महावस्तु-अवादन · भाग 281300
आसनं उदकं पाद्यं मधुरकल्पं च पायसं ।
प्रतिगृह्णामि गोविंद अग्रं अभिहराहि मे ॥
एवम् उक्ते भवंतो महागिविंदो ब्राह्मणो महाब्रह्माणं गाथाये भाषति ॥
दृष्टे धर्मे हितार्थं वा संपरायसुखाय वा ।
कृतावकाशो पृच्छेयं यं मे मनसि प्रार्थितं ॥
[_म्वु_3.212_] एवम् उक्ते भवन्तो महाब्रह्मा महागोविन्दं ब्राह्मणं गाथाये प्रत्यभाषति ॥
दृष्टधर्मे हितार्थं वा संपरायसुखाय वा ।
कृतावकाशः पृच्छाहि यं भवत्य् अभिप्रार्थितं ॥
अह खलु पुनः भवन्तो महागोविन्दस्य ब्राह्मणस्यैतद् अभूषि ॥ प्रवारितं मे खलु महाब्रह्मणा प्रश्नव्याकरणेन किं दानिं महाब्रह्माणं पृच्छेयं दृष्टधार्मिकं अर्थम् आरभ्य उताहो सांपरायिकं ॥ अथ खलु भवन्तो महागोविन्दस्य ब्राह्मणस्यैतद् अभूषि ॥ अस्ति तावद् अयं दृष्टधार्मिको अर्थो यम् इदं पंच कामगुणान् आरभ्य ॥ यं नूनाहं महाब्रह्माणं सांपरायिके अर्थे प्रश्नं पृच्छेयं ॥ अथ खलु महागोविन्दो ब्राह्मणो महाब्रह्माणं सांपरायिके अर्थे प्रश्नं पृच्छे ॥
पृच्छामि ब्रह्माणं सनत्कुमारं
कांक्षी अकांक्षं परिचारियेषु ।
कथंकरो किन्तिकरो किमाचरं
प्राप्नोति मनुजो ऽमृतं ब्रह्मलोकं ॥
एवम् उक्ते भवन्तो महाब्रह्मा गोविन्दं ब्राह्मणं गाथाये प्रत्यभाषति ॥
हित्वा ममत्वं मनुजेषु ब्रह्म
एकोतिभूतो करुणो विविक्तो ।
निरामगन्धो विरतो मैथुनातो
प्राप्नोति मनुजो ऽमृतं ब्रह्मलोकं ॥
[_म्वु_3.213_]___एवम् उक्ते भवन्तो महागोविन्दो ब्राह्मणो महाब्रह्माणम् एतद् अवोचत्* ॥ हित्वा ममत्वं ति वयं भवन्तो महाब्रह्मणो भाषमाणस्य एतम् अर्थम् आजानाम यदैकत्यो अगारस्यानगारियं प्रव्रजे अल्पं भोगस्कन्धं प्रहाय महान्तं वा भोगस्कन्धं प्रहाय अल्पं वा ज्ञातिवर्गं प्रहाय महान्तं वा ज्ञातिवर्गं प्रहाय । उच्चकुलाद् वा नीचकुलाद् वा संभवति अपहृतगृहिव्यंजनो संघाटीपात्रचीवरम् आदाय शिक्षति शिक्षापदेषु कायकर्मवाचाकर्मणा समन्वागतो परिशुद्धेन परिशुद्धाजीवो हित्वा ममत्वं ति वयं भवन्तो महाब्रह्मणो भाषमाणस्य एतम् अर्थं जानाम ॥ एकोतीभावं भवन्तो महाब्रह्मणो एतम् अर्थम् आजानाम ॥ यद् इहैकत्यो वितर्कविचाराणां व्युपशमाद् अध्यात्मसंप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति एकोतीभूतो ति वयं भवन्तो महाब्रह्मणो भाषमाणस्य एतम् अर्थम् आजानाम ॥ करुणो विविक्तो ति वयं भवन्तो महाब्रह्मणो भाषमाणस्य एतम् अर्थम् आजानाम ॥ यद् इहैकत्यो करुणापरेण चेतसा एकान् दिशां स्फरित्वोपसंपद्य विहरति विपुलेनमुद्गतेन अद्वयेनाप्रमाणेनावैरेणाव्याबाधेन तथा द्वितीयं तथा तृतीयं तथा चतुर्थम् इति ऊर्ध्वम् अधो तिर्यक् सर्वेहि सर्वत्रताये सर्वावन्तं लोकं स्फरित्वोपसंपद्य विहरति करुणो विविक्तो ति वयं भवन्तो महाब्रह्मणो
[_म्वु_3.214_] भाषमाणस्य एतम् अर्थम् आजानाम ॥ निरामगन्धं वयं भवन्तो महाब्रह्मणो भाषमाणस्यार्थं न जानाम ॥
के आमगंधा मनुजेषु ब्रह्म
एतं न विन्दे तद्वीर ब्रूहि ।
येनावृता वारिवहा कुकूल
आपायिका निर्वृता ब्रह्मलोकं ॥
एवम् उक्ते महाब्रह्मा महागोविन्दं ब्राह्मणं गाथाये प्रत्यभाषति ॥
क्रोधो मृषावाद कथंकथा च
. . . . . अतिमानो . . . . . . . ।
ईर्ष्या च हिंसा परवादरोषणा
ते आमगन्धा मनुजेषु ब्रह्म ।
येनावृता वारिवहा कुकूल
आपायिका निर्वृता ब्रह्मलोकं ॥
एवम् उक्ते भगवान् महागोविन्दो महाब्रह्माणम् एतद् उवाच ॥ आमागन्धो ति वयं भवन्तो महाब्रह्मणो भाषमाणस्य एतम् अर्थं जानाम ॥ तं न मे शक्यम् अगारम् अध्यावसता एकान्तसंलिखितं एकान्तानवद्यं एकान्तपरिशुद्धं पर्यवदातं च ब्रह्मचर्यं चरितुं । अल्पकं जीवितं गमनीयो सांपरायः नास्ति जातस्यामरणं तस्माज् ज्ञातव्यं मन्तव्यं बोद्धव्यं कर्तव्यं कुशलं कर्तव्यं ब्रह्मचर्यं न किंचिल् लोके पापं कर्म करणीयं ॥
[_म्वु_3.215_] प्रव्रजिष्यामि दानि हंभो महाब्रह्म अगारस्यानगारियं सचेत्* मे भगवां महाब्रह्मा अनुशासेय ॥ एवम् उक्ते भवन्तो महाब्रह्मा महागोविन्दं ब्राह्मणम् एतद् अवोचत्* ॥ तेन हि भो महागोविन्द सुखीभव यस्येदानिं कालं मन्यसि ॥
___श्रुतं च मे तं भगवां किल तेन समयेन महागोविन्दो नाम ब्राह्मणो अभूषि स्मरति भगवां ॥ एवम् उक्ते भगवां पंचशिखं गन्धर्वपुत्रम् एतद् अवोचत्* ॥ एवम् एतं पंचशिख अहं तेन समयेन महागोविंदो नाम ब्राह्मणो अभूषि स्मरामि चाहं न च ते पुनः पंचशिख श्रुतं यथा सो महागोविन्दो ब्राह्मणो अगारस्यानगारियं प्रव्रजितो ॥ अहं खलु सो पंचशिख महागोविन्दः ब्राह्मणो येन रेणुराजा तेनोपसंक्रमित्वा रेणुं राजानं गाथाये अध्यभाषि ॥
आमन्त्रेमि महाराज रेणु भूमिपते तव ।
प्रव्रजामि प्रजहित्वा राज्यं पौरोहित्यं च मे ॥
एवम् उक्ते पंचशिख रेणुराजा महागोविन्दं ब्राह्मणं गाथाय प्रत्यभाषति ॥
सचेद् अस्ति ऊनं कामेहि वयन् ते पूरयामथ ।
को वा भवन्तं हेठेति वयन् ते धारयामथ ।
भवां पिता वयं पुत्रो मा गोविन्द प्रव्रजाहि ॥
एवम् उक्ते पंचशिख महागोविन्दो ब्राह्मणो येन रेणुराजा तेनोपसंक्रमित्वा रेणुं राजानं गाथाये अध्यभाषति ॥
न अस्ति ऊनं कामेहि हेठयिता न विद्यति ।
अमनुष्यवचनं श्रुत्वा कथं वर्तेम अन्यथा ॥
[_म्वु_3.216_] एवम् उक्ते पंचशिख रेणुराजा महागोविन्दं ब्राह्मणं गाथाये प्रत्यभाषति ॥
अमनुष्यो कथं वर्णो किं वा अभाषत ।
यस्य वाचं श्रुत्वा जहासि अस्माकं गृहं च केवलं ॥
एवम् उक्ते पंचशिख महागोविंदो ब्राह्मणो रेणुराजानं गाथयाध्यभाषति ॥
सर्वतो यष्टुकामस्य उपवुस्तस्य मे सतः ।
अग्नि प्रज्वालितो आसि कुशचीरपरिच्छदो ॥
ततो हंमि प्रादुरहु ब्रह्मा लोके सनातनो ।
यस्य वाचं श्रुत्वा जहामि युष्माकं गृहं च केवलं ॥
एवम् उक्ते पंचशिख रेणुराजा महागोविन्दं ब्राह्मणं गाथाये प्रत्यभाषति ॥
श्रद्दधाम वयं भवतो यथा गोविन्दो भाषति ।
अमनुष्यवचनं श्रुत्वा कथं वर्तेम अन्यथा ॥
अन्यापि वचना भवां महागोविन्दो कुशलानि येव आचिक्षति । या च भवतो गोविन्दस्य गतिर् भविष्यति सा अस्माकं अपि गतिर् भविष्यति ॥
यथा आकाशे विमलो शुद्धो वेरुलियो मणिः ।
एवं शुद्धो चरिष्यामि गोविन्दस्यानुशासने ॥
एवम् उक्ते पंचशिख महागोविन्दो ब्राह्मणो रेणुराजानं गाथाभिर् अध्यभाषति ॥
सचेज् जहथ कामानि यत्र रक्ताः पृथग्जनाः ।
शस्तं भ्यवेद् दृढीभवथ क्षान्तीबलसमाहिता ॥
[_म्वु_3.217_] एष मार्गो ब्रह्मपुरे एष मार्गः सनातनः ।
सद्धर्मविद्भिर् आख्यातो ब्रह्मलोकोपपत्तये ॥
अश्रोषीत् खलु पंचशिख ते षड् राजानो महागोविन्दो ब्राह्मणो अगारस्यानगारियं प्रव्रजिष्यतीति । ते क्षिप्रम् एव संनिपतेन्सुः ॥ अथ खलु पंचशिख महागोविन्दो ब्राह्मणो येन ते षड् राजानस् तेनोपसंक्रमित्वा तां षड् राजां एतद् अवोचत्* ॥ पेन्तु भवन्तो एन्तु भवन्तो अन्यं दानि आचार्यं पर्येषथ यो वो स्वकस्वकेषु राज्येषु अर्थार्थानि समनुशासिष्यति ॥ तत् कस्य हेतोः ॥ प्रव्रजिष्याम्य् अहं अगारस्यानगारियं ॥ श्रुतं हि मया महाब्रह्मणो संमुखाद् आमगन्धं भाषमाणस्य । तं न शक्यं अगारम् अध्यावसता एकान्तसंलिखितम् एकान्तानवद्यं परिशुद्धं पर्यवदातं ब्रह्मचर्यं चरितुं अल्पं जीवितव्यं गमनीयो संपरायो नास्ति जातस्यामरणं तस्माद्* ज्ञातव्यं प्राप्तव्यं बोद्धव्यं कुशलं चरितव्यं ब्रह्मचर्यं न च किंचिल् लोके पापं कर्म कर्तव्यं ॥
___अथ खलु पंचशिख तेषां षण्णां राज्ञाम् एतद् अभूषि ॥ ब्राह्मणा हि नामैते भोगलुब्धा भवन्ति । यं नूनं वयं महागोविन्दं ब्राह्मणं भोगेहि उपनिमन्त्रयेम ॥ अथ खलु पंचशिख ते षड् राजानो महागोविन्दं ब्राह्मणं भोगेहि उपनिमन्त्रेन्सुः ॥ संविद्यन्ति मो महागोविन्द इमेषु षट्सु राज्येषु प्रभूता मानुष्यका भोगा धार्मिका धर्मलब्धा धार्मिकेन बलेन अभिसाहृता अभिसमूढा ततो भवां महागोविन्दो धनम् आदियतु मा भवां महागोविन्द अगारस्यानगारियं प्रव्रजतु ॥ एवम् उक्ते पंचशिख
[_म्वु_3.218_] महागोविन्दो ब्राह्मणो षड् राजां एतद् अवोचत्* ॥ संविद्यन्ति खलु भवन्तो अस्माकम् अपि प्रभूता मानुष्यका भोगा धार्मिका धर्मलब्धा धार्मिकेन बलेनाभिसाहृता अभिसमूढा तान् अपि चाहं अपहायागारस्यानगारियं प्रव्रजिष्यं ॥ तत् कस्य हेतोः ॥ श्रुतं हि महाब्रह्मणः संमुखाद् आमगन्धं भाषमाणस्य । तं न शक्यं अगारम् अध्यावसता एकान्तसंलिखितं एकान्तानवद्यं परिशुद्धं पर्यवदातं ब्रह्मचर्यं चरितुं अल्पकं जीवितव्यं गमनीयं सांपरायं नास्ति जातस्यामरणं तस्माज् ज्ञातव्यं प्राप्तव्यं बोद्धव्यं कर्तव्यं कुशलं चरितव्यं ब्रह्मचर्यं न किंचिल् लोके पापं करणीयं ॥ अथ खलु पंचशिख तेषां षण्णां राज्ञाम् एतद् अभूषि ॥ ब्राह्मणा हि नाम एते स्त्रीलुब्धा भवन्ति । यं नूनं वयं महागोविन्दं ब्राह्मणं स्त्रीभिर् उपनिमन्त्रयेम ॥ अथ खलु पंचशिख षड् राजानो महागोविन्दं ब्राह्मणं स्त्रीभिर् उपनिमन्त्रेन्सुः ॥ संविद्यन्ति भो महागोविन्द इमेषु षट्सु राज्येषु प्रभूता स्त्रियः प्रासादिका दर्शनीया अक्षुद्रावकाशा परमया शुभवर्णपुष्कलतया समन्वागता ततः भवां महागोविन्दो स्त्रियः आदियतु मा भवां गोविन्द अगारस्यानगारियं प्रव्रजतु ॥ एवम् उक्ते पंचशिख महागोविन्दो ब्राह्मणो तां षड् राजां एतद् अवोचत्* ॥ संविद्यन्ति खलु भवन्तो अस्माकम् अपि चत्वारिंशत् सदृशीयो भार्या प्रासादिका दर्शनीया अक्षुद्रावकाशा परमया शुभवर्णपुष्कलतया समन्वागता ता पि चाहम् अपहाय अगारस्यानगारियं प्रव्रजिष्यं ॥ तत् कस्य हेतोः ॥ श्रुतं हि ब्रह्मणो संमुखाद् आमगन्धं भाषमाणस्य । तं न शक्यम् अगारम् अध्यावसता एकान्तसंलिखितं एकान्तानवद्यं परिशुद्धं पर्यवदातं ब्रह्मचर्यं चरितुं अल्पकं
[_म्वु_3.219_] जीवितव्यं गमनीयः संपरायो नास्ति जातस्यामरणं तस्माज् ज्ञातव्यं प्राप्तव्यं बोद्धव्यं कर्तव्यं कुशलं चरितव्यं ब्रह्मचर्यं न च किंचिल् लोके पापं करणीयं ॥ एवम् उक्ते पंचशिख ते षड् राजानो महागोविन्दं ब्राह्मणम् एतद् उवाचत्* ॥ तेन हि महागोविन्द प्रतिपालेहि सप्त वर्षाणि यावद् वयं स्वकस्वकेहि राज्येहि पुत्रभ्रातृकां स्थापयित्वा आगमिष्याम या च भवतो महागोविन्दस्य गतिर् भविष्यति सा चास्माकम् अपि गतिर् भविष्यति ॥ एवम् उक्ते पंचशिख महागोविन्दो ब्राह्मणस् तां षड् राजां एतद् अवोचत्* ॥ अतिचिरं खल्व् एतं भवतां यम् इदं सप्त वर्षाणि प्रव्रजिष्याम्य् अहं अगारस्थानगारियं ॥ तत् कस्य हेतोः ॥ श्रुतं हि मया महाब्रह्मणः संमुखाद् आमगन्धं भाषमाणस्य तं न शक्यं . . . . . पापं कर्म करणीयं ॥ एवम् उक्ते पंचशिख ते षड् राजानो महागोविन्दं ब्राह्मणम् एतद् अवोचत्* ॥ तेन हि त्वं महागोविन्द प्रतिपालेहि षड् वर्षाणि । एवं पेयालं पंच वर्षाणि चत्वारि वर्षाणि त्रीणि वर्षाणि द्विवर्षाणि एकवर्षं । सप्तमासानि प्रतिपालेहि यावद् वयं महागोविन्द स्वकस्वकेहि राज्येहि पुत्रभ्रातृकां स्थापयित्वा आगमिष्यामः या च भवतो गोविन्दस्य गतिर् भविष्यति सा चास्माकं पि गतिर् भविष्यति ॥ एवम् उक्ते पंचशिख महागोविन्दः ब्राह्मणस् तां षड् राजां एतद् अवोचत्* ॥ अतिचिरं खल्व् एतं भवन्तो यम् इदं सप्त मासा प्रव्रजिष्याम्य् अहं अगारस्यानगारियं ॥ तत् कस्य हेतोः ॥ श्रुतं मया महाब्रह्मणः संमुखाद् आमगन्धां भाषमाणस्य तं न शक्यं . . . . पापं करणीयं ॥ एवम् उक्ते पंचशिख ते षड् राजानो महागोविन्दं ब्राह्मणं एतद् अवोचत्* ॥ तेन
[_म्वु_3.220_] हि महागोविन्द प्रतिपालेहि षण् मासां यावद् वयं स्वकस्वकेहि राज्येहि पुत्रभ्रातृकां स्थापयित्वा आगमिष्यामः । एवं सर्वत्र कर्तव्यं पेयालं पंच मासां चत्वारि मासां त्रीणि मासां द्वे मासां एकमासं याव वयं स्वकस्वकेहि राज्येहि पुत्रभ्रातृकां स्थापयित्वा आगमिष्यामः या च भवतो महागोविन्दस्य गतिर् भविष्यति सा चास्माकं पि गतिर् भविष्यति ॥ एवम् उक्ते पंचशिख महाब्राह्मणो महागोविन्दस् तां षड् राज्ञ एतद् अवोचत्* ॥ अतिचिरं खल्व् इदं भवन्तो यम् इदं अर्धमासं प्रव्रजिष्यामि अहं अगारस्यानगारियं ॥ तत् कस्य हेतोः ॥ श्रुतं हि . . . . . पापं कर्म करणीयं ॥ एवम् उक्ते पंचशिख ते षड् राजानो महागोविन्दं ब्राह्मणम् एतद् अवोचत्* ॥ तेन हि भो महागोविंद प्रतिपालेहि सप्त दिवसानि यावद् वयं स्वकस्वकेहि राज्येहि पुत्रभ्रातृकां स्थापयित्वा आगमिष्यामः या च भवतो गोविन्दस्य गतिर् भविष्यति सा अस्माकम् अपि गतिर् भविष्यति ॥ एवम् उक्ते पंचशिख महागोविन्दो ब्राह्मणस् तां षट्* क्षत्रियान् एतद् अवोचत्* ॥ अल्पकं खल्व् इदं भवन्तो यम् इदं सप्त दिवसानि तेन हि भवन्तो सुखीभवथ यस्येदानिं कालं मन्यथ ॥
___अथ खलु पंचशिख महागोविन्दो ब्राह्मणो येन तानि सप्त ब्राह्मणमहाशालसहस्राणि सप्त च स्नातकशतानि तेनोपसंक्रमित्वा एतद् अवोचत्* ॥ एन्तु भवन्तो एन्तु भवन्तः अन्यं दानि उपाध्यायं पर्येषथ यो वो मन्त्राणि वाचयिष्यति । प्रव्रजिष्याम्य् अहं अगारस्यानगारियं ॥ तत् कस्य हेतोः ॥ श्रुतं हि मया महाब्रह्मणो संमुखाद् आमगन्धं भाषमाणस्य . . . . . पापं कर्म करणीयं ॥ एवम् उक्ते पंचशिख
___[_म्वु_3.221_] तानि च सप्त ब्राह्मणमहासालसहस्राणि सप्त च स्नातकशतानि महागोविन्दं ब्राह्मणम् एतद् अवोचत्* ॥ मा भवां गोविन्दो अगारस्यानगारियं प्रव्रजतु प्रव्रज्या हि नामैषां ते महागोविन्द अल्पार्थिका च अल्पभोगा च अल्पेशाख्या च अल्पानुशंसा च ब्राह्मण्यं पि नामैतं भो महागोविन्द महार्थियं च महाशालं च महेशाख्यं च महानुशंसं च ॥ एवम् उक्ते पंचशिख महागोविन्दो तानि च सप्त ब्राह्मणसहस्राणि सप्त च स्नातकशतानि एतद् अवोचत्* ॥ मा भवन्तो एवं वदित्थ प्रव्रज्या हि नामैषा भवन्तो महर्द्धिया च महालाभा च महेशाख्या च महानुशंसा च ब्राह्मण्यं पि नामैतं भवन्तो अल्पार्थियं च अल्पलाभं च अल्पेशाख्यं चाल्पानुशंसं च यं पि ताव भवन्तः किंचित् संजानन्ति सर्वन्तं अस्माकम् एव निदानं ॥ एवम् उक्ते पंचशिख सप्त ब्राह्मणसहस्राणि सप्त च स्नातकशतानि महागोविन्दं ब्राह्मणम् एतद् अवोचत्* ॥ एवम् एतं भो उपाध्याय एवम् एतं प्रव्रज्या नामैषा महर्द्धिया च महालाभा च महेशाख्या च महानुशंसा च ब्राह्मण्यं पि नामैतं भो उपाध्याय अल्पार्थियं चाल्पलाभं चाल्पानुशंसं च यं पि तावद् वयं किंचिद् आजानाम सर्वन्तं तवोपध्याय निदानं या च भवतो उपाध्यायस्य गतिर् भविष्यति सा अस्माकम् अपि गतिर् भविष्यति ॥ एवम् उक्ते पंचशिख महागोविन्दो ब्राह्मणो तानि च सप्त ब्राह्मणमहाशालसहस्राणि सप्त च स्नातकशतानि एतद् अवोचत्* ॥ तेन हि भवन्तो सुखीभवथ यस्येदानिं कालं मन्यथ ॥
[_म्वु_3.222_]___अथ खलु पंचशिख महागोविन्दो ब्राह्मणो येन ता चत्वारिंशत् सदृशी भार्या तेनोपसंक्रमित्वा चत्वारिंशत् सदृशीयो भार्यायो एतद् अवोचत्* ॥ एन्तु भोतीयो या इच्छन्ति स्वकस्वकानि ज्ञातिकुलानि गच्छन्तु या इच्छन्ति अन्यं भर्तारं पर्येषन्तु या इच्छन्ति ता इमस्मिन्* एव ब्राह्मणकुले वसन्तु ॥ संविद्यन्ति इमस्मिं ब्राह्मणकुले प्रभूता मानुष्यका भोगा धार्मिका धर्मलब्धा धार्मिकेन बलेनाभिसाहृता अभिसमूढा । प्रव्रजिष्याम्य् अहं अगारस्यानगारियं ॥ तत् कस्य हेतोः ॥ श्रुतं हि मया महाब्रह्मणः संमुखाद् आमगन्धं भाषमाणस्य तं न शक्यं अगारम् अध्यावसता एकान्तसंलिखितं एकान्तानवद्यं परिशुद्धं पर्यवदातं ब्रह्मचर्यं चरितुं ॥ तत् कस्य हेतोः ॥ अल्पकं जीवितं गमनीयं सांपरायं नास्ति जातस्यामरणं तस्मात्* ज्ञातव्यं प्राप्तव्यं बोद्धव्यं कर्तव्यं कुशलं चरितव्यं ब्रह्मचर्यं न किंचिल् लोके पापं कर्म करणीयं ॥ एवम् उक्ते पंचशिख ताश् चत्वारिंशत् सदृशीयो भार्यायो महागोविन्दं ब्राह्मणम् एतद् अवोचत्* ॥ आर्यो खल्व् अस्माकं गोविन्दो भर्ता भर्ताकाले सखा सखीकाले या च आर्यस्य महागोविन्दस्य गतिर् भविष्यति सा अस्माकम् अपि गतिर् भविष्यति ॥ एवम् उक्ते पंचशिख महागोविन्दो ब्राह्मणो तां चत्वारिंशत् सदृशीयो भार्यायो एतद् अवोचत्* ॥ तेन हि भोतीयो सुखीभवथ यस्य दानि कालं मन्यथ ॥
___अथ खलु पंचशिख महागोविन्दो ब्राह्मणो तदहो सप्तमे दिवसे केशश्मश्रूण्य् अवतारयित्वा काषायाणि वस्त्राणि आच्छादयित्वा अगारस्यानगारियं प्रव्रजितः ॥ तथा प्रव्रजितं पुनः समानं सप्त च राजानो अनुप्रव्रजेन्सुः सप्त च
[_म्वु_3.223_] ब्राह्मणमहाशालसहस्राणि सप्त च स्नातकशतानि अनुप्रव्रजेन्सुः ता चत्वारिंशत् सदृशीयो भार्यायो अनुप्रव्रजेन्सुः कः पुनर् वादो अन्याये वेलासिकाये जनताये ॥ सा अभूषि परिषा अनेकशता अनेकसहस्रा ॥
___महागोविन्दो खलु पुनः पंचशिख ब्राह्मणो बाहिरको कामेषु वीतरागो सो बह्मलोकसहव्रताये श्रावकाणां धर्मं देशयति ॥ ये खलु पुनः पंचशिख महागोविन्दस्य ब्राह्मणस्य श्रावकाः सर्वेण सर्वं धर्मं देशितम् आजानन्ति ते ब्रह्मलोकसहव्रताये उपसंपद्यन्ति ॥ ये खलु पुनः पंचशिख महागोविन्दस्य ब्राह्मणस्य श्रावका न सर्वेण सर्वं धर्मं देशितम् आजानन्ति ते कामावचरेषु देवेषूपपद्यन्ति ॥ अप्य् एकत्या चतुर्महाराजकायिकानां सहव्रताये उपपद्यन्ति अप्य् एकत्या त्रयत्रिंशानां देवानां अप्य् एकत्या यामानां अप्य् एकत्या तुषितानां अप्य् एकत्या निर्माणरतीनां अप्य् एकत्या परनिर्मितवशवर्तीनां देवानां सहव्रताये उपसंपद्यन्ति ॥ ये खलु पुनः पंचशिख स्त्रियो वा पुरुषा वा महागोविन्दे ब्राह्मणे परुषचित्तानि श्रावकेषु चास्य ते कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यन्ति ॥ ये खलु पुनः पंचशिख स्त्रियो वा पुरुषा वा महागोविन्दे ब्राह्मणे . . . . चित्तानि श्रावकेहि चास्य ते कायस्य भेदात् परं मरणात् सुगतिं स्वर्गं कायं देवेषूपपद्यन्ति ॥ यं खलु पुनः पंचशिख महागोविन्दो ब्राह्मणो ग्रामं वा निगमं वा उपनिश्राय विहरति तत्रापि भवति राजा वा राष्ट्रस्य देवो वा गृहपतिकाये ब्रह्मा वा ब्राह्मणानां ॥ यत्रापि निरूहमार्गं प्रतिपद्यति तत्रापि भवति राजा वा राष्ट्रस्य देवो वा गृहपतिकाये ब्रह्मा वा ब्राह्मणानां ॥ अपि हि जितं ब्राह्मणगृहपतिका निगमजानपदा उत्खलिता इमं उदानम् उदानयन्ति ॥ नमस् तस्य आर्यस्य महागोविन्दस्य नमो आर्यस्य सप्तपुरोहितस्य ॥
[_म्वु_3.224_]___इदम् अवोचद् भगवान् राजगृहे विहरन्तो गृद्धकूटे पर्वते इमस्मिंश् च पुनर् व्याकरणे भाष्यमाणे पंचशिखस्य गन्धर्वपुत्रस्य विरजं विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धं आत्तमनः पंचशिखो गन्धर्वपुत्रो भगवतो भाषितम् अभ्यनन्दे ॥
___भगवान् आह ॥ स्यात् खलु पुनर् भिक्षवो युष्माकम् एवम् अस्याद् अन्यः स तदा महागोविन्द नाम ब्राह्मणो अभूषि । न खल्व् एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । अहं स भिक्षवः तेन कालेन तेन समयेन महागोविन्दो नाम ब्रामणो अभूषि । तदापि मया प्रव्रजितेन महाजनकायो अनुप्रव्रजितो । एतरहिं पि मया प्रव्रजितेन महाजनकायो अनुप्रव्रजितो ॥
_____समाप्तं गोविन्दीयं भगवतो पूर्वेनिवाससंप्रयुक्तं सूत्रं ॥
भगवां सम्यक्संबुद्धो यद् अर्थं समुदागतस् तम् अर्थम् अभिसंभावयित्वा श्रावस्त्यां विहरति जेतवने अनाथपिण्डस्यारामे शास्ता देवानां च मनुष्याणां च सत्कृतो गुरुकृतो मानितो पूजितो अपचितो विस्तरेण निदानं कृत्वा यावच् चेतोवशिप्राप्ता च पुनर् बुद्धा भगवन्तो येहि विहारेहि आकांक्षन्ति विहरितुं तेहि विहारेहि
[_म्वु_3.225_] विहरन्ति उज्जुचित्ता मृदुचित्ता कर्मणीयसमाहितचित्ता मैत्रचित्ता दान्तचित्ता शान्तचित्ता मुक्तचित्ता शुद्धचित्ता विमलचित्ता पाण्डुचित्ता प्रभास्वरचित्ता विनीवरणचित्ता ऋजुचित्ता स्थितचित्ता सुप्रतिष्ठितचित्ता असंगचित्ता असक्तचित्ता अदुष्टचित्ता अमूढचित्ता पृथिवीसमचित्ता आपोसमचित्ता तेजोसमचित्ता वायुसमचित्ता काचिलिंदिकमृदुस्पर्शोपमचित्ता इन्द्रकीलोपमचित्ता सुविमुक्तचित्ता सुविमुक्तप्रज्ञा उत्क्षिप्तपरिखा आवेठितप्राकारा निरर्गडा आर्यधर्मध्वजाग्रमणोत्तमा ब्राह्मणोत्तमा क्षत्रिया स्नातका वेदपारगा सत्यवादिनो अर्थवादिनो न्यायवादिनो अविपरीतवादिनो अवितथवादिनो अनन्यथावादिनो (तस्मात् तथागतो अनन्यथावादीति वुच्चति) ॥
___तत्र खलु भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयति ॥ एकपिण्डपात्रेणाहं आनन्द त्रैमासं निषीदिष्यं पुरिमकानां तथागतानां अर्हतां सम्यक्संबुद्धानां विहारेहि विहरिष्यं मा मे कथंचिद् उपसंक्रमितव्यं अन्येन ॥ साधु भगवन्न् इति आयुष्मान् आनन्दो भगवतः प्रत्यश्रोषीत्* ॥ अथ खलु भगवान् त्रैमासं निषीदेत्* एकपिण्डपात्रेण पुरिमकानान् तथागतानाम् अर्हतां सम्यक्संबुद्धानां विहारेहि विहरन्तो ॥
___अथ खलु भगवां त्रैमासस्यात्ययेन सायाह्नसमये प्रतिसंलयना व्युत्थाय विहारातो निर्गम्य पर्यंके निषीदेत्* ॥ अद्राक्षीत् खलु आयुष्मान् आनन्दो कुटीप्रच्छदनायां पर्यंके निषण्णं भगवन्तं दृष्ट्वा च पुनः येन भगवान्स् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषीदि । एकान्ते निषण्णो भगवन्तम् एतद् अवोचत्* ॥ उपशान्तप्रणीतानि भगवत इन्द्रियाणि परिशुद्धो छविवर्णो शुभजातो मुखवर्णो । अथ खलु भगवां प्रणीतेहि विहारेहि विहरन्तो ॥ एवम् उक्ते भगवान् आनन्दम् एतद् अवोचत्* ॥ एवमेतं आनन्द आकांक्षमाणो आनन्द तथागतः एकपिण्डपात्रेण कल्पं
[_म्वु_3.226_] वा निषीदे कल्पावशेषं वा ॥ तत् कस्य हेतोः ॥ एवम् एतं आनन्द भवति पुरिमकानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां विहारेहि विहरन्तानां यथा दानपारमिताप्राप्तानां शीलपारमिताप्राप्तानां क्षान्तिपारमिताप्राप्तानां वीर्यपारमिताप्राप्तानां ध्यानपारमिताप्राप्तानां प्रज्ञापारमिताप्राप्तानां ॥ तदा आनन्द असंख्येयकल्पे अप्रमेये असंख्येये कल्पे इन्द्रध्वजो नाम तथागतो र्हं सम्यक्संबुद्धो अभूषि ॥ इन्द्रध्वजस्य खलु पुनर् आनन्द तथागतस्यार्हतः सम्यक्संबुद्धस्य इन्द्रतपना नाम राजधानी अभूषीत्* ॥ द्वादश योजनानि आयामेन पुरस्तिमेन पश्चिमेन च सप्त योजनानि विस्तारेण सप्तहि प्राकारेहि परिक्षिप्ता अभूषि सौवर्णेहि सौवर्णच्छन्नेहि । इन्द्रतपना खलु पुनः आनन्द राजधानी सप्तहि तालपंक्तीहि परिक्षिप्ता अभूषि विचित्राहि दर्शनीयाहि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकाये । सौवर्णस्य तालस्कंधस्य रूप्यमया पुत्रा च फला च अभूषि रूप्यमयस्य तालस्कन्धस्य मुक्तामया पुत्रा च फला च अभूषि मुक्तामयस्य तालस्कंधस्य वैडूरिकामया पत्रा च फला च अभूषि वैडूर्यमयस्य तालस्कंधस्य मुसारगल्वमया पत्रा च फला च मुसागल्वमयस्य लोहितिकामया पत्रा च फला च अभूषि लोहितिकामयस्य तालस्कंधस्य सुवर्णमया पत्रा च फला च अभूषि ॥ तेषां खलु पुनर् आनन्द तालस्कंधानां वातेरितानां वातसंघट्टितानां घोषो निश्चरति वल्गु मनोज्ञः असेचनकः अप्रतिकूलः श्रवणाय । सय्यथापि नाम पंचांगिकस्य तूर्यस्य कुशलेहि वादकेहि सम्यक्संप्रवादितस्य घोषो निश्चरति वल्गु मनोज्ञो असेचनको अप्रतिकूलः श्रवणाये एवम् एवानन्द तेषां तालस्कन्धानां
[_म्वु_3.227_]___वातेरितानां वातसंघट्टितानां घोषो निश्चरति वल्गु मनोज्ञो असेचनको अप्रतिकूलो श्रवणाये ॥ तेन खलु पुनर् आनन्द समयेन इन्द्रतपनायां राजधान्यां सोण्डामनुष्यापेया ते तेन तालपत्रनिर्घोषेण पंचहि कामगुणेहि समर्पिता समंगीभूता क्रीडेन्सु रमेन्सुः परिचारयेन्सुः ॥
___इन्द्रतपना खलु पुनर् आनन्द राजधानी सप्तहि वेदिकाजालेहि परिक्षिप्ता अभूषि चित्राहि दर्शनीयाहि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताये वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितिकाये । सौवर्णस्य पादस्य रूप्यमयी सूचिका आलम्बनं अधिष्ठानकं च । रूप्यमयस्य पादकस्य मुक्तामयी सूचिका आलम्बनम् अधिष्ठानकं चाभूषि । मुक्तामयस्य वैडूर्यमयी सूचिका आलम्बनकम् अधिष्ठानकं च । वैडूर्यमयस्य स्फटिकामयी सूचिका आलंबनकम् अधिष्ठानकं चाभूषि । स्फटिकमयस्य पादकस्य मुसागल्वमयी सूचिका आलंबनकम् अधिष्ठानकम् अभूषि । मुसागल्वमयस्य पादकस्य लोहितिकामयी सूचिका आलंबनकम् अधिष्ठानकं चाभूषि । लोहितिकामयस्य पादकस्य सौवर्णिका सूचिका आलंबनकम् अधिष्ठानकं चाभूषि ॥ ते खलु पुनर् आनन्द वेदिकाजाला द्विहि द्विहि हेमजालेहि प्रतिच्छन्ना अभून्सु । सौवर्णकस्य हेमजालस्य रूप्यमयी किङ्किणीका अभून्सु । रूप्यमयस्य हेमजालस्य सौवर्णिका किंकिणीका अभून्सुः ॥
___इन्द्रतपना खलु पुनः आनन्द राजधानी समन्तेन त्रीणि द्वाराणि अभूषि चित्राणि
[_म्वु_3.228_] दर्शनीयानि सप्तानां सुवर्णस्य रूप्यमयस्य मुक्ताये वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितिकाये ॥ तेषां खलु पुनर् आनन्द द्वाराणां द्विन्नां वर्णानां इष्टका अभूषि सुवर्णस्य रूप्यस्य च ॥ तेषां खलु पुनर् आनन्द द्वाराणां द्विन्नां वर्णानां सोपाना अभूषि सुवर्णस्य च रूप्यस्य च ॥ तेषां खलु पुनर् आनन्द द्वाराणां द्विन्नां वर्णानां धरणीयो अभूषि सुवर्णस्य च रूप्यस्य च ॥ तेषां खलु पुनर् आनन्द द्वाराणां द्विन्नां वर्णानां तुला अभूषि सुवर्णस्य च रूप्यस्य च ॥ तेषां द्वाराणां द्विन्नां वर्णानां प्रतिमोदका अभूषि सुवर्णस्य च रूप्यस्य च ॥ तेषां द्वाराणां द्विन्नां वर्णानां प्रतिकूलं अभूषि सुवर्णस्य च रूप्यस्य च ॥ तेषां खलु पुनर् आनन्द द्वाराणां चतुर्णां वर्णानां फलिकफलकानि अभून्सुः सुवर्णस्य च रूप्यस्य च मुक्ताये च वैडूर्यस्य च ॥ तेषां द्वाराणां द्विन्नां वर्णानां फलकस्तारा अभून्सुः सुवर्णस्य च रूप्यस्य च ॥ तेषां खलु पुनर् आनन्द द्वाराणां द्विन्नां वर्णानां एलूका अभूषि सुवर्णस्य च रूप्यस्य च ॥ तेषां द्वाराणां पुरतो इषीकानि मापितानि अभून्सुः त्रिपौरुषनैखन्यानि त्रिपौरुषोच्चानि द्वादशपुरुष-उद्वेधेन चित्राणि दर्शनीयनि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताये वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितिकाये च ॥ तानि खलु पुनर् आनन्द द्वाराणि द्विहि द्विहि हेमजालेहि प्रतिच्छन्ना अभून्सुः सौवर्णमयेन च रूप्यमयेन च हेमजालेन । सौवर्णस्य हेमजालस्य रूप्यमयी-ओ
[_म्वु_3.229_] किंकिणीका अभून्सुः रुप्यमयस्य हेमजालस्य सौवर्णिका किंकिणीका अभून्सुः ॥ तेषां खलु पुनर् आनन्द हेमजालानां वातेरितानां वातसंघट्टितानां घोषो निश्चरित वल्गु मनोज्ञो असेचनको अप्रतिकूलः श्रवणाय ॥ तद्यथापि नाम पंचांगिकस्य तूर्यस्य कुशलेहि वादकेहि सम्यक्प्रवादितस्य घोषो निश्चरति वल्गु मनोज्ञो असेचनको अप्रतिकूलः श्रवणाय एवम् एवानन्द संघट्टितानां निश्चरति वल्गु मनोज्ञो असेचनको अप्रतिकूलः श्रवणाय ॥ इन्द्रतपना खलु पुनः आनन्द राजधानी अविशून्या अभूषि इमेहि एवंरूपेहि शब्देहि सय्यथीदं हस्तिशब्देहि अश्वशब्देहि रथशब्देहि पत्तिशब्देहि भेरीशब्देहि पणवशब्देहि शंखशब्देहि वेणुशब्देहि वीणाशब्देहि गीतशब्देहि वादितशब्देहि [गीतवादितशब्देहि] अश्नथ खादथ पिबथ देथ दानानि धर्मं चरथ श्रमणब्राह्मणेषु भद्रम् अस्तु वो ति शब्देहि ॥
___इन्द्रतपनायां पुनर् आनन्द राजधान्यां वलया नाम यष्टी अभूषि चित्रा दर्शनीया सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसागल्वस्य लोहितिकाया द्वादश योजनानि उद्वेधेन चत्वारि योजनानि अभिनिवेशेन ॥
इदं अवोचद् भगवान् इदं वदित्वा
ह्य् अथापरं एतद् उवाच शास्ता ।
इन्द्रध्वजो नाम अभूषि शास्ता
सुवर्णवर्णो शतपुण्यलक्षणो ॥
महानुभावो ऋषि संघनायको
विनेति सो कोटिशतानि सप्त ।
[_म्वु_3.230_] पुरस्कृतो श्रमणगणस्य नायको
सो प्राविशे इन्द्रतपनां सुनिर्मितां ॥
इन्द्रध्वजो आनन्द तथागतो ऽर्हं सम्यक्संबुद्धो महाध्वजं तथागतम् अर्हन्तं सम्यक्संबुद्धं व्याकार्षीत्* ॥ महाध्वजो आनन्द तथागतो र्हं सम्यक्संबुद्धः ध्वजोत्तमं तथागतम् अर्हन्तं सम्यक्संबुद्धं व्याकार्षीत्* ॥ ध्वजोत्तमो आनन्द तथागतो र्हं सम्यक्संबुद्धो ध्वजरुचिरं तथागतं व्याकार्षीत्* ॥ ध्वजरुचिरो आनन्द तथागतो र्हं सम्यक्संबुद्धो ध्वजकेतुं तथागतं व्याकार्षीत्* ॥ ध्वजकेतुर् आनन्द तथागतो केतुध्वजं तथागतं व्याकार्षीत्* ॥ केतुध्वजो आनन्द तथागतो र्हं सम्यक्संबुद्धः ध्वजध्वजं तथागतः व्याकार्षीत्* ॥ ध्वजध्वज आनन्द तथागतः ध्वजमपराजितं तथागतं व्याकार्षीत्* ॥ ध्वजमपराजित आनन्द तथागतो अपराजितं तथागतं व्याकार्षीत्* ॥ अपराजितो आनन्द तथागतो सुप्रतापं तथागतं व्याकार्षीत्* ॥ सुप्रताप आनन्द तथागतः प्रदीपं तथागतं व्याकार्षीत्* ॥ प्रदीपो आनन्द तथागतो सुप्रतिष्ठितं तथागतं व्याकार्षीत्* ॥ सुप्रतिष्ठितो आनन्द तथागतो नागमुनिं तथागतं व्याकार्षीत्* ॥ नागमुनिर् आनंद तथागतो महामुनिं तथागतं व्याकार्षीत्* ॥ महामुनिर् आनंद तथागतो मुनिप्रवरं तथागतं व्याकार्षीत्* ॥ मुनिप्रवर आनन्द तथागतः संवृतस्कन्धं तथागतं व्याकार्षीत्* ॥ संवृतस्कन्ध आनन्द तथागतो बंधुमं तथागतं
[_म्वु_3.231_] व्याकार्षीत्* ॥ बन्धुमस् तथागत आनन्दारिष्टं तथागतं व्याकार्षीत्* ॥ अरिष्टस् तथागत आनन्द विजिताविं तथागतं व्याकार्षीत्* ॥ विजितावी तथागत आनन्द क्रकुच्छन्दं तथागतं व्याकार्षीत्* ॥ क्रकुच्छन्दस् तथागतो आनन्दासमसमं तथागतं व्याकार्षीत्* ॥ असमसमस् तथागत आनन्द प्रभंकरं तथागतं व्याकार्षीत्* ॥ प्रभंकरस् तथागत आनन्द ओघजं तथागतं व्याकार्षीत्* ॥ ओघजस् तथागतो आनन्द महाबलं तथागतं व्याकार्षीत्* ॥ महाबलस् तथागत आनन्द सुजातं तथागतं व्याकार्षीत्* ॥ सुजातस् तथागत आनन्द पारंगतं तथागतं व्याकार्षीत्* ॥ पारंगतस् तथागत आनन्द महाप्रसादं तथागतं व्याकार्षीत्* ॥ महाप्रसादस् तथागत आनन्द सुखेन्द्रियं तथागतं व्याकार्षीत्* ॥ सुखेन्द्रियस् तथागत आनन्द नक्षत्रराजं तथागतं व्याकार्षीत्* ॥ नक्षत्रराजस् तथागत आनन्द शतपुष्पं तथागतं व्याकार्षीत्* ॥ शतपुष्पस् तथागत आनन्द विरजं तथागतं व्याकार्षीत्* ॥ विरजस् तथागत आनन्द ब्रह्मस्वरं तथागतं व्याकार्षीत्* ॥ ब्रह्मस्वरस् तथागत आनन्द शिरसाह्वयं तथागतं व्याकार्षीत्* ॥
___शिरसाह्वये खु आनन्द तथागते पुष्पावती नाम राजधानी अभूषी द्वादश योजनानि आयामेन पुरस्तिमेन पश्चिमेन च सप्त योजनानि विस्तारेण दक्षिणेनोत्तरेण च सप्तहि प्राकारेहि परिक्षिप्ता सौवर्णेहि सौवर्णच्छदनेहि सप्तहि तालपङ्क्तीहि परिक्षिप्ता चित्रा दर्शनीया सप्तहि वर्णेहि पूर्ववद् यावत् सुवर्णस्य तालस्कन्धस्य रूप्यमया पत्रा फला च ॥ तेषां खलु पुनर् आनन्द तालस्कन्धानां वातेरितानां वातसंघट्टितानां वल्गु मनोज्ञः घोषो निश्चरति ॥ ये पुनर् आनन्द
[_म्वु_3.232_] तत्र पुष्पावत्यां राजधान्यां शुण्डामनुष्यापेया ते तेन तालपत्रफलनिर्घोषेण पंचहि कामगुणेहि समर्पिता समन्वंगीभूता क्रीडेन्सुः प्रविचारयेन्सुः ॥ पुष्पावती खलु पुनर् आनन्द राजधानी सप्तहि वेदिकाजालेहि परिक्षिप्ता चित्रा दर्शनीया सप्तानां वर्णानां इन्द्रतपनाराजधानीवत्* ॥ तत्र पुष्पावत्यां राजधान्यां अशून्या अभूषि इमेहि एवरूपेहि शब्देहि सय्यथीदं हस्तिशब्देहि अश्वशब्देहि रथशब्देहि पत्तिशब्देहि भेरीशब्देहि पणवशब्देहि शंखशब्देहि वेणुशब्देहि वीणाशब्देहि गीतशब्देहि वादितशब्देहि अश्नथ खादथ पिबथ देथ दानानि धर्मं चरथ श्रमणब्राह्मणेषु भद्रम् अस्तु वो ति शब्देहि पूर्णा ॥ तस्यां राजधान्यां वलया नाम यष्टी अभूषि चित्रा दर्शनीया सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकाये । द्वादश योजनानि उद्वेधेन चत्वारि योजनानि अभिनिवेशं ॥
इदं अवोचद् भगवान् इदं वदित्वा
ह्य् अथापरं एतद् उवाच शास्ता ।
एतेषां बुद्धान परंपराये
शिरसाह्वयो पच्छिमको अभूषि ॥
महानुभावो ऋषि संघनायको
विनेति सो कोटिशतानि सप्त ।
पुरस्कृतो श्रमणगणस्य नायको
सो प्राविशत् पुष्पवतीं सुनिर्मितां ॥
शिरसाह्वयो आनन्द तथागतो नागकुलोत्तमं तथागतं व्याकार्षीत्* ॥ नागकुलोत्तमस्
[_म्वु_3.233_] तथागत आनन्द क्षमोत्तरं तथागतं व्याकार्षीत्* ॥ क्षमोत्तरस् तथागत आनन्द नागोत्तमं तथागतं व्याकार्षीत्* ॥ नागोत्तमस् तथागतः आनन्दांगोत्तमं तथागतं व्याकार्षीत्* ॥ अंगोत्तमस् तथागतो वासवं तथागतं व्याकार्षीत्* ॥ वासवस् तथागतश् चन्द्रिमं तथागतं व्याकार्षीत्* ॥ चन्द्रिमस् तथागत आनन्द हेतुमन्तं तथागतं व्याकार्षीत्* ॥ हेतुमन्तस् तथागतो जिनेन्द्रं तथागतं व्याकार्षीत्* ॥ जिनेन्द्रस् तथागतो आनन्द जांबुनदं तथागतं व्याकार्षीत्* ॥ जाम्बुनदो आनन्द तथागतस् तगरशिखिं तथागतं व्याकार्षीत्* ॥ तगरशिखिर् आनन्द तथागतः पदुमं तथागतं व्याकार्षीत्* ॥ पदुमस् तथागतः कौण्डिण्यगोत्रं तथागतं व्याकार्षीत्* ॥ कौण्डिन्यगोत्रो आनन्द तथागतो कौण्डिन्यगोत्रम् एव तथागतं व्याकार्षीत् ॥
इदं अवोचद् भगवान् इदं वदित्वा
ह्य् अथापरं एतद् उवाच शास्ता ।
एतेषां बुद्धानां परंपराये
कौण्डिन्यगोत्रो पश्चिमको अभूषी ॥
त्रयो इमे बुद्धशता उदारा
कौण्डिन्यगोत्रा नाम अभूषि सर्वे ॥
महानुभावा ऋषिसंघनायका
एकत्र कल्पे उपलाह्वयस्मिं ।
त्रयो त्रयो कोटिशतानि तेषां
महासंनिपातो अभूषि श्रावकाणां ॥
[_म्वु_3.234_] त्रयो त्रयो वर्षशता च तेषां
आयुःप्रमाणं अभु श्रावकाणां ।
त्रेविंशद् वर्षसहस्राणि तेषां
सद्धर्मो अस्थासि परिनिर्वृतानां ॥
पश्चिमको आनन्द कौण्डिन्यसगोत्रो तथागतः चन्दनं तथागतं व्याकार्षीत्* ॥ चन्दनो आनन्द तथागतो विरजं तथागतं व्याकार्षीत् ॥ विरज आनन्द तथागतो हितेषिं तथागतं व्याकार्षीत्* ॥ हितेषी आनन्द तथागतः सुपात्रं तथागतं व्याकार्षीत्* ॥ सुपात्रे खलु पुनर् आनन्द तथागते अभयपुरा नाम राजधानी अभूषी द्वादश योजनानि आयामेन सप्त योजनानि विस्तरेण दक्षिणेनोत्तरेण सप्तहि सौवर्णप्राकारेहि परिक्षिप्ता सप्तहि तालपंक्तीहि चित्राहि दर्शनीयाहि सप्तवर्णेहि । पुष्पावतीराजधानीवत् सर्वप्रकारेहि वर्णनीया ॥ तत्रापि वलया नाम यष्टी चित्रा दर्शनीया सप्तवर्णेहि ॥ सुपात्र आनन्द तथागतः सम्यक्संबुद्धो धर्मनेत्रीम् अवलोकयन्तो परिपूर्णकल्पशतं अस्थासि ॥ स वरुणं तथागतं व्याकार्षीत्* ॥
इदं अवोचद् भगवान् इदं वदित्वा
ह्य् अथापरं एतद् उवाच शास्ता ।
सुपात्रशास्ता परमहितानुकम्पको
सद्धर्मनेत्रीम् अवलोकयन्तो ।
अस्थासि सो कल्पशतं अनूनकं
द्वात्रिंशत् कोटीनयुता विनेसि ॥
अभयपुरस्मिं क्षेमवैस्तारिकं प्रावचनं करित्वा वरुणोत्तमं व्याकार्षीत्* ॥ वरुणोत्तमो
[_म्वु_3.235_]___ आनन्द तथागतो धृतराष्ट्रं तथागतं व्याकार्षीत्* ॥ धृतराष्ट्रो आनन्द तथागतो श्वेतुराष्ट्रं तथागतं व्याकार्षीत्* ॥ श्वेतुराष्ट्र आनन्द तथागतः शिखिं तथागतं व्याकार्षीत्* ॥ शिखी आनन्द तथागतः शिखिं एव तथागतं व्याकार्षीत्* ॥
एतेषां बुद्धानां परंपराये
द्वाषष्टि बुद्धा शिखिनामसाह्वया ।
सर्वे अभूषि पदुमस्मिं कल्पे
महानुभावा अरिसंघसूदना
विनेसि ते श्रावकां सत्पथा पृथू ॥
पश्चिमक आनन्द तथागतो विरूढकं तथागतं व्याकार्षीत्* ॥ विरूढकस् तथागतः सुनेत्रं तथागतं व्याकार्षीत्* ॥ सुनेत्रस् तथागतः सुजातं तथागतं व्याकार्षीत्* ॥ सुजात आनन्द तथागत एकिना दिवसवारेण चतुरशीति सहस्रनयुतानि श्रावकाणां विनेत्वा तम् एव दिवसं परिनिर्वृतो ॥ तस्य खलु पुनर् आनन्द तथागतस्य त्रिंशद् वर्षसहराणि सद्धर्मो अस्थासि ॥
इदं अवोचद् भगवान् इदं वदित्वा
ह्य् अथापरं एतद् उवाच शास्ता ।
सुजातो आनन्द तथागतो उत्पलं तथागतं व्याकार्षीत्* ॥ उत्पलस् तथागतो ब्रह्मोत्तमं तथागतं व्याकार्षीत्* ॥ ब्रह्मोत्तमो आनन्द तथागतो सुदर्शनं तथागतं व्याकार्षीत्* ॥ सुदर्शने आनन्द खलु पुनः तथागते देवपुरा नाम राजधानी अभूषि द्वादश योजनान्य् आयामेन सप्त योजनानि विस्तारेण सप्तहि सौवर्णप्राकारेहि
[_म्वु_3.236_] सप्तहि तालपंक्तीहि परिक्षिप्ता अभूषि चित्राहि दर्शनीयाहि सप्तवर्णेहि अभयपुरा इव वर्णनीया ॥
एतेषां बुद्धानां परंपराये
सुदर्शनो पश्चिमको अभूषि ।
महानुभावो नरसंघनायको
विनेसि सो कोटिसतानि त्रीणि ।
पुरस्कृतो श्रमणगणस्य नायको
सो प्राविशे देवपुरां सुनिर्मितां ॥
सुदर्शनो आनन्द तथागतो अर्थदर्शं तथागतं व्याकार्षीत्* ॥ अर्थदर्शी आनन्द तथागतो मूलं तथागतं व्याकार्षीत्* ॥ मूलो आनन्द तथागतो औषढिं तथागतं व्याकार्षीत्* ॥ औषढो तथागतो आनन्द हितैषिन् तथागतं व्याकार्षीत्* ॥ हितैषी आनन्द तथागतो जाम्बूनदं तथागतं व्याकार्षीत्* ॥ जाम्बूनदं आनन्द तथागतः सालं तथागतं व्याकार्षीत्* ॥ साल आनन्द तथागत अभिजितं तथागतं व्याकार्षीत्* ॥ अभिजि आनन्द तथागतो जिनवरुत्तमं तथागतं व्याकार्षीत्* ॥ जिनवरुत्तम आनन्द तथागतः समंतभद्रं तथागतं व्याकार्षीत्* ॥ समंतभद्र आनंद तथागतः शशिविमलं तथागतं व्याकार्षीत्* ॥ शशिविमलस् तथागतः पौण्ड्रीकं तथागतं व्याकार्षीत्* ॥ पौण्डरीकस् तथागतश् चन्द्रिमं तथागतं व्याकार्षीत्* ॥ चन्द्रिमो आनन्द तथागतो भावितात्मं तथागतं व्याकार्षीत्* ॥ भावितात्मा तथागतो
[_म्वु_3.237_] ओघजं तथागतं व्याकार्षीत्* ॥ ओघजस् तथागतो आनन्दाभयं तथागतं व्याकार्षीत्* ॥ अभयस् तथागत आनन्द स्वयंप्रभं तथागतं व्याकार्षीत्* ॥ स्वयंप्रभ आनन्द तथागतो महाबलं तथागतं व्याकार्षीत्* ॥ महाबलस् तथागत आदित्यं तथागतं व्याकार्षीत्* ॥ आदित्यस् तथागतः प्रतापवन्तं तथागतं व्याकार्षीत्* ॥ प्रतापवन्तस् तथागतो हितेषीं तथागतं व्याकार्षीत्* ॥ हितेषी आनन्द तथागतो ध्वजोत्तमं तथागतं व्याकार्षीत्* ॥ धव्जोत्तमस् तथागतो ध्वजध्वजं तथागतं व्याकार्षीत्* ॥ ध्वजध्वजस् तथागतः केतुं तथागतं व्याकार्षीत्* ॥ केतुस् तथागतः केतूत्तमं तथागतं व्याकार्षीत्* ॥ केतूत्तमस् तथागतो असह्यं तथागतं व्याकार्षीत्* ॥ असह्यस् तथागतो जाम्बूनदं तथागतं व्याकार्षीत्* ॥ जाम्बूनदस् तथागतः सालराजं तथागतं व्याकार्षीत्* ॥ सालराजस् तथागतो आनन्दाकुतोभयं तथागतं व्याकार्षीत्* ॥ अकुतोभयः तथागतः निर्मितं तथागतं व्याकार्षीत्* ॥ निर्मितस् तथागतो उपशान्तं तथागतं व्याकार्षीत्* ॥ उपशान्तस् तथागतो जिनेन्द्रं तथागतं व्याकार्षीत्* ॥ जिनेन्द्र आनन्द तथागतो जिनेन्द्रम् एव तथागतं व्याकार्षीत्* ॥
एतेषां बुद्धानां परंपराये
जिनेन्द्रनाम पश्चिमको अभूषि ।
त्रयो इमे बुद्धशता उदारा
जिनेन्द्रा नामेन अभूषि सर्वे ॥
महानुभावा ऋषिसंघनायकाः
एकस्मिं कल्पस्मिं महायशस्मिं ।
त्रयस्त्रयो कोटिशतानि तेषां
महासन्निपातो अभु नायकानां ॥
[_म्वु_3.238_] त्रयस्त्रयो वर्षसहस्राणि तेषां
आयुःप्रमाणं अभु नायकानां ।
त्रयस्त्रिंशद् वर्षसहस्राणि तेषां
सद्धर्मो अस्थासि परिनिर्वृतानां ॥
पश्चिमको जिनेन्द्रस् तथागतः सर्वार्थदर्शिनन् तथागतं व्याकार्षीत्* ॥ सर्वार्थदर्शी तथागत आनन्द धर्मनेत्रीम् अवलोकयन्तो कल्पसहस्रं लोके अस्था अशोकं च तथागतं व्याकार्षीत्* ॥ अशोको तथागतो ध्वजोत्तमं तथागतं व्याकार्षीत्* ॥ ध्वजोत्तमस् तथागतो न्यग्रोधराजं तथागतं व्याकार्षीत्* ॥ न्यग्रोधराजस् तथागतो विपुलयशं तथागतं व्याकार्षीत्* ॥ विपुलयशो आनन्द तथागतो जयन्तं तथागतं व्याकार्षीत्* ॥ जयन्त आनन्द तथागतः शाक्यमुनिं तथागतं व्याकार्षीत्* ॥ शाक्यमुनिस्मिं खलु पुनर् आनन्द तथागते सम्यक्संबुद्धे सिंहपुरी नाम राजधानी अभूषि द्वादश योजनान्य् आयामेन सप्त योजनानि विस्तारेण सप्तहि सुवर्णप्राकारेहि परिक्षिप्ता सप्तहि तालपंक्तीहि चित्राहि दर्शनीयाहि सप्तवर्णेहि ॥ पूर्ववद् इन्द्रतपना इव वर्णनीया । तत्र सिंहपुर्यां वलया नाम यष्टिर् अभूषि । पूर्ववद् वर्णनीया ॥
एतेषां बुद्धानां परंपराये
शाक्यमुनिः पश्चिमको अभूषि ।
महानुभावो ऋषिसंघनायको
विनेसि सो कोटिशतानि त्रीणि ।
पुरस्कृतो श्रमणगणस्य नायको
सो प्राविशे सिंहपुरीं सुनिर्मितां ॥
[_म्वु_3.239_] शाक्यमुनिर् आनन्द तथागतः सर्वदयन् तथागतं व्याकार्षीत्* ॥ सर्वदयस् तथागत आनन्दात्युत्तमं तथागतं व्याकार्षीत्* ॥ अत्युत्तमस् तथागत उत्तरं तथागतं व्याकार्षीत्* ॥ उत्तरस् तथागतः समिताविनं तथागतं व्याकार्षीत्* ॥ समितावी तथागतो धर्मनेत्रीम् अवलोकयन्तो परिपूर्णं कल्पसहस्रं लोके अस्थासि बलदत्तं च तथागतं व्याकार्षीत्* ॥ बलदत्तस् तथागतो भागीरथं तथागतं व्याकार्षीत्* ॥ भागीरथस् तथागतो अंगीरसं तथागतं व्याकार्षीत्* ॥ अंगीरसस् तथागतो नागोत्तमं तथागतं व्याकार्षीत्* ॥ नागोत्तमस् तथागतो नागबलं तथागतं व्याकार्षीत्* ॥ नागबलस् तथागतः पुष्पं तथागतं व्याकार्षीत्* ॥ पुष्पस् तथागतः पुष्पुत्तरं तथागतं व्याकार्षीत्* ॥ पुष्पुत्तरस् तथागतो मेरुं तथागतं व्याकार्षीत्* ॥ मेरुस् तथागतो रत्नाग्निं तथागतं व्याकार्षीत्* ॥ रतनाग्निस् तथागतः पुष्पकृतं तथागतं व्याकार्षीत्* ॥ पुष्पकृतस् तथागतः दीपंकरं तथागतं व्याकार्षीत्* ॥ दीपंकर आनन्द तथागते दीपवती राजधानी अभूषी द्वादश योजनान्य् आयामेन सप्त योजनानि विस्तारेण सप्तहि सौवर्णप्राकारेहि सप्तहि तालपंक्तीहि चित्राहि दर्शनीयाहि सप्तवर्णेहि परिक्षिप्ता । सर्वं पूर्ववद् वर्णनीयं ॥
एतेषां बुद्धानां परंपराये
दीपंकरो पश्चिमको अभूषि ।
महानुभावो ऋषिसंघनायको
विनेसि सो श्रावकसहस्राणि अशीतिं ।
पुरस्कृतो श्रमणगणस्य नायको
सो प्राविशेद् दीपवतीं सुनिर्मितां ॥
[_म्वु_3.240_] दीपंकर आनन्द तथागतो सर्वाभिभुं तथागतं व्याकार्षीत्* ॥ सर्वाभिभूस् तथागतः पदुमुत्तरं तथागतं व्याकार्षीत्* ॥ पदुमुत्तरस् तथागतो अत्युच्चगामिं तथागतं व्याकार्षीत्* ॥ अत्युच्चगामी तथागतो यशोत्तरं तथागतं व्याकार्षीत्* ॥ यशोत्तरस् तथागतः शाक्यमुनिं तथागतं व्याकार्षीत्* ॥ शाक्यमुनिस् तथागतः अर्थदर्शिं तथागतं व्याकार्षीत्* ॥ अर्थदर्शिस् तथागतस् तिष्यं तथागतं व्याकार्षीत्* ॥ तिष्यस् तथागतो पुष्यं तथागतं व्याकार्षीत्* ॥ पुष्यस् तथागतो विपश्यिं तथागतं व्याकार्षीत्* ॥ विपश्यी तथागतः शिखिनं तथागतं व्याकार्षीत्* ॥ शिखी तथागतो विश्वभुवं तथागतं व्याकार्षीत्* ॥ विश्वभूस् तथागतः क्रकुच्छन्दं तथागतं व्याकार्षीत्* ॥ क्रकुच्छन्दस् तथागतः कोनाकमुनिं तथागतं व्याकार्षीत्* ॥ कोनाकमुनिस् तथागतः काश्यपं तथागतं व्याकार्षीत्* ॥ काश्यपस् तथागतः शाक्यमुनिं तथागतं व्याकार्षीत्* ॥ शाक्यमुनिर् अहं तथागतः मैत्रेयं तथागतं व्याकार्षीत्* ॥ मैत्रेये खलु पुनर् आनन्द तथागते केतुमती नाम राजधानी अभूषि द्वादश योजनानि आयामेन सप्त योजनानि विस्तारेण सप्तहि सौवर्णप्राकारेहि सप्तहि तालपंक्तीहि चित्राहि दर्शनीयाहि सप्तवर्णेहि परिक्षिप्ता । सर्वं पूर्ववद् वर्णनीयं ॥
एतेषां बुद्धानां पअरंपराये
मैत्रेयो पश्चिमको भविष्यति ।
महानुभावो ऋषिसंघनायको
विनेष्यति कोटिशतानि सप्तति ।
पुरस्कृतो श्रमणगणस्य नायको
प्रवेक्ष्यति केतुमतीं सुनिर्मितां ॥
[_म्वु_3.241_] आवन्दितबुद्धानां आख्याता पुरुषदम्यसारथिनां ।
इन्द्रध्वजातो याव अनागतो वापि मैत्रेयो ॥
शास्ता आदित्यवत् तपति प्रतपन्तं तेजसा पुरुषसिंहं ।
पृच्छति अशोकारामे आनन्दो जिनं जितक्लेशं ॥
अद्भुत कीर्ति भगवतः . . . यशो चाद्भुतो दशदिशासु ।
किं कर्मं करि भगवां येन तपसि लोके सदेवके ॥
श्रुत्वा च सो महर्षिः संशयशल्यानन्तकनिर्घाती ।
प्रतिभणति सत्वसारो आनन्दम् असंगवचनाये ॥
आनन्द श्रूयतु मे यादृशम् आरोपितं कुशलमूलं ।
बुद्धेहि श्रावकेहि च तहिं तहिं संसरन्तेन ॥
बोधिं अभिप्रार्थयता प्रार्थयमानेन अच्युतं स्थानं ॥
सुमहन्ता अधिकारा मया कृता हृष्टचित्तेन ॥
दीपंकरे च बुद्धे सर्वाभिभुस्मिं बुद्धे आनन्द ।
पदुमोत्तरे च बुद्धे अत्युच्चसाह्वये . . . . . ॥
यशोत्तरस्मिं च शाक्यसिंहे च अर्थदर्शिस्मिं तिष्ये ।
पुष्ये चापि नरुत्तमे विपश्यिस्मिं चापि संबुद्धे ॥
शिखिस्मिं पि क्रकुच्छन्दे महाप्रज्ञे कोनाकमुनि काश्यपे ।
सुमहन्ता अधिकारा कृता मया हृष्टचित्तेन ॥
[_म्वु_3.242_] एते महानुभावा अनन्ता . . . . . लोकविश्रुता ।
उदारा सत्कृता मया तेन प्रभवामि आनन्द ॥
तेन यशो अतुलिया च कीर्ती अभ्युद्गता दशदिशासु ।
तेन अहं विरोचामि सदेवके सब्रह्मके लोके ॥
श्रुत्वान च सो वचनं अवितथवचनस्य लोकनाथस्य ।
आनन्दितो हृष्टचित्तो आनन्दो उत्तरं पृच्छेत्* ॥
केवचिरम् अतीता ते संबुद्धा एन्ति लोकस्मि उच्यतां ।
केवचिरं अस्थांसु हिताय सर्वस्य लोकस्य ॥
एवं कनकप्रकाशो हृष्टो संबुद्धो मुदितमानसो ।
चिरकालम् अत्यतीतान् कीर्तयति महर्षिणो बुद्धान्* ॥
एष परमार्थदर्शी समतुल्यो समसमो च बुद्धेहि ।
दर्शयति प्रातिहार्यं बुद्धो तथ सर्वबुद्धेहि ॥
बुद्धानाम् एष विषयो अचिन्तियो अतुलियो असंख्येयो ।
संहृष्टो स्मि भगवं श्रुत्वा वचनं अमृतकल्पं ॥
अनन्तो अधिगतो अर्थो सदेवकब्रह्मकस्य लोकस्य ।
बुद्धानां एष विषयो अचिन्तियो एष अन्येहि ॥
एको शाक्यकुमारो शाक्यसुतो शाकियोत्तमकुलीनो ।
शाक्यकुलनंदिजननो बुद्धो तथ बोधयति लोकं ॥
दीपंकरस्य अत्यये परिपूर्ण कल्पकोटी आनन्द ।
[_म्वु_3.243_] सर्वाभिभू दशबलो दीपालोके समुत्पद्ये ॥
अस्तंगते च तस्मिं सर्वाभिभुनायके . . . . . ।
पदुमोत्तरो दशबलो कल्पशतसहस्रे उत्पद्ये ॥
तस्य परिनिर्वृतस्य पदुमुत्तरस्य सुगतस्य . . . . . ।
अत्युच्चगामि भगवां कल्पशतसहस्रे उत्पद्ये ॥
अत्युच्चगामिनाथे परिनिर्वृते लोकविश्रुते पुरा वै ।
पंचहि कल्पशतेहि यशोत्तरो बुद्ध उत्पद्ये ॥
निर्वृते यशोत्तरस्मिं नमोन्धकारे प्रनष्टे लोकस्मिं ।
शाक्यमुनि बुद्धवीरो कल्पशतेन समुत्पद्ये ॥
निर्वृते शाक्यमुनिस्मिं संबुद्धे अर्थदर्शि उपपद्ये ।
नवनवते कल्पस्मिं आनन्द इमस्मिं उपपद्ये ॥
पंचनवते च कल्पे तिष्यो उपपद्ये लोकप्रद्योतो ।
द्वानवते च पुष्यो नरर्षभः लोक उत्पद्ये ॥
एकूननवते च कल्पे विपश्यी . . . लोके उपपद्ये ।
त्रिंशे च कल्पे शिखी विश्वभूश् चैव उत्पद्ये ॥
क्रकुच्छन्दो महालोको कोनाकमुनी च काश्यपशिरी च ।
अहम् एव चानन्द उत्पन्नो भद्रकल्पस्मिं ॥
व्याकृतो मया महात्मा भविष्यति बुद्धो अनागते ध्वाने ।
मैत्रेयो महानुभावो आनन्द इमस्मिं कल्पस्मिं ॥
कल्पम् अशेषं भगवां दीपंकरो बुद्धो लोके अस्थासि ।
सर्वाभिभु च कल्पं अस्थासि हिताय लोकस्य ॥
प्रतिपूर्णां वर्षकोटिं पदुमोत्तरो पि लोके अस्थासि ।
[_म्वु_3.244_] अत्युच्चगामि भगवां वर्षशतसहस्रम् अस्थासि ॥
यशोत्तरो नवति वर्षसहस्राणि अर्थदर्शी अस्थासि ।
पंचनवतिं च तिष्यो द्वानवतिं पुष्य अस्थासि ॥
अशीति वर्षसहराणि बुद्धस्य विपस्यिनो पुरा आयुः ।
सप्तति वर्षसहस्राणि शिखीस्य आयुस् तदा आसि ॥
षष्टिं च विश्वभुवस्य पंचाशत् क्रकुच्छन्दस्य पुरायुः ।
त्रिंशत् कोनाकमुनेर् विंशत् पुनः काश्यपशिरिस्य ॥
अस्माकम् अपि आनन्द एतरहिं परीत्तक अस्मिं लोके ।
वर्षशतमात्रम् एव आयुः शाक्याधिराजस्य ॥
[एके अस्थासु ऋद्धीये एके अस्थान्सु कर्मणा ।
ऋद्धिकर्म स्थपेत्वान अन्तरा परिनिर्वृता ॥]
आदित्यो व तपन्तो शरदस्मिं उद्गतो यथाकाशे ।
योजनशतं प्रभाये दीपंकरो स्फरित्वास्थासि ॥
प्रभासयन्तो दशदिशं धर्मं देशयंतो दुल्लभोत्पादं ।
लोकान् दीपेति तेन दीपंकरो ति से सा संज्ञा ॥
सर्वाभिभू दशबलो अभिभूय प्राणिकोटिसहस्राणि ।
अमृतपदस्मिं विनेसि तेन से संज्ञा अनभिभूता ॥
पदुमोत्तरो पुरवरे उद्यानगतो सरे अभिरमन्तो ।
[_म्वु_3.245_] अदर्शि रथचक्रमात्रं सरस्मिं अभ्युद्गतं पदुमं ॥
सो तत्र अभिरुहित्व निषीदि पर्यंकं आभुंजित्वा ।
स्पर्शेसि पंचाभिज्ञा मिलायमाने महापदुमे ॥
पंचाभिज्ञो भूत्व ऋद्धिये वैहायसम् अभ्युद्गम्य ।
उपश्रित्य बोधिमूलं दशबलो सर्वज्ञतां प्राअप्तः ॥
उद्गम्य तालमात्रं अस्थासि अत्युच्चगामी भगवां ।
तेन . . . . . . . अत्युच्चसाह्वयो ति संज्ञा ॥
वैस्तारिकं अभूषि प्रावचन . . . अदान्तदमकस्य ।
अपरिमितयशो भगवतो तेन यशोत्तरो ति अभु संज्ञा ॥
ऋद्धस्फीतपुरवरा निष्क्रम्य शाकियो गौतमगोत्रो ।
अपहाय रत्ना सप्त सो शाक्यमुनीति अभु संज्ञा ॥
अर्थस्मिं अर्थदर्शी अरहत्वे विनेसि श्रावकशतानि ।
तेन समज्ञा लोके अभूषि जिन अर्थदर्शीति ॥
तिष्यमहे वर्तन्ते तिष्यो उत्पद्ये लोकप्रद्योतः ।
तेन समज्ञा लोके तिमिरापनुदस्य तिष्यो ति ॥
पुष्यमहे वर्तंते पुष्यो उत्पद्ये लोकप्रद्योतो ।
तेन समज्ञा लोके नक्षत्रसाह्वयो स पुष्यो ति ॥
अनिमिषसमन्तचक्षुर्विपश्यी रूपाणि पश्यति अनीर्यो ।
विपश्यीति विशुद्धनयनो तेन विपश्यी अभूत् संज्ञा ॥
[_म्वु_3.246_] अर्थं पि अर्थकराणि विधीनि अनुशासते पृथिवीपालो ।
तेन . . . . भगवतो विपश्यीति अभु समज्ञा ॥
अभिसंबुध्यित्व जिनो ओलोकेति विपश्यी यं लोकं ।
केशरिधर्मं दृष्ट्वा तेन विपश्यीति अभु संज्ञा ॥
यस्युत्पादा लोके हुतासनो व प्रज्वलितो समारुतो ।
अतिरिव शिखी प्रदीप्यते तेन शिखीति अभु से संज्ञा ॥
उत्पन्ने च जिनेन्द्रे देवो तदा प्रवर्षति अच्छिन्न ।
धाराहि तेनुद्गमासि घोषो विश्वभुस्य आसि संज्ञा ॥
क्रकुच्छन्दस्य भगवतो कोनाकमुनिस्य काश्यपशिरिस्य ।
कुलवंशात् प्रभृतानि मातापितृनामधेयानि ॥
आदित्यगोत्रो तेजस्वी इक्ष्वाकुकुलसंभवो ।
जातीतः क्षत्रियो अग्रो भगवां अग्रपुद्गलो ॥
अजिते ब्राह्मणकुले अनेकरत्नसंचये ।
अपहाय विपुलां कामां प्रव्रजिष्यति ब्राह्मणो ॥
ऋद्धिस्फीते कुले चैव सुमतिप्रतिमण्डिते ।
पृथिवीमण्डे मैत्रेयो भविष्यति अनागते ॥
प्रथमस्मिं सन्निपाते षण्णवति कोटियो भविष्यन्ति सर्वेषाम् एव अर्हन्तानां वशिभूतानां धुतरजानां । द्वितीये पि सन्निपाते चतुर्नवति कोटियो भविष्यन्ति
[_म्वु_3.247_] सर्वेषाम् अर्हन्तानां वशिभूतानां धुतरजानां । तृतीयस्मिं संनिपाते द्वानवति कोटियो भविष्यन्ति सर्वेषाम् अर्हतां वशिभूतानां धुतरजानां ॥
दीपंकरो महाप्राज्ञो जातीये आसि क्षत्रियो ।
सर्वाभिभू दशबलो सो जातीये आसि ब्राह्मणो ॥
पदुमुत्तरो दशबलो जातीये आसि क्षत्रियो ।
अत्युच्चगामी भगवां जातीये आसि ब्राह्मणो ॥
यशोत्तरो शाक्यमुनिर् जातीये आसि क्षत्रियो ।
अर्थदर्शी च तिष्यो च पुष्यो चापि नरुत्तमो ।
जातीये ब्राह्मणा एते भावितात्मा महर्षिणो ॥
विपश्यी च शिखी चैव विश्वभू चैव क्षत्रिया ।
क्रकुत्सन्दो कोनाकमुनि काश्यपश् चापि ब्राह्मणा ॥
शुद्धोदनस्य राज्ञो इक्ष्वाकुजस्य पुत्रो मायाय ।
शाक्यकुलनन्दिजननो शाक्यो भूत् शाक्यसुकुमारो ॥
कोटीशतपरिवारो स्फरित्व ससुरेश्वरलोकं विरजो ।
विमुक्तो विमुक्तचित्तो मैत्रेयो भविष्यति समज्ञा ॥
द्विहिम् एव ते कुलेहि उत्पद्यन्ति नरोत्तमाः ।
क्ष्त्रियकुले च प्रथमं अथवापि ब्राह्मणकुले ॥
यदा हि अग्रा आख्याता लोकस्मिं भोन्ति क्षत्रिया ।
तदा क्षत्रियकुले बुद्धा उत्पद्यन्ति नरोत्तमाः ॥
[_म्वु_3.248_] यदा तु गुणसंख्याता लोकस्मिं भोन्ति ब्राह्मणाः ।
तदा ब्राह्मणकुले बुद्धा उत्पद्यन्ति महर्षिणः ॥
चतुर्महापथे दृष्ट्वा लोकज्येष्ठं दीपंकरं ।
जटिलं प्रस्तवे हृष्टो बोधिं प्रर्थेन्तो अनुत्तरां ॥
सुवर्णपुष्पं . . . . ग्रहेत्वान कृतांजलि ।
सर्वाभिभुं ओकिरेसि बोधिं प्रार्थेन्तो अनुत्तरां ॥
हेमपिण्डसंकाशां पुष्पां ग्रहेत्वा पुष्पाण अंजलिं ।
पदुमुत्तरं चोकिरे हं बोधिं प्रार्थेन्तो अनुत्तरां ॥
अत्युच्चगामी भगवां लोकस्य अनुकम्पको ।
हिरण्येन ओकिरे हं बोधिं प्रार्थेन्तो अनुत्तरां ॥
यशोत्तरं महाभागं भिक्षुसंघपुरस्कृतं ।
उपासनेन प्रतिमाने बोधिं प्रार्थेन्तो अनुत्तरां ॥
गंधां ग्रहेत्वा . . . सुरभिगंधा महारहां ।
शाक्यमुनिं ओकिरे हं बोधिं प्रार्थेन्तो ऽनुत्तरां ॥
सुवर्णरूप्यवैडूर्यं ग्रहेत्वान कृतंजलि ।
अर्थदर्शिं ओकिरे हं बोधिं प्रार्थेन्तो अनुत्तरां ॥
तिष्यं चाहं लोकनाथं संमुखा हं अभिस्तवे ।
प्रत्युत्पन्नप्रयोगेन बोधिं प्रार्थेन्तो नुत्तरां ॥
पुष्यं चाहं समापन्नो संहृष्टो प्रांजलीकृतो ।
नमस्यमानो अस्थासि बोधिं प्रार्थेन्तो नुत्तरां ॥
[_म्वु_3.249_] विपश्यिं दृष्ट्वा आगतं पूर्णमासी व चन्द्रमं ।
अजिनं प्रस्तरे मार्गे बोधिं प्रार्थेन्तो नुत्तरां ॥
शिखिनं लोकार्थेचरं भिक्षुसंघपुरस्कृतं ।
तर्पेसि खाद्यभोज्येन बोधिं प्रार्थेन्तो नुत्तरां ॥
विश्वभुवं च महार्हेहि चीवरेहि सश्रावकं ।
आच्छादये संप्रहृष्टो बोधिं प्रार्थेन्तो अनुत्तरां ॥
त्रिहि च लोकनाथेहि ब्रह्मचर्यं चरे अहं ।
काश्यपो मां वियाकार्षी बोधिं प्राप्स्यसि अनुत्तरां ॥
आपंचहि कृती येव त्रीहि प्रार्थयामि निर्वृतिं ।
त्रीहि च वासितो लोके त्रिंशको च विवर्तितः ॥
एकनवतिस्मिं कल्पे यदा लोके विवर्तितो ।
अथ अन्ये बोधिसत्वो नव कल्पानि संसरे ॥
वीर्यकायेन सम्पन्नो प्रज्ञापृथुसमाहितो ।
नव कल्पानि स्थायेसि वीर्येण पुरुषोत्तमः ॥
वीर्यन्तु यन्त्रेति बोधिं अनन्यभाषितं बलं ।
न च वीर्यं न प्रशस्तं बोध्यंगबलम् इन्द्रियं ॥
प्रहानदानद[मसंय]मेन समुदागच्छन्ति नरोत्तमा ।
विवर्तमाने लोकस्मिं भवन्ति पुन पुंगवा ॥
ते बोधिं कल्पशतेन समुदानेन्ति नरोत्तमा ।
अथ एकनवते कल्पे संबुद्धो शाक्यपुंगवो ॥
[_म्वु_3.250_] दानशीलं परिगृह्य बोधिसत्वा महायशा ।
दानं शीलं च प्रज्ञां च वर्णयन्ति महर्षिणां ॥
बुद्धान दानं सुगतेन देशितं
अनोमन्यायेन अनोमबुद्धिना ।
तादृशं सुगतम् अनुस्मरन्तो
निरामिषां को न लभेत प्रीतिं ॥
इदम् अवोचद् भगवां सदेवमनुष्यासुरलोको भगवतो भाषितम् अभ्यनन्दत्* ॥
_____समाप्तं बहुबुद्धसूत्रं ॥
महान्तं धर्मसंभारं महाजनहितावहं ।
महावस्तुं महाज्ञानं भदन्तसुगतेन हि ।
सर्वसत्वानां हिताय संबुद्धेन प्रकाशितं ॥
ये च देशेन्ति सद्धर्मं शृणोन्ति ये च देशितं ।
सर्वे ते अधिगच्छन्ति निर्वाणपदम् अच्युतं ॥
सर्वंददस्य पुर जातिर् अभूषि सिद्धा
आचारदानदमथैर् जगतीहितेषी ।
सविघ्नरूपचरितो तद् अभूषि शक्रो
मा च्यावयिष्यति ममेष इतो ग्रस्थानात ॥
सो निर्मिणित्व नरकं सर्वदस्य तस्य
ये दानशूरगुणवां प्रपतन्ति अत्र ।
[_म्वु_3.251_] संहृत्य वीर वत तं दुःखम् एवरूपं
दानं निदानं सर्वसत्व सुखी भवन्तु ॥
शक्रो ब्रवीत् प्रशमदानदमेन वीर
किं प्रार्थयेत्* भगवतीसुखतां परत्र ।
सो ह्य् अब्रवीत् भगवतीपुरे नास्ति काय
प्राग् एव खो भगवतीपुर-अर्थिकेषु ॥
यत्र न जानति जरां न च मृत्युं व्याधिं
न च . . . प्रियजनः प्रियविप्रयोगः ।
शान्तं निरालयं निरन्तरदुःखमोक्षं
प्रार्थयामि पदम् अच्युतं निर्वृतिं च ॥
सो ह्य् अब्रवीत् परमदुष्करम् एतत् स्थानं
बोधीविबोधनकं कामरतिप्रहाणं ।
निवर्तय मतं स्वकं जनयाहि छन्दं
कामसुखे विषमभोगसुखे च रम्ये ॥
शक्रासनं यदि भवे मम नित्यकालं
सर्वैश् च कामरतिभिः न च विप्रयोगं ।
न त्व् एव कामगुणसौख्यनिबद्ध बुद्धि
सर्वज्ञताय प्रणिधिं न निवर्तयेयं ॥
दिव्यानि मानुषसुखानि च यानि लोके
यं चेह जन्मनि सुखास्ति सुखं यम् ऊर्ध्वं ।
ते कल्पकोटिनयुता सुखितो भवेयं
[_म्वु_3.252_] सर्वज्ञताये प्रणिधिं न निवर्तयेयं ॥
दुःखानि यानि च इहास्ति च श्रूयते च
ये कल्पकोटिनयुतेषु बहुप्रकारं ।
ते दुःख कल्पनयुता दुःखितो भवेयं
सर्वज्ञताय प्रणिधिं न निवर्तयेयं ॥
यावन्तरेण परमार्थविदू भवेयं
तावन्तरं यदि अवीचिगतो वसेयं ।
वीर्यं च मे न प्रतिसंहरणाय शक्यं
सर्वज्ञताय प्रणिधिं न निवर्तयेयं ॥
. . . . . . . . . . . . .
. . . . . . . . . यच् च बाल ।
भुंजेय अयोगुडं पिबेय विलीनलोहं
सर्वज्ञताय प्रणिधिं न निवर्तयेयं ॥
पातालमध्ये निवसे वधकेहि सार्धं
खज्जे शरीरं च पुनः पुन संजनेय ।
तद् दुःखं तादृशकम् उद्वहितुं समर्थो
सर्वज्ञताय प्रणिधिं न निवर्तयेयं ॥
शरशक्तिवर्षं यदि वर्षयि तीक्ष्णधारं
सर्वं शरीरं यदि छिज्जति तं अशेषं ।
तद् दुःखं तादृशकम् उद्वहितुं समर्थः
सर्वज्ञताय प्रणिधिं न निवर्तयेयं ॥
[_म्वु_3.253_] यदि गंगवालुकसमेषु करित्व पूजां
बुद्धेषु पश्चहं लभेयम् इमम् अग्रबोधिं ।
तं तावद् दीर्घं भवं संसारितुं समर्थः
सर्वज्ञताय प्रणिधिं न निवर्तयेयं ॥
गर्भासये यदि भवे महकल्पकोटी
जातश् च जातिशतं खिज्जेय अगं मे सो ।
तद् दुःखं तादृशं शरीरगतं सहेयं
सर्वज्ञताय प्रणिधिं न निवर्तयेयं ॥
यानि च दुःखा नरके तथ तिर्यग्योन्यां
प्रेतमनुष्यकभवेषु बहुप्रकारं ।
तं दुःखं सर्वं निपते यदि मे शरीरं
सर्वज्ञताय प्रनिधिं न निवर्तयेयं ॥
यावन्ति प्राणनयुता विनयेयं लोके
तावन्ति कल्पनयुतां नरके वसेयं ।
तं दुःखं तावचिरम् उद्वहितुं समर्थः
सर्वज्ञताय प्रणिधिं न निवर्तयेयं ॥
नाहं पुनः इतो निवर्तयितुं समर्थः
एषो सो निश्चय कृतो जगतो हितार्थं ।
यावन् न प्राप्तम् अमृतं परिपूर्णमासा
सर्वज्ञताय प्रणिधिं न निवर्तयेयं ॥
संनाह एष दृढ वज्रमयो संनद्धो
दाने दमे व्रततपे न मे अस्ति खेदो ।
[_म्वु_3.254_] सत्वान मोचयितुं हं अपुनःभवाय
सर्वज्ञताये प्रणिधिं न निवर्तयेयं ॥
एवं निश्चितमती सुविनिश्चितार्था
बोधीनिबद्धहृदया विचरन्ति लोके ।
लंघितबहुभिर् इव पारगता समुद्रं
प्राप्तोन्ति बोधिं सबलं नमुचिं निहत्वा ॥
अथ खलु राजा शुद्धोदनो यदा भगवां न्यग्रोधारामे पौरुषमात्रं वैहायसम् अन्तरीक्षे विविधविचित्राणि यमकप्रातिहार्याणि करोति यदा राहुर् असुरेन्द्रो वेमचित्री असुरेन्द्रो मुचिलिन्दो असुरेन्द्रो अन्ये च षष्टिर् असुरनयुतानि अनुत्तरां सम्यक्संबोधिं व्याकरित्वा बहूनि च प्राणकोटिसहस्राणि आर्ये धर्मे प्रतिष्ठापयित्वा आत्मना च श्रोतापत्तिफलं साक्षात्कृत्वा दृष्टसत्यो अविपरीतपर्ययो शास्तुः शासने उत्थायासनातो येन भगवांस् तेनांजलिं प्रणामयित्वा भगवतो पुरतो इमं उदानं उदानयति ॥ लब्धा मे पुत्र सुलब्धा लाभा यस्य मे एदृशो पुत्रो द्विपदानाम् उत्तमः सर्वगुणैर् उपेतः । अमोहन्तो पुत्र सफलं चक्रवर्तिराज्यम् अपहाय महान्तं च ज्ञातिवर्गं विजहित्वा अभिनिष्क्रमणं । अमोहं ते सफलं षड्वर्षाणि दुष्करं चीर्णं अहो अमोहं ते सफलकृतेन बोधिः प्राप्ता । अमोहन्ते सफलं च धर्मो प्रकाशितं यस्य ते सदृशो नास्ति सदेवके लोके समारके सब्रह्मके सश्रमणब्राह्मणवणीपके प्रजायां सदेवमानुषासुरायां ॥ ममापि पुत्र अमोहं सफलं च जीवितं
[_म्वु_3.255_] यस्य मम विषये एदृशो पुत्रो उत्पन्नो असदृशो सर्वलोके देवमनुष्याणाम् अग्रो ॥ साधु पुत्र सर्वलोके अर्थसमहितैषी अनुकंपको अनुकंपाम् उपादाय ममापि पुत्र अनुकम्पाम् उपादाय यावतकं कपिलवस्तुं वासं वसितुकामः तं देवसिकं राजकुले भुंजेति ॥ अधिवासये खलु भगवां तुष्णीभावेन ॥
___अथ खलु राजा शुद्धोदनो भगवतो तुष्णीभावेनाधिवासनां विदित्वा हृष्टो प्रीतो सौमनस्यजातो संवृत्तो भगवतः पादौ शिरसा वन्दित्वा त्रिष्कृत्वं प्रदक्षिणीकृत्वा येन भिक्षुसंघं तेनांजलिं प्रणामयित्वा प्रक्रामि ॥ अथ खलु राजा शुद्धोदनो तस्यैव रात्र्यात्ययेन प्रभूतं खादनीयं भोजनीयं प्रतिजागरित्वा कपिलवस्तुनगरं सिक्तसंमृष्टं कृत्वा अपगतरजं अपगतपाषाणशर्करकठल्लं मुक्तपुष्पावकीर्णं गन्धघाटिकाविधूपितं चित्रदुष्यपरिक्षिप्तं विततवितानं ओसक्तपट्टदामकलापं याव च कपिलवस्तुं याव च न्यग्रोधाराम अत्रान्तरे नटनर्तक-ऋल्लमल्लपाणिस्वरिका कुम्भतूणिका वेणुवंशस्वरद्विस्त्वलशोभिकखेलुकभाणकगायनकपंचवटुका देशे देशे स्थापिता तथा भगवतो महता राजानुभावेन महता राजा-ऋद्धीयेन नगरप्रवेशो भवेया ॥
___भगवां दानि अपरेज्जुकातो न चातिकाले न चातिविकाले मागधके प्रातराशे विनासयित्वा च प्रावरित्वा च भिक्षुसंघपुरस्कृतः भिक्षुसंघपरिवृतो दक्षिणेन शारिपुत्रो वामेन मौद्गल्यायनो नुपृष्ठतो आनन्दभिक्षु । द्वयोपराजिकं गच्छन्ति । हंसप्रडीनं बुद्धा भगवन्तो गच्छन्ति ॥ धर्मता खलु पुनर् बुद्धानां भगवतां नगरप्रवेशे
[_म्वु_3.256_] यदा भगवान् नगरं प्रविशति अश्वा हेषन्ति हस्तिनं क्रौंचनादं मुंचन्ति मोरा नृत्यन्ति कोकिला तुणतुणायंति अघट्टितानि वाद्यानि वाद्यन्ति पेडागतान्य् आभरणानि रसन्ति । अन्धा चक्षुं तन्मुहूर्तं प्रतिलभन्ति । वधिरास् तंमुहूर्तं श्रोतं प्रतिलभन्ते । उन्मत्तकास् तंमुहूर्तं स्मृतिं प्रतिलभन्ते । विषपीतका निर्विषा भवन्ति । ये जना अश्राद्धा मन्दप्रसादास् ते दानि प्रतिसंविदिता भवन्ति ॥
___अथ भगवां नगरं प्रविशति ॥ समनन्तरं भगवता कपिलवस्तुनगरद्वारे पादतला उपक्षिप्ता तद् इयं महापृथिवी षड्विकारं कम्पे संप्रकम्पे संप्रचले संप्रवेधे पुरस्तिमं उन्नमति पश्चिमकं ओनमति पश्चिमम् उन्नमति पुरस्तिमं ओनमति दक्षिणं उन्नमति उत्तरा ओनमति उत्तरा उन्नमति दक्षिणा ओनमति ॥ भगवां दानि कपिलवस्तुं नगरं प्रविष्ट अनुपूर्वेण पितुर् निवेशनम् अनुप्राप्तः ॥ तेहि दानि कपिलवास्तव्येहि शाक्येहि शाक्यां संनिपातेत्वा घोषणा कारापिता भवन्तो न केनचिद् राहुलस्याचिक्षितव्यं त्वं भगवतः पुत्रो ति यो आचिक्षिष्यति तस्य वधो दण्डो ॥
___भगवां दानि नित्यकं राजकुले भुंजति ॥ अथ खलु महाप्रजापती गौतमी राजानं शुद्धोदनं विज्ञापयति ॥ महाराज यदि एव अनुकूलं भवेया ततः भगवां मम कुले भुंजेया ॥ राजा आह ॥ गौतमी एवं करोहि ॥ अथ खलु महाप्रजापती गौतमी येन भगवान्स् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा
[_म्वु_3.257_] येन भगवांस् तेनांजलिं प्रणामयित्वा भगवन्तम् एतद् अवोचत्* ॥ अधिवासयतु भगवां शुवेतनाये भक्तेन स्वके निवेशने ॥ अधिवासयति भगवां तूष्णीभावेन ॥ अथ खलु महाप्रजापती गौतमी भगवतः तुष्णींभावेनाधिवासनां विदित्वा प्रभूतं खादनीयभोजनीयं प्रतिजागरित्वा तस्यैव रात्र्या अत्ययेन स्वकं निवेशनं सुक्तसंमृष्टं कारापितं ओसक्तपट्टदामकलापं मुक्तपुष्पावकीर्णं धूपितधूपनं । भगवतो महार्हं आसनं प्रज्ञपितं यथोपकं च भिक्षुसंघस्य ॥ अथ खलु भगवां काल्यम् एव निवासयित्वा पात्रचीवरम् आदाय भिक्षुसंघपुरस्कृतो येन प्रजापतीये गौतमीये निवेशनं प्रविष्टो । निषीदि भगवान् प्रज्ञप्त एवासने यथासनं च भिक्षुसंघः ॥ अथ खलु महाप्रजापती गौतमी स्वहस्तमेव प्रभूतेन खादनीयभोजनीयेन बुद्धप्रमुखं भिक्षुसंघं संतर्पयि संप्रवारयि ॥ भगवां दानि यं कालं भुक्तधौतपाणिर् अपनीतपात्रो भिक्षुसंघो च ततो भगवां महाप्रजापतीगौतमीये अन्तःपुरिकानां च अनुपूर्वीयधर्मदेशणां प्रणामेति । यत् तद् बुद्धानां भगवतां अनुपूर्वीयधर्मदेशना । तद्यथा दानकथां शीलकथां स्वर्गकथां पुण्यकथां पुण्यविपाककथां ॥ प्रसीदि महाप्रजापती गौतमी प्रसन्नचित्ताय पुनः भगवां चत्वार्य् आर्यसत्यानि प्रकाशयति । दुःखं दुःखसमुदयं दुःखनिरोधं मार्गं ॥ महाप्रजापतीये दानि गौतमीये तत्रासने निषण्णाय विरजं विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धं ॥
___राहुलो दानि भगवतो छायाये स्पृष्टः । तस्य दानि सर्वरोमाणि हृष्टानि सर्वगात्राणि प्रक्लिन्नानि सर्वशरीरं च प्रीणितं । भगवतः छायाये निषीदित्वा
[_म्वु_3.258_] भगवन्तम् अनिमिषं निध्यायति ॥ राहुलो दानि मातरं पृच्छति ॥ अम्बे कहिं पिता गतो ॥ यशोधरा आह ॥ पुत्र दक्षिणापथं गतः ॥ राहुल आह ॥ अम्बे केनार्थेन दक्षिणापथं गतः ॥ यशोधरा आह ॥ वाणिज्येन गतो ॥ राहुल आह ॥ किस्य दानि सो मम तातो न किंचित् शोभनं प्रेषयति ॥ यशोधरा आह ॥ पुत्र क्षत्रियेहि मार्गो विरुद्धः ॥ तद् यदि आगच्छ्यति तदा स्वयं आगमिष्यति ॥ राहुलो आह ॥ अम्बे किं एष श्रमणको मह्यं ज्ञातिको भवति । न कहिंचित्* मम एदृशो मनो निपतति यथायं श्रमणो । मन्याम् अहं इदानीं मे सर्वहृदयं हरति । तं नाहेतुकं यन् मम इमस्य श्रमणस्य सह दर्शनेन ईदृशं प्रेमं अतिरिव (उत्पादितं) यथा नान्येषां शाक्यानां । तन् मन्याम् अहं पिता व सो मम ॥ सा दानि यशोधरा आह ॥ पुत्र न एषो तव पिता ॥ राहुलो दानि मातृकरुणकण्ठिकाय याचति ॥ अम्बे अन्यवश्यं मे आचिक्षाहि को मम एष श्रमणको भवति ॥ तस्या यशोधराये प्रेम्नस्नेहेन हृदयं परिपीडितं । पश्यति किं से करिष्यामि । यदि ताव आचिक्षिष्यं वधो दण्डो । अथ दानि नाचिक्षिष्यं स्वको मे पुत्रो परिवंचितो भविष्यति । जाने किं भवतु आचिक्षिष्यं अहं ॥ कामं खलु मे शाक्या तीक्ष्णेन शास्त्रेण अंगम् अंगानि च्छिन्देन्सुः संप्रदालेन्सुः न त्व् एव राहुलशिरिस्य स्वकस्य पुत्रस्य नाचिक्षिष्यं ॥ कामं खलु मे शाक्या कायं तीक्ष्णेन शास्त्रेण वद्धपट्टिकायं पाटयेन्सुः न त्व् एवाहं राहुलशिरिस्य स्वकस्य पुत्रस्य नाचिक्षिष्यं ॥ कामं खलु मे शाक्या कायं तीक्ष्णेन शस्त्रेण कहापणमांसिकं पि च्छिन्देन्सुः न त्व् एवाहं
[_म्वु_3.259_] राहुलशिरिस्य स्वकस्य पुत्रस्य नाचिक्षिष्यं ॥ कामं खलु मे शाक्याः काये अपि बिलशतानि पाटेन्सुः न त्व् एवाहं राहुलशिरिकस्य स्वकस्य पुत्रस्य नाचिक्षिष्यं ॥
अथ दृष्ट्वा आगतं तं गणवरपरिवारितं पुरुषसिंहं ।
मीलितविगतः अभिमनो निध्यायति राहुलो सुगतं ॥
वाराणचकोरनयनां अंजनपूरेहि मुदितनयनेहि ।
मातरम् अवलोकयन्तो निध्यायति राहुलो सुगतं ॥
तं दृष्ट्वा उपनिषण्णं गणवरपरिवारितं पुरुषसिंहं ।
वत्सो इव क्षीरपको उपागमे येन संबुद्धो ॥
सो च मुदितो नरोत्तमो निषण्णो . . . . सुगतच्छायायां ।
आमन्त्रयति जननीं सुखं श्रमणस्येयं छाया ॥
बहुका शाक्यकुमारा दृष्टा मया गता दशसु दिशासु ।
आभरणभारभरिता नो मह्यं मनं प्रसीदेति ॥
यथेमं काषायधरं दृष्ट्वा तूर्णं प्रीण्यति मे गात्रं ।
भाषन्तं मधुरवचनं श्रुत्वान प्रीणितं मे गात्रं ॥
जालमृदुहस्तपादो समन्तप्रासादिको प्रदर्शनियो ।
प्रेक्षन्तो पि नंदाम्य् अहम् असेचनकदर्शनो खु अयं ॥
तुष्टो भवामि दृष्ट्वागच्छन्तं दूरतो कनकवर्णं ।
प्रतिगच्छन्ते तु अहं दुःखितो भवामि अभावेन ॥
पश्यन्तो नाहेतुकं मह्यं यमसंस्तवं कनकवर्णं ।
[_म्वु_3.260_] सहदर्शनाद्* . . . .अतिरिव मनं प्रसादियति ॥
मन्याम् अहं पिता मम भ्राता ततः तहिं तहिं जातीषु ।
आसीद् मम श्रमणको तथा ह्य् अयं प्रीणयति गात्रं ॥
आचिक्षे मह्यं जननि यदि ते दृष्टं श्रुतं पि वा पूर्वं ।
कस्यार्थाये मम सो अतिरिव चित्तं प्रसादेति ॥
तस्य वचनं श्रुणित्वा स्वकस्य पुत्रस्य भाषमाणस्य ।
उष्णम् इव विश्वसन्तो राहुलमाता अतो अब्रवीत्* ॥
परिदह्यते मे हृदयं परिपृच्छति वाचाय मधुराय सो ।
न शक्यं राहुलशिरिस्य स्वकस्य पुत्रस्य नाख्यातुं ॥
कामं खु मह्यं कायं छिन्देन्सुः सुनिशितेन शस्त्रेण ।
न शक्यं राहुलशिरिस्य स्वकस्य पुत्रस्य नाख्यातुं ॥
कामं खु मह्यं कायं शाक्या वद्धपट्टिकायं पाटेन्सुः ।
न शक्यं राहुलशिरिस्य स्वकस्य पुत्रस्य नाख्यातुं ॥
कामं खु मह्यं कायं कहापणमासिकं पि च्छिन्देन्सुः ।
न शक्यं राहुलशिरिस्य स्वकस्य पुत्रस्य नाख्यातुं ॥
कामं खु मह्यं काये शाक्या अपि बिलशतानि पाटेन्सुः ।
न शक्यं राहुलशिरिस्य स्वकस्य पुत्रस्य नाख्यातुं ॥
एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं ।
कर्णिकारं व संकुसुमितं सुवर्णवर्णं प्रसादनियं ॥
[_म्वु_3.261_] यस्यैषा शंखवला भमुकान्तर ऊर्णा दक्षिणवर्ता ।
एषो ते पुत्र पिता यस्यैषा प्रभा च निश्चरति ॥
एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं ।
कालानुसारिसदृशं प्रवायंतं शीलगंधेन ॥
एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं ।
हिमवां व शैलराजा प्रतिष्ठितं ध्यान चत्वारि ॥
एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं ।
नाग इव हेमवन्तो अभ्युद्गत आर्यसंघस्य ॥
एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं ।
सिंह इव दाठि बली विलोकयन्तं दशदिशासु ॥
एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं ।
ऋषभो इव गोगणस्य परिवारितम् आर्यसंघेन ॥
एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं ।
चन्द्रो व पूर्णमासी प्रभाय लोकं विरोचयति ॥
एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं ।
सूर्यो व उदयन्तो अन्धान जनेति ओभासं ॥
एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं ।
शक्रो व देवराजा पुरस्कृतो देवतागणेहि ॥
एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं ।
ब्रह्मा व ब्रह्मलोके उदीरयति अद्भुतं घोषं ॥
एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं ।
[_म्वु_3.262_] सालवनं व संकुसुमितं द्वात्रिंशलक्षणरुचिरांगः ॥
एषो ते पुत्र पिता यो नगरवरं त्वां चापि ममं च ।
अवहाय निष्क्रान्तो अनपेक्षी ज्ञातिसंघस्य ॥
एषो ते पुत्र पिता यं पश्यसि दूरतो कनकवर्णं ।
शयने सुखप्रसुप्तां कण्ठकम् अभिरुह्य निर्यातो ॥
एतस्य देवता हि द्वारं विवरेन्सु लोकनायकस्य ।
शब्दं चान्तरहाये मा कोचि जनो श्रुणे शब्दं ॥
सो तत्र मल्लविषये आमन्त्रेसि च्छन्दकम् आसीनो ।
चूडा सा परिगृहीता आहर शुद्धोदनसकाशं ॥
आभरणा कण्ठकं च . . . उपनामय पृथिवीपाले ।
अभिवादनं च ब्रूहि मातुश् च ममं नरपतिं च ॥
अनिवर्तितं गमिष्यं कृतस्वकार्थश् च आगमिष्यामि ।
ओहितभारविशल्यो पुण्यक्षेत्रो भवे लोके ॥
ओहितभारविशल्यो कृतस्वकार्थो जितक्लेशो ज्ञाति ।
गणं अनुकम्पमानो इह आगतो व कपिलवस्तुं ॥
राहुलो दानि मातुः सकाशातो श्रुत्वा एषो मे पिता ति ततः भगवतो चीवरकोणके श्लिष्ट आह ॥ अम्बे यदि एष मम पिता भवति अगारस्यानगारियं प्रव्रजिष्ये पैतृकं मार्गं अन्वेष्यं ॥ समनन्तरं राहुलो भगवतश् चीवरकोणके संश्लिष्टः । ताहि दानि अन्तःपुरिकाहि रावो सृष्टो ॥ राजा दानि शुद्धोदनो
[_म्वु_3.263_] तं रवं श्रुत्वा भीतो पृच्छति ॥ कस्यैष पापको शब्दः महतो जनकायस्य निर्घोषा यादृशो सर्वार्थसिद्धे अभिनिष्क्रान्ते ॥ ततः अपरेहि आख्यातं ॥ देव राहुलकुमारो भगवतश् चीवरकोणके संश्लिष्टो अहम् अपि प्रव्रजिष्यामीति ॥ राजा दानि शुद्धोदनो उत्कण्ठितो उत्कण्ठं उत्सृजति राजवंशे ॥ राजा दानि शुद्धोदनो प्ररुण्डो यदा राजा प्ररुण्डो तदा सर्वं शाक्यमण्डलं प्ररुण्डं । एवं दानि अभ्यन्तरतो वाह्यतो च एकोरोदनं वर्तति ॥ राजा शुद्धोदनो रोदित्वा अश्रूणि परिमार्जयन्तो येन भगवान्स् तेनोपसंक्रमित्वा भगवतः पादौ वन्दित्वा एकासम् उत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठापयित्वा येन भगवान्स् तेनांजलिं प्रणामयित्वा भगवन्तम् एतद् अवोचत्* ॥ पर्याप्तं यं भगवां चक्रवर्तिराज्यम् अवहाय महान्तं च . . . . एको अभिनिष्क्रान्तो तत् साधु भगवं राहुलकुमारं अनुजानाहि यं न प्रव्रजिष्यति मा अयं राजवंशो उद्विद्धिष्यति ॥ भगवान् आह ॥ चरमभविको महाराज एषो सत्वो कृताधिकारो वासितवासनो अन्येहि बुद्धेहि अभव्यो एषो गृहकलत्रमध्यावसितुं । एतेहि एव स्कंधेहि परिनिर्वापयितव्यं ॥ राजापि शुद्धोदनो श्राद्धप्रसंनो श्रद्दधाति भगवतो आह च ॥ यतो भगवान् अभिनिष्क्रान्तो ततो एकेहि अस्माभि न शक्षितं किंचिद् राहुलस्य अधिकारं कर्तुं न जातकर्मापि न जटाकरणकर्मापि न कुण्डलवर्धनं । यदा भगवं राहुलेन अत्यवश्यं प्रव्रजितव्यं तत् साधु भगवां आगमेतु सप्त दिवसानि सप्तमे दिवसे अभिनिष्क्रमणं करिष्यति तम् एव से भविष्यति जातिकर्म तम् एव चूडाकरणं तम् एव कुण्डलवर्धनं तम् एव अभिनिष्क्रमणं ॥
[_म्वु_3.264_] अथ खलु भगवां राहुलम् आमन्त्रयति ॥ निवर्ताहि राहुल यथा ते अय्यको आणपेति तथा करोहि ॥ राहुलः दानि भगवतो चीवरकोणका ओसृष्टो ॥
___यशोधराये दानि राहुलं हस्ते गृहीत्वा अन्तःपुरं प्रवेशितो उत्संगेन गृहीत्वा निषण्णा आह ॥ पुत्र राहुल मा प्रव्रजाहि दुरभिसंभुणं नाम दानि पुत्र मन्यसि । एदृशानि काशिकसूक्ष्माणि वस्त्राणि धारेतव्यानि यथा इह राजकुले एदृशाहि महार्हाहि शय्याहि शयितव्यं यथेह राजकुले एदृशानि मृष्टानि भोजनानि भोक्तव्यानि यथेह राजकुले । अपि तु पुत्र राहुल प्रव्राजिकेन भूम्यां तृणसंस्तरिके शयितव्यं वृक्षमूले शेय्यासनं चण्डालपुक्कसकुलानि पिण्डाय गन्तव्यं क्रुड्ढप्रसन्नानां मुखं निरीक्षितव्यं अपि श्वसमानं पि उच्छिष्टं भोजनं भोक्तव्यं । अपि कुम्भवासीये श्मशाना उज्झितचोडका साहर्तव्या अरण्यायतनेहि विहर्तव्यं । तत्र भैरवाणि शब्दानि श्रूयन्ति सय्यथीदं सिंहशब्दा पि व्याघ्रशब्दा पि भेरुण्डकशब्दा पि । त्वं च पुत्र राहुल सुकुमारो सुखोचितो राजकुले संवृद्धो त्वं च पुत्र संमर्जितको वीणावंशपणवमधुरां शब्दां श्रुणमाणो कथं ते रतिर् भविष्यति तं कुहं नाम संभुणिष्यसि ॥ तत्र साधु पुत्र राहुल इह अन्तःपुरे पंचहि कामगुणेहि क्रीडाहि प्रविचारयाहि किं चानेन प्राव्राज्येन ॥ राहुल आह ॥ अम्बे न सो मम पिता महाराजकुले संवृद्धो ॥ यशोधरा आह ॥ एवम् इदं ॥ राहुल आह ॥ अम्बे यो कोचित् सम्यग्वदमानो वदे सो सुकुमारो परमसुकुमारो ति तत् सो यो मे पिता
[_म्वु_3.265_] न सो भूम्यां तृणसंस्तरिके शयति वृक्षमूले शय्यासनं कल्पयति कुलाकुलेषु पिण्डाय चरति उच्छिष्टानि भोजनानि भुंजति अरण्यायतने विहरति न सो पि नाम एवं सुकुमारो एवं सुखोचितो तेनापि अभिसंभुणितं तद् वयं नाभिभुणिष्यामः ॥ अपि च अम्बे कामान् अवहाय अगारस्यानगारियं प्रव्रजिष्यं अत्यवश्यं निर्वाणं प्रापयिष्यामो । अपि च अम्बे यद्य् अत्र कोचि धृतिमां स्मृतिमां मम एवं तत्र गणयाहि अहम् एव प्रव्रजिष्यं अन्वेष्यं पैतृकं मार्गं ॥ यशोधरा आह ॥ पुत्रावश्यं प्रव्रजिष्यसि ॥ राहुल आह ॥ बाढं अत्यवश्यं ॥ यशोधरा आह ॥ नास्ति मोक्षो ॥ राहुल आह ॥ नास्ति ॥ यशोधरा आह ॥ परित्यजसि ममं च आर्य्यकं च ज्ञातिवर्गं च ॥ राहुलो आह ॥ बाढं परित्यजिष्ये ॥ यशोधरा आह ॥ शृणु पुत्र यदि तावद् अत्यवश्यं अगारस्यानगारियं प्रव्रजसि ततो षडिन्द्रियेहि सुसंवृतगुप्तद्वारेण विहरितव्यं भोजने च ते मात्रज्ञताये भवितव्यं । पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तेन भवितव्यं । आरब्धवीर्येण ते भवितव्यं । स्थानचंक्रमनिषद्यायोगम् अनुयुक्तेन ते विहरितव्यं । अपि मान्सशोणितं ते पुत्र परित्यजितव्यं । न चैव बुद्धप्रज्ञप्तिशिक्षापदं अतिक्रमितव्यं । प्रज्ञप्तं च ते पुत्र भगवतो शिक्षापदं परिपूर्ण्णं धारयितव्यं । अपि जीवितहेतोर् अपि ते पुत्र अण्वेतव्यं । अप्राप्तस्य निर्वाणस्य प्राप्तये सुसंवृतेन च ते पुत्र भवितव्यं ॥ तत् कस्य हेतोः ॥ आगच्छन्ति हि पुत्र स्त्रीमहल्लिका प्रासादिका दर्शनीया भगवतो पादवन्दीयो तेषां ते पुत्र मातृसंज्ञा उपस्थापयितव्या । आगच्छन्ति पुत्र स्त्रीकुमारीयो प्रासादिका दर्शनीया आभरणभरिता तत्र ते पुत्र च्छन्दो न करणीयो अपि तु ते
[_म्वु_3.266_] पुत्र तस्मिं समये दुःखानुपश्यिना विहरितव्यं अनित्यानुपश्यिना विहरितव्यं ॥ यदि शक्नोसि पुत्र राहुल प्रव्रज्यातो चित्तं विनिवर्तयितुं ततः सप्रसादो भवाहि ॥
___अथ खलु राज्ञा शुद्धोदनेन कपिलवस्तुनगरे आणत्तिका दिन्ना । यत्तकं कपिलवस्तुस्मिं नगरे सामन्तं द्वादश योजनानि यत् किंचिद् गन्धं च माल्यं च पुष्पं च चूर्णं च तं सर्वं समुदानयथ । यत्तका नटनर्तक-ऋल्लमल्लपाणिस्वरिका संनिपातेथ ॥
मनसा देवानां वचसा पार्थिवानां
अचिरेणाढ्यानां कर्मणा दरिद्राणाम् इति ॥
राज्ञो वचनमात्रेण तं नगरम् अलंकृतं शोधितं अपगतशर्करकठल्लं धूपघटिकाविधूपितं अवसक्तपट्टदामकलापं चित्रदुष्यपरिक्षिप्तं विततवितानं मुक्तपुष्पावकीर्णं ॥
. . . . . . . . . . . . . . . . . .
. . . . . . . . . . . . . . . . . .
किंकारणा विविधमाल्यभूषणा प्रथमयौवनधरीयो ।
शृंगाटके स्थितानि बहूनि प्रमदासहस्राणि ॥
प्रासादगर्भनिलया कुमारिका . . . . तदा आसि ।
मृगिका व त्वरितत्वरिता ओलोकनका निधावन्ति ॥
शुद्धोदन-आत्मजस्य पुत्रो बुद्धस्य राहुलो नाम ।
विजहिय . . . . भगवां राज्यं चवहाय प्रव्रजति ॥
[_म्वु_3.267_] पटहानि च वीणायो वादेन्ति वरस्वरा प्रमुंचंति ।
आहन्यन्ति मृदंगा न चिरं निर्यास्यति कुमारो ॥
वल्लकिपरिवादिनीयो मधुरं गुमुगुमुन्ति कोणपरिघटिता ।
. . . . . . . . . न चिरं निर्यास्यति कुमारो ॥
द्वीपि-अजिनेहि विचित्रो सनन्दिघोषो रथो परिच्छन्नः ।
अभिरुह्य रथं . . . . अभिमनो कुमारो भिनिष्क्रमति ॥
कामस्वस्त्ययनानि पाणिघटसहस्रा अमितयशस्य ।
निनंदिंसुः अग्रतो राहुलस्य अभिनिष्क्रमन्तस्य ॥
एते अंशुकशिखरीजाता शाटककम्बलकनिवस्ता ।
हस्तिस्कंधवरगता कुमार निर्यान्तम् अनुयान्ति ॥
एते अंशुकशिखरीजाता शाटककम्बलकनिवस्ता ।
विचित्रसुमधुरभणिता कुमार निर्यान्तम् अनुयान्ति ॥
रथयुग्ययानयोजनं समाचितं शिरिये विय पश्यन्ति ।
पुनः अश्रुपूर्णनयना राज्ञो अन्तःपुरिका दुःखिता ॥
वारणचकोरनयनो संप्रति नगरद्वारम् अनुप्राप्तः ।
इन्द्रो व मरुहि परिवृतो अन्तःपुरिकाहि ललिताहि ॥
न्यग्रोधारामं गतं नरुत्तमं नायकं पुरुषसिंहं ।
उपगम्य कनकवर्णं नरुत्तमं राहुलो पितरं ॥
[_म्वु_3.268_] वन्दति च उत्तमयशं यशप्राप्तो मृदुतलेहि जालेहि ।
शीर्षं परिमार्जते च नरर्षभो कुंजरपुत्रस्य ॥
किं राहुलभद्र फलिता नियमप्रेक्षा त्वं सकरुणरूपं ।
विजहिय भवान्तको भव स्पर्षेहि निर्वाणं ॥
भगवां दानि आयुष्मन्तं शारिपुत्रम् आमन्त्रयति ॥ प्रव्राजेहि शरिपुत्र राहुलं सकुटिको ते भविष्यति ॥ स्थविरो दानि भगवन्तं पृच्छति ॥ कथं भगवं प्रव्राजयिष्यं ॥ भगवान् आह ॥ यथा शारिपुत्र आर्ये धर्मविनये प्रव्रज्य कुमारभूतस्य ॥ भणाति अहं राहुलो बुद्धं शरणं गच्छामि धर्मं शरणं गच्छामि संघं शरणं गच्छामि । द्वितीयं पि अहं राहुलो बुद्धो मे शरणो अनन्यशरणो धर्मो मे शरणो अनन्यशरणो संघो मे शरणो अनन्यशरणो ॥ अहं राहुलो यावज्जीवं प्राणातिपातात् प्रतिविरमिष्यं यावज्जीवम् अदत्तादानात् प्रतिविरमिष्यं यावज्जीवं कामेहि मिथ्याचारात् प्रतिविरमिष्यं यावज्जीवं मृषावादात् प्रतिविरमिष्यं यावज्जीवं सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरमिष्यं उपासकं मे धारेहि इमेहि पंचहि शिक्षापदेहि ॥ अहं राहुलो बुद्धं भगवन्तं प्रव्रजितम् अनुप्रव्रजामि द्वितीयकं पि बुद्धं भगवन्तं प्रव्रजितम् अनुप्रव्रजामि तृतीयं पि राहुलो बुद्धं भगवन्तं प्रव्रजितम् अनुप्रव्रजितो हम् अस्मि ॥ अहं राहुलो यावज्जीवं प्राणातिपातात् प्रतिविरतो वैरमणं श्रामणेरस्य शिक्षापदं यावज्जातरूपरजतप्रतिग्रणशिक्षापदं धारयामि । इमे हि दश शिक्षापदानि ॥ स्थविरो दानि राहुलस्य केशान्य् ओतारेत्वा प्रव्राजेत्वा दक्षिणेन हस्तेन
[_म्वु_3.269_] शारिपुत्रो गृहीत्वा वामतो मौद्गल्यायनो तृणसंस्तरकं उपविशेन्सुः ॥ एवं दानि भगवां कर्तव्य . . . . .
दिवि भुवि च विश्रुतयशं विनीतगणश्रावकं विपुलप्रज्ञं ।
श्रावकयुगं दशबलो आमन्त्रये करकन्दिकरो ॥
तीक्ष्णा हि इन्द्रियाणि आज्ञास्यति राहुलो इमं धर्मं ।
प्रव्रजतु कुमारो सो कृतानुकारी भवतु मह्यं ॥
कालज्ञो शारिसुतो . . . . . लोकनायकं अवचि ।
प्रव्राजेमि कथम् अहं राहुलशिरि मान्सजं जिनस्य ॥
लोकम् अनुकम्पमानो ब्रह्मस्वरो नायको समाख्याति ।
यथ आर्यधर्मविनये प्रव्रज्या कुमारभूतस्य ॥
वामेन ग्रहेत्वा मौद्गल्यायनो दक्षिणेन उपतिष्यो ।
प्रव्राजेत्वा एतं तृणसंस्तरकं उपविशेन्सुः ॥
सो वलयकानि सुवर्णसूत्रं च यस्य काये ओहरति ।
न भूयो चरे दुःखार्त्तो आर्त्ता स्मरन्ति दशबलस्य ॥
वारणचकोरनयनं माता पुत्रं विशालताम्राक्षं ।
उत्संगे स्थापयित्वा इमाहि गाथाहि अध्यभाषि ॥
उत्तमप्रावारधरो अनुलेपनरागवासितशरीरः ।
दुःचरकं स्रामण्यं अत्यन्तसुखोचितेन त्वया ॥
तायीनां प्रमुदितव्यं चोलकखण्डा वर्चे खनित्वान ।
[_म्वु_3.270_] उच्छिष्टं भोक्तव्यं अपि राहुल कुम्भदासीये ॥
तुवं सुवर्णनूपुरो . . . . . . . . . . . ।
उत्तप्तकांचनसबलो ज्ञाती तुह्यं अभिरमेन्ति ॥
किन् तव पुत्र अरण्येन श्रुत्वा तासां घोषं वीणानां ।
मधुरमंजूघोषाणां . . . . . . नकुलकानां ॥
न धारेसि इमस्मिं प्रावचने . . . . . . एहि पुत्र ।
प्रतिगच्छ पराङ्मुख्यो न हि सुलभं अच्युतं स्थानं ॥
राहुल आह ॥
यदि मातः केचिद् उद्घटितज्ञा ममापि तत्र गणयाहि ।
अहम् अपि हि क्लेशमथनो अनुगंसं पैतृकं मार्गं ॥
निशिशाति नापितो खुरं राहुलो च मणिचूडं मुंचेति ।
तदा अभिमनो . . . . . अनुस्मरन्तो द्विपदश्रेष्ठं ॥
दृष्ट्वा च नं अभिमनं उद्युक्तं शासने दशबलस्य ।
तं प्रापुणाहि क्षिप्रं स्फृश निर्वाणं सुखं शान्तं ॥
ये ते पुत्रक धर्मा जातिं च जरां च वीतिवर्तेन्ति ।
तां प्रापुणाहि क्षिप्रं इति राहुलं अपि सो अवच ॥
तां शिरसिजसल्लेखां आवल्लितनीलकण्ठसहवर्णां ।
[_म्वु_3.271_] उत्संगेन ग्रहेत्वान मातास्य प्रतिच्छुपति केशां ॥
सा अश्रुपूर्णनयना यशोधरा धर्मवेगसंजातं ।
पुत्रं स्वं राहुलशिरिं अपगतकेशशिरं दृष्ट्वान ॥
तं अपगतगृहिलिंगं द्रुमरक्तं काषायप्रावृतकं ।
मौद्गल्यानुपतिष्या प्रव्राजयि राहुलकुमारं ॥
स प्रव्रजितो ततो वै पुत्रो द्वात्रिंशल्लक्षधरस्य ।
विहरति शिक्षाकामो उपतिष्यं निश्राय स्थविरं ॥
एवं त्वयि प्रतिरूपं यो त्वं श्रद्धाय प्रव्रजित्वान ।
कामगुणेष्व् अनपेक्षो चरसे अलिप्तमनो . . . ॥
शालीनमोदनं शुचि अनेकसूपरसव्यंजनोपेतं ।
भुंजित्व शाकियकुले पिण्डाये राहुलो चरति ॥
तमतिमिरपटलमथनं पुत्रं बुद्धस्य राहुलं नाम ।
सर्वाश्रवप्रहीनं वन्दथ शिरसा च मनसा च ॥
अथ खलु यशोधरा राहुलमाता यदा भगवान् अन्तःपुरिकानां मूले भुजित्वा ततः यशोधरा राहुलमाता तासां ज्येष्ठिकानां गौरवेण पश्चिमके दिवसे येन भगवान्स् तेनांजलिं प्रणामयित्वा भगवन्तं सश्रावकसंघं शुवेतनाय भक्तेन निमन्त्रेति । अधिवासये भगवां तूष्णीभावेन ॥ अथ खलु यशोधरा भगवतस् तूष्णीभावेनाधिवासनां विदित्वा हृष्टा प्रीतिसौमनस्यजाता संवृत्ता ॥ तस्या एव रात्र्या
[_म्वु_3.272_] अत्ययेन प्रभूतं खादनीयभोजनीयं प्रतिजागरित्वा बहूनि प्रत्यग्रप्रणीतानि मोदकानि वर्णगन्धरसोपेतानि प्रतिजागरित्वा तस्यैव रात्र्यात्ययेन स्वकं निवेशनं सिक्तसंमृष्टं कारापितं ओसक्तपट्टदामकलापं मुक्तपुष्पावकीर्णं विततवितानं भगवतो महार्हासनप्रज्ञप्तिः कृता यथोपकं च भिक्षुसंघस्य ॥
___अथ खलु भगवां काल्यस्यैव निवासयित्वा पात्रचीवरम् आदाय भिक्षुसंघपरिवारितो न्तःपुरं प्रविशति ॥ अथ खलु यशोधरा राहुलमाता नानाप्रकारेहि वस्त्रेहि चाभरणेहि चात्मानम् अलंकृत्वा भगवन्तं परिविशति मोदकेन च भगवन्तं प्रलोभयति अप्य् एव नाम आर्यपुत्रः अगारम् अध्यावसेया न च भगवतो चित्तस्यान्यथात्वं ॥ अथ भगवां यं कालं भुक्तो धौतपाणिर् अपनीतपात्रो भिक्षुसंघो च ततः भगवता राजा शुद्धोदनो महाप्रजापती गौतमी यशोधरा च राहुलमाता सपरिवारा धर्मया कथया . . . . संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा उत्थायासनातो प्रक्रामि ॥
___भिक्षू दानि भगवन्तम् आहन्सुः ॥ पश्य भगवं कथं यशोधरा सर्वालंकारविभूषिता आत्मानम् अलंकृत्वा भगवन्तं परिविशति मोदकेन च भगवन्तं प्रलोभयति न च चित्तस्यान्यथाभावो ॥ भगवान् आह ॥ न हि भिक्षवः एतरहिम् एव अन्यदापि एषा यशोधरा सर्वालंकारविभूषिता आत्मानं अलंकृत्वा परिविशति मोदकेन च प्रलोभयति अत्रान्तरे एकशृंगजातकं पुनः कर्तव्यं ॥
___भगवान् अनुत्तरं सम्यक्संबोधिम् अभिसंबुद्धित्वा तत्रैव बोधिमूले तृणसंस्तरके निषण्णो पर्यंकम् अभिद्यन्तो प्रीतिसुखेन सप्ताहं आसति ॥ इह मया बोधिद्रुमे अग्रता प्राप्ता
[_म्वु_3.273_] सप्ताहं पूर्णो संबोधिं बुद्धित्वा जातिजरामरणगहनकान्तारस्य पर्यन्तं कृतं । इह मया क्लेशमारो भग्नो देवपुत्रमारो भग्नो इह मम अपरिमितम् असंख्येयप्रणिहिता प्रणिधि समृद्धा । इहाहं बोधिद्रुमे अनवराग्रस्य . . . . . . . .
[सप्ताहपूरं संबुद्धो बोधिं बुद्धित्वा] उत्तमां ।
आसनातो न उत्थेसि सर्वलोकस्य चेतियो ॥
देवकोटीसहस्राणि गगणस्मिं समागता ।
पुष्पवर्षं प्रवर्षेन्सुः सप्तरात्रम् अनूनकं ॥
उत्पलां पदुमां दिव्यां पुण्डरीकां मनोरमां ।
सहस्रपत्रां रुचिरां तत्र देवा प्रवर्षति ॥
मारश् च दुर्मना आसि काण्डेन लिखते महीं ।
जितो स्मि देवदेवेन शाक्यसिंहेन तायिना ॥
त्रयस्त्रिंशा च यामा च तुषिता ये च निर्मिता ।
परनिर्मिता देवा च कामधातुप्रतिष्ठिता ॥
लोहितं चन्दनं दिव्यं अगुरुं तथ चम्पकं ।
दिव्या च पुष्पवर्षाणि अन्तरीक्षातो ओकिरे ॥
दिव्यं च रतनचूर्णं अन्तरीक्षातो ओसिरे ।
अक्षमात्राहि धाराहि बुद्धक्षेत्रं स्फरी इमं ॥
ब्रह्मकोटीसहस्राणि गगनस्मिं समागता ।
वर्षंति सूक्ष्मं चूर्णं हि दिव्यं लोहितचंदनं ॥
भूम्यां देवां उपादाय शुद्धावासां स्वयंप्रभां ।
[_म्वु_3.274_] एषा परंपरा आसि देवताहि परिस्फुटा ॥
छत्त्रध्वजपताकाहि अन्तरीक्षं परिस्फुटं ।
करोन्ति पूजनां श्रेष्ठां संबुद्धस्य शिरीमतो ॥
आभा च विपुला मुक्ता बुद्धक्षेत्रं परिस्फुटं ।
भवाग्रलोकधातूयो अग्निशुभ्रा व तिष्ठति ॥
प्रशान्ता निरया आसि बुद्धरश्मिभि सर्वशो ।
शीतीभूता च अंगानि सर्वे च सुखिता अभूत्* ॥
येषां नैरयिकं दुःखं परिक्षीणं तद् अनन्तरं ।
निरयेषु च्यवित्वान देवेषु उपपद्यिषु ॥
संजीवे कालसूत्रे च तपने च प्रतापने ।
प्रशान्तो रौरवे अग्निर् लोकनाथस्य रश्मिभिः ॥
अवीच्याम् अथ संघाते प्रत्येकनिरयेषु च ।
प्रशान्तो सर्वशो अग्निर् लोकनाथस्य रश्मिभिः ॥
यावन्ता लोकधातूषु प्रत्येकनिरया अभूत्* ।
प्रशान्तो सर्वशो अग्निर् लोकनाथस्य रश्मिभिः ॥
ये च तिरच्छानयोनीयं मान्सरुधिरभोजना ।
मैत्राय स्फुट बुद्धेन न हिंसन्ति परस्परं ॥
छत्त्रध्वजपताकाभिः बोधिवृक्षो अलंकृतो ।
कूटागारेहि संछन्नो देवपुत्रेहि निर्मितो ॥
खण्डकान्तारका पि च शर्करसिकता पि च ।
समन्ता बोधिमण्डातो हेष्टा भूमौ प्रतिष्ठिता ॥
[_म्वु_3.275_] रत्नामयीये भूमीये बोधिमण्डं परिस्फुटो ।
या नाभि बुद्धक्षेत्रस्य देवपुत्रेहि निर्मिता ॥
देवपुत्रसहस्राणि धरणीये प्रतिष्ठिता ।
धूपनेत्रां ग्रहेत्वान पूजयन्ति लोकनायकं ॥
हेष्टा च धरणी सर्वा पद्मेहि च परिस्फुटा ।
जाम्बुनदसुवर्णस्य बुद्धतेजेन उद्गता ॥
ये चापि व्याधिदुःखार्त्ता अलेना अपरायणा ।
अरोगा सुखिता भूता बुद्धरश्मिपरिस्फुटा ॥
जात्यन्धा रूपा पश्येन्सु लब्ध्वा चक्षुं विशारदं ।
परस्परं चालपेन्सुः बोधिप्राप्तस्य तायिनो ॥
रागश् चाप्य् अपि च दोषो मोहश् च अन्तकीकृतः ।
यं कालं शाक्यसिंहेन प्राप्ता बोधि महर्षिणा ॥
प्रासादा च विमाना च कूटागारा मनोरमा ।
सर्वे ततोमुखा आसि बोधिसत्वस्य तायिनो ॥
यावन्तो बुद्धक्षेत्रस्मिं नरनारी च किन्नरा ।
सर्वे ततोमुखा आसि येन बोधि महर्षिणः ॥
देवता देवपुत्राश् च देवकन्या च शोभना ।
सर्वे ततोमुखा आसि येन सो पुरुषोत्तमः ॥
नागाश् चाप्य् अथ गन्धर्वा यक्षा कुम्भाण्डराक्षसा ।
सर्वे ततोमुखा आसि येन बोधि महर्षिणो ॥
दारका दारिका चैव शय्यायं अवरोपिता ।
[_म्वु_3.276_] ततोमुखा संस्थिहंसु येन बोधि महर्षिणो ॥
ये चाप्य् आभरणा दिव्या विशिष्टा रतनामया ।
आबद्धा आसि देवानां सर्वे ततोमुखा अभू ॥
नागानां अथ यक्षाणां पिशाचराक्षसान च ।
अभू आभरणा सर्वे येन बोधि निरिंगिता ॥
देवानाम् अथ नागानां यक्षाणां राक्षसान च ।
ततोमुखा विमानाभू येन बोधि महर्षिणो ॥
नूपुरा वलया चैव अथ वा पारिहारका ।
बोधिप्राप्तस्य बुद्धस्य येन बोधि निरिंगिता ॥
वलंजिता च निष्कानि कण्ठे हारा च शोभना ।
आबद्धका मनुष्याणां येन बोधि निरिंगिता ॥
मुक्ताहारा च आबद्धा चित्रा च मणिकुण्डला ।
ओगुण्ठिका मुद्रिका च येन बोधि निरिंगिता ॥
यावन्ति बुद्धक्षेत्रस्मिं सत्वधातू अचिन्तिया ।
जानन्ता च अजानन्ता येन बोधि निरिंगिता ॥
वाता च शीतला वाये मंजुगन्धा मनोरमा ।
समन्ता बोधिक्षेत्रस्मिं बोधिप्राप्तस्य तायिनो ॥
एकपुत्रस्मिं यं प्रेम्नं शुश्रूषा च प्रतिष्ठिता ।
मातापितॄणां इष्टस्मिं एवं आसीत् तद् अनन्तरं ॥
यावन्ति बुद्धक्षेत्रस्मिं देवा नागा च मानुषा ।
असुरा च किन्नरा यक्षा सर्वे पश्यन्ति नायकं ॥
[_म्वु_3.277_] धूपनेत्रां ग्रहेत्वान सर्वे तेन सुखस्थिता ।
पूजेन्ति लोकप्रद्योतं [बोधिमण्डे प्रतिष्ठितं] ॥
अंजलीहि नमस्यन्ति गाथाहि च स्तवन्ति ते ।
पूजां करोन्ति बुद्धस्य बोधिमण्डे प्रतिष्ठिता ॥
सर्वे आसन्नं पश्यन्ति लोकनाथं प्रभंकरं ।
न कश्चिद् दूरे संजाने व्याममात्रे यथा स्थितं ॥
न कश्चित् पृष्ठतो बुद्धं लोकधातूय पश्यति ।
सर्वदिशा हि बुद्धस्य समन्ता पश्यति मुखं ॥
वामदक्षिणपार्श्वेन न कश्चिल् लोकनायकं ।
संजानति महावीरं सर्वे पश्यन्ति संमुखं ॥
धूपनं बुद्धक्षेत्रस्मिं धूपितं च तद् अनन्तरं ।
समन्ता बुद्धक्षेत्राणां गन्धेन कोटियो स्फुटा ॥
न शक्यं गणनां कर्तुं एत्तिया सत्वकोटियो ।
पश्यित्वा शिरिं बुद्धस्य ये बोधिम् अभिप्रस्थिताः ॥
तृणा च ये केचिद् अस्ति औषधीयो वनस्पति ।
सर्वे ततोमुखा आसि येन बोधि महर्षिणो ॥
को इमां एदृशां धर्मं लोकनाथेन देशितां ।
श्रुणित्वा न सिया तुष्टो अन्यत्र मारपक्षिकात्* ॥
न शक्या सर्वम् आख्यातुं वाचाय ऋद्धिभाषतः ।
या शिरी आसि बुद्धस्य बोधिप्राप्तस्य तायिनो ॥
[_म्वु_3.278_] येहि च दृष्टो संबुद्धो बोधिमण्डे प्रतिष्ठितः ।
पूजितश् च महावीरो ते श्रुत्वा तुष्ट पण्डिता ॥
शीलस्कन्धेन अच्छिद्रा ये च भिक्षू प्रतिष्ठिता ।
तेषां श्रुत्वा इदं सूत्रं महाहर्षं जनेष्यति ॥
भद्रकक्षान्तिसौरभ्यसंपन्ना अदीनमानसा ।
अर्थिका बुद्धज्ञानेन तेषां तुष्टिर् भविष्यति ॥
ये हि आश्वासिता सत्वा मोचेष्यामि उपद्रुता ।
बुद्धित्वम् उत्तमां बोधिं तेषान् तुष्टिर् भविष्यति ॥
येहि ते पुरिमा बुद्धा सत्कृता द्विपदोत्तमा ।
ते इदं सूत्रं श्रुत्वान तेषान् तुष्टिर् भविष्यति ॥
हर्षिता येहि ते सत्वा अन्नपानेन तर्पिता ।
ते पीदं सूत्रं श्रुत्वान बुद्धे काहिन्ति गौरवं ॥
येहि ते अधना सत्वा धनेन अभिच्छादिता ।
ते इदं श्रुत्वान सूत्रं बुद्धे काहिन्ति गौरवं ॥
येहि च पूर्वबुद्धानां चेतिया मापिता शुभा ।
उद्विद्धा वरप्रासादा ते खु भविष्यन्ति प्रीणिता ॥
येहि प्रलुज्यन्तो सद्धर्मो लोकनाथान धारितो ।
त्यजित्वा लाभसत्कारं ते खु भेष्यन्ति प्रीणिताः ॥
ये ते असंस्कृतायुश् च दण्डकर्मेहि वर्जिता ।
उरसा लोकनाथस्य ते खु भेष्यन्ति हर्षिता ॥
ये ते मैत्रेयं संबुद्धं पश्यित्वो भविष्यतिओ भविष्यति ॥
[_म्वु_3.279_] ये ते मैत्रेयं संबुद्धं पश्यित्वा द्विपदोत्तमं ।
काहिन्ति विपुलां पूजां तेषां हर्षा भविष्यति ॥
ये ते सिंहं महानागं पश्यित्वा लोकचेतियं ।
काहिन्ति विपुलां पूजां तेषां हर्षो भविष्यति ॥
केतुस्य लोकनाथस्य ये करिष्यन्ति पूजनां ।
अर्थिका बुद्धज्ञानेन तेषां हर्षो भविष्यति ॥
प्रद्योतस्य च बुद्धस्य ये करिष्यन्ति पूजनां ।
अर्थिका बुद्धज्ञानेन तेषां हर्षो भविष्यति ॥
ज्योतीवरं च ये बुद्धं पश्यित्वा अपराजितं ।
महतीं पूजां काहिन्ति तेषां हर्षो भविष्यति ॥
सुनेत्रं लोकप्रद्योतं दृष्ट्वा ये सत्करिष्यति ।
अर्चमानाय पूजाय तेषां हर्षो भविष्यति ॥
द्वौ बुद्धौ कुसुमनामौ लोकनाथौ तथागतौ ।
ये दृष्ट्वा सत्करिष्यन्ति तेषां हर्षो भविष्यति ॥
मेरुं च द्विपदश्रेष्ठं संबुद्धं वदतां वरं ।
ये दृष्ट्वा सत्करिष्यन्ति तेषां हर्षो भविष्यति ॥
पुष्पं ये चाग्रसंबुद्धं पश्यित्वा द्विपदोत्तमं ।
काहिन्ति परमां पूजां तेषां हर्षो भविष्यति ॥
चतुर्णां च नरेन्द्राणां ये संघं सत्करिष्यति ।
इमस्मिं भद्रकल्पस्मिं ते उदग्रा भविष्यति ॥
ये गृद्धा लाभसत्कारे जिह्मविज्ञाननिश्रिता ।
बह्विच्छा तं श्रुणित्वान तेषां त्रासो भविष्यति ॥
[_म्वु_3.280_] ये च संगणिकारामा गणवासे प्रतिष्ठिता ।
विवेकं श्रुत्वा बुद्धेन तेषां च सौमनस्यता ॥
ये च दुःशील श्रुत्वान एवं बुद्धेन भाषितं ।
नता लोकप्रदीपस्मिं तीव्रं काहिन्ति गौरवं ॥
ये ते व्याकृता बुद्धेन बोधिसत्वा अनागता ।
सूरता सुखसंवासा तेषां तुष्टिर् भविष्यति ॥
येषां विवर्तना नास्ति बुद्धज्ञानातो सर्वशः ।
ते इदं सूत्रं श्रुत्वान भविष्यन्ति सुखिता नराः ॥
ये हि पुरिमबुद्ध सत्वसारा
गुरुकृता सत्कृता पूजिता नरेन्द्रा ।
प्रणतमना शिष्ट बुद्धज्ञाने
नरवरवर्ण श्रुणित्व तुष्ट भोन्ति ॥
येषाम् अविकला समन्त श्रद्धा
वरगुणकोटिशतेहि ये उपेता ।
ये च धारयि धर्म लुज्जमानं
मुदितमना सुगतस्य शासनस्मिं ॥
ये च अचपला अनुद्धता च
अमुखरा अभू अकीर्णवाचा ।
सुसखिलवाचा न मानुपेता
जिनवरवर्ण श्रुणित्व तुष्ट भोन्ति ॥
येषाम् अपरित्यक्तं बुद्धज्ञानं
[_म्वु_3.281_] एवं विरजा अनन्ततुल्यबोधि ।
ये च व्रतं चरन्ति अप्रमत्त
जिनवरज्ञान श्रुणित्वा तुष्ट भोन्ति ॥
अथ खलु भगवां सप्ताहस्यात्ययेन सिंहासनातो उत्थाय बोधिद्रुमं नागविलोकितेन विलोकयन्तो अनिमिषाये दृष्टीये प्रीतिसुखेन द्वितीयं सप्ताहं अनाहारो अस्थासि बोधिद्रुमं अनिमिषाये दृष्टीये निरीक्षन्तो इह मम बोधिद्रुमे अनवराग्रस्य जातिजरामरणसंसारगहनकान्तारस्य पर्यन्तं कृतं इह मम क्लेशमारो भग्नो मृत्युमारो भग्नो स्कन्धमारो भग्नो देवपुत्रमारो भग्नो इह ममापरिमितमसंख्येयप्रणिहिता प्रणिधि समुद्धा इहाहं बोधिद्रुमे लोके अग्रतां प्राप्तः लोके श्रेष्ठतां प्राप्तो सत्वसारतां प्राप्तः ॥
___भगवां सप्ताहं प्रीतिसुखेन बोधिद्रुमं अनिमिषाये दृष्टीये निध्यायित्वा तृतीयं सप्ताहं प्रीतिसुखेन दीर्घं चंक्रमं चंक्रमे ॥ तेन खलु पुनः समयेन मारो पापीमां भगवतो अविदूरे संनिषण्णो अभूषि दुःखी दुर्मनो विप्रतिसारी काण्डेन भूमिं विलिखन्तो श्रमणो मे गौतमो विषयातो उपातिवृत्तो श्रमणो मे गौतमो विषयातो उपातिवृत्तो ति ॥ अथ खलु तन्त्री च मारधीता अरती च मारधीता येन मारो पापीमांस् तेनोपसंक्रमित्वा मारं पापीमं गाथाये अध्यभाषति ॥
कामं त्वं दुर्मनो तात पुरुषं आनयाम्य् अहं ।
रागपाशेहि बंधित्वा अरण्यादिव कुंजरं ॥
प्रबन्धित्वान आनेमि वशिको ते भविष्यति ॥
[_म्वु_3.282_] अथ खलु मारो पापीमां धीतरो गाथाये प्रत्यभाषति ॥
अरहां सुगतो लोके न रागेण सुवानयो ।
विषयो मे अतिक्रान्तो तस्माच् छोचाम्य् अहं भृशं ॥
अथ खलु ता मारधीतरो पितुर् मारस्य वचनं अकरित्वा येन भगवांस् तेनोपसंक्रमित्वा भगवन्तं चंक्रमन्तम् अनुचंक्रमेन्सुः । पादान् ते भगवन् परिचरेम्ह पादान् ते सुगत परिचरेम्ह ॥ भगवां तां न चित्तीकारये यथापीदं अनुत्तरे उपधिसंक्षये सम्यक् सुविमुक्तचित्तो ॥ अथ ता मारधीतरो एकान्तम् उपसंक्रम्य मन्त्रा मन्त्रयेन्सुः उच्चावचं पुरुषाणां छन्दो उच्चावचं पुरुषाणां छन्दः यं नूनं वयं सय्यथापि नाम पंचदशवर्षदेशिका वा षोडशवर्षदेशिका वा एवंरूपा एवंरूपाणां एकशतं एकशतं ऋद्ध्या अभिनिर्मिणित्वा येन श्रमणो गौतमस् तेनोपसंक्रमित्वा श्रमणं गौतमं चंक्रमन्तम् अनुचंक्रमेन्सुः । पादान् ते भगवं परिचरेम्ह पादां ते सुगत परिचरेम्ह । न च सानं भगवां चित्तीकारये यथापीदं अनुत्तरे उपधिसंक्षये सम्यक् सुविमुक्तचित्तो ॥ अथ खलु ता मारधीतरो एकमन्तम् उपसंक्रम्य मन्त्रा मन्त्रयेन्सुः उच्चावचं पुरुषाणां छन्दो उच्चावचं पुरुषाणां छंदो यं नूनं वयं सय्यथापि नाम एकप्रसूता वा द्विप्रसूता वा एवंरूपा एवंरूपाणां एकशतं एकशतं निर्मिणित्वा येन श्रमणो गौतमस्
[_म्वु_3.283_] तेनोपसंक्रमित्वा श्रमणं गौतमं चंक्रमन्तम् अनुचंक्रमेन्सुः । पादान् ते भगवन् परिचरेम्ह पादान् ते सुगत परिचरेम्ह । न च सानं भगवां चित्तीकारये यथापीदं अनुत्तर उपधिसंक्षये सम्यक् सुविमुक्तचित्तो ॥ अथ खलु ता मारधीतरो एकान्तम् उपसंक्रम्य मन्त्रा मन्त्रयेन्सुः उच्चावचं पुरुषाणां छन्दो उच्चावचं पुरुषाणां छन्दो यं नूनं वयं सय्यथापि नाम मध्यस्त्रीयायो एवंरूपा एवंरूपाणां एकशतं एकशतं ऋद्ध्या अभिनिर्मिणित्वा येन भगवान्स् तेनोपसंक्रमित्वा भगवन्तं चंक्रमन्तम् अनुचंक्रमेन्सुः । पादान् ते भगवन् परिचरेम्ह पादान् ते सुगत परिचरेम्ह । न च सानं भगवां चित्तीकारये सय्यथापीदं अनुत्तरे उपधिसंक्षये सम्यक् सुविमुक्तचित्तो ॥ अथ खलु ता मारधीतरो एकान्तम् उपसंक्रम्य मन्त्रा मन्त्रयेन्सुः अहो परमवयोवर्णनिभं अभिनिर्मिणन्ती अभिनिर्मिणेयं । यं नूनं वयं जीर्णा भवित्वा वृद्धिका भवित्वा स्थविरिका भवित्वा पलितिका भवित्वा कुब्जगोपानसीवंका दण्डम् अवलंब्य येन श्रमणो गौतमस् तेनोपसंक्रमित्वा श्रमणस्य गौतमस्य पादौ शिरसा वन्दित्वा श्रमणं गौतमं प्रत्येका प्रश्नं पृच्छेम ॥ अथ खलु ता मारधीतरो जीर्णिका वृद्धिका स्थविरिका पलितिका कुब्जगोपानसीवंका भवित्वा दण्डम् अवष्टभ्य येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थान्सुः ॥ एकान्ते स्थिता तन्त्री मारधीता भगवन्तं गाथाये अध्यभाषति ॥
कथंविहारी बहुलीह भिक्षु
पंचोघतीर्णो तरतीह षष्टं ।
मूल पाठ: Mahāvastu-avādana · Edition: Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)) · Data entry Emmanuel Fauré · GRETIL (Göttingen) · CC BY-NC-SA 4.0