकिको यश्च ।
धीमत्सु कृपास्नेहो निरवद्यो लोकसमतीतः

17.44

दुःखाज्ञानमहौघे महान्धकारे च निश्रितं लोकं ।
उद्धर्तुं य उपायः कथमिव न स्यात्स निरवद्यः

17.45

स्नेहो न सो ऽस्त्यरिहतां लोके प्रत्येकबोधिबुद्धानां ।
प्रागेव तदन्येषां कथमिव लोकोत्तरो न स्यात्

17.46

दुःखाभावे दुःखं यत्कृपया भवति बोधिसत्त्वानां ।
संत्रासयति तदादौ स्पृष्टं त्वभिनन्दयति गाढं

17.47

किमतः परमाश्चर्यं यद् दुःखं सौख्यमभिभवति सर्व ।
कृपया जनितं लौक्यं येन विमुक्तो अपि कृतार्थः

17.48

कृपया सहितं दानं यद्दानसुखं करोति धीराणां ।
त्रैधातुकमुपभोगैर्न तत्सुखं तत्कलां स्पृशति

17.49

दुःखमयं संसारं यत्कृपया न त्यजति सत्वार्थं ।
परहितहेतोर्दुःखं किं कारूणिकैर्न समुपेतम्

17.50

करूणा दानं भोगाः सदा कृपालोर्विवृद्धिमुपयान्ति ।
स्नेहानुग्रहजनितं तच्छक्तिकृतं सुखं चास्मात्

17.51

वर्धे च वर्धयामि च दाने परिपाचयामि सुखयामि ।
आकर्षामि नयामि च करुणा सन्नान्प्रवदतीव

17.52

दुःखे दुःखी कृपया सुखान्यनाधाय केन सुखितः स्यात् ।
सुखयत्यात्मानमतः कृपालुराधाय परसौख्यम्

17.53

स्वं दानं कारूणिकः शास्तीव सदैव निःस्वसुखकामः ।
भोगैः सुखय परं वा मामप्ययुतसौख्यम्

17.54

सफलं दानं दत्तं तन्मे सत्वेषु तत्सुखसुखेन ।
फल तेष्वेव निकामं यदि मे कर्तव्यता ते ऽस्ति

17.55

भोगेद्वेष्टुर्दातुर्भोगा बहुशुभतरोपसर्पन्ति ।
न हि तत्सुखं मतं मे दाने पारंपरो ऽस्मि यतः

17.56

सर्वास्तिपरित्यागे यत्कृपया मां निरीक्षसे सततं ।
ननु ते तेन ज्ञेयं न मत्फलेनार्थिता ऽस्येति

17.57

दानाभिरतो न स्यां प्राप्तं चेत्तत्फलं न विसृजेयं ।
क्षणमपि दानेन विना दानाभिरतो भवति नैव

17.58

अकृतं न फलसि यस्मात्प्रतिकारापेक्षया न मे तुल्यं ।
प्रतिकारनिर्व्यपेक्षः परत्र फलदो ऽस्य कामं ते

17.59

निरवद्यं शुद्धपदं हितावहं चैव सानुरक्षं च ।
निर्मृग्यं निर्लेपं जिनात्मजानां कृपादानम्

17.60

सकलं विपुलं श्रेष्ठं सततं मुदितं निरामिषं शुद्धं ।
बोधिनतं कुशलनतं जिनात्मजानां कृषादानम्

17.61

न तथोपभोगतुष्टिं लभते भोगी यथा परित्यागात् ।
तुष्टिमुपैति कृपालुः सुखत्रयाप्यायितमनस्कः

17.62

कृपणकृपा रौद्रकृपा संक्षुब्धकृपा कृपा प्रमत्तेषु ।
विषयपरतन्त्रकरुणा मिथ्याभिनिविष्टकरुणा च

17.63

करुणा बोधिसत्वानां सुखाद् दुःखात्तदन्वयात् ।
करुणा बोधिसत्त्वानां हेतोर्मित्रात्स्वभावतः

17.64

करुणा बोधिसत्त्वानां समा ज्ञेया तदाशयात् ।
प्रतिपत्तेर्विरागाच्च नोपलम्भाद्विशुद्धितः

17.65

मैत्राद्रिभावनाग्रा स्वचित्ततो धर्मतो ऽधिमोक्षाच्च ।
आशयतो ऽपि विभुत्वादविकल्पादैक्यतश्चापि

17.66

इति भगवति जातसुप्रसादो महदुपधिध्रुवसत्किर्यामिपूजी ।
बहुगुणहितमित्रनित्यसेवो जगदनुकम्पक एति सर्वसिद्धिं

मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahayana sutralankara of Asanga with its Svavrtti. Darbhanga : The Mithila Institute, 1970, 1-180 (karika only). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc