महायानसूत्रालंकार (अन्य संस्करण) · अध्याय 15
महायानसूत्रालंकारे अववादानुशासन्यधिकारश्चतुर्दशः
पञ्चदशो ऽधिकारः
उद्दानम
उपायसहितकर्मविभागे चत्वारः श्लोकाः
अधिमुक्तेर्बहुलता धर्मपर्येष्टिदेशने ।
प्रतिपत्तिस्तथा सम्यगववादानुशासनं
यथा प्रतिष्ठा वनदेहिपर्वतप्रवाहिनीनां पृथिवी समन्ततः ।
तथैव दानादिशुभस्य सर्वतो बुधेषु कर्म त्रिविधं निरुच्यते
सुदुष्करैः कर्मभिरुद्यतात्मानां विचित्ररूपैर्बहुकल्पनिर्गतैः ।
न कायवाक् चित्तमयस्य कर्मणो जिनात्मजानां भवतीह संनतिः
यथा विषाच्छस्त्रमहाशनाद्[ने] रिपोर्निवारयेदात्महितः स्वमाश्रयं ।
निहिनयानद्विविधाज्जिनात्मजो निवारयेत्कर्म तथा त्रयात्मकं
न कर्मिणः कर्म न कर्मणः क्रियां सदाविकल्पः समुदीक्षते त्रिधा ।
ततो ऽस्य तत्कर्म विशुद्धिपारगं भवत्यनन्तं तदुपायसंग्रहात्
मूल पाठ: Mahāyānasūtrālaṃkāra · Edition: S. Bagchi: Mahayana sutralankara of Asanga with its Svavrtti. Darbhanga : The Mithila Institute, 1970, 1-180 (karika only). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0