महायानसूत्रालंकार (अन्य संस्करण) · अध्याय 16
महायानसूत्रालंकारे उपायसहितकर्माधिकारः पञ्चदशः
षोडशो ऽधिकारः
पारमिताप्रभेदसंग्रहे उद्दानश्लोकः
संख्याविभागे ष्ट् श्लोकाः
सांख्याथ तल्लक्षणमानुपूर्वी निरुत्तिरभ्यासगुणश्च तासां ।
प्रभेदनं संग्रहणं विपक्षो ज्ञेयो गुणो ऽन्योन्यविनिश्चयश्च
भोगात्मभावसंपत्परिचारारम्भसंपदभ्युदयः ।
क्लेशावशगत्वमपि च कृत्येषु सदाविपर्यासः
सत्वार्थेषु सुयुक्तस्त्यागानुपघातमर्षणैः कुरुते ।
सनिदानस्थितिमुक्त्या आत्मार्थं सर्वथा चरति
अविघातैरविहेठैर्विहेठसंमर्षणैः क्रियाखेदैः ।
आवर्जनैः सुलपितैः परार्थ आत्मार्थ एतस्मात्
भोगेषु चानभिरतिस्तीव्रा गुरुताद्वये अखेदश्च ।
योगश्च निर्विकल्पः समस्तमिदमुत्तमं यानं
विषयेष्वसक्तिमार्गस्तदाप्तिविक्षेपसंयमेष्वपरः ।
सत्त्वाविसृजनवर्धन आवरणविशोधनेष्वपरः
शिक्षात्रयमधिकृत्य च षष्ट् पारमिता जिनैः समाख्याताः ।
आद्या तिस्रो द्वेधा अन्त्यद्वयतस्तिसृष्वेका
दानं विपक्षहीनं ज्ञानेन गतं च निविकल्पेन ।
सर्वेच्छापरिपूरकमपि सत्वविपाचकं त्रेधा
शीलं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन ।
सर्वेच्छापरिपूरकमपि सत्वविपाचकं त्रेधा
क्षान्तिर्विपक्षहीना ज्ञानेन गता च निर्विकल्पेन ।
सर्वेच्छापरिपूरा अपि सत्वविपाचिका त्रेधा
वीर्यं विपक्षहीनं ज्ञानेन गतं च निविकल्पेन ।
सर्वेच्छापरिपूरकमपि सत्वाविपाचकं त्रेधा
ध्यानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन ।
सर्वेच्छापरिपूरकमपि सत्वविपाचकं त्रेधा
प्रज्ञा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन ।
सर्वेच्छापरिपूरा अपि सत्वविपाचिका त्रेधा
पूर्वोत्तरविश्रयतश्चोत्पत्तेस्तत्क्रमेण निर्देशः ।
हीनोत्कर्षस्थानादौदारिकसूक्ष्मतश्चापि
दारिद्यस्यापनयाच्छैत्यस्य च लम्भनात् क्षयात् क्रुद्धेः ।
वरयोगमनोधारणपरमाथ[र्थ]ज्ञानतश्चोक्तिः
भावनोपधिमाश्रित्य मनस्कारं तथाशयं ।
उपायं च विभुत्वं च सर्वासामेव कथ्यते
प्रतिपादनमर्थस्य चेतना मूलनिश्चिता ।
भोगात्मभावसंपत्ती द्वयानुग्रहपूरकं
अमात्सर्ययुतं तच्च दृष्टधर्मामिषाभये ।
दानमेव[वं] परिज्ञाय पण्डितः समुदानयेत्
षडङ्ग[ङ्गं]शमभावान्तं सुगतिस्थितिदायकं ।
प्रतिष्ठाशान्तनिर्भीतं पुण्यसंभारसंयुतं
संकेतधर्मतालब्धं सवंरस्थेषु विद्यते ।
शीलमेवं परिज्ञाय पण्डितः समुदानयेत्
मर्षाधिवासनज्ञानं कारुण्याद्धर्मसंश्रयात् ।
पञ्चानुशंसमाख्यातं द्वयोरर्थकरं च तत्
तपः प्राबल्यसंयुक्तं तेषु तत्त्रिविधं मतं ।
क्षान्तिमेवं परिज्ञाय पण्डितः समुदानयेत्
द्वयोरर्थं स कुरूते आत्मनश्च परस्य च ।
यः परं कुपितं ज्ञात्वा स्वयं तत्रोपशाम्यति ॥ म्स_16.22* ॥
॥ इति ॥
उत्साहः कुशले सम्यक् श्रद्धाच्छन्दप्रतिष्ठितः ।
स्मृत्यादिगुणवृद्धौ च संक्लेशप्रातिपक्षिकः
अलोभादिगुणोपेतस्तेषु सप्तविधश्च सः ।
वीर्यमेव परिज्ञाय पण्डितः समुदानयेत
स्थितिश्चेतस अध्यात्मं स्मृतिवीर्यप्रतिष्ठितं ।
सुखोपपत्तये ऽभिज्ञाविहारवशवर्तकम्
धर्माणां प्रमुखं तेषु विद्यते त्रिविधश्च सः ।
ध्यानमेवं परिज्ञाय पण्डितः समुदानयेत्
सम्यक्प्रविचयो ज्ञेयः श[स]माधानप्रतिष्ठितः ।
सुविमोक्षाय संक्लेशात्प्रज्ञाजीवसुदेशनः
धर्माणामुत्तरस्तेषु विद्यते त्रिविधश्च सः ।
प्रज्ञामेवं परिज्ञाय पण्डितः समुदानयेत्
सर्वे शुक्ला धर्मा विक्षिप्तसमाहितोभया ज्ञेयाः ।
द्वाभ्यां द्वाभ्यां द्वाभ्यां पारमिताभ्यां परिगृहीताः
न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च दानं ।
न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम्
न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च शीलं ।
न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम्
न च सक्ता न च सक्ता न च सक्ता सत्तिका न क्षान्तिः ।
न च सक्ता न च सक्ता न च सक्ता बोधिसत्त्वानाम्
न च सक्तं न च सक्तं न च सक्तं सक्तमेव च न वीर्यं ।
न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम्
न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च ध्यानं ।
न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम्
न च सक्ता न च सक्ता न च सक्ता सक्तिका न च प्रज्ञा ।
न च सक्ता न च सक्त न च सक्ता बोधिसत्त्वानाम्
त्यक्तं बुद्धसुतैः स्वजीवितमपि प्राप्यार्थिनं सर्वदा कारुण्यात्परतो न च प्रतिकृतिर्नेष्टं फलं प्रार्थितं ।
दानेनैव च तेन सर्वजनता बोधित्रये रोपिता दानं ज्ञानपरिग्रहेण च पुनर्लोके ऽज्ञयं स्थापितम्
आत्तं बुद्धसुतैर्यमोद्यममयं शीलत्रयं सर्वदा स्वर्गो नाभिमतः समेत्य च पुनः सक्तिर्न तत्राहिता ।
शीलेनैव च तेन सर्वजनता बोधित्रये रोपिता शीलं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम्
क्षान्तं बुद्धसुतैः सुदुष्करमथो सर्वापकारं नृणां न स्वर्गार्थमस[श]क्तिमतो न च भयान्नैवोपकारेक्षणात् ।
क्षान्त्यानुत्तरया च सर्वजनता बोधित्रये रोपिता क्षान्तिर्ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षया स्थापिता
वीर्यं बुद्धसुतैः कृतं निरूपमं संनाहयोगात्मकं हन्तुं क्लेशगणं स्वतो ऽपि परतः प्राप्तुं च बोधिं परां ।
वीर्येणैव च तेन सर्वजनता बोधित्रये रोपिता वीर्यं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम्
ध्यानं बुद्धसुतैः समाधिबहुलं संपादितं सर्वथा श्रेष्ठैर्ध्यानसुखैर्विहृत्य कृपया हीनापपत्तिः श्रिता ।
ध्यानेनैव च तेन सर्वजनता बोधित्रये रोपिता ध्यानं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम्
ज्ञातं बुद्धसुतैः सतत्वमखिलं ज्ञेयं च यत्सर्वथा सक्तिर्नैव च निर्वृतौ प्रजनिता बुद्धैः[द्धेः] कुतः संवृतौ ।
ज्ञानेनैव च तेन सर्वजनता बोधित्रये रोपिता ज्ञानं सत्वपरिग्रहेण पुनर्लोके ऽक्षयं स्थापितम्
औदार्यानामिषत्वं च महार्थाक्षयतापि च ।
दानादीनां समस्तं हि ज्ञेयं गुणचतुष्टयम्
दर्शनपूरणतुष्टिं याचनके ऽतुष्टिमपि समाशास्तिं ।
अभिभवति स तां दाता कृपालुराधिक्ययोगेन
प्राणान्भोगान्दारान्सत्वेषु सदान्य[त्य]जनकृपालुत्वात् ।
आमोदते निकामं तद्विरतिं पालयेत्र कथम्
निरपेक्षः समचित्तो निर्भीः सर्वप्रदः कृपाहेतोः ।
मिथ्यावादं ब्रूयात्परोपघाताय कथमार्यः
समहितकामः सकृपः परदुःखोत्पादने ऽतिभीरूश्च ।
सत्वविनये सुयुक्तेः सुविदूरे त्रिविधवाग्दोषात्
सर्वप्रदः कृपालुः प्रतीत्यधर्मोदये सुकुशलश्च ।
अधिवासयेत्कथमसौ सर्वाकारं मनः क्लेशम्
उपकरसंज्ञामोदं ह्यपकारिणिपरहित संज्ञां[परहिते सदा] दुःखे ।
लभते यदा कृपालुः क्षमितव्यं ..........[किं कुतस्यस्य]
परपरसंज्ञापगमात्स्वतो ऽधिकतरात्सदा परस्नेहात् ।
दुष्करचरणात्सकृपे ह्यदुष्करं वीर्यं
अल्पसुखं ह्यात्मसुखं लीनं परिहाणिकं क्षयि समोहं ।
ध्यानं मतं त्रयाणां विपर्ययाद्वोधिसत्वानाम्
आमोषैस्तमसि यथा दीपैर्नुन्नं[श्छन्ने] तथा त्रयज्ञानं ।
दिनकरकिरणौरिव तु ज्ञानमतुल्यं कृपालुनाम्
आश्रयाद्वस्तुतो दानं निमित्तात्परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रन्निश्रयाच्च परं मतम्
आश्रयाद्वस्तुतः शीलं निमित्तात्परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम्
[आश्रयाद्वस्तुतः क्षान्तिनिमित्तात्परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परा मता
आश्रयाद्वस्तुतो वीर्यं निमित्तात्परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम्
आश्रयाद्वस्तुतो ध्यानं निमित्तात्परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम्
आश्रयाद्वस्तुतः प्रज्ञा निमित्तात्परिणामनात् ।
हेतुतो ज्ञानतः क्षेत्रन्निश्रयाच्च परा मता
एकसत्वसुखं दानं बहुकल्पविघातकृत् ।
प्रियं स्यद्वोधिसत्वानां प्रागेव तद्विपर्ययात्
यदर्थमिच्छन्ति धनानि देहिनस्तदेव धीरा विसृजन्ति देहिषु ।
शरीरहेतोर्धनमिष्यते जनैस्तदेव धीरैः शतशो विसृज्यते
शरीरामेवोत्सृजतो न दुःख्यते यदा मनः का द्रविणे ऽवरे कथा ।
तदस्य लोकोत्तरमिति यन्मुदं स तेन तत्तस्य तदुत्तरं पुनः
प्रतिग्रहैरिष्टनिकामलब्धर्न तुष्टिमायाति तथार्थिको ऽपि ।
सर्वास्तिदानेन यथेह धीमान् तुष्टिं व्रजत्यर्थिजनस्य तुष्ट्या
संपूर्णभोगो न तथास्तिमन्तमात्मानमन्वीक्षति याचको ऽपि ।
सर्वास्तिदानादधनो ऽपि धीमानात्मानमन्वेति यथास्तिमन्तं
सुविपुलमपि वित्तं प्राप्य नैवोपकारं विगणयति तथाथी दायकाल्लाभहेतोः ।
विधिवदिह सुदानैरर्थिनस्तर्पयित्वा महदुपकरसंज्ञां तेषु धीमान्यथैति
स्वयमपगतशोका देहिनः स्वस्थरूपा विपुलमपि गृहीत्वा भुञ्जते यस्य वित्तं ।
पथि परमफलाढ्याद्भोगवृक्षाद्यथैव प्रविसृतिरतिभोगी बोधिसत्त्वान्न सो ऽन्यः
प्राधान्यतत्कारणकर्मभेदात् प्रकारभेदाश्रयभेदतश्च ।
चतुर्विबन्धप्रतिपक्षभेदात् वीर्यं परिज्ञेयमिति प्रदिष्टम्
वीर्यं परं शुक्लगणस्य मध्ये तन्निश्रितस्तस्य यतो ऽनुलाभः ।
वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगतां च सिद्धिः
वीर्यावदवाप्तं भवभोगमिष्टं वीर्येण शुद्धिं प्रबलामुपेताः ।
वीर्येण सत्कायमतीत्य मुक्ता वीर्येण बोधिं परमां विबुद्धाः
पुनर्मतं हानिविवृद्धिवीर्यं मोक्षाधिपं पक्षविपक्षमन्यत् ।
तत्त्वे प्रविष्टं परिवर्तकं च वीर्यं महार्थं च निरुक्तमन्यत्
संनाहवीर्यं प्रथमं ततश्च प्रयोगवीर्यं विधिवत्प्रहितं ।
अलीनमक्षोभ्यमतुष्टिवीर्यं सर्वप्रकारं प्रवदन्ति बुद्धाः
निकृष्टमध्योत्तमवीर्यमन्यत् यानत्रये युक्तजनाश्रयेण ।
लीनात्युदाराशयबुद्धियोगात् वीर्यं तदल्पार्थमहार्थमिष्टम्
न वीर्यवान्भोगपराजितो ऽस्ति नो वीर्यवान् क्लेशपराजितो ऽस्ति ।
न वीर्यवान् खेदपराजितो ऽस्ति नो वीर्यवान् प्राप्तिपराजितो ऽस्ति
अन्योन्यं संग्रहतः प्रभेदतो धर्मतो निमित्ताच्च ।
षणां पारमितानां विनिश्चयः सर्वथा ज्ञेयः
दानं समं प्रियाख्यानमर्थचर्या समार्थता ।
तद्देशना समादाय स्वानुवृत्तिभिरिष्यते
उपायो ऽनुग्रहकरो ग्राहको ऽथ प्रवर्तकः ।
तथानुवर्तको ज्ञेयश्चतुःसंग्रहवस्तुतः
आद्येन भाजनीभावो द्वितीयेनाधिमुच्यना ।
प्रतिपत्तिस्तृतीयेन चतुर्थेन विशोधना
चतुः संग्रहवस्तुत्वं संग्रहद्वयतो मतं ।
आमिषेणापि धर्मेण धर्मेणालम्बनादपि [दिना]
हीनमध्योत्तमः प्रायो वन्ध्यो ऽवन्ध्यश्च संग्रहः ।
अबन्ध्यः सर्वथा चैव ज्ञेयो ह्याकारभेदतः
पर्षत्कर्षणप्रयुक्तैर्विधिरेष समाश्रितः ।
सर्वार्थसिद्धौ सर्वेषां सुखोपायश्च शस्यते
संगृहीता ग्रहीष्यन्ते संगृह्यन्ते च ये ऽधुना ।
सर्वे त एवं तस्माच्च वर्त्म तत्सत्वपाचने
इति सततमसक्तभोगबुद्धिः शमयमनोद्यमपारगः स्थितात्मा ।
भवविषयनिमित्तनिर्विकल्पो भवति स सत्वगणस्य संगृहीता
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahayana sutralankara of Asanga with its Svavrtti. Darbhanga : The Mithila Institute, 1970, 1-180 (karika only). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0