महावस्तु-अवादन · भाग 301320
[_म्वु_3.284_] कथंध्यायी बहुली कामसंज्ञा
परिबाहितो भवति अलब्धगाढा ॥
अथ खलु भगवां तन्त्रीं मारधीतरां गाथाये प्रत्यभाषति ॥
अञ्ञाय धर्मं अवितर्कध्यायी
नो रज्यते नो सरतीह थीनं ।
एवंविहारी बहुलीह भिक्षु
पंचोघतीर्णो तरतीह षष्टं ॥
प्रश्रब्धकायो सुविमुक्तचित्तो
स्मृतिमानकोप्यो अपनीतमानो ।
अवंध्यायी बहुली कामसंज्ञा
परिबाहितो भवति अलब्धगाढा ॥
अथ खलु अरती मारधीता भगवन्तं गाथाये अध्यभाषति ॥
सोकाभितुन्नो व वनस्मिं ध्यायसि
चिताय जीवं अभिप्रार्थयन्तो ।
आसाद्य ग्राम्या न करोषि साख्यं
कस्माज् जने न करोषि साख्यं ॥
अथ खलु भगवां अरतीं मारधीतारं गाथाये अध्यभाषे ॥
शोकस्य मूलं परिखन्य सर्वं
सर्वं प्रहाय भवलोभम् आप्स्ये ।
[_म्वु_3.285_] अर्थस्य प्राप्तिं हृदयस्य शान्तिं
ध्यानानुयुक्तो सुखसारबुद्धिः ।
तस्माज् जने न करोमि साख्यं
साख्यं न संविद्यते तेन अस्मे ॥
अथ खलु अरती मारदेवी भगवन्तं गाथाये अध्यभाषे ॥
आच्छेत्व तृष्णां गुणसंप्रचारी
बह्व् अत्र रक्ता करिष्यन्ति च्छन्दं ।
बहुं वतायं जनतां सुवेध
आच्छेत्व . . . . . . मृत्युराज्ञो
नयिष्यति अच्युतपदम् अशोकं ॥
अथ खलु भगवां तां मारधीतरो गाथाये प्रत्यभाषति ॥
गिरिं नखेहि खनथ अयो दन्तेहि खादथ ।
पर्वतं शिरसा हनथ अगाढे गाढम् एषथ ।
किमु अन्वेथ पापीयो अपि बुद्धासूया सदा ॥
अथ खलु ता मारधीतरो जानाति मां श्रमणो गौतमो ति दुःखी दुर्मना विप्रतिसारी येन पिता मारस् तेनोपसंक्रमित्वा पितरं मारं गाथाये अध्यभाषे ॥
अद्य मे वधं पि तात न रागेण स आनिये ।
विषयं मे अतिक्रान्तः तस्माच् छोचाम्य् अहं भृशं ॥
अन्यो व तात पुरुषो अवीतसंगो अस्माकं तेन रूपेण समन्वागतानां पश्यित्व
[_म्वु_3.286_] सो जितं मूर्छित्वा प्रपतिष्यद् वा उष्णं वास्य शोणितं मुखतो आगच्छे तेनैव च आबाधेन कालं अकरिष्यत्* चित्तक्षयं वा प्रापुणे श्रमणो पुनर्* तात गौतमो अरहो विगतरागो विगतदोषो विगतमोहो अभिभूय भूतो ॥
___अथ मारो पापीमां येन भगवांस् तेनोपसंक्रमित्वा एकान्ते अस्थासि । एकान्तस्थितो मारो पापीमां भगवन्तं गाथाये अध्यभाषे ॥
इहागता हर्षयन्ती तन्त्री च अरती रती ।
ता प्रणुदे महावीरो तूलं भ्रान्तं व मारुतं ॥
इत्थम् उक्त्वा च मारो पापीमां दुःखी दुर्मना विप्रतिसारी तत्रैवान्तरहाये ॥
___यदा भगवां प्रवृत्तप्रवरधर्मचक्रो भिक्षू भगवन्तम् आहन्सुः ॥ कथं भगवं मारधीतरो भगवन्तम् उपसंक्रान्ता अवतारार्थी अवतारं गवेषी अलभंता च अवतारं निर्विद्य प्रत्यवक्रान्ता ॥ भगवान् आह ॥ न भिक्षवः एतरहिम् एव एता मारधीतरो मम उपसंक्रान्ता अवतारार्थी अवतारं गवेषी अलभंता च अवतारं निर्विद्य प्रत्यवक्रान्ता । अन्यदापि एते उपसंक्रान्ता मम अवतारार्थी अवतारं गवेषी अलभंता च अवतारं निर्विद्य प्रत्यवक्रान्ता ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि भिक्षवो ॥
___भूतपूर्वं भिक्षवः अतीतम् अध्वानं नगरे वाराणसी काशिजनपदे धर्मलब्धो नाम वाणिजो अभूषि ॥ स समुद्रजातिको सार्थवाहो महासमुद्रम् अवतरति सिद्धयानपात्रो च आगच्छति ॥ तस्य ततो वाराणसीतो पंचमात्रा वाणिजशता उपसंक्रान्ता
[_म्वु_3.287_] वयं पि त्वयैव सार्धं महासमुद्रम् अवतरिष्यामः ॥ धर्मलब्धो आह ॥ न यूयं शक्तास् तेन मार्गेण गन्तुं येनाहं गच्छामि ॥ अहं राक्षसीद्वीपस्य मध्येन गच्छामि । तायो च राक्षसीयो वाणिजानि उपायशतेहि लोभेन्ति । तत्र बहूनि वाणिजशतानि राक्षसीहि लोभिता अनयव्यसनम् आपद्यन्ति । न शक्यं युष्माभिः मया समानं गन्तुं ॥ सो दानि धर्मलब्धो सार्थवाहो तेषां पंचानां वाणिजशतानां न करोत्य् अवकाशं । मा तत्र राक्षसीहि लोभिता अनयव्यसनम् आपद्यथ ॥ ते दानि पंच वाणिजशतानि संनिपतित्वा आहन्सुः ॥ अयं धर्मलब्धो वाणिजको शोभनेन मार्गेण महासमुद्रं गच्छति क्षेमेन गच्छति क्षेमेनागच्छति लघुं चागच्छति सिद्धपात्रो च आगच्छति । अस्माकं च न किंचिद् अवकाशं करोति गमनाय । भवन्तो यादृशको एषो धर्मलब्धो वाणिजको पुण्यवन्तो पुण्यं संगृह्णाति तादृशकं यूयं पि संगृह्णथ यं वेलं एष इतो वाराणसीतो प्रतिष्ठति तं वेलं वयं पि प्रस्थास्यामः ॥ तेहि सर्वेहि यादृशं धर्मलब्धो पुण्यं संगृह्णाति तादृशं तेहि पि पंचहि वाणिजशतेहि पुण्यं संगृहीतं यत्र काले च धर्मलब्धो वाणिजको समुद्रं प्रस्थितो तत्र काले ते पि पंच वाणिजशता संप्रस्थिता धर्मलब्धेन सार्थवाहेन सार्धं गच्छन्ति ॥ यं कालं तत्र देशं प्राप्ता यत्र तायो राक्षसीयो ततो धर्मलब्धेन सार्थवाहेन सर्वे ते पंच वाणिजशता शब्दावियान बुध्यन्ति ॥ भवन्तो इमे सर्वे पंच वाणिजकशता मया सार्धं वाराणसीतो संप्रस्थिता इमं च तं राक्षसीभवनं अस्माभिर् अनुप्रापुणितव्यं । तायो च युष्माकं राक्षसीयो बहुप्रकारं प्रलोभयिष्यन्ति अन्या रूपेहि प्रलोभयिष्यन्ति
[_म्वु_3.288_] अन्या शब्देहि अन्या गन्धेहि अन्या रसेहि अन्या स्पर्शेहि तत्र मार्गे विविधानि नानाप्रकाराणि कामकल्याणानि अभिनिर्मिणिष्यन्ति आपणं च मार्गेषु प्रसारितं अभिनिर्मिणिष्यन्ति । यत्र तु सो कोचित् कामकल्याणं तत्र न पश्यिष्यथ । तत्र युष्माबिर् न केनचिल् लोभं कर्तव्यं न केनचित् किंचिद् गृहीतव्यं न केनचित् किंचित् प्राशितव्यं । वृक्षसहस्राणि नानाप्रकाराणि पुष्पफलोपेतानि अभिनिर्मिणिष्यन्ति मदनपुष्पेहि च मदनफलेहि च भरितानि मूलतो उपादाय यावत् पुष्पं पत्रलभारभरितानि पुष्पं वा फलं वा न आनयितव्यं । पुष्किरिणीयो च नानाप्रकाराणि अच्छानि शुभानि शीतलजलानि सुवर्णवालिकासंस्तृतानि उत्पलपदुमकुमुदपुण्डरीकसौगन्धिकसंछन्नानि सुखोपतीर्थानि अभिनिर्मिणिष्यन्ति । तत्र भवन्तेहि न केनचिद् अल्लीपितव्यं न च ततो केनचित् पुष्किरिणीहि उदकं वा पद्मं वा उत्पलं वा पुण्डरीकं वा बिसमृणालं वा स्वादयितव्यं ॥ अन्यानि च नानाप्रकाराणि रत्नरतनानि अभिनिर्मिणिष्यन्ति । तत्र च युष्माभिर् न केनचित् कहिंचिल् लोभो उत्पादयितव्यः । यो युष्माकं तत्र लोभम् उत्पादयिष्यति सो न भूयो जंबुद्वीपं गमिष्यति । तत्रैव अनयातो व्यसनम् आपद्यिष्यति । यो च ततो राक्षसीभवनातो सर्वतो निरपेक्षो अभिनिष्क्रमिष्यति सो सिद्धपात्रो स्वस्तिना पुनः आगतो स्वदेशं गमिष्यति ॥
पुण्यं समुदानेत्वान जम्बुद्वीपातो वाणिजा ।
महासमुद्रं प्रस्थिहेन्सुः यं धनरतनाकरं ॥
[_म्वु_3.289_] तेन चाभिरुहित्वान ओगाहेत्वान सागरं ।
द्वीपेषु रतनं गृह्य स्वस्तिना पुनर् आगता ॥
तेषाम् आसि सार्थवाहो पण्डितो अर्थचिन्तको ।
धर्मलब्धो ति नामेन सो तेषां अनुशासति ॥
इमस्मिं वाणिजा मार्गे राक्षसीयो भयानिका ।
ऋद्धीये वशितां प्राप्ता मायाचारे च शिक्षिता ॥
यस् तासु काहिति च्छन्दं बालो दुष्प्रज्ञजातिको ।
न सो पुनर् जम्बुद्वीपं गमिष्यति आत्मनो घरं ॥
यो च खु तासु अनपेक्षो भविष्यति इह वाणिजो ।
स्वस्तिना सो जंबुद्वीपं गमिष्यति आत्मनो घरं ॥
ते मार्गं प्रतिपद्येन्सुः यत्र राक्षसियो अभू ।
ता च तान् उपलभेन्सुः यथाधिमुक्तवाणिजां ॥
रूपेहि अथ शब्देहि स्पर्शगन्धरसेहि च ।
सुविचित्रेषु कामेषु उपलभेन्सु वाणिजां ॥
तत्र ये रूपाधिमुक्ता वाणिजा ते रूपेहि लोभिता ये शब्दाधिमुक्ता वाणिजा ते मनोज्ञगीतवादितशब्देहि लोभिता ये गन्धाधिमुक्ता वाणिजा ते नानाप्रकारेहि सुमनोज्ञगन्धेहि लोभिता ये रसाधिमुक्ता वाणिजा ते पि नानाप्रकारेहि रसाग्रेहि लोभिता ये स्पर्शाधिमुक्ता वाणिजा ते नानाप्रकारेहि स्पर्शेहि लोभिता ॥ सर्वे पंच वाणिजशता आहन्सुः ॥ यस्यार्थाय वयं रात्रिं वा दिवा वा
[_म्वु_3.290_] परिक्लिश्यमाना नानाप्रकारां कर्मान्तां अनुतिष्ठियेम तान्य् अस्माभिर् इहानुप्राप्ता रूपशब्दगन्धरसस्प्रष्टव्यं । इमहिम् एव वयं क्रीडिष्याम अभिरमिष्यामः न भूयो जंबुद्वीपं गमिष्यामः ॥ धर्मलब्धं सार्थवाहं संदिशन्ति ॥ अस्माकं वचनेन जम्बुद्वीपे मित्रज्ञातिसालोहितानां [आरोग्यं] पृच्छसि एते इमहिम् एव वयं अभिरमिष्यामः ॥ सार्थवाहो तान् आह ॥ भवन्तो न एता मानुषिका राक्षसीयो एता । तं मया युष्माकं आदित एवोक्तं । एते वयं शुवे तं राक्षसीभवनम् अतिक्रमिष्यामः ते च युष्माकं राक्षसीयो बहुप्रकारं लोभयिष्यन्ति । तत्र भवन्तेहि लोभं न कर्तव्यं । यदि इच्छथ क्षेमेन स्वदेशं गन्तुं मा भवन्तो राक्षसीहि मानुषिका ति चित्तं उत्पादेथ मा सर्वे अनयातो व्यसनम् आपद्यिष्यथ ॥ ते दानि धर्मलब्धेन सार्थवाहेन बहुप्रकारं वुच्चंता न शृणोन्ति मोहेन मोहिता ॥
___ततः धर्मलब्धो सार्थवाहः स्वकेन परिवारेणातिक्रान्तो च तं सर्वं राक्षसीनिर्मितानि भवनानि अन्तरहितानि स्वप्नं व प्रतिभायेन्सुः ॥ ततो पंच वाणिजशतानि पंचहि राक्षसीशतेहि सर्वे खादिता अस्थीन्य् अवशेषितानि ॥ पंच वाणिजकशतानि भक्षयित्वा सर्वं तं राक्षसीगणं सन्निपतितं । संनिपतित्वा आहन्सुः ॥ अयं धर्मलब्धो सार्थवाहो पुनर्पुनः इमेन मार्गेण महासमुद्रम् अवतरति लब्धलाभो च पुनःपुनर् क्षेमेण स्वदेशं गच्छति अन्यान् अपि वाणिजकां विग्राहेति मा एतेन मार्गेणागच्छथ मा राक्षसीहि खज्जिष्यथ । का उत्सहति एतं धर्मलब्धं लोभेत्वा भक्षयितुं ॥ तत्र एका राक्षसी बहुमाया प्रविष्टा याये बहूनि वाणिजशतानि
[_म्वु_3.291_] उपलोभित्वा भक्षिता । सा ताहि राक्षसीहि उत्साहिता । धर्मलब्धं लोभेहि तव भक्षो भविष्यति ॥ सा तरुणाभिरूपां स्त्रीम् आत्मानं अभिनिर्मिणित्वा धर्मलब्धस्य गच्छंतस्य पृष्ठतो अनुबद्धा तस्य सार्थवाहस्य दर्शनपथेन पुनःपुनो अभिक्रामति न च सार्थवाहस्य तत्र स्त्रीयं मनं गच्छति ॥ सार्थवाहः तं पुण्यं समुद्रपत्तनम् अवतरित्वा नानाप्रकाराणि रतनानि गृह्य समुद्रातो क्षेमेण जंबुद्वीपं प्रत्युत्तीर्णो । सा राक्षसी तेन स्त्रीरूपेण तरुणाभिरूपेण सार्थवाहस्य धर्मलब्धस्य बहुप्रकारं प्रलोभेन्ती पृष्ठिमेन पृष्ठिमं अनुगच्छति ॥
___यं वेलं धर्मलब्धो क्षेमेन वाराणस्यां जानपदं प्राप्तः तत्र राक्षसी धर्मलब्धस्य सार्थवाहस्य सदृशं दारकं अभिनिर्मिणित्वा सार्थवाहस्य उपनामेति । यदि त्वं मम उज्झित्वा गच्छसि इमं पुत्रकं गृह्णाहि को एतं त्वया गतेन उन्नेष्यति ॥ सार्थवाहो आह ॥ न एषो मम पुत्रो नापि मे त्वं भार्या अहं च मानुषो त्वं च राक्षसी बहूनि वाणिजकशतानि ये युष्माभिः लोभिता अनयातो व्यसनम् आपादि ॥ सा ग्रामेहि च नगरेहि च निगमेहि च जानपदेहि च महाजनस्य गर्हति ॥ एषो मे धर्मलब्धो अमुकातो पत्तनातो प्रियशब्देहि आनेत्वा इह मे छड्डेति । इमं पि पुत्रं न गृह्णाति ममापि न उन्नेति ॥ सो दानि सार्थवाहो महाजनेन स्त्रियाहि च पुरुषेहि च उपलभ्यति । मा सार्थवाह एतां स्त्रियं समुद्रपत्तनातो आनेत्वा इमहिं मेल्लेहि एषो ते पुत्रो तव सदृशो ॥ सार्थवाह आह ॥ न एषो मम पुत्रो नाप्य् एषा भार्या मम राक्षसी एषा बहूनि वाणिजकशतानि एताहि राक्षसीहि लोभेत्वा खादिता ॥ सापि राक्षसी तस्य जनस्याह ॥ एदृशा एते अर्थलब्धा पुरुषा यं वेलं स्त्रिय अनुरक्ता भवन्ति ततो गुणशतानि भाषन्ति यं
[_म्वु_3.292_] वेलं विरक्ता भवन्ति तं वेलं पिशाचनीयो च क्रियामो राक्षसी च अवर्णशतेन चाक्रुष्यामः ॥ एवं राक्षसी तं जनकायं पत्तीपयति ॥ एवं सार्थवाहो धर्मलब्धो क्षेमेण वाराणसी स्वगृहम् अनुप्राप्तो ॥
ततो च वाणिजा आहुः सार्थवाहं निरन्तरं ।
यस्यार्थाय वयं घट्टाम रात्रिंदिवम् अतन्द्रिताः ।
कथं रूपान् अधिगच्छेम ते नो द्याधिगता इह ॥
आरोग्यं वार्य वदेसि जम्बुद्वीपस्मि ज्ञातयो ।
इह एवं रमिष्याम नास्ति आगमनं तहिं ॥
सार्थवाह आह ॥
न खलु स्मृतिर् वो अस्ति विपर्यस्ताहो मारिष ।
राक्षसीनां तथ भक्षा नचिरेण भविष्यथ ॥
त्वचं वसां च मांसं च पीत्वान रुधिरं च वो ।
तुष्टा राक्षसी भविष्यन्ति आहारेण समर्पिता ॥
यो मे न काहिति वचनं पश्चात्तापी भविष्यति ।
अपरे वाणिजा आहुः सार्थवाहं तद् अनन्तरं ॥
यस्यार्थाय वयं घट्टाम रात्रिंदिवम् अतंद्रिताः ।
कथं शब्दान् अधिगच्छेम ते नो प्य् अधिगता इह ॥
आरोग्यं वार्य वदेसि जम्बुद्वीपस्मि ज्ञातयो ।
इहैव वयं रमिष्यामो नास्ति आगमनं तहिं ॥
[_म्वु_3.293_] अपरे खु वाणिजा आहुः सार्थवाहं तद् अनन्तरं ।
यस्यार्थाय वयं घट्टाम रात्रिंदिवम् अतंद्रिताः ।
कथं गन्धान् अधिगच्छेम ते मं अधिगता इह ॥
आरोग्यं वार्य वदेसि जंबुद्वीपस्मि ज्ञातयो ।
इहैव वयं रमिष्याम नास्ति आगमनं तहिं ॥
अपरे खलु वाणिजाहुः सार्थवाहं तद् अनन्तरं ।
यस्यार्थाय वयं घट्टाम रात्रिंदिवम् अतंद्रिताः ।
कथं रसान् अधिगच्छेम ते नो प्य् अधिगता इह ॥
आरोग्यं वार्यं वदेसि जंबुद्वीपस्मि ज्ञातयो ।
इह एव रमिष्यामो नास्ति आगमनं तहिं ॥
सार्थवाह आह ॥
तं खलु वो न स्मरथ विपर्यस्ताहो मारिष ।
राक्षसीनां तथ भक्षा नचिरेण भविष्यथ ॥
त्वचं च वसां च मांसं च पीत्वान रुधिरं च वो ।
तुष्टा राक्षसी भविष्यन्ति आहारेण समर्पिताः ॥
यं मे न कुर्वथ वचनं पश्चात्तापी भविष्यथ ।
अपरे खु वाणिजा आहुः सार्थवाहं तद् अनन्तरं ॥
यस्यार्थाय वयं घट्टाम रात्रिंदिवम् अतन्द्रिताः ।
कथं स्पर्शान् अधिगच्छेम ते मं अधिगता इह ॥
[_म्वु_3.294_] आरोग्यं वार्य वदेसि जंबुद्वीपस्मि ज्ञातयो ।
इहम् एव रमिष्यामो नास्ति नो गमनं तहिं ॥
सार्थवाह आह ॥
तं खु न स्मृतिर् वो अस्ति विपर्यस्ताहो मारिष ।
राक्षसीनां तथ भक्षा नचिरेण भविष्यथ ॥
त्वचं च वसां च मान्सं च पीत्वान रुधिवं च वो ।
तुष्टा राक्षसी भेष्यन्ति आहारेण समर्पिताः ।
यं मे न कुर्वथ वचनं पश्चात्तापी भविष्यथ ॥
ततो च वाणिजका सर्वां राक्षसीयो भयानिका ।
आयसे नगरे घोरे प्रतितिष्ठे तद् अनन्तरं ॥
ता राक्षसीयो समागत्वा मतिं कुर्वन्सु तावता ।
अयं वाणिजको एको आगत्वान पुनर्पुनः ।
स्वस्तिना तरत पारं न तं शक्यति खादितुं ॥
ततो च राक्षसी एका पण्डिता अर्थचिन्तिका ।
बहवो वाणिजा ताय उपलोभेत्वान खादिता ॥
सा च तां अवच सर्वां मांसभक्षा सुदारुणां ।
अहं तं लोभयिष्यामि मम भक्षो भविष्यति ॥
वाणिजको सागरं तीर्णो सापि उत्तीर्ण राक्षसी ।
पृष्ठतो अनुबन्धेति अनुबद्धा पदंपदं ॥
अयं ते दहरो पुत्रो तव शोकेन मरिष्यति ।
गृह्ण त्वं किस्य उज्झ्यति ओरसो आत्मनो तव ॥
[_म्वु_3.295_] धर्मलब्धो आह ॥
अप्पेहि यस्य से भार्या अपुत्रे पुत्रं भाषसि ।
मानुषा न तुवं रक्षी न मां शक्ष्यसि खादितुं ॥
सा च ग्रामेषु निगमेषु राष्ट्रे जनपदेषु च ।
जनजनस्य आख्याति अयं उज्झति मे पति ॥
महाजनो समागम्य स्त्रियश् च पुरुषा पि च ।
पुरुषं परिभाषन्ति कस्माद् उज्झेसि भार्यरां ॥
क्षत्रिया ब्राह्मणा वैश्या शूद्रा चात्र समागता ।
परुषं परिभाषन्ति कस्य उज्झेसि भार्यरां ॥
धर्मलब्धो आह ॥
न मे एषा मारिष भार्या राक्षस्य् एषा भयानिका ।
मनुष्यखादिका रौद्रा एवं जानेथनत्तवे ॥
यत्र कालं महाजनेन उपलभ्यमानो धर्मलब्धो न इच्छति नैव मे एष पुत्रो नैव मे एषा भार्या राक्षसी एषा निशाचरा राक्षसी तं जनकायं संज्ञापयति । एदृशा एते अर्थलब्धा पुरुषा तत्रैव सारज्यन्ति तत्रैव विरज्यन्ति । यत्र कालं अर्थिका भवन्ति स्त्रीभिः सततं प्रियशतानि मन्त्रेन्ति यत्र कालं विरक्ता भवन्ति ततः राक्षसीयो च क्रियाम पिशाचिनीयो च दुःकुलीना च क्रियाम अप्रियशतेन आक्रुष्यामः ॥ सा दानि स्त्री धर्मलब्धेन अनिच्छियति ॥ अमात्येहि राज्ञो ब्रह्मदत्तस्य
[_म्वु_3.296_] निवेदितं ॥ महाराज धर्मलब्धेन महासार्थवाहेन समुद्रपत्तनातो स्त्री आनीता प्रासादिका दर्शनीया परमेण रूपेण समन्वागता समानरूपा न ज्ञायति ॥ धर्मलब्धो केनचि कारणेन नैव भार्यां इच्छति नैव तं पुत्रं ॥ राज्ञा अमात्या आणत्ता ॥ शब्दापयथ धर्मलब्धं सार्थवाहं ॥ सो दानि अमात्यै राज्ञो सकाशं शब्दापितो शब्दापिता अपि सा स्त्री ॥ राज्ञो ब्रह्मदत्तस्य तां स्त्रियं पश्यित्वा अभिरूपां दर्शनीयां उत्तमेन रूपेण समन्वागतां राज्ञो तत्र स्त्रियं अत्यर्थं अनुरागो उत्पन्नो ॥ सो दानि तं सार्थवाहं आह ॥ यदि तव एताये स्त्रिये नार्थो मम तां देहि ॥ मा महाराज प्रमादं करोहि न एषा मम भार्या न ममैष पुत्रो । एषा समुद्रातो उपलोभेन्ती मम पृष्ठेन पृष्ठिमं समनुबद्धा प्रलोभनार्थं । न एषा स्त्री राक्षसी एषा मा महाराज अत्र मनं करोहि ॥ सो दानि राजा तत्र स्त्रियं अनुरक्तो तारुण्येन रूपेण च धर्मलब्धस्य न शृणोति । यथोक्तं भगवता ॥
रक्तो ह्य् अर्थं न जानाति रक्तो धर्मं न पश्यति ।
अन्धतमस् तदा भवति यं रागो सहते नरः ॥
तेन राक्षसी अन्तःपुरं प्रवेशिता ॥ ताये सार्धं राजा ब्रह्मदत्तो क्रीडित्वा रमित्वा प्रविचारयित्वा शयितो ॥ ताये राक्षसीये सर्वस्य राजकुलस्य ओस्वापनं कृतं । सपुत्रिकाये राजा खादितो ॥ राजानं भक्षयित्वा सो पुत्रः तत्र राक्षसीनां मूलं प्रेषितो । आगच्छथ शीघ्रं इमं राजकुलं भक्षयितव्यं ॥ आमुहूर्तस्य सो तं राक्षसीगणं गृह्यागतो ॥ ताहि ताये रात्रिये सर्वं तं राजकुलं साभ्यन्तरबाहिरं
[_म्वु_3.297_] सस्त्रीपुरुषं सकुमारीकं सहस्ति साश्वं ताये रात्रिये सर्वं खादितं अस्थिकरंकानि अवशेषीकृतानि ॥
___प्रभाताये रात्रीये अमात्या राजकुलं गता पश्यन्ति द्वाराणि बद्धकानि । पुरोहिता पि आगता भटबलाग्रा आगता श्रेष्ठिनैगमा धर्मलब्धसार्थवाहप्रमुखो वाणिजग्रामो आगतो सर्वे सुखरात्रीपृच्छिका यथा अन्यदापि । पश्यन्ति तानि राजकुलद्वाराणि बद्धकानि ॥ ते अमात्या परस्परं पृच्छन्ति ॥ किम् एवाद्य राजकुलद्वारा न मुंचन्ति । अन्यकालं राजकुलद्वाराणि मुक्तानि भवन्ति राजकुलं सिक्तसंमृष्टं भवति आसनप्रज्ञ्प्ती च कृता भवति । न कस्यचिच् छब्दं श्रुणीयति स्त्रीशब्दं वा पुरुषशब्दं वा हस्तिशब्दं वाश्वशब्दं वा एवं विस्तीर्णे राजकुले एवं महाजनकाये न कस्यचिच् छब्दो श्रूयति ॥ धर्मलब्धो सार्थवाहो आह ॥ भवन्तो यूयं न राजकुलातो शब्दं श्रुणिष्यथ । सा राक्षसी अत्र दारुणा मान्सशोणितभोजना प्रवेशिता । ताये अत्र महादीनवं उत्पादितं । मुंचापेथ एतानि द्वाराणि यावज् जानाम राजकुलस्य वर्तमानं ॥ अमात्येहि निश्रेणिं आनयित्वा पुरुषा आरोपिता गच्छथ द्वाराणि मुंचथ त्ति ॥ पुरुषा राजकुलं चारूढा पश्यन्ति च अत्र हस्तिकरंकानि चाश्वकरंकानि च । एते च निवेदयन्ति जनकायस्य ॥ सर्वं इमं राजकुलं खादितं करंकान्य् एवावशेषितानि ॥ ते दानि वुच्यन्ति ओतरित्वा मुञ्चथ एतानि द्वाराणि ॥ ततो ओतरित्वा द्वाराणि मुक्तानि अमात्या च भटबलाग्रा च नैगमा
[_म्वु_3.298_] च बाहिरराजकुलद्वारं प्रविष्टाः पश्यन्ति च हस्तिबाहिरीये अस्थिकरंकानि अश्वबाहिरीये पि करंकान्य् अवशेषितानि तेषां हस्तिमेण्ठानां अश्वमेण्ठानां पि अस्थीन्य् अवशेषितानि । यथा श्मशानं एवन् तं बाह्यतो राजकुलं भयभैरवदुर्गन्धं ॥ अभ्यन्तरतो पि राजकुलद्वाराणि मुंचित्वा द्वारं प्रविष्टा तत्रैव राज्ञो पि देवीनां पि अस्थीन्य् अवशेषितानि । एवन् तं राजकुलं अभ्यन्तरबाह्यतो श्मशानभूतं भयभैरवदुर्गन्धं ॥
___ततो तेहि अमात्येहि च नैगमेहि च महाजनकायं संनिपातेत्वा तं राजकुलं साभ्यन्तरबाहिरं शोधापितं सिक्तसंमृष्टं कारापितं धूपनधूपितं तस्य राज्ञो देवीनां च सर्वेषां शरीरे पूजा कृता समन्ततो नगरस्य गुल्मा स्थापिता चतुरंगबलकायं निवेशितं हस्तिकायं अश्वकायं रथकायं पत्तिकायं ॥ एवन् तं नगरं सजनपदं रक्षीयति मा कोचि राजा अपराध्येयाति ॥ ते दानि अमात्या च नैगमा च जानपदा च संनिपतित्वा मन्त्रं धारेन्ति परस्परं संमन्त्रेन्ति ॥ भवन्तो को इह अस्माकं वाराणसीये राजा भविष्यति यो शक्येय इमं राज्यं धर्मेण परिपालयितुं ॥ तेषां सर्वेषां राजामात्यानां नैगमजनपदानां च एतद् अभूषि ॥ नान्यो राजा योग्यो वाराणस्यां स्थापयित्वा धर्मलब्धं सार्थवाहं । एषो पुण्यवन्तो चाप्रमत्तो च । यक्षराक्षसा अपि न शक्नुवन्ति अवतारम् अधिगन्तुं । तत्र त्रिष्कुत्तं महासमुद्रं अवतीर्णः सिद्धपात्रो च सर्वकालं क्षेमेण प्रत्यागतो ॥ तेहि सो धर्मलब्धो सार्थवाहो सर्वसौवर्णमहासिंहासने निषीदापेत्वा राज्ये भिषिक्तो ॥
___भगवान् आह ॥ स्यात् खलु पुनः भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन
[_म्वु_3.299_] तेन समयेन धर्मलब्धो नाम सार्थवाह अभूषि । न एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । अहं स भिक्षवः तेन कालेन तेन समयेन धर्मलब्धो नाम सार्थवाह अभूषि ॥ या सा राक्षीमहत्तरिका एता सा मारधीता । (तदा राक्षसीनां महत्तरिका अभून्सुः) तदापि एता ममावतारार्थी अवतारंगवेषी उपसंक्रान्ता न च मम शक्ता अवतारम् अधिगन्तुं एतरहिं प्य् एता ममावतारार्थी अवतारंगवेषी उपसंक्रान्ता नो तत्र नाम मे शक्ता अवतारम् अधिगन्तुं ॥
अश्रोषीत् खलु यदा राजा महामात्राणम् अन्तिके ।
महासमुद्रपारां स्त्रीं धर्मलब्धो न इच्छति ॥
आणपेसि तदा राजा महामात्यां तद् अनन्तरं ।
सचे एष नेच्छति स्त्रीं प्रवेशेथान्तःपुरं मम ॥
अन्तरायं विजानित्वा न सानं खायि राक्षसी ।
सा तत्र पुत्रं प्रेषेति राक्षसीणां निवेदकं ।
भक्षितो खु मया राजा क्षिप्रं आगच्छथत्तवे ॥
राक्षसीनां गता पंच रौद्रा रुधिरभोजना ।
सर्वे राजकुलं गत्वा पराक्रमेन्सु यथागतं ॥
पूर्वे निवासं भगवान् पूर्वेजातिम् अनुस्मरं ।
जातकम् इदम् आख्यासि शास्ता भिक्षूणम् अन्तिके ।
ते स्कन्धा ते च धातवः तानि आयतनानि च ॥
[_म्वु_3.300_] आत्मानम् अधिकृत्य भगवां एतम् अर्थं वियाकरेत्* ।
अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा ॥
धर्मलब्धो अहं आसि वाणिजको अर्थचिन्तको ।
मारधीतरो राक्षसी एवं धारेथ जातकं ॥
एवम् अपरिमितं बहुदुःखं
उच्चनीचं चरितं पुराणं ।
विगतज्वरो विगतशोको
भगवां भाषति भिक्षुसंघमध्ये ॥
_____धर्मलब्धस्य सार्थवाहस्य जातकं समाप्तं ॥
___कालो नागराजा तहिं खु महाचंक्रमे भगवन्तं उपसंक्रान्तो ॥ सो दानि भगवतः पादौ शिरसा वन्दित्वा एकांशीकृतो प्रांजलीकृतो भगवन्तम् एतद् उवाच ॥ मम भगवं भवनो पुरिमकेहि सम्यक्संबुद्धेहि परिभुक्तो क्रकुच्छन्देन भगवता कोनाकमुनिना काश्यपेन साधु भगवान् अपि मम भवनं परिभुंजतु अनुकंपाम् उपादाय ॥ तत्रापि भगवां कालस्य नागराजस्य भवने चतुर्थं सप्ताहं प्रीतिसुखेन वीतिनामेति । ततो पि भगवां कालस्य नागराजस्य भवनातो चतुर्थस्य सप्ताहस्यात्ययेन उत्थितो ॥
___मुचिलिदो नागराजः पुरिमबुद्धदर्शावी भगवतः उपसंक्रान्तो ॥ सो पि भगवतः पादौ शिरसा वंदित्वा एकान्ते प्रांजलीकृतो भगवन्तं याचति ॥ मम भगवं भवनो पुरिमकेहि सम्यक्संबुद्धेहि परिभुक्तो भगवता क्रकुच्छन्देन कोनाकमुनिना काश्यपेन साधु भगवां पि मम भवनं परिभुंजतु अनुकंपाम् उपादाय ॥ भगवां मुचिलिंदस्यापि नागराजस्य भवने पंचमं सप्ताहं सुनिराहारः प्रीतिसुखेन
[_म्वु_3.301_] वीतिनामेसि ॥ ततो पि तहिं सप्ताहिकं अकालवार्दलं उत्पन्नं सप्ताहं रात्रिंदिवं देवेन वर्षितं मुचिलिंदेनापि नागराज्ञा भगवतर् अर्धयोजनकपरिक्षेपेन सप्तकुत्तं भगवन्तं भोगेन परिक्षिपित्वा उपरि विपुरि विपुलेन फणेनाच्छादेसि । यथा च भगवन्तं विषगंधेन किल्विषगन्धेन वा न व्याबाधेय त्ति मुचिलिन्दो नाम नागराजा स्वकातो भवनातो उत्तरित्वान भोगेन आछायेसि शिरिघनसुकृतेन फणेन सप्ताहं विपुलपुण्यं प्रसूतं । विनिपातेन नागराजेन च पुण्यं प्रसूतं परिक्षिपि हि महता परिभोगेन सप्ताहं ॥
___यदा भगवान् सम्यक्संबुद्धः दुष्करं चरति नदीये नैरंजनाये तीरे तत्र भगवां दुष्करं चरन्तो अजपालकेन दृष्टो ॥ तस्य भगवन्तं उग्रतपं तप्यन्तं दृष्ट्वा प्रसादम् उत्पन्नं ॥ तेन दानि प्रसन्नचित्तेन भगवन्तम् उद्दिश्य न्यग्रोधपोतो रोपितो ॥ सो तं न्यग्रोधपोतं रोपित्वा भगवन्तम् उपसंक्रम्य प्रांजलीकृतो आह ॥ भगवं इमो मया न्यग्रोधपोतो भगवन्तम् उद्दिश्य रोपितो यदा एषो न्यग्रोधपोतो संवृद्धो भवेया भगवां संपूर्णकल्पो भवेया ति । ततो मे एतं न्यग्रोधं अनुग्रहार्थं परिभुंजसि ॥ भगवता तस्याजपालस्य तूष्णीभावेनाधिवासितं । सो दानि तूष्णीभावेनाधिवासनां विदित्वा तुष्टो आत्तमना प्रमुदितो प्रीतिसौमनस्यजातो संवृत्तो ॥ सो दानि तं न्यग्रोधपोतं कालेन कालं अनुखनेति परिखनेति परिकीलेति परिकुड्डालेति कालेन च कालं शीतलेन वारिणा अभिष्यंदेति परिष्यंदेति पर्यार्द्रेति परिघारेति ॥ सो दानि अजपालेन न्यग्रोधपोतो क्षिप्रं प्रशाखो संवृत्तो प्रासादिको दर्शनीयो भगवतो
[_म्वु_3.302_] तेजानुभावेन ॥ तस्य दानि अजपालस्य न्यग्रोधपोतं ओशाखप्रशाखं प्रासादिकं प्रसादनीयं दृष्ट्वा अतिरिव चित्तं प्रसीदति ॥ सो दानि तेन चित्तप्रसादेन च कुशलमूलेन च कायस्य भेदात् त्रयस्त्रिंशदेवनिकाये उपपन्नो न्यग्रोधो नाम देवपुत्रो महर्द्धिको महानुभावो । सो पश्चाद् उपपंनो समानो अन्यां पूर्वोत्पन्नांस् त्रयस्त्रिंशकायिका देवपुत्रां दिव्येहि पंचहि स्थानेहि अभिभवति दिव्येनायुषा दिव्येन वर्णेन दिव्येन सुखेन दिव्येनैश्वर्येण दिव्येन परिवारेण ॥ तस्य समनन्तरोपपन्नस्य एतद् अभूषि । किं मया मनुष्यभूतेन कुशलं कर्म कृतं उपचितं कस्य कर्मस्य विपाकेन इह त्रायस्त्रिंशभवने उपपन्नो हं ॥ सो दानि न्यग्रोधो देवपुत्रो कुशलमूलं समन्वाहरन्तो पश्यति भगवन्तम् उद्दिश्य न्यग्रोधं नदीये नैरंजनाये तीरे रोपितं ॥ सो दानि न्यग्रोधो देवपुत्रो अनेकदेवपुत्रसहस्रेहि परिवृतः अभिक्रान्तवर्णो अभिक्रान्तवर्णेन केवलकल्पं मुचिलिंदस्य नागराज्ञो भवनं उदारेण वर्णेन ओभासेत्वा येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि ॥ एकांशीकृतो प्रांजलीकृतो भगवन्तम् एतद् उवाच ॥ मया भगवन् मनुष्यभूतेन अजपालेनाजानि पालेन्तेन एषो न्यग्रोधो रोपितः भगवन्तम् उद्दिश्य तेनाहं कुशलमूलेन मनुष्येषु च्यवित्वा भगवन् त्रायस्त्रिंशे देवनिकाये उपपन्नो । साधु भगवान् एतं न्यग्रोधं परिभुंजतु अनुकंपाम् उपादाय यथा मे महाफलतरं भवेया ॥ अधिवासते भगवां तस्य देवपुत्रस्य तूष्णीभावेन ॥ अथ खलु सो देवपुत्रो तूष्णीभावेनाधिवासनां विदित्वा तुष्टो हृष्टो आत्तमनो प्रीतिसौमनस्यजातो भगवतः पादौ शिरसा वन्दित्वान तृष्कृत्यो प्रदक्षिणं कृत्वा तत्रैव अन्तरहाये ॥
___भगवान् मुचिलिंदस्य नागराज्ञो भवनातो उत्थिहित्वा षष्ठं सप्ताहं निराहारो प्रीतिसुखेनाजपालन्यग्रोधमूले वीतिनामेसि ॥ ततो अजपालस्य न्यग्रोधमूलातो
[_म्वु_3.303_] षष्ठस्य सप्ताहस्यात्ययेन क्षीरिकावनषण्डे बहुदेवतके चेतिये निराहारो प्रीतिसुखेन सप्तमं सप्ताहं वीतिनामेसि ॥ एवं भगवां सप्तसप्ताहं एकूनपंचाशद् दिवसां निराहारो ॥
___उत्तरापथे उक्कलं नामाधिष्ठानं । ततो उक्कलातो अधिष्ठानातो त्रपुसो च भल्लिको च नाम सार्थवाहा आढ्या महाधना महाभोगा पुण्यवन्तो महापरिवारा दक्षिणापथातो पंचहि धुरशतेहि तेन मार्गेण आगच्छन्ति ॥ तेषां मङ्गलीयानां बलीवर्दानां पुंगवा एको सुजाताये नक्षत्रे जातको अपरो कीर्तिके । तेषां एवं नक्षत्राणां नामेन सुजातकीर्तिकनामेन ज्ञायन्ति ॥ सर्वस्य सार्थवाहस्य पुरतो सार्थवाहस्य यानकं वहन्ति । यत्र मार्गे किंचिद् भयो भवति सिंहभयो व्याघ्रभयो द्वीपिभयं वा गण्डकभयं वा हस्तिभयं वा वनदेवभयं वा उदकवाहभयं वा चौरभयं वा तत्र ते न गच्छन्ति ततः ते वाणिजका जानन्ति भयं भविष्यतीति तथा संहरित्वा चतुर्दिशं प्रधावन्ति समन्तेन अवलोकेत्वा ॥ ते दानि बलीवर्दा सुजातकीर्तिका तहिं क्षीरिकावनखण्डं चानुप्राप्ता । अत्र त्रपुषभल्लियानां च वाणिजानां पूर्वज्ञातिसालोहितेहि देवभूतेहि तहिं क्षीरिकावनखण्डे ऋद्धिये निगृहीता न शक्नोन्ति गन्तुं ॥ तेहि स्थितेहि सर्वे ते पुरुषा सार्थातो भीता तत्र संनद्धा ॥ तेषान् ते देवता पूर्वज्ञातिसालोहिता अन्तरीक्षगता घोषम् उदीरयेन्सुः शब्दम् अनुश्रावयेन्सुः ॥ मा भायथ वाणिजा त्ति न भवति वो उपद्रवं । एष बुद्धो भगवान् इह वनषण्डे प्रतिवसति सप्तहि असंख्येयकल्पेहि प्रादुर्भूतः बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च
[_म्वु_3.304_] मनुष्याणां च तस्याद्य सप्तसप्ताहं एकूनपंचाशद् दिवसा अनाहारस्य । तम् आहारेण प्रतिमानेथ ततो वः अप्रमेयं कुशलमूलं भविष्यति ॥ तेहि दानि त्रपुषभल्लिकेहि वाणिजेहि तानं देवतानां वचनं श्रुत्वा मधुसर्पिसंयुक्तं तर्पणं गृहीतं । ते देवता तेषां वाणिजकानां पुरतो गच्छन्ति । इतो आगच्छथ ॥ ते दानि वाणिजा तेहि देवतेहि भगवतो सकाशम् उपनीता ॥ ते तं मधुतर्पणं गृह्य भगवन्तम् उपसंक्रान्ता । इमं भगवन् मधुतर्पणं परिभुंजतु अस्माकम् अनुग्रहार्थं ॥ अथ खलु भगवतो एतद् अभूषि ॥ किं नु खलु पुरिमका सम्यक्संबुद्धा भाजनप्रतिग्राहका उताहो पाणिप्रतिग्राहका भाजनप्रतिग्राहका सम्यक्संबुद्धा ति ॥ सह चित्तोत्पादेनैव भगवतः चत्वारि महालोकपाला चत्वारि सुवर्णपात्राण्य् आदाय भगवन्तम् उपसंक्रान्ता रतनपात्रा ति कृत्वा न प्रव्रजितसारूप्यानि भगवां न प्रतिगृह्णाति ॥ ते दानि रूप्यामयानि पात्राण्य् आदाय भगवन्तम् उपसंक्रान्ता । तान् अपि भगवां रतनपात्राणीति कृत्वा न प्रतिगृह्णाति ॥ एवं मुक्तामयानि वैडूर्यामयानि स्फटिकमयानि मुसारगल्वमयानि लोहितिकामयानि तान् अपि भगवां रत्नपात्राणीति कृत्वा न प्रव्रजितसारूप्याणीति कृत्वा न प्रतिगृह्णाति ॥ ते दानि चत्वारो शैलपात्राणि आदाय भगवन्तम् उपसंक्रान्ता ॥ अथ खलु भगवतः एतद् अभूषि । यद् अहम् एकस्य लोकपालस्य पात्रं प्रतिगृह्णीष्यामि त्रयाणां भविष्यति चित्तस्यान्यथात्वं ॥ भगवता सर्वेषां चतुर्णां लोकपालानां चत्वारि पात्राणि प्रतिगृह्णित्वा अंगुष्ठेन आक्रान्ता एकपात्रो च अधिष्ठितो । ते दानि चत्वारो पात्रा एकं पात्रं संजाता सर्वेषां चतुर्णां पात्राणां चत्वारि पात्रकोटीनि दृश्यन्ति । तत्र भगवता त्रपुसभल्लिकानां वाणिजानां मधुतर्पणं परिभुक्तं ॥
[_म्वु_3.305_]___भगवां दानि त्रपुसमल्लिकानां वाणिजानां मधुतर्पणं पीत्वा प्रत्यग्रप्रणीतवर्णगन्धरसोपेतं दक्षिणाम् आदिशति ॥
अनेकाकारसंपन्नं तर्पणन्ति प्रवुच्चति ।
वर्णेन चैव संपन्नं गन्धेन च रसेन च ॥
प्रत्यग्रं च प्रणीतं च एषणीयं च कल्पियं ।
तर्पणं प्रथमं शास्तु अदेन्सुः त्रपुसभल्लिया ॥
मधुसर्पिसंयुक्तं तं पिबे च पुरुषोत्तमः ।
तेहि संतर्पितो वीरो प्रतिसंलान-उत्थितो ।
तर्पये धर्मवृष्टीये देवगन्धर्वमानुषां ॥
दिशे सोवत्थिकं दिव्यं मंगल्यं चार्थसाधकं ।
यं श्रुत्वा सुमना सर्वे सर्वार्थां साधयिष्यति ॥
स्वस्ति वो द्विपदे भोतु स्वस्ति वो स्तु चतुष्पदे ।
स्वस्त्य् अस्तु व्रजतां मार्गे स्वस्ति प्रत्यागतेषु च ॥
स्वस्ति रात्रौ दिवा स्वस्ति स्वस्ति मध्यंदिने स्थिते ।
सर्वत्र स्वस्ति वो भोतु मा च पापं समागमत्* ॥
शिरी वो दक्षिणे स्कन्धे शिरी वामे प्रतिष्ठिता ।
शिरी वो अंगमंगेषु मालेव सुप्रतिष्ठिता ॥
भद्रं वो भद्रशिरी वो वाणिजा भद्रम् अस्तु वो ।
येन केनचित् कार्येण गच्छथ पुरिमां दिशां ॥
नक्षत्राणि वो पालेन्तु ये तां दिशम् अधिष्ठिता ।
कृत्तिका रोहिणी चैव मृगार्द्रा च पुनर्वसु ॥
पुष्यं च वरनक्षत्रं अश्लेषा भोति सप्तमा ॥
[_म्वु_3.306_] इत्य् एते सप्त नक्षत्रा लोकपाला यशस्विनः ।
आदिष्टा पुरिमे भागे एतेषां पुरिमा दिशा ॥
एते वो अधिपालेन्तु भूमीये भवनेन च ।
क्षेमा च वो दिशा भोन्तु मा च वो पापम् आगमे ।
लब्धार्था च निवर्तेथ तेहि नक्षत्रेहि रक्षिता ॥
पुरस्तिमे दिशोभागे अष्ट देवकुमारिका ।
नन्दोत्तरा नन्दिसेना नन्दिनी नन्दिरक्षिता ॥
जयन्ती विजयन्ती च सिद्धार्था अपराजिता ।
तेषाम् अधिपती राजा धृतराष्ट्रो ति नामतः ॥
गंधर्वाधिपती राजा देवेहि स च रक्षितः ।
सो पि वो अभिपालेतु भूमीये भवनेन च ॥
क्षेमा च वो दिशो भोन्तु मा च वो पापम् आगमी ।
लब्धार्था च निवर्तेथ सर्वदेवेहि रक्षिता ॥
पुरिमस्मिं दिशोभागे चापलं व नाम चेतियं ।
नित्यं ज्वलति तेजेन नित्यं सत्योपयाचनं ।
सो पि वो अभिपालेतु भूमीये भवनेन च ॥
क्षेमा च वो दिशो भोन्तु मा च वो पापम् आगमी ।
लब्धार्था च निवर्तेथ सर्वचेतियसुरक्षिता ॥
येन केनचिद् अर्थेन गच्छथ दक्षिणां दिशं ।
नक्षत्राण्य् अभिपालेन्तु ये तां दिशाम् अधिष्ठिता ॥
मघा चोभे च फाल्गुण्यौ हस्ता चित्रा च पंचमा ।
[_म्वु_3.307_] स्वाती चैव विशाखा च एतेषां दक्षिणा दिशा ॥
इत्य् एते सप्त नक्षत्रा लोकपाला यशस्विनः ।
आदिष्टा दक्षिणे भागे एतेषां दक्षिणा दिशा ॥
ते पि वो अभिपालेन्तु भूमीये भवनेन च ।
क्षेमा च वो दिशा भोन्तु मा च वो पापम् आगमी ।
लब्धार्था च निवर्तेथ तेहि नक्षत्रेहि रक्षिता ॥
दक्षिणस्मिं दिशोभागे अष्ट देवकुमारियो ।
लक्ष्मीमती शिरीमती यशोमती यशोधरा ॥
शुभेष्ठिता सुप्रभाता सुविशुद्धा सुव्याकृता ।
ता पि वो अभिपालेन्तु भूमीये भवनेन च ॥
क्षेमा च वो दिशा भोन्तु मा च वो पापम् आगमी ।
लब्धार्था च निवर्तेथ देवकन्याहि रक्षिता ॥
तासाम् अधिपती राजा विरूढको ति नामतः ।
कुम्भाण्डाधिपती राजा यमेन सह रक्षतु ॥
क्षेमा च वो दिशो भोन्तु मा च वो पापम् आगमी ।
लब्धार्था च निवर्तेथ कुम्भाण्डेहि सुरक्षिता ॥
दक्षिणस्मिं दिशोभागे अभिपश्यं नाम चेतियं ।
नित्यं ज्वलति तेजेन नित्यं सत्योपयाचनं ॥
सो पि वो अभिपालेतु भूमीये भवनेन च ।
क्षेमा च वो दिशा भोन्तु मा च वो पापम् आगमी ।
लब्धार्था च निवर्तेथ चेतियेन सुरक्षिता ॥
येन केनचिद् अर्थेन गच्छथ पश्चिमां दिशं ।
[_म्वु_3.308_] नक्षत्रा वो भिपालेन्तु ये तां दिशम् अधिष्ठिता ॥
अनुराधा च ज्येष्ठा च मूलश् च दृढवीर्यवान्* ।
उभे आषाढे भिजिच् च श्रवणा भवति सप्तमी ॥
ते पि वो अभिपालेन्तु भूमीये भवनेन च ।
क्षेमा च वो दिशा भोन्तु मा च वो पापम् आगमी ।
लब्धार्था च निवर्तेथ तेहि नक्षत्रेहि रक्षिता ॥
पश्चिमस्मिं दिशोभागे अष्टौ देवकुमारियो ।
अलंबुषा मिश्रकेशी अरिष्टा सुप्रभायका ॥
. . . . . . . कृष्णा शुक्रा च द्रौपदी ।
ता पि वो अभिपालेन्तु आरोग्येन शिवेन च ॥
क्षेमा च वो दिशा भोन्तु मा च वो पापम् आगमी ।
लब्धार्था च निवर्तेथ देवकन्याहि रक्षिता ॥
तासाम् अधिपती राजा विरूपाक्षो ति नामतः ।
स वो नागाधिपो राजा वरुणेन सह रक्षतु ॥
सो पि वो अभिपालेतु भूमीये भवनेन च ।
क्षेमा च वो दिशा भोन्तु मा च वो पापम् आगमी ।
लब्धार्था च निवर्तेथ सर्वनागेहि रक्षिता ॥
पश्चिमस्मिं दिशोभागे अस्तो नामेन पर्वतो ।
आवर्तो चन्द्रसूर्याणां अस्तो अर्थं ददातु वो ॥
सो पि वो अभिपालेतु भूमीये भवनेन च ॥
क्षेमा च वो दिशा भोन्तु मा च वो पापम् आगमी ।
लब्धार्था च निवर्तेथ सर्वे अस्तेन रक्षिता ॥
येन केनचिद् अर्थेन गच्छथ उत्तरां दिशां ।
[_म्वु_3.309_] नक्षत्रा वो भिपालेन्तु ये तां दिशम् अधिष्ठिता ॥
धनिष्ठा शतभिषा चैव उभौ प्रोष्ठपदा पि च ।
रेवत्य् अथाश्विनी चैव भरणी भवति सप्तमी ॥
ता पि वो अनुपालेन्तु भूमीये भवनेन च ।
क्षेमा च वो दिशो भोन्तु मा च वो पापम् आगमी ।
लब्धार्थाश् च निवर्तेथ तेहि नक्षत्रेहि रक्षिता ॥
उत्तरस्मिं दिशोभागे अष्टौ देवकुमारियो ।
इला देवी सुरा देवी पृथिवी पदुमावती ॥
आशा श्रद्धा हिरी च श्री . . . . . समागता ।
ता पि वो अभिपालेन्तु भूमीये भवनेन च ॥
क्षेमा च वो दिशा भोन्तु मा च वो पापम् आगमी ।
लब्धार्थश् च निवर्तेथ देवकंन्याहि रक्षिता ॥
तासाम् अधिपती राजा कुवेर इति नामतः ।
सर्वयक्षाधिपो राजा राक्षसीहि सह रक्षतु ॥
सो पि वो अभिपालेतु भूमीये भवनेन च ।
क्षेमा च वो दिशा भोन्तु मा च वो पापम् आगमी ।
लब्धार्थाश् च निवर्तेथ यक्षराक्षसरक्षिता ॥
उत्तरस्मिं दिशोभागे कैलासो नाम पर्वतः ।
आवासो यक्षसंघानां राक्षसानां निवेशनं ॥
सो पि वो अभिपालेतु भूमीये भवनेन च ।
क्षेमा च वो दिशा भोन्तु मा च वो पापम् आगमी ।
लब्धार्थाश् च निवर्तेथ यक्षराक्षसरक्षिताः ॥
अष्टाविंशति नक्षत्रा सप्तसप्त चतुर्दिशं ।
[_म्वु_3.310_] सह चन्द्रमसूर्येहि त्रिंशद् भोन्ति अनूनकं ॥
द्वात्रिंशद् देवकन्यावो अष्ट अष्ट चतुर्दिशं ।
चत्वारश् च महाराजा लोकपाला यशस्विनः ।
प्रज्वलमानवर्णेन रक्षन्ति चतुर्दिशं ॥
अष्ट श्रमणा ब्राह्मणा अष्ट जनपदेषु क्षत्रिया ।
अष्ट स-इन्द्रका देवा सदा रक्षां करोन्तु वः ॥
तेषां दानि भगवता त्रीणि शरणगमनानि दिन्नानि । गच्छथ बुद्धशरणं गच्छथ धर्मशरणं गच्छथ अनागतं च भगवतो श्रावकसंघशरणं ॥ ते दानि बुद्धशरणं गता धर्मशरणं गता संघशरणं गता ॥ ते दानि आहन्सुः ॥ वयं भगवं वाणिजका देशदेशानि च राज्यानि च अण्वाम । साधु मं भगवां कंचिद् ददेय धातुं यं वयं पूजयेम ॥ भगवता दानि तेषां शीर्षातो पाणिना केशानि ओतारित्वा दिन्नानि इमं केशस्तूपं कारयेथ नखानि च ओतारित्वा दिन्नानि इमं नखस्तूपं कारापेथ शिला च आगमिष्यन्ति तां च शिलां प्रतिष्ठापेथ ॥ तेहि दानि यत्र केशस्थाली नाम अधिस्थानो तहिं केशस्तूपं कारापितं । वालुक्षो नाम नगरं तहिं नखस्तूपं कारापितं । शिलुक्षं नामाधिष्ठानं तत्रापि शिला प्रतिष्ठापिता सा भगवता ऋद्धीये पाणिना क्षिप्ता ॥
___भगवता दानि सप्तसप्ताहेहि एकूनपंचाशद् दिवसानि निराहारेण त्रषुभल्लिकानां
[_म्वु_3.311_] वाणिजकानां मधुतर्पणं पीतं पीतेन भगवतो ते च अभिष्यन्दिता ॥ ततो शक्रेण देवानाम् इन्द्रेण भगवतो हरीतकी उपनामिता । धातूनां मुखं भविष्यति ॥ भगवता दानि सा हरीतकी परिभूक्ता तं च हरीतकीवृन्तकं भगवता तत्रैवोद्देशे रोपितं सा च तं दिवसम् एव जातावशाखप्रशाखा महान्तं हरीतकीवृक्षं पुष्पफलोपेतं संवृत्तं । इमं भगवतो प्रथमं ऋद्धीवृक्षं । या च ततो वृक्षातो हरीतकीयो तानि अद्य चेतकीया हरीतकीप्रबाला ति बुध्यन्ति ॥
___ततो भगवता उरुविल्वायां षड्वर्षाणि दुष्करं तपं चीर्णं ॥ तदा उरुविल्वायां सेनापतिग्रामातो नगरावलंबिकाये शाणपांसुकूलं भगवतो दुष्करचारिकां चरन्तस्य प्रसन्नचित्ताय उपनामितं । यदा भगवं परिपूर्णसंकल्पो भवेसि तदा इमं शाणपांसुकूलम् अनुग्रहार्थाय परिभुंजेसि ॥ भगवतो तूष्णींभावेनाधिवासनां विदित्वा तुष्टा आत्तमवा पांसुकूलं वृक्षशाखाये ओलंबित्वा भगवतः पादौ शिरसा वन्दित्वा त्रिष्कुत्तं प्रदक्षिणीकृत्वा प्रक्रमि ॥ सा दानि नचिरस्यैव कालगता भगवतो सन्तिका प्रसन्नचित्ता तं पांसुकूलदानं समनुस्मरन्ती समनन्तरकालगता त्रयस्त्रिंशे देवनिकाये उपपन्ना अन्यतरस्य महर्द्धिकस्य महानुभावस्य देवपुत्रस्य विमान अप्सरसां शतसहस्रप्रवरा ॥ सा दानि अप्सरा समन्वाहरति । किं मया मनुष्यभूताये कुशलमूलं कृतं केवरूपा च दक्षिणा प्रतिष्ठापिता येनाहं त्रयस्त्रिंशे देवनिकाये उपपन्ना ॥ सा दानि समन्वाहरती पश्यति उरुविल्वायां सेनापतिग्रामके गवा नाम नगरावलंबिका आसि दुःखिता । तं मया मरणकाले बोधिसत्वस्य दुष्करं चरन्तस्य प्रसन्नचित्ताये शाणपांसुकूलं दिन्नं तेनाहं कुशलमूलेन
[_म्वु_3.312_] मनुष्येषु च्यवित्वा इह त्रयस्त्रिंशे देवनिकाये उपपन्ना । न च मे तं देयधर्मं भगवताम् अद्यापि परिभुक्तं । यद् इमम् एव देयधर्मं भगवान् अनुग्रहार्था परिभुंजेया तत्* मम महत्फलतरं भवेया ॥ सा दानि अप्सरशतसहस्रपरिवृता महता देवानुभावेन महता देव-ऋद्धीये त्रयस्त्रिंशभवनातो वृक्षशाखातो तं शाणपांसुकूलं गृह्य भगवन्तम् उपसंक्रान्ता ॥ इमं मया भगवन्तं शाणपांसुकूलं मनुष्यभूताये भगवतो दुष्करं चरन्तस्य प्रसन्नचित्ताये दिन्नं यदा भगवं परिपूर्णसंकल्पो भवेसि ततो भगवन् ममानुग्रहार्थं परिभुंजेसि तेनाहं कुशलमूलेन मनुष्येषु च्यावित्वा त्रयस्त्रिंशेषु देवनिकायेषु उपपन्ना । साधु मं भगवां इमं शाणपांसुकूलं परिभुंजतु अनुकंपाम् उपादाय यथा मे महत्फलतरो भवेया ॥ देवा अन्तरीक्षगता भगवन्तम् आहन्सुः ॥ मा भगवान् इमं शाणपांशुकूलं परिगृह्णातु । वयं भगवतो दिव्यां विकल्पदूष्याणि दास्यामः ॥ भगवान् तेषां देवतानां विकल्पदूष्यप्रदानानि नाधिवासयति । तं गवाये नगरावलंबिकाये शाणपांशुकूलं प्रतिगृहीतं देवताशतसहस्रेहि च अन्तरीक्षातो चेलक्षेपाणि च भगवतः कृतानि हक्कारकिलिकिलानि च अकरेन्सुः ॥ चक्रवर्तिराज्यं परित्यक्तं किं नो पांशुकूलेषु चित्तं रमति ॥
___भगवां दानि शाणपांशुकूलं धोवितुकामो । उदकेन कार्यं ॥ अथ खलु शक्रेण देवानाम् इन्द्रेण पाणीहि नदी खता अद्यापि च पाणिखाता नाम नदी वुच्चति ॥ शिलापट्टेन कार्यं यत्र तं शाणपांशुकूलं धोविष्यति ॥ चतुर्हि महाराजेहि चत्वारि शिलापट्टा उपनामिता । भगवता एकत्र शिलापट्टे तं शाणपांशुकूलं धौतं ॥
[_म्वु_3.313_] द्वितीये शिलापट्टे तं पाशुकूलं शोषितं ॥ तृतीयं शिलापट्टं भगवता त्रपुसभल्लिकानां शिलुक्षनामनिगम आवासितानां तत्र ऋद्धीये पुरतो उत्क्षिप्तं ॥ तेहि तं शिलापट्टं तत्रैव चेतिये प्रतिष्ठापितं । अद्यापि गन्धारराज्ये अधिष्ठानं शिलानामेन ज्ञायति ॥ चतुर्थे शिलापट्टे भगवता निषीदित्वा तं शाणपांशुकूलं सीवितं । यद् अपि तत्र शिलापट्टं भगवतो अनुसीवननामापद्ये ॥ सर्वे चत्वारो शिलापट्टा भगवता परिभुक्ता तानि च जम्बुद्वीपे सदेवमानुषस्य लोकस्य चेतियभूता ॥
___भगवां दानि तं शाणपांशुकूलं धोवित्वा सीवित्वा च पाणिखातनदीस्नायको ओकस्तो । स्नायित्वा भगवां पाणिखातातो नदीतो उत्तरिष्यतीति अकिलन्तकाया बुद्धा भगवन्तो अकिलन्तचित्ता तहिं तीरे ककुभो नाम वृक्षो ओशाखप्रशाखो प्रासादिको दर्शनीयो यंनामो च वृक्षो तंनामा च वृक्षस्य देवता ककुभो नाम देवपुत्रो प्रतिवसति । सो देवपुत्रो भगवता ततो नदीतो उत्तरन्तेन आभाष्टो ॥ आहर ककुभ हस्तं ॥ वरविमलकुण्डलधरेण ककुभेन देवपुत्रेण भगवतो बाहा प्रणामिता । भगवां ककुभस्य देवपुत्रस्य बाहां गृह्य पाणिखातातो नदीतो उत्तीर्णो समं च भगवता ततो ककुभस्य देवपुत्रस्य बाहातो हस्तं स्वकं अपनीतं तत्र च वृक्षशाखायां भगवतो पंचांगुलस्य करतलस्य पद्मं दृश्यति ॥ (यं दानि अहं बोधिं आहतहस्तो च सुंदरो ककुभो नदीका च पाणिखाता शिला च देवेहि निक्षिप्ता ॥ )
___ततो भगवां अजपालन्यग्रोधं गतो ॥ भगवान् अजपालस्य न्यग्रोधमूले विहरन्तो
[_म्वु_3.314_] लोकं मीमांसेति ॥ गंभीरो अयं मम धर्मः अभिसंबुद्धो निपुणो सुखुमो दुरनुबोधो अतर्कावचरो पण्डितवेदनीयो सर्वलोकविप्रत्यनीको । आलयारामो खलु पुनर् अयं आलयरतो आलयसमुदितो आलयारामायां च प्रजायां आलयरतायां आलयसमुदितायां दुर्दृशम् इमं स्थानं यद् इदंहेतु इदंप्रत्ययः प्रतीत्यसमुत्पादः सर्वोपधिप्रतिनिःसर्गो पूर्वसंस्कारसमथधर्मोपच्छेदः तृष्णाक्षयो विगतरागो निरोधो निर्वाणं अहं च न परेषां देशयेयं परे खु मे न विभावयेन्सुः सो मे स्या विघातः ॥ यं नूनाहं एको अरण्यपर्वते तूष्णीभूतो विहरेयं । इमा च गाथावो भगवतो ताये वेलाये प्रतिभायेन्सुः ॥
प्रतिश्रोतगामिनं मार्गं गम्भीरं दुर्दृशं [मम] ।
न रागरक्ता द्रक्ष्यन्ति अलं दानि प्रकाशितुं ॥
कृच्छ्रेण मे अधिगतो अलं दानि प्रकाशितुं ।
अनुश्रोतं हि वह्यन्ति कामेषु ग्रसिता नराः ॥
भगवां उरुविल्वायां विहरे नैरंजनायास् तीरे अजपालन्यग्रोधमूले अचिराभिसंबुद्धो ॥ अथ खलु भगवतो एकस्य रहोगतस्य प्रतिसंलीनस्य अयम् एवरूपश् चेतसः परिवितर्को उदपादि ॥ अधिगतो यद् अयं मया धर्मो गम्भीरो निपुणो सूक्ष्मो दुरनुबोधो अतर्कितो अतर्कावचरो पण्डितवेदनीयो सर्वलोकविप्रत्यनीको अहं चे परेषां देशयेयं परे खु च आजानेन्सु सो मे स्या परमं विघातं । यं नूनाहं
[_म्वु_3.315_] एको अरण्यायतने तूष्णीं विहरेयं ॥ अथ खलु महाब्रह्मा भगवत इदम् एवरूपं चेतसो परिवितर्कम् आज्ञाय येन शक्रो देवानाम् इन्द्रो तेनोपसंक्रमित्वा शक्रं देवानाम् इन्द्रम् एतद् अवोचत्* ॥ एतन् मारिष कौशिक भगवता अल्पोत्सुकताये चित्तं नमेति न धर्मचक्रप्रवर्तने । किं पुनर् वयं मारिष कौशिक येन भगवान्स् तेनोपसंक्रमित्वा भगवन्तं याचेम धर्मचक्रप्रवर्तनाय ॥ साधु मारिषेति शक्रो देवानाम् इन्द्रो महाब्रह्मणो प्रत्यश्रोषीत्* ॥ अथ खलु महाब्रह्मा शक्रो देवानाम् इन्द्रो सुयामो देवपुत्रो सुनिर्मितो च देवपुत्रो वसवर्ती च देवपुत्रो चत्वारश् च महाराजानो इत्य् एते दश यक्षाधिपतयो दश यक्षमहत्तरका अनेकयक्षशतपरिवारा अतिक्रान्ताये रात्रीये केवलकल्पं न्यग्रोधमूलं वर्णेनोभासयित्वा येन भगवान्स् तेनोपसंक्रान्ता भगवतः पादौ शिरसा वन्दित्वा एकमन्ते अस्थान्सुः ॥ एकान्ते स्थितो महाब्रह्मा शक्रं देवानाम् इन्द्रम् एतद् अवोचत्* ॥ याच मारिष कौशिक भगवन्तं धर्मचक्रप्रवर्तनाय ॥
___अथ खलु शक्रो देवानाम् इन्द्रो एकांसम् उत्तरासंगं कृत्वा येन भगवांस् तेनोपसंक्रमित्वा भगवन्तं गाथाये अध्यभाषे ॥
उत्थेहि विजितसंग्राम पूर्णभरो त्वं अनृण विचर लोके ।
चित्तं हि ते विशुद्धं यथ चन्द्रो पंचदशरात्रे ॥
अथ खलु भगवां तूष्णी अभूषि नाधिवासेति शक्रस्य देवानाम् इन्द्रस्य धर्मचक्रप्रवर्तने ॥ अथ खलु महाब्रह्मा शक्रं देवानाम् इन्द्रम् एतद् अवोचत्* ॥ न खलु मारिष कौशिक भगवतो अर्हन्तः सम्यक्संबुद्धा एवं याचीयन्ति धर्मक्रप्रवर्तनाये न च पुनस् तथागता अर्हन्तः सम्यक्संबुद्धा एवं याचिता धर्मचक्रं प्रवर्तयन्ते ॥ एवम् उक्ते शक्रो देवानाम् इन्द्रो महाब्रह्मम् एतद् अवोचत्* ॥ त्वं मारिष महाब्रह्म तेषां पुरिमकानां
[_म्वु_3.316_] सम्यक्संबुद्धानां दर्शावी तेन हि मारिष महाब्रह्म याच भगवन्तं स्वयम् एव धर्मचक्रप्रवर्तनाये ॥ अथ खलु महाब्रह्मा एकांसम् उत्तरासंगं कृत्वा येन भगवां तेनांजलिं प्रणामयित्वा भगवन्तं गाथाये ध्यभाषे ॥
उत्थेहि विजितसंग्राम पूर्णभरो त्वं अनृण विचर लोके ।
देशेहि सुगत धर्मं आज्ञातारो भविष्यन्ति ॥
अथ भगवां तूष्णी अभूषि ॥ अथ खलु महाब्रह्मा शक्रो देवानाम् इन्द्रो सुयामो च देवपुत्रो संतुषितो च देवपुत्रो निर्मितो च देवपुत्रो वशवर्ती च देवपुत्रो चत्वारो महाराजा अनेकयक्षशता अनेकयक्षशतपरिवारा भगवतो अनधिवासनां विदित्वा धर्मचक्रप्रवर्तनाय दुःखदौर्मनस्यजाता भगवतः पादौ शिरसा वन्दित्वा भगवंतं प्रदक्षिणीकृत्वा तत्रैवान्तरहायेन्सुः ॥
___एत्थम् एतं श्रूयति ॥
___भगवां उरुविल्वायां विहरति तद्या नैरंजनाय तीरे अजपालन्यग्रोधमूले अचिराभिसंबुद्धो ॥ अथ खलु महाब्रह्मा अतिक्रान्तवर्णो अतिक्रान्तायां रात्र्यां केवलकल्पं अजपालन्यग्रोधमूलं वर्णेनोभासयित्वा येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तं प्रदक्षिणीकृत्वा एकान्तस्थितो महाब्रह्मा भगवन्तं गाथाये अध्यभाषे ॥
उत्थेहि विजितसंग्राम पूर्णभरो त्वं अनृण विचर लोके ।
देशेहि सुगत धर्मं आज्ञातारो भविष्यन्ति ॥
अथ खलु भगवान् महाब्रह्मं गाथाये प्रत्यभाषे ॥
प्रतिश्रोतगामिको मार्गो गम्भीरो दुर्दृशो [मम] ।
रागरक्ता न द्रक्ष्यन्ति अलं ब्रह्मे प्रकाशितुं ॥
[_म्वु_3.317_] अथ खलु महाब्रह्मा भगवतर् अजपालस्य न्यग्रोधमूले प्रतिक्षेपं विदित्वा धर्मचक्रप्रवर्तनाये दुःखदौर्मनस्यजातो भगवतः पादौ शिरसा वन्दित्वा भगवन्तं प्रदक्षिणीकृत्वा तत्रैवान्तरहाये ॥
___एत्थम् एतं श्रूयति ॥
___भगवां उरुविल्वायां विहरति नद्या नैरंजनायस् तीरे अजपालस्य न्यग्रोधमूले अचिराभिसंबुद्धो ॥ तेन खलु पुनः समयेन मागधकानां ब्राह्मणगृहपतिकानां इमानि एवरूपाणि पापकानि अकुशलानि दृष्टिगतान्य् उत्पन्नानि ॥ वातो न वायेया सरितो न स्यन्दिन्सुः गर्भिणीयो न प्रजायेन्सुः पक्षिणो न वीतिपतन्ति अग्रिर् न ज्वलेया चन्द्रमसूर्याणां उद्गमना न प्रज्ञायेन्सुः अंधकारघट्टितं लोकसंनिवेशं भवेय ॥ अथ खलु महाब्रह्मा मागधकानां ब्राह्मणगृहपतिकानां इमान्य् एवरूपाणि पापकान्य् अकुशलानि दृष्टिगतानि उत्पन्नानि विदित्वा अतिक्रान्तवर्णो अतिक्रान्तायां रात्र्यां केवलकल्पं अजपालस्य न्यग्रोधमूलं वर्णेनोभासयित्वा येन भगवां तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्तस्थितो इमां गाथां प्रत्यभाषत्* ॥
प्रादुरहोसि समलेहि चिन्तितो
धर्मो अशुद्धो मगधेषु पूर्वं ।
अपावृतं ते अमृतस्य द्वारं
शृणोन्तु धर्मं विमलानुबुद्धं ॥
अथ खलु भगवां महाब्रह्मणो याचनां विदित्वा सामं च प्रत्यात्मं बोधीये ज्ञानेन
[_म्वु_3.318_] सर्वावन्तं लोकम् अनुत्तरेण बुद्धचक्षुषाभिविलोकयन्तो अद्राक्षीत् सत्वा उच्चावचां हीनप्रणीतां अद्राक्षीत् सत्वा दुराकारा दुर्विनेया दुर्विशोधेया अद्राक्षीत् सत्वा स्वाकारां सुविनेयां सुविशोधेया अद्राक्षीत् सत्वां उद्घटिताज्ञा विपंचिताज्ञानेया पदपरमां अद्राक्षीत् सत्वां तीक्ष्णेन्द्रियां ऋद्धीन्द्रियां । सत्वानां त्रयो राशीयः सम्यक्त्वनियतं राशिं मिथ्यात्वनियतं राशिं अनियतं राशिं ॥ सय्यथापि नाम चक्षुष्मां पुरुषो पद्मिनीतीरे स्थित्वा अल्पकिशरेण पश्येय उत्पलानि पदुमानि वा पुण्डरीका वा अन्यानि अन्तोदकानि अन्यानि समोदकानि अन्यानि उदकातो अभ्युद्गतानि एवम् एव भगवां अनुत्तरेण बुद्धचक्षुषा सर्वावन्तं लोकम् अभिविलोकयन्तो अद्राक्षीत्* ॥ अथ खलु भगवतो एतद् अभूषि ॥ देशेयं वाहं धर्मं न वा देशेयं मिथ्यात्वनियतो राशि अभव्यो एतं धर्मं आजानितुं । देशेयं वाहं न वा देशेयं सम्यक्त्वनियतो राशि आज्ञास्यत्य् एव एतं यं देशेयं । अनियतो राशि सचास्य धर्मं देशेयं आज्ञास्यति नो चे देशेयं न जानिष्यति ॥ अथ खलु भगवां अनियतं राशिम् आरभ्य मागधानां च ब्राह्मणगृहपतिकानां इत्य् एवंरूपाणि पापान्य् अकुशलानि दृष्टीगतानि उत्पन्नानि विदित्वा महाब्रह्मणो चाभियाचनां विदित्वा सप्तासंख्येयकल्पसमुदानीतसमुत्पन्नं चात्मनः प्रणिधानं विदित्वा सत्वेषु च महाकरुणां ओक्रामेत्वा इमे च मे महेशाख्या देवाधिपतयो लोकेश्वरा उपसंक्रान्ता आर्यधर्मचक्रप्रवर्तनं
[_म्वु_3.319_] याचन्ति अथ खलु भगवां महाब्रह्मणो अवकाशम् अकार्षीत्* आर्यधर्मचक्रप्रवर्तनाय ॥ ताये वेलाये भगवान् महाब्रह्मणं गाथाये ध्यभाषे ॥
अपावृतं मे अमृतस्य द्वारं
ब्रह्मेति भगवन्तं ये श्रोतुकामा
श्रद्धां प्रमुंचन्तु विहेठसंज्ञां ।
विहेठसंज्ञो प्रगुणो अभूषि
धर्मो अशुद्धो मगधेषु पूर्वं ॥
अथ खलु भगवता महाब्रह्मणे अवकाशे कृते अनुत्तरधर्मचक्रप्रवर्तनाय भूम्या देवा घोषम् उदीरयेन्सुः ॥ एवं मारिष ब्रह्मणे भगवतावकाशो कृतो अनुत्तरधर्मचक्रप्रवर्तनाय । तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च हायिष्यन्ति आसुराः कायाः दिव्या काया अभिवर्धिष्यन्ति ॥ भूम्यानां देवानां घोषं श्रुत्वा चतुर्महाराजकायिका देवा त्रयस्त्रिंशा देवा यामा तुषिता निर्माणरती परनिर्मितवशवर्ती देवा घोषम् उदीरयेन्सुः शब्दम् अनुश्रावयेन्सुः ॥ एवं मारिष भगवता महाब्रह्मणो अवकाशो कृतो धर्मचक्रप्रवर्तनाय । तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च हायिष्यन्ति आसुराः काया दिव्याः काया अभिवर्धिष्यन्ति ॥ इति हि तेन कालेन तेन समयेन यावद् ब्रह्मलोकं घोष अभ्युद्गतो ॥
___एत्थम् एतं श्रूयति ॥
[_म्वु_3.320_]___अथ खलु भगवां प्रवर्तनस्य समये केवरूपा सत्वा आर्यधर्मचक्रं प्रवर्तयन्तीति ॥ ये ते सत्वा पूर्वयोगसंपन्ना भवन्ति ते आर्यधर्मचक्रं प्रवर्तेन्ति । अहं खलु पूर्वयोगसंपन्नो तेनारहाम्य् अहं आर्यधर्मचक्रं प्रवर्तयितुं । ये ते सत्वा अनुत्तराचारसंपन्ना भवन्ति एवंरूपा सत्वा आर्यधर्मचक्रं प्रवर्तेन्ति । अहं खलु पुनः अनुत्तराचारसंपन्नो अरहाम्य् अहं आर्यधर्मचक्रं प्रवर्तयितुं । ये ते सत्वा निवासानुत्तर्यसंपन्ना भवन्ति एवंरूपा सत्वारार्यधर्मचक्रं प्रवर्तेन्ति । ये ते सत्वा आवेणिका भवन्ति एवंरूपाः सत्वा आर्यधर्मचक्रं प्रवर्तेन्ति । ये ते सत्वा च्युतिसंपन्ना भवन्ति एवंरूपाः सत्वा आर्यधर्मचक्रं प्रवर्तेन्ति । ये ते सत्वा गर्भावक्रान्तिसम्पन्ना भवन्ति एवंरूपाः सत्वा आर्यधर्मचक्रं प्रवर्तेन्ति । ये ते सत्वा गर्भस्थितिसम्पन्ना भवन्ति ये ते सत्वा जातिसम्पन्ना भवन्ति ये ते सत्वा लक्षणसंपन्ना भवन्ति ये अनुव्यंजनसम्पन्ना भवन्ति ये कुशलसंपन्ना भवन्ति ये धृतिसंपन्नाः स्मृतिसंपन्नाः ये प्रत्युपस्थितधर्मसंपन्नाः ये दुष्यधर्मसम्पन्नाः ये लोके अग्रा भवन्ति ये लोके लोकप्रविचयसम्पन्नाः सत्वसारसंपन्ना भवन्ति ये स्थानं च स्थानतो अस्थानं चास्थानतो सम्यक्प्रज्ञया प्रजानन्ति ये सर्वत्रगामिनीप्रतिपदान् तत्रतत्रगामिनीप्रतिपदां यथाभूतं सम्यक्प्रज्ञया प्रजानन्ति ये नानाधातुका च लोके अनेकधातुका च लोके यथाभूतं सम्यक्प्रज्ञया प्रजानन्ति ये परसत्वानां परपुद्गलानां इन्द्रियवीर्यवैमात्रतां यथाभूतं
[_म्वु_3.321_] सम्यक्प्रजानन्ति ते एव धर्मचक्रं प्रवर्तेन्ति । ये नानाधिमुक्तिका च लोके अनेकाधिमुक्तिका च लोके यथाभूतं सम्यक्प्रज्ञया प्रजानन्ति ते एव धर्मचक्रं प्रवर्तेन्ति । ये ते सत्वाः सर्वेषां कर्मणां कर्मसमादानानां अतीतानागतानां प्रत्युत्पन्नानां कृतानाम् उपचितानाम् अविपक्वानां विपाकप्रत्युपस्थितानां आयतिविपाकवैमात्रतां यथाभूतं सम्यक्प्रजानन्ति ते एव धर्मचक्रं प्रवर्तेन्ति । ये ते सर्वेषां ध्यानसमाधिविमोक्षसमापत्तीनां च सक्लेशव्यवदानं यथाभूतं संप्रजानन्ति ये दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्वां पश्यन्ति च्यवन्तां उपपद्यन्तां सुवर्णां दुर्वर्णां सुगतां दुर्गतां हीनां प्रणीतां यथाकर्मोपगां सत्वां संप्रजानन्ति एवंरूपाः सत्वा आर्यधर्मचक्रं प्रवर्तेन्ति । ये अनेकविधं पूर्वनिवासं समनुस्मरन्ति ये चाश्रवाणां क्षयाद् अनाश्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं च यथाभूतं संप्रजानन्ति ये चापि दीर्घायुष्का भवन्ति आजीवसंपन्ना भवन्ति शीलसंपन्नाः समाधिसंपन्ना विमुक्तिसंपन्ना विमुक्तिज्ञानसंपन्ना नैष्क्रम्यसंपन्ना महाकरुणाप्रतिलाभसम्पन्ना बोधिसंपन्नाश् चेतःपर्यायसंपन्नाः ऋद्धिप्रातिहार्यसंपन्ना आदेशनाप्रातिहार्यसंपन्ना अनुशासनीप्रातिहार्यसंपन्नाः सर्वकुशलधर्मसमन्वागता ये चार्थप्रतिसंविदप्राप्ता धर्मप्रतिसंविदप्राप्ता निरुक्तिप्रतिसंविदप्राप्ताः प्रतिभानप्रतिसंविदप्राप्ता ये चार्यपंचांगिकसमाधिसंपन्नाः पंचज्ञानिकसमाधिसंपन्ना आर्यमहापंचाङ्गिकसम्यक्समाधिसंपन्ना
[_म्वु_3.322_] ये चाप्य् आर्यमहापंचज्ञानिकसम्यक्समाधिप्राप्ताः बलसंपन्नाश् च इन्द्रियसंपन्नाश् च ऋद्धिसंपन्नाश् च ये चापि पौरिये वाचाये समन्वागता विस्पष्टाये अनेलकाये अर्थस्य विज्ञापनीये समन्वागताः प्रश्नव्याकरणेन सम्पन्ना ये प्रतिबलाः परेषां वैशारद्ये पि च्छेदं विकर्तुं प्रतिबलाः परेषां अहितेषिणां सह धर्मेण निग्रहेतुं ये प्रतिबला परेषां सुखानुप्रदानं प्रदातुं एवंरूपाः आर्यधर्मचक्रं प्रवर्तेन्ति । ये ते सत्वाः सर्वबुद्धधर्मेहि समन्वागता भवन्ति एवंरूपाः सत्वा आर्यधर्मचक्रं प्रवर्तेन्ति ॥ अहं खलु पुनः सर्वबुद्धधर्मेहि समन्वागतो अरहाम्य् अहं धर्मचक्रं प्रवर्तयितुं ॥
___अथ खलु भगवां इमम् एवरूपम् आत्मनो गुणसमादानं विदित्वा एतद् अभूषि ॥ यं नूनाहम् आर्यम् अनुत्तरं धर्मचक्रं प्रवर्तयेयं । को नु खलु मे प्रतिबलो प्रथमं धर्मं देशितं आजानितुं न च मे विहिंसये यम् इदं धर्मदेशनाये ॥ अथ खलु भगवतो एतद् अभूषि ॥ उद्रको रामपुत्रो शुद्धो अल्परजो अपरोक्षजातीयो सो च दूरगतो अतिक्रान्तगतो नैवसंज्ञानासंज्ञायतनसहव्रताये धर्मं देशयति । अद्य सप्ताहं कालगतो उद्रको रामपुत्रो महाहानिरुद्रको रामपुत्रो ॥ कतमो पि खल्व् अन्यो पि सत्वो शुद्धो अल्परजो अपरोक्षजातीयो यो मे प्रतिबलो प्रथमं धर्मं देशितम् आजानितुं न च मे विहेठेया यम् इदं धर्मश्रवणाय ॥ आराडो कालामो शुद्धो अल्परजो अल्परजस्कजातीयो यो मे प्रतिबलो प्रथमं देशितम् आजानितुं न च मे विहेठये यम् इदं धर्मश्रवणाय । महाहानिराराडस्य अद्य त्र्य्-अहं कालगतो आराडो कालामो ॥ कतमो पुनर् अन्यो पि सत्वो शुद्धो अल्परजस्कजातीयो यो मे प्रतिबलो प्रथमं धर्मं देशितम् आजानितुं न च मे विहेठये यम् इदं धर्मश्रवणाय ॥ अथ खलु भगवतो एतद् अभूषि ॥ पंचका भद्रवर्गिया शुद्धा अल्परजा अल्परजस्कजातीयास्
[_म्वु_3.323_] ते मे प्रतिबला प्रथमं धर्मं देशितं आजानितुं न च मे विहेठयेन्सुः यम् इदं धर्मश्रवणाय । पूर्वम् एव दुष्करं चरन्तस्य अनुबंधेन्सुः । ते च वाराणस्यां विहरन्ति ऋषिपतने मृगदावे ॥ यं नूनाहं वाराणसीं गत्वा वाराणस्याम् ऋषिपतने मृगदावे पंचानां भद्रवर्गियानां प्रथमं धर्मं देशयेयं ॥
___अथ खलु संबहुला महेशाख्या शुद्धावासकायिका देवा येन भगवान्स् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थान्सुः । एकान्तस्थितास् ते भगवन्तम् एतद् उवाच ॥ यं भगवतो अन्तेवासिनां अभिज्ञातं परिज्ञातं प्रतिबलाश् च पुनर् वयं भगवतो विविधानि विचित्राणि ऋद्धिप्रातिहार्याणि कर्तुं । येन भगवान् मार्गेण बोधितो वाराणस्यां गमिष्यति ऋषिपतनं मृगदावं अनुत्तरं धर्मचक्रं प्रवर्तयितुं ततो वयं भगवतो यावच् च बोधि यावच् च वाराणसी मार्गं प्रतिजागरिष्यामः समं असमविषमं पाणितलजातं विततवितानं चित्रदूष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं सिक्तसम्मृष्टं धूपितधूपनं मुक्तपुष्पावकीर्णं सुवर्णवालिकासंस्तृतं दिव्यमुक्ताचूर्णसंस्तृतं दिव्यस्फटिकचूर्णसंस्तृतं दिव्यमुसारगल्वचूर्णसंस्तृतं दिव्यलोहितिकाचूर्णसंस्तृतं । तत्र च वयं भगवं मार्गे यावच् च बोधिर् यावच् च वाराणसी दिव्या तालपंक्तियो अभिनिर्मिनिष्यामः अच्छा समा सैकता सुखोपनीता चित्राणि दर्शनीयानि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितकाया । तत्र च वयं भगवं मार्गे वामदक्षिणतो दिव्यायो नदीयो
[_म्वु_3.324_] अभिनिर्मिनिष्यामः अच्छा समा सैकता सुखोपनीता सुवर्णवालुकासंस्तृता उत्पलपद्मकुमुदपुण्डरीकनलिनीसौगन्धिक-आम्रजम्बुकलकुचपनसनारिकेलपालेवतकभव्यदाडिमवृद्धिकप्रच्छन्ना । तत्र च वयं भगवन् मार्गे याव च बोधिर् याव च वाराणसी दिव्यानि च्छत्त्राणि अभिनिर्मिनित्वा दिव्यानि ध्वजानि अभिनिर्मिनिष्यामः । दिव्यानि कूटागाराणि अभिनिर्मिनिष्यामश् चित्राणि दर्शनीयानि सप्तानां रत्नानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितिकाया ॥ भगवतो गच्छन्तस्य गमिष्यन्ति तिष्ठन्तस्य तिष्ठन्ति पुरतो च वर्षवलाहका देवपुत्रा दिव्यानि पुष्पाणि प्राकिरिष्यन्ति मन्दं मन्दं च देवा प्रसारयिष्यन्ति ॥
___भगवति बोधितो वाराणसीम् ऋषिपतनं मृगदावं प्रस्थिते अनुत्तरं धर्मचक्रं प्रवर्तयितुं शुद्धावासेहि देवेहि मार्गो प्रतिजागृतो । महतीं चतुरंगिनीसेनाम् अभिनिर्मिणित्वा महान्तं हस्तिकायं महान्तम् अश्वकायं रथकायं पत्तिकायं भगवन्तं वाराणसीं गच्छन्तं पुरस्करेन्सुः ॥ यावत् सुवर्णानाम् अधिपतयो सुवर्णराजानो अण्डजा वा जरायुजा वा औपपादुका वा संस्वेदजा वा ते महान्तं चतुरंगिनीसेनां ऋद्धीये अभिनिर्मिणित्वा भगवन्तं गच्छन्तं पुरस्करेन्सुः । याव नागानां नागाधिपतयो नागराजानो अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका वा ते महतीं चतुरंगिनीसेनाम् ऋद्धीये अभिनिर्मिणित्वा भगवन्तं वाराणसीं गच्छन्तं पुरस्करेन्सुः । चतुर्महाराजिका देवा त्रयस्त्रिंशा यामास् तुषिता निर्माणरति परनिर्मितवशवर्ति ब्रह्मकायिका देवा महान्तं चतुरंगिनीसेना मृद्धीये अभिनिर्मिणित्वा भगवन्तं काशिं गच्छन्तं पुरस्करेन्सुः ॥ अथ खलु भगवां महतीये परिषाये अनेकशताये अनेकसहस्राये अनेकशतसहस्राये पुरस्कृतो परिवारितो उरुविल्वातो गयां गच्छति गयातो अपरगयां गच्छति ॥ अपरगयायां सुदर्शनो नाम नागाराजा । तेन भगवां
[_म्वु_3.325_] अपरगयायां वासेन भक्तेन च निमन्त्रितो ॥ तहिं भगवां सुदर्शनस्य नागराज्ञो भवने वसित्वा कृताहारो वशालां गच्छति ॥ वशालायां नदी नाम ब्राह्मणः हुहुंकजातिको वुच्चति । सो भगवन्तं गच्छन्तं अपसव्यीकरोति च हुहुन् ति च करोति ॥ भगवां एतस्मिं वस्तुस्मिं एतस्मिं निदाने एतस्मिं प्रकरणे ताये वेलाये इमं उदानम् उदानये ॥
यो ब्राह्मणो बाहितपापधर्मो
निहुहुंको निष्कषायो यतात्मा ।
क्षीणाश्रवो अन्तिमदेहधारी
धर्मेण सो ब्रह्मणो ब्रह्मवादं वदेय ॥
वशालायाम् अन्यतमो गृहपतिः भगवन्तं वासेन च भक्तेन च निमन्त्रेति । तहिं भगवां वुस्तो कृतभक्तकृत्यो वशालातो चुन्दद्वीलं नाम अधिष्ठानं गच्छति ॥
___अद्राक्षीत्* उपको आजीवको भगवन्तं दूरतो येवागच्छन्तं दृष्ट्वा च पुनर् येन भगवांस् तेनोपसंक्रमित्वा भगवतः सार्धं संमोदनीयां कथां संमोदयित्वा सारायणीयां कथां व्यतिसारयित्वा एकान्ते स्थाद् एकान्तस्थितः उपको आजीवको भगवन्तम् एतद् उवाचत्* ॥ परिशुद्धो भगवतो गौतमस्य च्छविवर्णो परिशुद्धो पर्यवदातो विप्रसन्नं च मुखवर्णं । सय्यथापि नाम तालस्य पक्वस्य संप्रति वृन्तच्युतस्य बन्धनाश्रयो परिशुद्धो भवति पर्यवदातो सपीतनिर्भासो च एवम् एव भगवतो गौतमस्य च्छविवर्णो परिशुद्धो पर्यवदातो विप्रसन्नो च मुखवर्णो अद्य भगवता गौतमेनामृतं
[_म्वु_3.326_] अधिगतं अमृतगामी च मार्गो ॥ एवम् उक्ते भगवान् उपकं आजीवकं एतद् उवाच ॥ अमृतं मे उपक अधिगतं अमृतगामी च मार्गो ॥ एवम् उक्ते उपको भगवन्तम् एतद् उवाच ॥ कहिं वो भो गौतम ब्रह्मचर्यम् उष्यते ॥ एवम् उक्ते भगवान् उपकं आजीवकं गाथाये अध्यभाषे ॥
सर्वाभिभू सर्वविदो हम् अस्मि
सर्वेहि धर्मेहि अनोपलिप्तो ।
सर्वज्ञो हं तृष्णाक्षये विमुक्तो
अहं अभिज्ञाय किम् उद्दिशेयं ॥
एवम् उक्त उपको आजीवको भगवन्तम् एतद् उवाच ॥ अनाचार्यो भगवां गौतमो प्रजानासि ॥ अथ खलु भगवान् उपकं आजीवकं गाथाये अध्यभाषे ॥
न मे आचार्यो अस्ति कश्चित् सदृशो मे न विद्यते ।
एको स्मि लोके संबुद्धो प्राप्तो संबोधिम् उत्तमां ॥
एवम् उक्ते उपको आजीवको भगवन्तम् एतद् उवाच ॥ अर्हन्न् इति भगवां गौतमो प्रजानासि ॥ अथ खलु भगवान् उपकं आजीवकं गाथाये अध्यभाषे ॥
अहं हि अरहा लोके अहं लोके अनुत्तरः ।
सदेवकस्मिं लोकस्मिं सदृशो मे न विद्यते ॥
एवम् उक्ते उपको आजीवको भगवन्तम् एतद् उवाच ॥ जिनो ति भगवां गौतमो प्रजानासि ॥ अथ खलु भगवान् उपकं आजीवकं गाथाये ध्यभाषे ॥
जिना हि मादृशा भोन्ति ये प्राप्ता आश्रवक्षयं ।
जिता मे पापका धर्मा तस्माद् अहं उपक जिनो ॥
पौण्डरीकं यथा वर्णं अनोपे न प्रलिप्यते ।
[_म्वु_3.327_] एवं लोके न लिप्यामि तस्माद् अहं उपक जिनः ॥
अभिज्ञेयं अभिज्ञातं सद्वक्तव्यं च भाष्यति ।
प्रहातव्यं प्रहीनं मे तस्माद् अहं उपक जिनो ॥
एवम् उक्ते उपको आजीवको भगवन्तम् एतद् उवाच ॥ कहिं भगवां गौतमो गमिष्यसि ॥ अथ खलु भगवां उपकं आजीवकं गाथाये ध्यभाषये ॥
वाराणसीं गमिष्यामि आहनिष्यं अमृतदुन्दुभिं ।
धर्मचक्रं प्रवर्तयिष्यं लोके अप्रतिवर्तियं ॥
यो मे धर्म अधिगतो विरागोपसमो शिवो ।
तम् अहं प्रवर्तयिष्यामि हिताय सर्वप्राणिनां ॥
ये चाभ्यतीता संबुद्धा ये च बुद्धा अनागता ।
ये चैतरहिं संबुद्धा बहूनां शोकनाशका ।
धर्मं देशेन्ति सत्वानां बुद्धानां एषा धर्मता ॥
देवता अन्तरीक्षे गाथां भाषन्ति ॥
यो एवरूपं नरदम्यसारथिं
दृष्ट्वा महर्षिं परिवर्जयेय ।
हस्तेहि पादेहि च सो महाशिरिं
प्रणामये एष अतीवमात्रं ॥
चुन्दद्वीलायां चुन्दो नाम यक्षो ॥ तेन भगवां स्वके भवने वासेन च भक्तेन च निमन्त्रितो ॥ भगवां चुन्दस्य यक्षस्य भवने एकरात्रोषितो कृतभक्तकृत्यो सारथिपुरे लोहितवस्तुकं गच्छति ॥ लोहितवस्तुके कमण्डलुको नाम नागराजो ॥ तेन
[_म्वु_3.328_] भगवां स्वके भवने वासेन च भक्तेन च निमन्त्रितो ॥ तत्रापि भगवां एकरात्रोषितो कृतभक्तकृत्यो लोहितकातो गन्धपुरं गच्छति ॥ गन्धपुरे कन्धो नाम यक्षो प्रतिवसति । तेन भगवां स्वके च भवने वासेन च भक्तेन च निमन्त्रितो ॥ तत्रापि भगवान् एकरात्रोषितो कृतभक्तकृत्यो सारथिपुरं गच्छति ॥ सारथिपुरे भगवां अन्यतरेण गृहपतिना वासेन च भक्तेन च निमन्त्रितो ॥ तत्रापि भगवां एकरात्रोषितो कृतभक्तकृत्यो सारथिपुरातो गंगातीरम् अनुप्राप्तो ॥ नाविको दानि आह ॥ देहि तरपण्यं ॥ भगवान् आह ॥ कुतो मम समलेष्टुकांचनस्य व्यपगतजातरूपरजतस्य तरपण्यं ॥ नाविको आह ॥ यदि मे देसि तरपण्यन्तरीहसि अथ न ददासि न तरीहसीति ॥ भगवान् आह ॥
नो हंसो नर्मदातीरे नाविकं परिपृच्छति ।
स्वकेन बाहुवीर्येण हंसो तरति नर्मदां ॥
इति वदित्वान संबुद्धो हंसराजेव प्रक्रमे ।
गंगाया तीरे अस्थासि ओघतीर्णो महामुनि ॥
भग्वां दानि गंगाम् उत्तीर्णो वाराणसीम् अनुप्राप्तः । संखमेधीयं अस्थासि भगवां कालं आगमेति वाराणस्यां पिण्डाय चरितुं ।
न हि विकाले विहरन्ति बुद्धा
काले तु पिण्डाय चरन्ति ग्रामे ।
विकालचारीहि वसन्ति संगा
तस्माद् विकाले न चरन्ति बुद्धा ॥
ऋषिपतने पंचका भद्रवर्गिया विहरन्ति आज्ञातकौण्डिन्यो अश्वकी भद्रको
[_म्वु_3.329_] वाष्पो महानामो ॥ भगवां वाराणसीतो पिण्डाय चरित्वा कृतभक्तकृत्यो ऋषिपतनं गच्छति ॥ पंचकेहि भद्रवर्गीयेहि भगवान् दृष्टो । दूरतो एवागच्छन्तं दृष्ट्वा भगवन्तं क्रियाकारं करोन्ति ॥ अयं श्रमणो गौतमो आगच्छति शैथिलिको बाहुलिको प्रहाणविक्रान्तो न केनचित् प्रत्युत्थातव्यं ॥ भगवां चागच्छति ते च स्वकेषु स्थानेषु न रमन्ति । सय्यथापि नाम शकुन्ता नीडगता वा वृक्षशाखागता वा हेष्टतो अग्निना संतापियमाना उत्पतेन्सुः एवम् एव पंचका भद्रवर्गीया दूरतो एवागच्छन्तस्य स्वकस्वकेष्व् आसनेषु रतिं अविन्दन्ता भगवन्तं प्रत्युत्स्थायेन्सुः प्रत्युद्गमेन्सुः । एहि आयुष्मं गौतम स्वागतं आयुष्मतो गौतमस्यानुरागतं आयुष्मतो गौतमस्य ॥ भगवान् आह ॥ भग्ना वो भिक्षवः भद्रवर्गीया प्रतिज्ञा मा भिक्षवो भद्रवर्गीया तथागतं आयुष्मंवादेन समाचरथ ॥ तेषां दानि भगवता शिक्षावादेनाभाष्टानां यत् किंचित् तीर्थिकलिंगं तीर्थिकगुप्ति तीर्थिककल्पं सर्वं समन्तरहितं त्रिचीवरा च प्रादुर्भवेन्सुः सुम्भका च पात्रा प्रकृतिस्वभावसंस्थिता च केशा ईर्यापथो च सानं संस्थिहे सय्यथापि नाम वर्षशतोपसम्पन्नानां भिक्षूणां । एष आयुष्मन्तानां पंचानां भद्रवर्गीयानां प्रव्रज्योपसंपदा भिक्षुभावो ॥ ते दानि पक्वतैलेन भगवन्तं निमन्त्रयेन्सुः ॥
___बुद्धविचीर्णा नाम पुष्किरिणी तहिं भगवां स्नातो जानन्ता च बुद्धा भगवन्तो ॥ अथ खलु भगवतः एतद् अभूषि ॥ कतमस्मिं पृथिवीप्रदेशे पुरिमकाः सम्यक्संबुद्धा धर्मचक्रं प्रवर्तयेन्सुः ॥ सह चित्तोत्पादेन भगवतो तं पृथिवीप्रदेशं ओनसति
[_म्वु_3.330_] च ॥ अथ खलु भगवत एतद् अभूषि ॥ किं नु खलु पुरिमकाः सम्यक्संबुद्धाः गच्छन्तका धर्मचक्रं प्रवर्तेन्ति तिष्ठन्तो वा निषण्णा वा शयन्तका वा ॥ सह चित्तोत्पादेन भगवतो ऋषिवदने पंच आसना प्रादुर्भूतानि ॥ पंच भद्रवर्गीया भगवन्तं पृच्छन्ति ॥ किस्य इमानि भगवन्* आसनानि ॥ . . . . . . . . . . . . भगवान् आह ॥ पुष्पिको नामायं भिक्षवो भद्रकल्पो भद्रकल्पे च बुद्धसहस्रेण उत्पद्यितव्यं ॥ त्रीणि प्रतीतानि अहं चतुर्थो ॥ क्रकुत्सन्दो नवयोजनप्रभो कोनाकमुनिर् द्वियोजनप्रभो काश्यपो चतुर्योजनप्रभो । अहं सर्वसिद्धार्थो व्यामप्रभो अजितो द्वादशयोजनप्रभो सिद्धार्थो विंशद्योजनप्रभो मैत्रेयो द्वादशयोजनप्रभो मैत्रीयशो अष्टादशयोजनप्रभो सर्वप्रभो दशयोजनप्रभो पृथिवीपालो द्वादशयोजनप्रभो पृथिवीविजयो चतुर्योजनप्रभो पृथिवीपश्यी त्रियोजनप्रभो जयमित्रो चतुर्योजनप्रभो सुग्रीवो द्वादशयोजनप्रभो सुदर्शनो दशयोजनप्रभो सुपश्यी दशयोजनप्रभो सर्वंजयो अष्टयोजनप्रभो सर्वाभिभू क्रोशयोजनप्रभो सर्वाभिभू अष्टयोजनप्रभो सर्वमित्रो द्वियोजनप्रभो अभिन्नाभो द्वादशयोजनप्रभो अतिसूर्यो चतुर्योजनप्रभो अभिभूयशो योजनप्रभो सुदयो योजनप्रभो सुदर्शनो योजनप्रभो सर्वाभिभूः षष्टियोजनप्रभो वैरोचनो सप्तयोजनप्रभो सर्वपश्यी . . . . . वैरोचनप्रभो नाम दशयोजनप्रभो ॥
___एवं मया श्रुतं एकस्मिं समये भगवां वाराणस्यां विहरति ऋषिवदने मृगदावे ।
[_म्वु_3.331_] तत्र भगवां आयुष्मन्तां पंचकां भद्रवर्गीयां आमन्त्रेसि भिक्षव इति भगवन्* इति भिक्षू भगवन्तं प्रत्यश्रोषीत्* ॥ भगवां सानम् एतद् उवाच ॥ द्वाव् इमौ भिक्षवः प्रव्रजितस्य अन्तौ । कतमा द्वौ । यश् चायं कामेषु कामसुखल्लिकायोगो ग्राम्यो प्राथुज्जनिको नालमार्यो नार्थसंहितो नायत्यां ब्रह्मचर्याये न निर्विदाये न विरागाये न निरोधाये न श्रामण्याये न संबोधाये न निर्वाणाये संवर्तति यश् चायं आत्मकिलमथानुयोगो दुःखो अनार्यो अनर्थसंहितो ॥ इमौ भिक्षवः द्वौ प्रव्रजितस्य अन्तौ एते च भिक्षवो उभौ अन्ताव् अनुपगम्य तथागतस्यार्यस्मिं धर्मविनये मध्यमा प्रतिमदा अनुसंबुद्धा चक्षुकरणीया उपसमाये संवर्तनिका निर्विदाये विरागाये निरोधाये श्रामण्याये संबोधाये निर्वाणाये संवर्तति ॥ कतमा सा भिक्षवः तथागतेनार्यस्मिं धर्मविनये मध्यमा प्रतिपदा अभिसंबुद्धा चक्षुकरणीया ज्ञानकरणीया उपसमसंवर्तनिका निर्विदाये विरागाये निरोधाये श्रामण्याये संबोधाये निर्वाणाये संवर्तति ॥ यम् इदम् आर्याष्टांगिका सय्यथीदं सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्व्यायामः सम्यक्कर्मन्तो सम्यगाजीवः सम्यग्वाक् सम्यक्स्मृतिः सम्यक्समाधिर् इयं सा भिक्षवः तथागतेनार्यास्मिं धर्मविनये मध्यमा प्रतिपदा अभिसंबुद्धा चक्षुकरणीया उपसमसंवर्तनिका निर्विदाये विरागाये निरोधाये श्रामण्याये संबोधाये निर्वाणाये संवर्तति ॥
___चत्वारि खलु पुनर् इमानि भिक्षवो आर्यसत्यानि । कतमानि चत्वारि । सय्यथीदं दुःखम् आर्यसत्यं दुःखसमुदयो आर्यसत्यं दुःखनिरोधो आर्यसत्यं दुखनिरोधगामिनी
[_म्वु_3.332_] प्रतिपदार्यसत्यं ॥ तत्र भिक्षवः कतमं दुःखं आर्यसत्यं ॥ तद्यथा ॥ जातिः दुःखं जरा दुःखं व्याधि दुःखं मरणं दुःखं अप्रियसंप्रयोगं दुःखं प्रियविप्रयोगं दुःखं यं पीच्छन्तो पर्येषन्तो न लभति तं पि दुःखं रूपं दुःखं वेदना दुःखं संज्ञा दुःखा संस्कारा दुःखा विज्ञानं दुःखं संक्षिप्तेन पंचोपादानस्कंधा दुःखा । इदं भिक्षवः दुःखम् आर्यसत्यं ॥ तत्र कतमो दुःखसमुदयो आर्यसत्यं । यायं तृष्णा पौनर्भविका नन्दीरागसहगता तत्रतत्राभिनन्दिनी अयं भिक्षवो दुःखसमुदयो आर्यसत्यं ॥ तत्र कतमो दुःखनिरोधो आर्यसत्यो । यो एतस्यैव तृष्णाये नन्दीरागसहगताये तत्रतत्राभिनन्दिनीये अशेषक्षयो विरागो निरोधो त्यागो प्रहाणो प्रतिनिःसर्गो अयं भिक्षवो दुःखनिरोधो आर्यसत्यः ॥ तत्र कतमा दुःखनिरोधगामिनी प्रतिपदार्यसत्या । एषैव आर्याष्टांगो मार्गो । तद्यथा सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाचा सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः इयं भिक्षवः दुःखनिरोधगामिनी प्रतिपदार्यसत्यं ॥
___इदं दुःखम् इति भिक्षवः पूर्वे अननुश्रुतेहि धर्मेहि योनिसो मनसिकारा ज्ञानं उदपासि चक्षुर् उदपासि विद्या उदपासि बुद्धि उदपासि भूरिर् उदपासि प्रज्ञा उदपासि आलोकं प्रादुरभूषि ॥ अयं दुःखसमुदयो ति इदं भिक्षवो पूर्वे अननुश्रुतेहि धर्मेहि योनिशो मनसिकारात्* ज्ञानम् उदपासि चक्षुर् उदपासि विद्या उदपासि बुद्धिर् उदपासि भूरिर् उदपासि मेधा उदपासि प्रज्ञा उदपासि आलोकं पृआदुरभूषि ॥ अयं दुःखनिरोधो ति मे भिक्षवः पूर्वं अननुश्रुतेहि धर्मेहि योनिशो मनसिकारात्* ज्ञानम् उदपासि चक्षुर् उदपासि विद्या उदपासि बुद्धिर् उदपासि भूरिर् उदपासि मेधा उदपासि
[_म्वु_3.333_] प्रज्ञा उदपासि आलोको प्रादुरभूषि ॥ इयं च दुःखनिरोधगामिनी प्रतिपदा इति मे भिक्षवो पूर्वे अननुश्रुतेहि धर्मेहि योनिशो मनसिकारात्* ज्ञानं उदपासि यावद् आलोको प्रादुरभूषि ॥ तं खलु पुनर् इमं दुःखम् आर्यसत्यं परिज्ञेयं ति मे भिक्षवः पूर्वे अननुश्रुतेहि धर्मेहि योनिशो मनसिकारात्* ज्ञानम् उदपासि यावद् आलोको प्रादुरभूषि ॥ तेन खलु पुनर् अयं दुःखसमुदयो आर्यसत्यो प्रहातव्यो ति मे भिक्षवः पूर्वे अननुश्रुतेहि धर्मेहि योनिशो मनसिकारात्* ज्ञानम् उदपासि यावद् आलोकं प्रादुरभूषि ॥ अथ खलु पुनर् अयं दुःखनिरोधो आर्यसत्यो साक्षीकृतो भिक्षवः पूर्वे अननुश्रुतेहि धर्मेहि योनिशो मनसिकारा ज्ञानम् उदपासि यावद् आलोको प्रादुरभूषि ॥ सा खलु पुनर् इयं दुःखनिरोधगामिनी प्रतिपदार्यसत्या भाविता मे भिक्षवः पूर्वे अननुश्रुतेहि धर्मेहि योनिशो मनसिकारा ज्ञानम् उदपासि यावद् आलोकं प्रादुरभूषि ॥ यावच् चाहं भिक्षवः इमानि चत्वार्य् आर्यसत्यानि एवं त्रिपरिवर्तं द्वादशाकारं यथाभूतं सम्यक्प्रज्ञया नाभ्यज्ञासिषं न तावद् अहं अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो प्रतिजानेहं नापि ताव मे ज्ञानं उदपासि अकोप्या न मे चेतोमुक्तिः साक्षीकृता । यतो अहं भिक्षवः इमानि चत्वार्य् आर्यसत्यानि एवं त्रिपरिवर्तं द्वादशाकारं तथाभूतं सम्यक्प्रज्ञया अभ्यज्ञासिषं अथाहं अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो ति प्रजानामि ज्ञानं च मे उदपासि अकोप्या च मे चेतोविमुक्तिः प्रज्ञाविमुक्तिः साक्षीकृता ॥
___इदम् अवोचद् भगवां वाराणस्यां विहरन्तो ऋषिवदनो गृगदावे इमस्मिं च पुनः व्याकरणे आयुष्मतो आज्ञातकौण्डिन्यस्य विरजं विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धं
[_म्वु_3.334_] अष्टादशानां च देवकोटीनां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धं । इयं च महापृथिवी अतिरिव षड्विकारं कंपे छिन्नम् इव पत्रं वेधे संप्रवेधे पुरस्तिमश् च अन्तो उन्नमति पश्चिमो च अन्तो ओनमे पश्चिमो च अन्तो उन्नमे पुरस्तिमो च अन्तो ओनमे दक्षिणो च अन्तो उन्नमे उत्तरो चान्तो ओनमे उत्तरो चान्तो उन्नमे दक्षिणो चान्तो ओनमे मध्यो च ओनमे अन्तो उन्नमे अन्तो ओनमे मध्यो उन्नमे । अप्रमेयं च लोके ओभासम् अभूषि अतिक्रम्यैव देवानां देवानुभावं नागानां नागानुभावं यक्षाणां यक्षानुभावं या पि ता लोकान्तरिका अन्धकारार्पिता तमिस्रा तमिस्रार्पिता अघा असंविदिता असंविदितपूर्वा यत्रेमे चन्द्रमसूर्या एवं महर्द्धिका एवं महानुभावा आभया आभां नाभिसंभुणन्ति आलोकेन वालोकं स्फुरन्ति नापि च ते ओभासेन स्फुटा अभूषि । अन्ये पि ये तत्र सत्वा उपपन्ना ते पि तेनोभासेन अन्यमन्यं संजानेन्सुः । अन्ये पि किल भो सत्वा उपपन्ना । अन्ये पि किल भो सत्वा उपपंना । एकान्तसुखसमर्पिता च पुनस् तत्क्षणं तन्मुहूर्तं सर्वसत्वा अभून्सुः ये पि अवीचिमहानिरये उपपन्ना । भूम्या च देवा घोषम् उदीरयेन्सुः शब्दम् अनुश्रावयेन्सुः । एतं मारिष भगवता वाराणस्यां ऋषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारं अनुत्तरं धर्मचक्रं प्रवर्तितं अप्रवर्त्यं केनचिच् छ्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा केनचिद् वा पुनर् लोके सह धर्मेण । भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च हायिष्यन्ति आसुरा काया दिव्या काया अभिवर्धिष्यन्ति ॥
[_म्वु_3.335_] भूम्यानां देवानां घोषं श्रुत्वा चतुर्महाराजिका देवा घोषम् उदीरयेन्सुः शब्दम् अनुश्रावयेन्सुः । त्रयस्त्रिंशा देवा यामास् तुषिता देवा निर्माणरतयो देवा ब्रह्मकायिका देवा घोषम् उदीरयेन्सुः शब्दम् अनुश्रावयेन्सुः ॥ एवं मारिष भगवता वाराणस्यां ऋषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारम् अनुत्तरं धर्मचक्रं प्रवर्तितं अप्रवर्त्यं केनचिच् छमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा अन्येन वा पुन लोके सह धर्मेण । तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च । हायिष्यन्ति आसुराः काया दिव्याः काया अभिवर्धिष्यन्ति ॥ आत्तमना आयुष्मन्तो पंचका भद्रवर्गीया भगवतो भाषितम् अभिनन्दे ॥
___भगवान् सम्यक्संबुद्धो यद् अर्थं समुदागतो तम् अर्थं अभिसंभावयित्वा वाराणस्यां विहरति शास्ता देवानां च मनुष्याणां च ॥ तत्र खलु भगवां आयुष्मन्तां पंचकां भद्रवर्गीयान् आमन्त्रयसि ॥ रूपं भिक्षवो अनात्मा वेदना अनात्मा संज्ञा अनात्मा संस्कारा अनात्मा विज्ञानं अनात्म । इदं रूपं चे भिक्षवः आत्मा अभविष्यत्* न व रूपं आबाधाय दुःखाय संवर्तेत ऋध्याच् च रूपे कामकारिकता एवं मे रूपं भवतु एवं मा भवतु यस्माच् च भिक्षवो रूपं अनात्मा तस्माद् रूपं बाधाय दुःखाय संवर्तति न चात्र ऋध्यति कामकारिकता एवं मे रूपं भवतु एवं मा भवतु ॥ इयं वेदना चे भिक्षवो आत्मा अभविष्यत्* न च वेदना आबाधाय दुःखाय संवर्तति ऋध्या एवं वेदनाया कामकारिकता एवम् मे वेदना भवतु एवं मा भवतु । यस्माद् भिक्षवः
[_म्वु_3.336_] वेदना अनात्मा तस्माद् वेदना आबाधाय दुःखसमुदयाय संवर्तति न चात्र ऋध्यति कामकारिकता एवं मे वेदना भवतु एवं मा भवतु ॥ इयं संज्ञा चेत्* भिक्षवो आत्मा अभविष्यन् न भवति संज्ञा आबाधाय दुःखाय ऋध्यति च कामकारिकता एवं मे संज्ञा भवतु एवं मा भवतु । यस्माद् भिक्षवः संज्ञा अनात्मा तस्मात् संज्ञा आबाधाय दुःखाय संवर्तति न चात्र ऋध्यति संज्ञाया कामकारिकता एवम् एव संज्ञा भवतु ॥ संस्कारा भिक्षवः आबाधाय संस्कारा चेद् भिक्षवः आत्मा अभविष्यन् न चैते संस्कारा आबाधाय दुःखाय संवर्तन्ति ऋध्या च संस्काराणां कामकारिकता एवं मे संस्कारो भवतु एवं मे मा भवतु । यस्माद् भिक्षवः संस्कारा अनात्मा तस्मात् संस्कारा आबाधाय दुःखाय संवर्तन्ति न चात्र ऋध्यति कामकारिकता एवं मे संस्कारा भवन्तु एवं मा भवन्तु ॥ विज्ञानं चेद् भिक्षवो आत्मा अभविष्यत्* नेदं विज्ञानम् आबाधाय दुःखाय संवर्तति ऋध्येच् च विज्ञानस्य कामकारिकता एवं मे विज्ञानं भवतु एवं मा भवतु । यस्माद् भिक्षवो विज्ञानम् अनात्मा तस्माद् विज्नानं आबाधाय दुःखाय संवर्तति न चात्र ऋध्यति कामकारिकता एवं मे विज्ञानं भवतु एवं मा भवतु ॥ तस्माद् इह भिक्षवो एवं शिक्षितव्यं ॥ यत् किंचिद् रूपं अध्यात्मा वा बहिर्धा वा औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यं दूरे अन्तिके वा अतीतानागतप्रत्युत्पन्नं वा सर्वं रूपं नैतं मम नैषो हम् अस्मि न एतद् आत्मेति एवम् एतं यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यं । या काचिद् वेदना या काचित् संज्ञा ये केचित् संस्कारा यं किंचिद् विज्ञानं अध्यात्मं वा बहिर्धा वा औदारिकं वा सूक्ष्मं वा
[_म्वु_3.337_] हीनं वा प्रणीतं वा यं दूरे अन्तिके वा अतीतानागतप्रत्युत्पन्नं वा सर्वं विज्ञानं नैतं मम नैषो हम् अस्मि न एतम् आत्मेति । एवम् एतं यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यं ॥ इदम् अवोचद् भगवां वाराणस्यां विहरन्तो ऋषिवदने मृगदावे इमस्मिं च पुनर् व्याकरणे भाष्यमाणे आयुष्मत आज्ञातकौण्डिन्यस्यानुपादायाश्रवेभ्यश् चित्तं विमुक्तं चतुर्णां च भिक्षूणां विरजं विगतमलं धर्मेषु धर्मचक्षु विशुद्धं आयुष्मतो अश्वकिस्य भद्रिकस्य वाष्पस्य महानामस्य त्रिंशतीनां च देवकोटीनां विरजं विगतमलं धर्मेषु धर्मचक्षुं विशुद्धं ॥ आत्तमना आयुष्मन्तो पंचका भद्रवर्गिका भगवतो भाषितम् अभ्यनन्दे ॥
___भगवान् सम्यक्संबुद्धो यद् अर्थं समुदागतो तम् अर्थम् अभिसंभावयित्वा वाराणस्यां विहरति ऋषिवदने मृगदावे ॥ तत्र खलु भगवां आयुष्मन्तां पंचकां भद्रवर्गिकां आमन्त्रयसि ॥ सचेद् मन्यथ भिक्षवः किंमूलिका उत्पद्यन्ति शोकपरिदेवदुःखदौर्मनस्य-उपायासाः संभवन्ति किंजातिका किंप्रभृतिका ॥ एवम् उक्ते आयुष्मन्ता पंचका भद्रवर्गीया भगवतम् एतद् उवाचत्* ॥ भवमूलका खलु भगवन्धर्मा भवनेत्रिका भगवन्भवप्रभवा भगवन्भवप्रतिशरणा साधु भगवां भिक्षूणाम् एतम् अर्थं भाषे । भिक्षू भगवतो संमुखाच् छ्रुत्वा संमुखात् प्रतिगृहीत्वा तथत्वाय धारयिष्यन्ति ॥ एवम् उक्ते भगवां पंचकां भद्रवर्गिकां एतद् अवोचत्* ॥ रूपमूलका भिक्षवः उत्पद्यन्ति शोकपरिदेवदुःखदौर्मनस्योपायासास् संभवन्ति रूपजातिका रूपप्रभृतिका । वेदनामूलका संज्ञामूलका संस्कारमूलका विज्ञानमूलका भिक्षवः उत्पद्यन्ति शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति विज्ञानजातिका विज्ञाप्रभृतिका ॥
___सचेन् मन्यथ भिक्षवो रूपं नित्यं वा अनित्यं वा ॥ अनित्यं हि तं भगवं ॥ रूपस्य
[_म्वु_3.338_] खलु पुनर् भिक्षवः अनित्यतां विदित्वा चलतां प्रभंगुणतां विपरिणामविरागनिरोधतां विदित्वा ये रूपप्रत्यया उत्पद्येन्सुः आश्रवा विघाता परिदाघा सज्वरा सांक्लेशिका पुनर्भविका आयत्यां जातिजरामरणीयास् ते विरुध्यन्ते । तेषां निरोधान् न उत्पद्ये आश्रवा विघाता परिदाघा सज्वरा सांक्लेशिका पौनर्भविका आयत्यां जातिजरामरणीया ॥ सचेत्* मन्यथ भिक्षवो वेदना संज्ञा संस्कारा विज्ञानं नित्यं वा अनित्यं वा ॥ अनित्यं हि तं भगवन्* ॥ भगवान् आह ॥ साधु भिक्षवो विज्ञानस्य खलु पुनर् भिक्षवः अनित्यतां विदित्वा चलतां प्रभंगुणतां विपरिणामविरागनिरोधतां विदित्वा ये विज्ञानप्रत्यया उत्पद्येन्सुः आश्रवा विघाता परिदाघा सज्वरा सांक्लेशिका पौनर्भविका जातिजरामरणीयास् ते निरुध्यन्ति व्युपशाम्यन्ति प्रहाणम् अस्तंगच्छन्ति । तेषां निरोधान् नोत्पद्यन्ति विज्ञानमूलका आश्रवा विघाता परिदाघा सज्वरा सांक्लेशिका पौनर्भविका आयत्यां जातिजरामरणीया विज्ञानजातिका विज्ञानप्रभृतिकाः । तस्माद् इह वो भिक्षवः एवं शिक्षितव्यं ॥ यत् किंचिद् रूपं अध्यात्मं वा बहिर्धा वा औदारिकं वा शूक्ष्मं वा हीनं वा प्रणीतं वा यं दूरे न्तिके अतीतम् अनागतं प्रत्युत्पन्नं सर्वं रूपं न एतं मम न एषो हम् अस्मि न एषो आत्मा ति एवं वो भिक्षवः शिक्षितव्यं ॥ या काचिद् वेदना या काचित् संज्ञा ये केचित् संस्कारा यत् किंचिद् विज्ञानं अध्यात्मं वा बहिर्धा वा औदारिकं वा शूक्ष्मं वा हीनं वा प्रणीतं वा यं दूरे अन्तिके वा अतीतानागतप्रत्युत्पन्नं नैते मम नैषो हम् अस्मि नैष आत्मा ति । एवम् एतं यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यं ॥ इदम् अवोचद् भगवान् वाराणस्यां विहरन्तो ऋषिवदने मृगदावे इमस्मिंश् च पुन व्याकरणे भाष्यमाणे आयुष्मान् आज्ञातकौण्डिन्यो बलवशीभावं प्रापुणेसि । चतुर्णां भिक्षूणां अनुपादायाश्रवेभ्यश्
[_म्वु_3.339_] चित्तानि विमुक्तानि आयुष्मतो अश्वकिस्य भद्रिकस्य वाष्पस्य महानामस्य पंचांगिकानां च देवकोटीनां विरजं विगतमलं धर्मेषु धर्मचक्षूंषि विशुद्धानि । आत्तमना आयुष्मन्ता पंचका भद्रवर्गिका भगवतो भाषितम् अभिनन्दे ॥
___भगवां सम्यक्संबुद्धो यद् अर्थं समुदागतो तम् अर्थम् अभिसंभावयित्वा वाराणस्यां विहरति ऋषिवदने मृगदावे । तेन खलु पुनः समयेन त्रयो भिक्षू वाराणसीं पिण्डाय प्रक्रमे । तेषां भिक्षूणां भगवां चेतसा चित्तानि अधिष्ठाय ओवदे अनुशासनं अनुशासे ॥ एवं भिक्षवः मनसा करोथ एवं मनसीकरोथ इमां वितर्कां वितर्कयथ आत्मद्वीपा भिक्षवो विहरथ अनन्यद्वीपा आत्मशरणा अनन्यशरणा धर्मद्वीपा धर्मशरणा अनन्यशरणा । तेहि ततो भिक्षवो आत्मद्वीपेहि विहरन्तेहि अनन्यद्वीपेहि धर्मद्वीपेहि धर्मशरणेहि अनन्यशरणेहि योनिशो उपपरीक्षितव्यं किंमूलका उत्पद्यन्ति शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति किंजातिका किंप्रभृतिका ॥ एवम् उक्ते भिक्षू भगवन्तम् एतद् अवोचत्* ॥ भवमूलका भगवन्धर्मा भवनेत्रिका भगवन्भवप्रभवाः भवप्रतिशरणा । साधु भगवां भिक्षूणाम् एतम् अर्थं भाषे भिक्षू भगवतः संमुखाच् छ्रुत्वा संमुखात् प्रतिगृहीत्वा तथत्वाय धारयिष्यन्ति ॥ एवम् उक्ते तां भिक्षू भगवान् एतद् अवोचत्* ॥ रूपमूलका भिक्षवो उत्पद्यन्ति शोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति रूपजातिका वा रूपप्रभृतिका वा । सचेत्* मन्यथ भिक्षवः रूपं नित्यं वा अनित्यं वा ॥ रूपं अनित्यं हीदं भगवन्* ॥ साधु भिक्षवः रूपस्य खलु पुनर् भिक्षवः अनित्यतां विदित्वा दुर्बलतां प्रभांगुणतां विपरिणामविरागनिरोधतां
[_म्वु_3.340_] विदित्वा ये रूपप्रत्यया उत्पद्यन्ति आश्रवा विघाता परिदाघा सज्वरा सांक्लेशिका पौनर्भविका आयत्यां जातिजरामरणीया ते निरुध्यन्ते ॥ सचेत्* मन्यथ भिक्षवः वेदना संज्ञा संस्कारा विज्ञानं नित्यं वा अनित्यं वा ॥ अनित्यं हीदं भगवन्* ॥ भगवान् आह ॥ साधु भिक्षवो विज्ञानस्य खलु पुनर् भिक्षवो अनित्यतां वा दुर्बलतां प्रभंगुणतां विदित्वा ते निरुध्यन्ति व्युशाम्यन्ति प्रहाणम् अस्तंगच्छन्ति । तेषां निरोधातो न उत्पद्यन्ति आश्रवा विघाता परिदाघा सज्वराः सांक्लेशिका पौनर्भविका आयत्यां जातिजरामरणीया निरुध्यन्ति । विज्ञानमूलका आश्रवा विघाता परिदाघा सज्वराः सांक्लेशिका पौनर्भविका आयत्यां जातिजरामरणीया विज्ञानजातिका विज्ञानप्रभृतिकाः । तस्माद् इह वो भिक्षवो एवं शिक्षितव्यं । यत् किंचिद् रूपं अध्यात्मं वा बहिर्धा वा औदारिकं वा शूक्ष्मं वा हीनं वा प्रणीतं वा यद्दूरे अन्तिके वा अतीतानागतप्रत्युत्पन्नं सर्वं रूपं नैतं मम नैषो हम् अस्मि नैष आत्मेति एवम् एव तं यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यं ॥ इदम् अवोचद् भगवां वाराणस्यां विहरन्तो ऋषिवदने मृगदावे इमस्मिंश् च पुनर् व्याकरणे भाष्यमाणे त्रयो भिक्षू बलवशीभावं प्रापुणेन्सुः अशीतीनां च देवकोटीनां विरजा विगतमला धर्मेषु धर्मचक्षूणि विशुद्धानि । आत्तमना ते भिक्षू भगवतो भाषितम् अभिनन्दे ॥
___अथ खलु भगवां आषाढमासस्य उत्तरपक्षे द्वादशीयं पश्चाभक्तः पुरस्तात् संमुखो निषण्णो ध्यर्धपौरुषायां छायायां अनुराधे नक्षत्रे विजये मुहूर्ते अनुत्तरं धर्मचक्रं प्रवर्तितं ॥ न खलु पुनर् बुद्धा भगवन्तो सुवर्णमयं वा धर्मचक्रं प्रवर्तेन्ति रूप्यमयं वा मुक्तामयं वा वैडूर्यमयं वा स्फटिकमयं वा मुसारगल्वमयं वा लोहितिकामयं
[_म्वु_3.341_] वा रीतिकामयं वा ताम्रमयं वा लोहमयं वा शैलमयं वा दारुमयं वा मृत्तिकामयं वा । अथ खल्व् इमान्य् एव चत्वार्य् आर्यसत्यानि त्रिपरिवर्तं द्वादशाकारं धर्मचक्रं ॥ प्रवर्तिते प्रथमं धर्मचक्रप्रवर्तनसूत्रे आयुष्मतो आज्ञातकौण्डिन्यस्य विरजो विगतमलं धर्मेषु धर्मचक्षुर् विशुद्धं अष्टादशानां देवकोटीनां च । इयं च महापृथिवी अतिरिव षड्विकारं कम्पे प्रकंपे संप्रकम्पे वेधे प्रवेधे संप्रवेधे दक्षिणतो अभिध्यायति वामतो पि अभिध्यायति वामदक्षिणतो पि अभिध्यायति संहर्षणीयं च कम्पयति दर्शनीयं च कम्पयति तोषणीयं च कम्पयति प्रेमणीयं च प्रल्हादनीयं च निर्वापनीयं च उल्लोकनीयं चासेचनकं चाप्रतिष्कूलं च प्रासादिकं च प्रसदनीयं च निरुद्वेगं च निरुत्त्रासं च कम्पति कम्पमाना च पुनर् महापृथिवी न कंचित् सत्वं व्याबाधति यद् इदं त्रसं वा स्थावरं वा भगवतो ऽनुभावेनाप्रमेयं च लोके ओभासम् अभूषि अतिक्रम्य देवानां देवानुभावं नागानां नागानुभावं यक्षाणां यक्षानुभावं । या पि ता लोकान्तरिका अन्धकारार्पिता वा तमसा तमसार्पिता अघा असंभूता असंभूतपूर्वा यत्रेमे चन्द्रमसूर्या एवं महर्द्धिका महानुभावा आभाये आभां नाभिसंभुणन्ति आलोकेन वालोकं न स्फुरन्ति ता पि तेनावभासेन स्फुटा अभून्सुः । ये पि तत्र सत्वा उपपन्ना ते प्य् अन्यमन्यं संजानेन्सुः अन्ये पि किल भो इह सत्वा उपपन्ना अन्ये पि किल भो इह सत्वा उपपन्ना एकान्तसुखसमर्पिता च पुनस् तत्क्षणं तत्मुहूर्तं सर्वसत्वा अभून्सुः ये पि चावीचिस्मिं महानरके उपपन्नाः ॥
___भगवाम् धर्मचक्रं प्रवर्तेन्तो एकषष्टिं त्रिसाहस्रमहासाहस्रलोकधातूं भाषमाणस्वरेणाभिविज्ञापेति
[_म्वु_3.342_] ततो च परेण बुद्धक्षेत्राणि । ये च तस्मिं समये बुद्धा भगवन्तो तेषां तेषां च परलोकधातुषु परिषदि धर्मं देशेन्ति ते भगवतो धर्मचक्रं प्रवर्तेन्तस्य तूष्णी अभून्सुः ॥ दुःप्रसहो सम्यक्संबुद्धो परिषदि धर्मं देशयति । भगवां दुःप्रसहो तूष्णी अभूषि बुद्धघोषो च निश्चरति । विस्मिता परिषा भगवन्तं दुष्प्रसहं पृच्छति ॥ भगवं बुद्धघोषो निश्चरति । तस्मिं निश्चरन्ते तूष्णी अभूल् लोकनाथो दुष्प्रसहो विस्मिता परिषत्कलविंकमंजुघोषो मेघस्तनितदुन्दुभिस्वराभिगमो निश्चरति बुद्धघोषो न जल्पति वादीनां प्रवरो भगवान्* ॥ दुष्प्रसहो आह ॥
लोकधातु महानाम तत्र शाक्यमुनिर् जिनः ।
धर्मचक्रं प्रवर्तेति यस्य घोषो निश्चरति ॥
लोकधातुसहस्राणि असंख्येयानि घोषये ।
श्रूयति वरबुद्धिस्य यथा दूरे थ सन्तिके ॥
एवं महानुभावो यं परिपूर्णमनोरथो ।
संविभागं प्रवर्तेति संबुद्धो बोधियर्थिनां ति ॥
येन स्वरेण समन्वागतस् तथागतो र्हं सम्यक्संबुद्धो वाराणस्यां ऋषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारं अनुत्तरं धर्मचक्रं प्रवर्तयति सो स्वरो षष्टिभिर् आकारैः समन्वागतः । कतमैः षष्टिभिः । गम्भीरश् च तथागतस्वरो भीमरूपश् च आज्ञेयश् च हृदयंगमश् च
[_म्वु_3.343_] प्रेमणीयश् च असेचनकश् च अप्रतिवाणीयश् च विसृष्टश् च अप्रतिकूलश् च अवर्णश् च अच्छिद्रश् च अप्राग्भारश् च अकल्माषश् च रथनेमिघोषश् च मेघस्तनितमेघगर्जितस्वरश् च वातवृष्टिस्तनितसमगर्जितस्वरश् च देवस्वरश् च ब्रह्मस्वरश् च अनुकूलस्वरश् च अदुष्टस्वरश् च अमूढस्वरश् च अनुत्सन्नश् च अनुत्सदश् च अक्षुभितश् च अर्थस्वरश् च सत्यस्वरश् च श्रीमत्स्वरश् च पुंगवस्वरश् च सिंहस्वरश् च नागस्वरश् च आजानेयस्वरश् च क्रौञ्चस्वरश् च कलविंकस्वरश् च कोकिलस्वरश् च वर्ण्णस्वरश् च मंजुस्वरश् च विज्ञानस्वरश् च अक्षरसंपन्नश् च विज्ञानसंपन्नश् च मृदुसंपन्नश् च विस्तारसंपन्नश् च कुशलजातसंपन्नश् च सत्यविस्तरसंपन्नश् च कुशलमूलजातसंपन्नश् च सुस्वरसम्पन्नश् च हर्षणीयसंपन्नश् च तन्त्रीस्वरश् च गीतस्वरश् च वादितस्वरश् च कुम्भस्वरश् च पुरुषस्वरश् च अतिस्वरश् च दुन्दुभिस्वरश् च अनुत्तरस्वरश् च तथागतस्वरः ॥ सर्वदिशां पुनस् तथागतस्वरः स्फुरति न कहिंचित् प्रतिहन्यते । येन स्वरेण समन्वागतः तथागतो अर्हन् सम्यक्संबुद्धो वाराणस्यां ऋषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारं धर्मचक्रं प्रवर्तेति सो स्वरो एभिः षष्टिभिः आकारैः समन्वागतः ॥
___अथ खलु महाब्रह्मा ताये वेलाये भगवन्तं संमुखाभिः सारूप्यगाथाभिर् अभिस्तवे ॥
सत्वसारवराग्रेण इक्ष्वाकुकुलसंभवे ।
धर्मचक्रं प्रवर्तेन्तेन मेदिनी संप्रकम्पिता ॥
उत्पाता च नाम भीष्मा अशीतिं समपद्यथ ।
धर्मचक्रस्य तेजेन अशीतिं पुनर् भूमिजा ॥
ओघपुष्पविचित्रांगा उत्पतन्ति वलाहका ।
काशीहितकरं नाथं ओकिरेन्सुर् नरोत्तमं ॥
[_म्वु_3.344_] जता इव प्रमुक्तांगी उत्पतन्ति वलाहका ।
हेमकंबुधरा भीमा मेघा कुसुमसंचया ॥
श्रुत्वान नरसिंहस्य धर्मकायम् उपस्थितं ।
सनत्कुमारो चिन्तेति संस्तवामि तथागतं ॥
सो च भूतेन वर्णेन प्रभाये सुविजानितं ।
संस्तवे गगने स्थाने ब्रह्मा सर्वार्थदर्शिनं ॥
बुद्धसागरपर्यन्तां निषण्णो रतनावतीं ।
कंपेति यो त्रिसाहस्रां वजिरं क्षिपसि गौतम ॥
आलोकमात्रसंविग्ना दिशा दश समन्ततो ।
त्वया आयुधश्रेष्ठस्मिं क्षिप्तस्मिं पुरुषोत्तमं ॥
उत्क्षिपयन्तो विपर्यासा दृष्टिगहननिश्रितां ।
नागराजो नरेन्द्राग्रो राजे सिंहगतिर् जिनः ॥
सिंहो यथा असन्त्रस्तो पर्वतान्तरनिश्रितो ।
त्रासयन्तो अरीं सर्वां राजे सिंहगतिर् जिनः ॥
मारपक्षं अभ्याहत्यं मारसेनाग्रसूदन ।
दक्षिणेन व व्यूहन्तो उच्छ्रयेसि जिनध्वजं ॥
महारतननिर्घोषा कंपते सा न सीदति ।
स्वरेण वदतोत्थाप्यानुस्मृता वसुन्धरा ॥
हेमकांचनवर्णाभं धातुम् उत्तममुत्तमाः ।
मुनिं समन्ता अभिकिरेन्सुः मेरुगगणम् आश्रिताः ॥
[_म्वु_3.345_] प्रसन्नचित्तो सुमनो प्रांजलिप्रणतेन्द्रियः ।
धर्मचक्रं अहं श्रुत्वा तेन अस्मि इहागतो ॥
भगवता प्रथमे धर्मचक्रप्रवर्तनसूत्रे आज्ञातकौण्डिन्यः अष्टादशा च देवकोटीयो विनीता ते देवा देवभवनेषु आरोचेन्ता स्वकस्वकानि भवनानि गच्छन्ति ॥
सर्वे अशरणा स्कन्धा अधितप्ता महद्भया ।
अनिःसृता असारा च इति भाषति गौतमो ॥
अलं भवां प्रसादाय . . . तत्वार्थदर्शिमां ।
बुद्धं वैरभयातीतं अभिक्रमथ वन्दनां ॥
त्रिंशद् देवताकोटीयो ऋषिवदनम् आगता । ते द्वितीये धर्मचक्रप्रवर्तनसूत्रे भाष्यमाणे विनीतास् ते पि भवनेषु रोचेन्ता स्वकस्वकानि भवनानि गच्छन्ति । तेषां श्रुत्वा पंचाश देवताकोटीयो आगताः ते पि भगवता तृतीये धर्मचक्रप्रवर्तनसूत्रे विनीतास् ते पि देवभवनेषु आरोचेन्ता स्वकस्वकानि भवनानि गच्छन्ति । तेषां श्रुत्वा अशीति देवताकोटीयो आगता ते पि भगवता चतुर्थे धर्मचक्रप्रवर्तनसूत्रे विनीतस् ते पि देवभवनेषु आरोचेन्ता स्वकस्वकानि भवनानि गच्छन्ति ॥
___अथ खलु शिखरधरो नाम तुषितकायिको देवपुत्रो भगवन्तं ऋषिवदनं गतं संमुखाभिर् गाथाभिर् अभिस्तवे ॥
सगारवो सप्रतीसो ब्रह्मा कृत्वानम् अंजलिं ॥
साधु ते साधुरूपस्य व्यामप्रभा प्रतिपद्यते ।
साधु अर्थान्वितं साध्यं वचनं ते मनोरमं ॥
[_म्वु_3.346_] साधु अरतिसंयोगः सर्वसन्धिगुणान्वितः ।
साधु चत्वारि सत्यानि सत्यं प्रवदसे मुने ॥
साधु ते देवगन्धर्वा पिबन्ति मधुरां गिरां ।
साधु अप्रतिमं चक्रं प्रवर्तेसि अप्रवर्तियं ॥
तुह्यं लोके समो नास्ति रूपे वर्णे कुले तथा ।
ईर्यापथे च वीर्ये च ध्याने ज्ञाने तथैव च ॥
अद्य अष्टादशा वीर कोटीयो प्रथमे फले ।
विनीता देवपुत्राणां आसने प्रथमे मुनि ॥
त्रिंशच् च कोटीयो पुनर् विनीता प्रथमे फले ।
द्वितीय आसने वीर देवपुत्राण मारिष ॥
पंचाश कोटीयो भूयो आसने तृतीये पुनः ।
विनीता देवपुत्राणां अपायेषु विमोचिता ॥
अशीति कोटीयो भूयो श्रोतापत्तिफले विभु ।
चतुर्थे आसने नीता दुर्गतीषु विमोचिता ॥
तस्मात् ते सदृशो नास्ति मैत्र्याय पुरुषोत्तम ।
करुणाय च कारुणिको अकुतोभय नरर्षभ ॥
दिष्ट्या पुरुषशार्दूल उत्पन्नो लोकसुन्दरो ।
हिताय सर्वसत्वानां चिरन् तिष्ठ महामुने ॥
अचिरस्य राजसुत उत्पन्नो सि नरर्षभ ।
प्रणेता विप्रणष्टानां अन्धानां नयनं ददा ॥
नास्मासु कदाचिद् भूत्वा गुरुर् अन्तरहायतु ।
[_म्वु_3.347_] अपर्यन्तं तव स्थानं भवतु लोकनायक ॥
अपाया तत्रान्तीभूता स्वयंभू तव तेजसा ।
निराकाशो कृतो स्वर्गो त्वां प्राप्य पुरुषोत्तम ॥
यो मिथ्यत्वनियतो राशि पुरुषपुंगवोत्तम ।
एष अनियतं राशिं त्वां प्राप्य पूरयिष्यति ॥
यश् चाप्य् अनियतो रशि त्वां प्राप्य सुरवन्दित ।
पूरयिष्यति सम्यक्त्वराशिं राजकुलोदित ॥
अद्भुतानां च धर्माणां विवृद्धिर् उपलभ्यते ।
त्वां प्राप्य पुरुषादित्यं तमोन्तकरम् अच्युतं ॥
तस्य ते भाषमाणस्य भूतां धर्मां जनप्रिय ।
अभिनन्दति ते वाक्यं सेन्द्रो लोको महामुने ॥
इति स्तुवन्ति देवगणा वरदं प्रीतिमानसं ।
अनन्तगुणसंपन्नं सार्थवाहनरोत्तमम् इति ॥
भिक्षू भगवन्तम् आहंसुः ॥ कस्य भगवन् कर्मस्य विपाकेन आयुष्मता आज्ञातकौण्डिन्येन सर्वप्रथमं धर्मं आज्ञातं ॥ भगवान् आह ॥ एतस्यैवैष भिक्षवः पूर्वप्रणिधानं ॥ भूतपूर्वं भिक्षवो अतीतम् अध्वानं राजगृहे नगरे कुम्भकारशालायां प्रत्येकबुद्धेन पित्तव्याधिकेन प्रतिश्रयो याचितो । सो तेन कुम्भकारेण उपस्थितो च पित्ताबाधातो मोचितो ॥ तेन दानि प्रत्येकबुद्धेन ये परिचारिता प्रत्येक्बुद्धा ते तहिं भार्गवशालां तस्य प्रत्येकबुद्धस्य पित्तव्याधिकस्य क्षेमणीयपृच्छा आगता ॥ भार्गवो प्रत्येकबुद्ध्ं ततो पित्ताबाधातो मोचेत्वा पृच्छति । केन वो प्रथमं धर्मं आज्ञातं ॥
[_म्वु_3.348_] सो प्रत्येकबुद्धो आह ॥ मया सर्वप्रथमं धर्मो आज्ञातो पश्चाद् एतेहि ॥ सो दानि भार्गवो प्रणिधानम् उत्पादेति । यं मया कुशलमूलम् उपचित्ं तव उपसंस्थानपरिचर्यां कृत्वा तेन कुशलमूलेन अहम् अपि सर्वप्रथमं बुद्धस्य भगवतो धर्मं देशितम् आजानेयं । न च लाभसत्कारं स्पृहयेयं प्रान्तानि च शय्यासनानि स्पृहयेयं इतरेतरेण च पिण्डपात्रेण सन्तुष्टो भवेयं निर्झरेषु च वनखण्डेषु एकस्य मृतभूतस्य शरीरनिक्षेपनं भवेय ॥ भगवान् आह ॥ स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन राजगृहे नगरे भार्गवो अभूषि न खल्व् एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एष स भिक्षवः आज्ञातकौण्डिन्यस्थविरस् तेन कालेन तेन समयेन राजगृहे भार्गवो अभूषि । यं से त्स्य प्रत्येकबुद्धस्य पित्ताबाधिकस्य प्रतिश्रयं दिन्नं च पारिचर्या कृता प्रणिधानं च उत्पादितं यथा तव सर्वप्रथमं धर्मो आज्ञातो पश्चाद् अन्येहि एवम् अहं पि सर्वप्रथमं बुद्धस्य भगवतो धर्मं देशितम् आजानेयं तस्य कर्मस्य विपाकेन तेनाज्ञातकौण्डिन्येन सर्वप्रथमं धर्मं आज्ञातं पश्चाद् अन्येहि ॥
यं कुशलमूलम् उपचितम् अशनवसनभक्ष्यपारिचरियाये ।
तेन कुशलमूलेन् पुरुषवरसमागमो भवतु ॥
यथा त्वया सर्वप्रथमं धर्मो आज्ञातो पश्चान्येहि ।
एवम् अहं सर्वप्रथमं देशितम् आजानेयं जिनस्य ॥
अल्पेच्छः संतुष्टः इतरेतरपिण्डकेन यापेन्तो ।
प्रशमसुखवृंहितमनो न लाभसत्कारं स्पृहयेयं ॥
प्रान्तारण्य मृहयूथपर्यटिता पर्वतानि . . . . . ।
तत्र मम निधनसमये शरीरनिक्षेपणो भवेया ॥
[_म्वु_3.349_] सत्कृत असत्कृता वा आयुर् विज्ञानं उष्मगता व ।
कस्य जनेति प्रीतिर् धरणिरजसमे मृतशरीरे ॥
_____आज्ञातकौण्डिन्यस्य जातकं समाप्तं ॥
भिक्षू भगवन्तम् आहन्सुः ॥ भगवता आत्मपरित्यागानि कृत्वा पुत्रपरित्यागानि कृत्वा दारापरित्यागानि कृत्वा अर्थपरित्यागानि कृत्वा राज्यपरित्यागानि च कृत्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धित्वा आयुष्मान् आज्ञातकौण्डिन्यः महता अर्थेन संयोजितः ॥ भगवान् आह ॥ न भिक्षव एतरहिम् एव मया एष आज्ञातकौण्डिन्यो महता अर्थेन संयोजितो । अन्यदापि एषो मया आत्मत्यागं कृत्वा महता अर्थेन संयोजितः ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि भिक्षवो ॥
___भूतपूर्वं अतीतमध्वाने कोशलराजा अभूषि कृतपुण्यो महेशाख्यो महाबलो महाकोशो महावाहनो । तस्य च राज्यं ऋद्धं अभूषि स्फीतो च क्षेमो च सुभिक्षो च आकीर्णजनमनुष्यो च सुखितमनुष्यो च प्रशान्तदण्डडिम्बडमरः सुनिगृहीततस्करो व्यवहारसंपन्नो धर्मेण परिपालियन्तो । तस्य च राज्ञो देशे देशे कल्याणकीर्तिशब्दश्लोको दायकदानपतिसत्कृतः परानुग्रहप्रवृत्तो परलोकदर्शी ॥ तस्य धार्मिको ति कृत्वा अपरलोकदर्शी काशिराजा तस्य तं कोशलराज्यं अतिक्रामितुकामो चतुरंगं बलकायं संनाहयित्वा हस्तिकायम् अश्वकायं रथकायं पत्तिकायं तं कोशलविषयं आगतो ॥ तस्य कोशलराजस्य अमात्येहि भटबलाग्रेण च काशिराजो
[_म्वु_3.350_] भग्नो एकांशेन पलानो सर्वो बलाग्रो भिन्नो ॥ सो अपरकालेन भूयो चतुरंगेन बलकायेन आगतो पुनर् अपि भग्नो गतो ॥ एवं सो काशिराजा पुनर्पुनश् चतुरंगेन बलकायेन तं कोशलविषयं आगच्छति ॥ तत्र बहूनि प्राणिसहस्राणि उभयतो अन्यमन्यस्य असिशरशक्तितोमराणि काये उपनिपातेन्ता अनयव्यसनम् आपद्यन्ति ॥ तस्य कोशलराज्ञो धार्मिकस्य सकृपस्य परलोकदर्शिस्य तानि प्राणसहस्राणि अनयव्यसनम् आपद्यन्तानि दृष्ट्वा चित्तस्य संवेगम् उत्पन्नं अधिगतं राज्यं राज्यलोभेन जननिधनं इमं एवरूपं अधर्मं क्रियति ॥ सो संविग्नो तं राज्यं उज्झित्वा एक अद्वितीयो अज्ञातवेशेन दक्षिणापथं गच्छति तत्र येन केनचिद् व्यवहारेण आत्मनो वृत्तिं कल्पयिष्यामि ॥
___सो दानि गच्छन्तो अध्वानकिलांतो वातातपसंतप्तो न्यग्रोधस्य हेष्ठा शीतलायां छायायां विश्रमन्तो आसति अपरो च समुद्रयात्रिको सार्थवाहो विपन्नयानपात्रो सर्वेण अर्थेन समुद्रे विनष्टेन दक्षिणातो समुद्रातो कोशलं आगच्छति ॥ शृणोति कोशलराजा धार्मिको सकृपो च परानुग्रहप्रवृत्तो च बहूनि प्राणसहस्राणि पतन्तानि धनक्षीणान् अभ्युद्धरति अर्थमात्राये परिग्रहं करोति इति सो मे अर्थमात्रं दास्यति येन पुनर् व्यवहारं करिष्यामि आत्मानं च पतितं उद्धरिष्यामि ॥ सो दानि तं कोशलराजं आशां कृत्वा दक्षिणापथातो अनुपूर्वेण कोशलराज्ञो विषयम् अनुप्राप्तः ॥ सो तहिं न्यग्रोधे कोशलराज्ञो सकाशम् आगतो ॥ राजा तं सार्थवाहं पृच्छति । धर्मभ्राते मा श्रान्तो सि क्लान्तो वासि विश्रम इमा शीतला न्यग्रोधच्छाया त्वं चाध्वाक्लान्तो ॥ सो दानि आह ॥ धर्मभ्राता सुखन् ते भवतु गमिष्यामीति ॥ राजा दानि आह ॥ धर्मभ्राता ते कहिं त्वरितं गमनप्रयोजनं यं नेच्छसि विश्रमितुं पि ॥ सो दानि आह ॥ अहं भद्रमुख अमुकातो अधिष्ठानातो
[_म्वु_3.351_] सार्थवाहो समुद्रयात्रिको । सो अहन् ततो स्वकातो अधिष्ठानातो प्रभूतेनार्थेन नानाप्रकारं पण्यम् आदाय समुद्रपत्तनेषु युक्तेन यानपात्रेण महान्तं समुद्रम् ओतीर्णो । तत्र मे महासमुद्रे तं यानपात्रं अर्थभरितं विपन्नं फलकेनाहं समुद्रातो जीवन्तो प्रत्युत्तीर्णो शरीरमात्रेण । सो हं गच्छामि कोशलराज्ञो सकाशं अर्थमात्रस्य अर्थाये येन पुनः व्यवहारं करेयं पतितं चात्मानं उद्धरेयं । एताये आशाये एवं दूरतो स्मि चरन्तो आगतो ॥
___सो दानि कोशलराजा तस्य सार्थवाहस्य वचनं श्रुत्वा प्रारोदीद् अश्रूणि च प्रवर्तेति ॥ सार्थवाहो तं आह ॥ भद्रमुख किं रोदसि ॥ राजा आह ॥ रोदयामि यं त्वं विपन्नयानपात्रो आशाभूतो दूरतो मम उद्दिश्य आगतो कोशलराजा मम अर्थमात्राये संग्रहं करिष्यति येन पुनर् व्यवहारं च करिष्यामि पतितं चात्मानम् उद्धरिष्यामि । मम च तं राज्यं काशिराज्ञा आक्रान्तं शरीरमात्रेण दक्षिणापथं प्रयातो येन केनचिद् व्यवहारेण आत्मनो वृत्तिं कल्पयिष्यामि । एवं रोदामि यत् त्वं मम शब्देन एवं दूरं आगतो इमा च मम एदृशा विपत्ती राज्यतो स्मि परिभ्रष्टो ॥ सो दानि सार्थवाहो तं कोशलराजानं गाथाये अध्याभाषे ॥
तव प्रवादेन हि त्यागशूर
दूरतो श्रुत्वा इह आगतो स्मि ।
मनोरथाशाबलवृंहिता मे
आशा निराशा कृत दर्शनेन ॥
राजा आह ॥
मनोरथशतान अहं प्रदाता
सदेवमनुजे सदृशो न मे स्ति ।
[_म्वु_3.352_] प्राणां त्यजिष्यं तव कारणाय
मा मे प्रवादो वितथो भवेया ॥
सो दानि राजा तं सार्थवाहं निराशं मूर्छित्वा भूम्यां पतितं समाश्वासयति त्वं दूरतो ममाशाभूतो उद्दिश्य इहागतो अहं तत्र तथा करिष्यामि यथा तव निष्फलं आगमनं न भविष्यति । तव कारणेनात्मानं परित्यजिष्यामि ॥ मम पश्चाद् बाहुं बंधित्वा काशिराज्ञो उपनामेहि । ततो ते काशिराजा तुष्टो प्रभूतं अर्थं दास्यति । कामं अहं आत्मानं परित्यजामि मा पुनस् तव निष्फला ममोद्दिश्य आशा भवतु ॥ सो दानि सार्थवाहो आह ॥
न उत्सहामि पुरुषर्षभस्य प्रचर्तुं पापं धनकारणार्थं ।
यथाश्रवो तादृशं दर्शनन् ते सुदुष्करं क्रियति लोकपण्डित ॥
राजा आह ॥
किं जीवितफलं येषां लोके श्रवो न महाभगो ।
अर्थार्थो न उपगतो भग्नप्रणयो निवर्तेय ॥
कामं शत्रुभिर् वधिष्यं सुदुष्करं
कामं शत्रुश् छेत्स्यति मह्य गात्रं ।
कामं हि प्राप्स्यं वेदनाम् अतितीव्रां
दुःखं सहिष्यं मा च ते स्यान् निराशा ॥
सो च काशिराजा कोशलराज्ञो जीवितेन नन्दति प्रत्यहश् चैवं घोषयति यः कोशलराज्ञो शीर्षम् आनयति तस्य महान्तं दानं ददामीति ॥ यावत् तेन कोशलराज्ञा
[_म्वु_3.353_] पुनर्पुनर् उच्यमानेन स कोशलराजा सार्थवाहेन पश्चाद् बाहुबन्धनं कृत्वा काशिराज्ञो उपनामितं ॥
___काशिराजा आह ॥ अहो अयं राजा शूरश् च कृतयोग्यश् च कथं त्वया बध्वा आनीतः ॥ यावत् तेन सर्वम् आत्मनः आगमनकारणं कथितं काशिराजा च विस्मयजातः आह ॥ न युक्तम् अस्माकं एवं धार्मिकस्य राज्ञो राज्यम् अपहर्तुम् इति ॥ पुनर् अपि कोशलराजानं स्वके राज्ये अभिषिंच्य काशिराज्यं गतः । यावत् तेन कोशलराज्ञा सार्थवाहस्य महान्तं धनस्कंधं दत्तम् इति ॥
___स्यात् खलु पुनः भिक्षवो युष्माकम् एवम् अस्याद् अन्यः स कोशलराजा । नान्यस् तदा अहं स भिक्षवस् तदा कोशलराजा अभूषि ॥ नान्यो द्रष्टव्यः आज्ञातकौण्डिन्यः तदासार्थवाहो अभूषि ॥ तदापि मया आत्मपरित्यागं कृत्वा एषो महता अर्थेन संयोजितः एतरहिं पि मया बहूनि दुःखपरित्यागशतानि परित्यजित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धित्वा महतार्थेन संयोजितः ॥
_____समाप्तं आज्ञातकौण्डिन्यस्य जातकं ॥
भिक्षू भगवन्तम् आहन्सुः ॥ भगवता पंच भद्रवार्गीया अन्यतीर्थिकसंश्रिता दारुणेन दृष्टि-ओघेन वुह्यमाना ततो दृष्टिगतिषु विनिवर्तियित्वा भयभैरवातो संसारसागरातो उद्धरित्वा क्षेमस्थले शिवे शमे अभये निर्वाणे प्रतिष्ठापिताः ॥ भगवान् आह ॥ न भिक्षवः एतरहिम् एव पंचका भद्रवर्गिका मया संसारसागरातो तारिता अन्यदापि मया एते महासमुद्रातो भग्नयानपात्रा अलेना अत्राणा अशरणा अपरायणाः कृच्छ्रप्राप्ता व्यसनम् आगता आत्मपरित्यागं कृत्वा महासमुद्रातो स्वस्तिना प्रतिष्ठापिताः ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवं ॥ भगवान् आह ॥ अन्यदापि भिक्षवः ॥
[_म्वु_3.354_]___भूतपूर्वं भिक्षवो अतीतमध्वाने जम्बुद्वीपे वाणिजका धनहेतुना यानपात्रेण महासमुद्रम् अवतीर्णास् तेषां तं यानपात्रं मकरेण मत्स्यजातेन भिन्नं तहिं तहिं ये केचिद् वाणिजा . . . . . . . . . . . . . . . . . . बाहाहि प्लवन्ति सार्थवाहेनापि किंचित् पूर्वं प्रतिपन्नं सो पि बाहाहि समुद्रे प्लवति ॥ तस्य दानि सार्थवाहस्य समीपे पंच वाणिजका बाहाहि सार्थवाहेन सार्धं महासमुद्रे प्लवन्ति ॥ सार्थवाहस्यैतद् अभूषि ॥ नास्माभिः शक्यं बाहाहि इमं महासमुद्रं तरितुं इहास्माभिः सर्वेहि मरितव्यं श्रुतं च मे महासमुद्री मृतकुणपेन सार्धं रात्रिं न प्रतिवसति । यं नूनाहं देहपरित्यागं कृत्वा इमां पंच वाणिजां इतो महासमुद्रातो स्वस्तिना स्थलं प्रापयेयं ॥ सार्थवाहस्य च शस्त्रं व हस्तगतं आसी । सो तेषां पंचानां वाणिजकानां आह ॥ मम सर्वे लग्नथ अहं वो स्वस्तिना महासमुद्रातो स्थले प्रतिष्ठापयिष्यामि ॥ ते दानि तत्र उदके अप्रतिष्ठे अनालम्बे सर्वे पंचका वाणिजकाः सार्थवाहस्य लग्ना ततो सार्थवाहेन शस्त्रेण स्वगलकं विकर्तितं न महासमुद्रो मृतकुणपेन सार्धं रात्रिं प्रतिवसति ॥ अथ खलु भिक्षवो क्षिप्रम् एव महासमुद्रेण तं कुणपं स्थले वास्थापितं ॥ ते दानि सर्वे पंच वाणिजकाः सागरवेगेन कुणपेन सार्धं स्थलं क्षिप्ता । इयं ज महापृथिवी अतिरिव संप्रचलिता महंतो च भूतानां निनादो अभूषि । देवा नागा यक्षा असुरा महासमुद्रे किम् इदं ति उदीरिन्सुः ॥ महासमुद्रदेवता आह ॥ एषो बोधिसत्वो वाणिजकेहि सार्धं यानपात्रेण महासमुद्रम् अवतीर्णः तेषां तं यानपात्रं मकरेण मत्स्यजातेन भिन्नं येहि च वाणिजकेहि पूर्वं प्रतिपन्नं ते बोधिसत्वेनात्मपरित्यागेन महासमुद्रातो स्थलं प्रापिता ।
[_म्वु_3.355_] मयं प्रमत्तविहारा येहि न समन्वाहृतं एवं दुष्करकारका बोधिसत्वा सर्वसत्वानां अनुग्रहप्रवृत्ता ॥
भूतपूर्वम् अतीतं बोधाय चरन्तो वादिप्रवरो ।
ओतीर्णो लवणजलं तिमिमकरनिसेवितं रम्यं ॥
अथ मत्स्येन मकरेण भग्नं पात्रं जले समुद्रस्मिं ।
सो वाणिजो विसार्थो परिप्लवति सागरे धीरो ॥
अत्राणां अनभिसरां दुःखार्दितां वाणीजा विदित्वान ।
संचिन्तयति उपायं कथं दुःखितां सुखये सत्वा ॥
तस्यासि परिवितर्को श्रुतं मया सागरो मृतकुणपेन ।
न संवसति लवणसलिलो तिमिमकरनिषेवितो रजनीं ॥
त्यजेयम् आत्मानं मा वाणिजका सागरे विनस्यन्ते ।
इति दृढमतिस्य बुद्धी चित्तचरितपारमिगतस्य ॥
या एष महाकरुणा . . . . हितेषी सर्वसत्वेषु ।
समुपचिता दीर्घरात्रं सास्य भजहे चित्तसंतानं ॥
सो अवच वाणिजगणं आत्मं त्यजिष्यामि श्लिष्यथ ममांगे ।
न हि लवणसलिलदेवता धरेति रजनीं मृतशरीरं ॥
तीक्ष्णं ग्रहेत्व शस्त्रं निवर्तये आत्मनो . . . शरीरं ।
क्षिप्रं समुद्रतीरं वाणिजका सर्वे उपनीता ॥
अतिप्रचलिता गिरिधरा सनगरनिगमा सशैलवनषण्डा ।
[_म्वु_3.356_] सागर सदानवपुरा सभुजगभवना च संक्षुभिता ॥
किम् इदं ति जनो पर्वतवनदेवता भुजंगा कथयेन्सुः ।
. . . . . प्रतिभणे लवणसलिलदेवता दुःखिता ॥
एषो गजसत्वसारो बोधाय चरन्तो वादिप्रवरो ।
उत्तीर्णो लवणसलिलं ममेदं न विदितं प्रमत्ताये ॥
सो भिन्नयानपात्रो परिपूरति सागरे नरप्रवरो ।
आत्मं प्रियं परित्यजि परजनपरिमोचनार्थाय ॥
तस्यैवं अनुभावा प्रचलिता वसुंधरा ससागरमेरु ।
गुह्यक सदानवपुरा सभुजगभवना च संक्षुभिता ॥
कथं नाम सर्वसत्वा शक्ता प्रतिकर्तुं सत्वसाराणां ।
बोधाय चरन्तानां प्राग् एव सर्वज्ञभूतानां ॥
यस् तु जिनशासनस्मिं प्रतिपन्नो भवति सर्वभावेन ।
एतावता प्रतिकृतं भवति हि गजसत्वसारस्य ॥
भगवान् आह ॥ स्यात् खलु पुनर् भिक्षवो युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन सार्थवाहो अभूषि । नैतद् एवं द्रष्टव्यं । तत् कस्य हेतोर् अहं स भिक्षवः सार्थवाहो अभूषि ॥ नान्ये ते पंच वाणिजकाः । एते ते पंचका भद्रवर्गिकास्तदापि ते एते मया आत्मपरित्यागं कृत्वा महासमुद्रातो स्वस्तिना स्थले प्रतिष्ठापिता एतरहिं पि मया आत्मपरित्यागं कृत्वा संसारातो तारिता निर्वाणे प्रतिष्ठापिताः ॥
_____समाप्तं पंचकानां भद्रवर्गिकानां जातकं ॥
भिक्षू भगवन्तम् आहन्सुः ॥ भगवता सदेवमानुषाये परिषाये धर्मं देशितं ॥
[_म्वु_3.357_] भगवान् आह ॥ न भिक्षवः एतरहिं एव अन्यदापि मया भिक्षवो सदेवमानुषाये परिषाये धर्मं देशितं ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि भिक्षवो ॥
___भूतपूर्वं भिक्षवः अतीतमध्वाने नगरे वाराणसीये काशिजनपदे कलभो नाम राजा राज्यं कारयति रौद्रो निष्कृपो साहसिको ॥ सो दानि अन्तःपुरे उद्यानभूमिं निर्धाविते अन्तःपुरिकाहि सार्धं पुष्करिण्यां उदकक्रीडां क्रीडति ॥ उत्पलपदुमपुण्डरीकसौगन्धिकानि भंजित्वा क्रीडित्वा रमित्वा प्रविचारेत्वा अन्तःपुरेण सार्धं रतिक्लान्तो ॥ ओसुप्तेन राज्ञा अन्तःपुरो तां उद्यानभूमिं प्रविचीर्णो ॥ क्षान्तिवादो ऋषि उत्तरकुरुद्वीपातो ऋद्धीये आगत्वा तहिं उद्यानभूमीयं आसति ॥ सो दानि अन्तःपुरिकाहि तहिं उद्यानभूमियं अण्वन्तीहि दृष्टो ॥ ता दानि ऋषिं महाभागं दृष्ट्वा प्रसन्नचित्ता पर्युपासन्ति भगवं देशेहि नो धर्मं ॥ सो दानि ऋषी तासाम् अन्तःपुरिकानां धर्मं देशयति । दानकथां शीलकथां स्वर्गकथां पुण्यकथां पुण्यविपाककथां कामेषु भयं ओकारं संकिलेशं नैष्क्रम्यानुशंसाव्यवदानं संप्रकाशयति । दश कुशलां कर्मपथां सुखोदयां लोके देवमनुजानां शुक्लां सुखविपाकां तासां ऋषिप्रवरो प्रकाशयति ॥ ता दानि अन्तःपुरिका एकाग्रचित्ता ऋषिं पर्युपासन्ति ॥ राजा च प्रतिविबुद्धो अन्तःपुरं न पश्यति । सो दानि रुषितो असिं निष्कोशं कृत्वा अन्तःपुरं पदेन अन्वेषति । पश्यति च तावो अन्तःपुरिकावो ऋषिं अग्रतो कृत्वा निषण्णा ॥
___सो दानि तम् ऋषिं दृष्ट्वा भूयो अतिरिव रुषितो इमेन मम सर्वम् अन्तःपुरं दृष्तं । सो दानि रुषितो प्रदुष्टचित्तो तम् ऋषिं पृच्छति । को त्वं ॥ ऋषि आह ॥ क्षान्तिवादी
[_म्वु_3.358_] स्मि नन्दतां ॥ सो दानि भूयस्या मात्रया दुष्टो आह ॥ यदि क्षान्तिवादी प्रणामेहि अंगुलिं ॥ ऋषिणा अंगुली प्रणामिता ॥ राज्ञा असिपट्टेन ऋषिस्य सा अंगुलि च्छिन्ना ततो माताये पुत्रप्रेम्नेन स्तनेषु क्षीरं प्रवहेय एवं तस्य ऋषिस्य ततो अंगुलितो क्षीरं प्रवहति ॥ तत्र सत्वमैत्रचित्तस्य तेन तस्य एकमेकाये हस्ताये सर्वपंचांगुलीयो छिंनायो सर्वतो च क्षीरं स्रवति ॥ राजा भूयो पृच्छति ॥ किंवादी भवान्* ॥ ऋषि क्षान्तीम् एव व्याकरोति । क्षान्तिवादी स्मि नन्दतां ॥ तेन तस्य ऋषिस्य हस्तो छिन्नो ततो पि क्षीरं स्रवति ॥ राजा ऋषिं पृच्छति ॥ किंवादी भवान्* ॥ ऋषि क्षान्तिम् एव व्याकरोति । क्षान्तिवादी स्मि नन्दतां ॥ तस्य दानि एवम् एव द्वितीयो पि हस्तो छिन्नो अंगुलीतो उपादाय यावत् कफोणिको छिन्नो ततो पि सर्वतो क्षीरं स्रवति च्छिन्नेछिन्नेहि ॥ राजा पृच्छति । किंवादी भवान्* ॥ ऋषि क्षान्तिम् एव व्याकरोति । क्षान्तिवादी स्मि नन्दतां ॥ एवं पादा पि अंगुलीषु उपादाय यावज् जानुकपर्यन्ता छिन्ना ॥ राजा पृच्छति । किंवादी भवान्* ॥ ऋषि क्षान्तिम् एव व्याकरोति । क्षान्तिवादी स्मि नन्दतां ॥ तस्य दानि एको कर्णो छिन्नो ततश् छिन्नातो क्षीरं स्रवति ॥ राजा ऋषिं पृच्छति । किंवादी भवां ॥ ऋषिः क्षान्तिम् एव व्याकरोति ।
[_म्वु_3.359_] क्षान्तिवादी स्मि नन्दतां ॥ तेन तस्य द्वितीयो कर्णो छिन्नो ततो पि क्षीरं प्रस्रवति अप्रदुष्टचित्तस्य ॥ भूयो राजा ऋषिं पृच्छति । किंवादी भवां ॥ ऋषिः क्षान्तिम् एव व्याकरोति । क्षान्तिवादी स्मि नन्दतां ॥ तेन तस्य ऋषिस्य नासा छिन्ना ततो पि अप्रदुष्टस्य क्षीरं स्रवति ॥ भूयो राजा ऋषिं पृच्छति । किंवादी भवां ॥ ऋषि क्षान्तिम् एव व्याकरोति । क्षान्तिवादी स्मि नन्दतां । यदि मे इमं शरीरं पट्टशतं निक्षिपेसि पीलुशतं छित्त्वा प्रदुष्टचित्तो तदापि क्षान्तिं न विजहेयं ॥
___ऋषिणा खण्डखण्डकृतेन देवनागयक्षा क्षुभिता भूता निनादम् अकरेन्सुः सत्वा च महाभयं उत्त्रासं जनयेन्सुः । नैगमजानपदा भूतानां महाभयं दृष्ट्वा निनादं नदन्तां श्रुत्वा ऋषिं प्रणिपतित्वा क्षमापेन्ति ॥
यो ते हस्तां च पादां च कर्णनासां च च्छिन्दति ।
तस्य कुप्य महाब्रह्मे स्वस्त्य् अस्तु इतरा प्रजाः ॥
ऋषि आह ॥
यो मे हस्तां च पादां च कर्णनासां च च्छिन्दति ।
तस्याप्य् अहं न कुप्यामि प्राग् एव इतरा प्रजाः ॥
देवनागयक्षगन्धर्वा आहन्सुः ॥ ऋषिं क्षान्तिवादिं उत्तेजेम इमं कलभस्य राज्ञो राज्यं सराष्ट्रं सजनपदं ऋद्धीकर्तुं न लभ्यति ।
उद्दह्यतु जनपदो स्फीतो राष्ट्रं विनस्यतु ।
ऋषिं यत्र विहेठेन्सुः क्षान्तिवादिम् अहिंसकं ॥
[_म्वु_3.360_] उद्दह्यतु इमं नगरं कालवस्तुं करीयतु ॥
ऋषिं यत्र विहेठेन्सुः क्षान्तिवादिम् अदूषकं ॥
उद्दह्यतु अयं राजा सामात्यो सपरिषदो ।
ऋषिं यत्र वहेठेन्सुः क्षान्तिवादिम् अदूषकं ॥
निगमजनपदा तं भूतानां महासंक्षोभं दृष्ट्वा भीता ऋषिं प्रणिपत्य याचन्ति ॥
यो ते हस्तां च पादां च कर्णनासां च च्छिन्दति ।
तस्य कुप्य महाब्रह्मे स्वस्त्य् अस्तु इतारा प्रजाः ॥
ऋषि आह ॥
मा भायथ युष्माकं न किंचित् पीडा भविष्यति ।
यो मे हस्तां च पादां च कर्णनासां च च्छिन्दति ॥
तस्याप्य् अहं न कुप्यामि प्राग् एव इतरा प्रजाः ।
राजा स्वयंकृतकर्मस्य विपाकम् अनुभविष्यति ॥
ऋषि देवनागयक्षगन्धर्वाणां आह ॥
काले न वर्षति देवो बीजा वुत्ता न रोहंति ।
तापदग्धा वातहता . . . . . . . . . . . ॥
एवं अभू अतीतस्मिं ऋषि क्षान्तीय दीपको ।
तं क्षान्तीये स्थितं सन्तं काशिराजा अघातये ॥
तस्य कर्मस्य परुषस्य विपाको कटुको फलो ।
यं काशिराजा वेदेसि निरयस्मिं समर्पितो ॥
[_म्वु_3.361_] एवं खु अधिवा . . . . क्षान्तिवादी ऋषी यथा ।
अंगेषु च्छिद्यमानेषु न सो कुप्यति कस्य चित्* ॥
सो दानि काशिराजा कलभो अग्निना दग्धो अवीचिस्मिं महानरके उपपन्नो ॥
___हस्तिनापुरे अर्जुनो नाम राजा सो साधुरूपां विदित्वा प्रश्नां पृच्छति यो शक्यो चित्तम् आराधयितुं सो स्वस्तिना जीवन्तो मुच्यति यो न शक्नोति राज्ञो अर्जुनस्य प्रश्नव्याकरणेन चित्तम् आराधयितुं सो राज्ञा अर्जुनेन स्वयं शक्तिना हन्यति ॥ हिमवन्तपार्श्वातो गौतमो नाम ऋषि हस्तिनापुरम् आगतो पंचाभिज्ञो चतुर्ध्यानलाभी महर्द्धिको महानुभावो कामेषु वीतरागो ॥ सो दानि ऋषी राज्ञा अर्जुनेन प्रश्नं पृच्छितो ऋषिणा तं प्रश्नं अत्र सविषमं व्याकृतं राजा च न विजानाति । तेन सो ऋषि गौतमो महाभागो स्वयं शक्तिना हतो सो पि राजा अर्जुनो अग्निना दग्धो शक्तिशूले महानरके उपपन्नो ॥
___कलिंगेषु दन्तपुरं नाम नगरं । तत्र नारीकेलो नाम राजा राज्यं कारयति दुष्टो विवर्णो रौद्रो दारुणो साहसिको ॥ सो श्रमणब्राह्मणा निमन्त्रयित्वा शुनखेहि खादयति । तेहि च खाद्यंतेहि हसति ॥ सो पि अग्निना दग्धो महानरके उपपन्नो श्यामशवलेहि अहोरात्राणि खाद्यति ॥
___कंपिल्ले नगरे ब्रह्मदत्तो नाम राजा राज्यं कारयति । तस्य राज्ञो ब्रह्मदत्तस्य पुत्रशतं कुमाराणां पुरोहितस्यापि यज्ञदत्तो नाम पुत्रो माणवको पुरोहितकुमारो ॥ दक्षिणापथातो इष्वस्त्राचार्यो शृण्वति । कंपिल्ले नगरे राज्ञो ब्रह्मदत्तस्य
[_म्वु_3.362_] कुमारशतो स्ति । तत्र गच्छामि कंपिल्लं नगरं तं कुमारशतं इष्वस्त्रज्ञानं शिक्षापयिष्यामि ततो मे वृत्तिर् भविष्यति ॥ सो दानि कंपिल्लम् आगतो पुरोहितस्याल्लीनो पुरोहितेनापि राज्ञो ब्रह्मदत्तस्य अल्लापितो ॥ ब्रह्मदत्तो तम् आह ॥ इदं मम कुमारशतं इष्वस्त्रज्ञाने शिक्षापेहि । अहं ते विपुलं वित्तं दास्यामि ॥ सो दानि इष्वस्त्राचार्यो इष्वस्त्रज्ञानं शिक्षापेति पुरोहितपुत्रो पि यज्ञदत्तो तत्रैव इष्वस्त्रज्ञानं शिक्षति तेहि कुमारेहि सार्धं ॥ ते दानि सर्वावन्तं इष्वस्त्रज्ञानं शिक्षिता सर्वेषां च इष्वस्त्रज्ञानेन यज्ञदत्तो विशिष्यते ॥ ते दानि शिक्षिता सराजिकाये परिषाये पुरतो महतो जनकायस्य दर्शनं देन्ति । कुमारशतं यज्ञदत्तस्य इषुं क्षिपंति यज्ञदत्तो पि मण्डलाग्रेण तानि इषूणि कुमारशतेन क्षिपियंतानि असंप्राप्तानि शरीरे सर्वाणि च्छिन्दति ॥ सर्वा सा सराजिका परिषा यज्ञदत्तस्य विस्मिता । तस्य दानि शरभंग इति नाम निर्वृत्तं अभूषि ॥
___वाराणस्या उत्तरेण अनुहिमवन्ते साहंजनी आश्रमपदं मूलोपेतं पत्रोपेतं पुष्पोपेतं फलोपेतं कोद्रवश्यामाकभंगप्रासादिकशाकशालूकसंपन्नं अनेकेहि वृक्षसहस्रेहि पुष्पफलोपेतेहि शोभितं पानीयसंपन्नं ॥ तहिं काश्यपो नाम ऋषिः प्रतिवसति पंचशतपरिवारो सर्वे पंचाभिज्ञा चतुर्ध्यानलाभिनो महर्द्धिका महानुभावा ॥ शरभंगो पुरोहितपुत्रो तहिं साहंजनीम् आश्रमपदं गत्वा काश्यपस्य ऋषिस्य सकाशे ऋषिप्रव्रज्यां प्रव्रजितो ॥ तेनापि पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तेन विहरन्तेन युज्यन्तेन घटन्तेन व्यायमन्तेन चत्वारि ध्यानानि उत्पादितानि पंच चाभिज्ञा साक्षीकृता चतुर्ध्यानलाभी पंचाभिज्ञो महानुभावो शरभंगो ऋषि संवृत्तो सदेवके लोके अभिज्ञातपरिज्ञातकौमारब्रह्मचारी उग्रतपस्याश्रितो
[_म्वु_3.363_] महानागो ॥ सो दानि दक्षिणापथगतो ॥ अस्मकेषु गोदावरी नदी । तस्या कूले कपित्थकं नाम आश्रमं साधेत्वा प्रतिवसति ॥
___काश्यपस्य ऋषिस्य शिष्यो वत्सो नाम पंचशतपरिवारो अनुहिमवन्ते गंगाकूले आश्रमे प्रतिवसति सर्वे पंचाभिज्ञा चतुर्ध्यानलाभिनो कामेषु वीतरागा उंछवृत्तिका महानुभावा । तत्र दानि वत्स-ऋषिस्य वातव्याधि उत्पन्नो ॥ सो अनुहिमवन्ते शीतम् असहन्तो दक्षिणापथं गतो गोवर्धनं नाम नगरं ॥ तत्र दानि दण्डकी नाम राजा राज्यं कारयति अधार्मिको अधर्मराजा दृष्टिविपन्नो विषयलोलः मूढो विपरीतदर्शी अमातृज्ञो अपितृज्ञो अश्रामण्यो अब्राह्मण्यो दारुणो निष्कृपो साहसिको ॥ तेन सो वत्सो ऋषि दृष्ट्वा पांशुना आक्रमापितो अहेठेको अदूषको अनपराधी ॥ तस्य दानि राज्ये विघुष्टो नामाग्रामात्यो । तेन सो ऋषी ततो पांशुराशितो शीघ्रम् एव जीवन्तो उत्खनापितो प्रणिपतित्वा च अनुक्षमापितो । भगवं न मे प्रियं यं राज्ञा साहसं कृतं । साधु भगवं क्षान्तुम् अर्हसि ॥ ऋषि आह ॥ अमात्य गच्छाहि इतो राज्यतो शीघ्रन्ति । अहं सप्तमं दिवसं कालं करिष्यामि मया कालगते इह राज्ये महादारुणभयं भविष्यति ॥ सो दानि अमात्यो वत्सस्य ऋषिस्य श्रुत्वा सपुत्रदारो सपरिवारो सर्वेण ज्ञातिगणेन सार्धं दण्डकिस्य राज्यतो अन्यं राज्यं संक्रमति ॥ सप्तरात्रस्यात्ययेन वत्सो ऋषि कालगतो समनन्तरकालगतस्य ऋषिस्य भूतानां महासंक्षोभं अभूषि तेहि सराज्यं रात्रीये भस्मीकृतं नगरं ॥
___गंगाय च यमुनाया च अन्तरा काश्यपो ऋषि यज्ञं यजति । तत्र अष्टानवति
[_म्वु_3.364_] तापससहस्रियो संनिपतितावो पंचाभिज्ञा चतुर्ध्यानलाभिनो सर्वे महर्द्धिका महानुभावा ॥
___कलिंगेषु दन्तपुरं नाम नगरं तत्र उग्गतो नाम राजा सो तेषां राज्ञां दारुणां इमां महाभयां महाविपत्तिं दृष्ट्वा संजयन्तीम् अध्यगात्* ऋषयो दर्शनाय ॥ संजयन्तीयं भीमरथो नाम राजा । सो पि तेषां राज्ञां विपत्तिं दृष्ट्वा संविग्नो सो तं कलिंगराजं पृच्छति । कहिं गमिष्यसि ॥ सो तम् आह ॥ गमिष्यामि ऋषयो दर्शनाय ॥ हस्तिनापुरे अष्टमको नाम राजा राज्यं कारयति । सो पि तेषां चतुर्णां राज्ञां दारुणां विपत्तिं दृष्ट्वा त्रस्तो संविग्नो सो पि प्रस्थितो ऋषयो दर्शनाय ॥ शक्रो पि देवानाम् इन्द्रो तेषां चतुर्णां अधार्मिकानां अधर्मराज्ञां दुष्टिविपन्नानां निष्कृपानां दारुणानां साहसिकानां विपत्तिं दृष्ट्वा आगतः महता देवतानुभावेन ऋषयो दर्शनाय ॥
पंच शतानि हिमवन्तपार्श्वे
मूलफलाहारा ऋषयः पश्येन्सुः ।
उंछरता तापसा शुद्धलूखा
सुसंयता उग्रतपा उदारा ॥
एको अत्र आसी ऋषि वत्सगोत्रो
वातेहि आबाधेहि कृशो अभूषि ।
हिमवन्तपार्श्वे असहन्तो शीतं
वनातो सो ओसरे राजधानीं ॥
तत्र अभूद् दण्डकी नाम राजा
अधर्मचारी . . . . निविष्टो ।
दृष्टिं ग्रहेत्वा विपरीतसंख्यो
[_म्वु_3.365_] सो तं ऋषिं पांशुना आक्रमेति ॥
तस्यैव राज्ञो अभु अग्रमात्यो
नामेन विघुष्टो अभूषि राज्ये ।
सो तं ऋषिं उद्धरिय अवोचत्*
न मे प्रियं साधु क्षमाहि ब्रह्मे ॥
वत्सो ऋषी तं अवच अमात्यं
गच्छ इतो मा ते सिया अनर्थः ।
सप्तरात्रीयेन इतो त्ययेन
महद् भयं भविष्यति घोररूपं ॥
ऋषिस्य च कालगतस्य तत्र
भूतानां संक्षोभो महा अभूषि ।
तन्तस्य राज्यं सधनं सराष्ट्रं
एकाय रात्रीय करेन्सु भस्मं ॥
अथाब्रवीच् छरभंगो तपस्वी
समागता ऋषयो . . . . ।
न साधुरूपं कृतं दण्डकीना
गच्छाम वत्सस्य करोम पूजां ॥
अथाष्टमको भीमरथो च राजा
कलिंगराजा अथ उद्गतो च ।
संविग्ना संहृष्टा इदं उवाच
गच्छामथ ऋषयो दर्शनाय
पृच्छामथ येन हि तं भवेय ॥
ते दानि अल्लीना त्रयो नरेन्द्रा
संतुष्टा संविग्ना ऋषीणां समीपं ।
[_म्वु_3.366_] अलंकृता कुण्डलिनो सुवस्त्रा
वैडूर्यमुक्तास्तरखड्गपाणी ॥
ऋषयो आहन्सुः ॥
राजा ऋषिं भाषथ के व यूयं
कथं वो जानन्ति मनुष्यलोके ॥
राजानो आहन्सुः ॥
अष्टमको भीमरथो च राजा
कलिंगराजा पुनर् उद्गतो यं ।
सुसंयता ऋषयो दर्शनाय
इहागता पृच्छतुकामा प्रश्नां ॥
ऋषयो शक्रं अन्तरीक्षगतं पृच्छन्ति ॥
वैहायसं तिष्ठसि अन्तरीक्षे
ओभासयं पंचदशीव चन्द्रो ।
पृच्छाम ते देव महानुभाव
कथं ति जानन्ति मनुष्यलोके ॥
शक्रो आह ॥
देवा मे जानन्ति शचीपतीति
मघवन्ति मे आहु मनुष्यलोके ॥।
सो आगतो देव महानुभाव
सुसंयतां ऋषयो दर्शनाये ॥
[_म्वु_3.367_] ऋषयो आहन्सुः ॥
पुरंदरो भूतपती पुनर् यो
देवानाम् इन्द्रो त्रिदशानम् ईश्वरो ।
सो आगतो असुरगणप्रमर्दको
ओकाशम् आकांक्षति प्रश्नं प्रष्टुं ॥
दूरा श्रुता मो ऋषयो समागता
सुसंयता वो ऋषयो स्म आगता ।
पादवन्दका आर्यप्रसन्नचित्ता
अयं सर्वलोके मनुष्यश्रेष्ठो ॥
ऋषि आहन्सुः ॥
ऋषीणां गन्धो चिरभावितानां
उपवायति एरितो मारुतेन ।
इतो अपक्रम्य निषीद शक्र
न एष गन्धो सुसहो देवतेहि ॥
शक्रो आह ॥
ऋषीणां गन्धो चिरभावितानां
उपवायति एरितो मारुतेन ।
शुचिः सुगन्धो चिरभावितानां
न एष गन्धो प्रतिकूल मह्यं ॥
ऋषयो आहन्सुः ॥
अयं ऋषिः सरभंगो उदारो
यतो जातो विरतो मैथुनातो ।
[_म्वु_3.368_] आचार्य बुद्धो सुविनीतरूपो
सो विह प्रश्नानि वियाकरोतु ॥
[ऋषयो आहंसुः ॥ ]
वाशिष्ठ प्रश्नानि वियाकरोहि
याचन्ति त्वां ऋषयो साधुरूपा ।
एषो हि धर्मो मनुजेहि पण्डिते
यं वृक्षम् आकांक्षति तस्य भारो ॥
[शरभंग आह ॥ ]
यत् किंचि प्रश्नं मनसाभिकांक्षथ
कृतावकाशानि वदेथ यूयं ।
अहं वो प्रश्नानि वियाकरिष्यं
दृष्टं हि मे तत्वम् इदं परं च ॥
राजा दानि पृच्छति ॥
यथा अभूद् दण्डकि नालिकेरो
अर्जुनो च कलभो च राजा ।
तेषां गतिं ब्रूहि सुपापकर्मणां
कुत्रोपपन्ना ऋषयो विहेठिय ॥
शरभंगो आह ॥
यथा अभूद् दण्डकि नालिकेरो
अर्जुनो च कलभो च राजा ।
तेषां गतिं बुध्य सुपापकर्मणां
[_म्वु_3.369_] यत्रोपपन्ना ऋषीणां वहेठका ॥
ऋषी पांशुनाक्रमि येन दण्डकी
उच्छिन्नमूलो सधनो सराष्ट्रो ।
कुक्कुलं नाम नरकं प्रपन्नो
स्फुलिंगजाला व ततो समुच्छ्रयाः ॥
अर्जुनो नरकं शक्तिशूलं
अधोशिरो ऊर्धपादो प्रपन्नो ।
आंगीरसं गौतमं हेठयित्वा
ऋषिं तपस्विं चिरब्रह्मचारिं ॥
यो संयतां प्रव्रजितां विहिंसे
अन्नेन पानेन निमन्त्रयित्वा ।
तं नालिकेरं शुनखा परत्र
प्रसह्य खादन्ति विचेष्टमानं ॥
यो खण्डसो प्रव्रजितं प्रघातयेद्*
ऋषिं क्षान्तीवादिं श्रमनं अदूषकं ।
कलभो अवीचिं नरकं प्रपन्नो
महाभितापं कटुकं भयानकं ॥
एतादृशानि नरकानि श्रुत्वा
दृष्ट्वा च राष्ट्राणि समूहतानि ।
धर्मं चरे श्रमणब्राह्मणेषु
एवंकरो स्वर्गम् उपेय स्थानं ॥
राजानो आहन्सुः ॥
यन् ते अपृच्छे हम् अभिभवेसि
अन्यन् ते पृच्छामि तद् इह ब्रूहि ।
[_म्वु_3.370_] किं सो वधित्वा न कदाचि सोचति
कस्य प्रहाणिं ऋषयो वर्णयन्ति ॥
शरभंगो आह ॥
क्रोधं वधित्वा न कदाचि सोचति
ईर्ष्याप्रहाणिं ऋषयो वर्णयन्ति ।
सर्वस्य उक्तं परुषं क्षमेया
एतं बलं दुर्जयम् आहु सन्तो ॥
राजानो आहन्सुः ॥
शक्यं हि द्विन्नां वचनं क्षमेतुं
श्रेष्ठस्य वा अथ वा सदृशस्य ।
कथं हि हीनस्य वचं क्षमेया
आख्याहि मे कौण्डिन्य एतम् अर्थं ॥
सरभगो आह ॥
भया हि श्रेष्ठस्य वचः क्षमेन्ति
संरंभहेतोः पन सदृशस्य ।
यो चेह हीनस्य वचं क्षमेया
एतद् बलं उत्तमम् आहु सन्तो ॥
कथं जानेथ चतुछन्नरूपं
सदृशं च श्रेष्ठं अथ वा च हीनं ।
विरूपरूपेण चरन्ति सन्तो
[_म्वु_3.371_] तस्माद् धि सर्वस्य वचं क्षमेया ॥
न एतम् अर्थं महती पि सेना
सराजिका युध्यमानी करेया ।
यं क्षान्तिमां सत्पुरुषो करोति
क्षान्तीमता वोपसमन्ति वीराः ॥
राजानो आहन्सुः ॥
सुभाषितन् ते अनुमोदयामो
अन्यन् ते पृच्छामि तद् इह ब्रूहि ।
कतिविधं शीलवन्तं वदेसि
कतिविधं प्रज्ञावन्तं वदेसि ।
कतिविधं सत्पुरुषं वदेसि
कतिविधं च शिरि न जहाति ॥
सरभंगो आह ॥
कायेन वाचाय सुसंवृतो यः
मनसा च नो किंचि करोति पापं ।
न चापि लोके अहितं करोति
तथाविधं शीलवन्तं वदामि ॥
सर्वाणि अर्थानि पुनर् विनश्यन्ति
कालागतं च न प्रयाति अर्थं ।
न चात्महेतो . . विधं चरेया
तथाविधं प्रज्ञावन्तं वदेमि ॥
यो वे कृतज्ञो कृतवेदि पोसो
कल्याणमित्रो दृढभक्तिरूपो ।
[_म्वु_3.372_] व्यसनस्मिं सत्कृत्य करोति कार्यं
तथाविधं सत्पुरुषं वदेमि ॥
एतेहि धर्मेहि त्रिहि यो उपेतो
संमोदको सखिलो श्लक्ष्णवाचो ।
सगारवो सप्रतीशो हिरीमां
मूल पाठ: Mahāvastu-avādana · Edition: Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)) · Data entry Emmanuel Fauré · GRETIL (Göttingen) · CC BY-NC-SA 4.0