महावस्तु-अवादन · भाग 321340
तथाविधं व शिरि न जहाति ॥
राजानो आहन्सुः ॥
सुभाषितन् ते अनुमोदयाम
अन्यन् ते पृच्छामि तद् इह ब्रूहि ।
शीलप्रज्ञाशिरिकृतज्ञतानां
किं व नु श्रेष्ठं कुशला वदन्ति ॥
सरभंगो आह ॥
प्रज्ञां खु श्रेष्ठां कुशला वदन्ति
नक्षत्रराजा इव तारकानां ।
शीलं शिरि चैव कृतज्ञता च
प्रज्ञोपका तु प्रवरा भवन्ति ॥
राजानो आहन्सुः ॥
सुभाषितन् ते अनुमोदयामः
अन्यन् ते पृच्छामि तद् इह ब्रूहि ॥
किम् आचरन्तो किम् आसेवमानो
कथंकरो प्रज्ञावां भोति मन्ये ॥
[_म्वु_3.373_] सरभंगो आह ॥
सेवन्तो वृद्धा निपुणो बहुश्रुतो
ओग्राहको च परिपृच्छमानो ।
श्रुणन्तो सत्कृत्य सुभाषितानि
एवंकरो प्रज्ञावां भोति मन्ये ॥
सो प्रज्ञानां कामगुणं विपश्यति
दुःखं अनित्यं विपरिणामधर्मं ।
एवं विपश्यं प्रजहाति च्छन्दं
महद्भयेषु वधकोपमेषु ॥
सो वीतरागो सुविनीतदोषो
मैत्राभावनां भावये अप्रमत्तो ।
मैत्रेण चित्तेन हितानुकम्पी
एवंकरो स्वर्गम् उपेति स्थानं ॥
सुभाषितार्थं इदम् एवरूपा
गाथा इमा सत्पुरुषेण भाषिता ।
यो पि इमां सम्म समाचरेया
अदर्शनं मृत्युराजस्य गच्छे ॥
सुभाषितन् तं अनुमोदमाना
ब्रह्मा च इन्द्रो त्रिदशा च देवास्* ।
ते वेगजाता मुदिता कृतांजली
गच्छेन्सु तद् देवपुरं यशस्विनो ॥
महार्थियं आगमनं अभूषि
अष्टमकस्य भीमरथस्य चैव ।
[_म्वु_3.374_] कलिंगराजस्य च उद्गतस्य
सर्वेषां वा कामरागो प्रहीणो ॥
राजानो आहन्सुः ॥
एवं हि एतं परचित्तवेदि
सर्वेषां नो कामरागो प्रहीणो ।
करोहि ओकाशम् अनुग्रहाये
यथा गन्तिन् ते अभिसंभुणेम ॥
सरभंगो आह ॥
करोमि ओकाशम् अनुग्रहाये
सर्वेषां वो कामरागो प्रहीणो ।
फरेथ कायं विपुलाय प्रीतये
यथा गतिं मे अभिसंभुणेथ ॥
राजानो आहन्सुः ॥
सर्वं करिष्याम तवेदं वाक्यं
यं यं च मो वक्ष्यसि भूरिप्रज्ञ ।
फरेम कायं विपुलाय प्रीतिया
यथा गतिन् ते अभिसंभुणेम ॥
कृता च वत्सस्य ऋषिस्य पूजा
गच्छन्तु ते ऋषयो साधुरूपा ।
ध्याने रता आश्रमे आवसेथ
एतं धनं प्रव्रजितस्य श्रेष्ठं ॥
[_म्वु_3.375_] पूर्वेनिवासं भगवां पूर्वेजातिम् अनुस्मरन्* ।
जातकम् इदम् आख्यासि शास्ता भिक्षूणम् अन्तिके ॥
ते च स्कन्धास् ते च धातवो तानि आयतनानि च ।
आत्मानम् अधिकृत्य भगवान् एतम् अर्थं वियाकरेत्* ॥
अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा ।
अनाथपिण्डिको शक्रो देवराजा शचीपतिः ।
कलिंगराजा आनन्दो शारिपुत्रो च अष्टको ॥
अथ भीमरथो राजा मौद्गल्यायनो महर्द्धिको ।
सरभंगो अहं अभूषि एवं धारेथ जातकं ॥
तदापि मया सदेवमानुषाये परिषाये धर्मं देशितं एतरहिं पि मया सदेवमानुषाये परिषाये धर्मं देशितं ॥
_____सरभंजातकं समाप्तं ॥
वाराणस्यां त्रिंशगोष्ठिका उद्यानभूमिं निर्गता एषां एकस्य माता कालगता सा देवीहि उपपन्ना । ताये धर्मचक्रप्रवर्तने धर्मो अभिगमितो ॥ सा तं पुत्रं स्मरति । तस्य दानि सर्वेहि तेहि गोष्ठिकेहि पुत्रस्य प्रेम्नकेन पुत्रप्रेम्नं ॥ वाराणस्यां काशिका च नाम गणिका उपलब्धा । काशिका च केन कारणेन सा गणिका काशिका त्ति वुच्चति ॥ तादृशं सुकर्मविपाकाभिनिर्वृत्तं शुभं रूपगतं । सा सर्वां काशिभूमिं क्षमति तस्मात् सा काशिका ति वुच्चति ॥ उपार्धकाशिका तस्या एव काशिकाये भगिनी तस्या पि पूर्वकर्माभिनिर्वृत्तं शुभं रूपगतं यथैव काशिकाये
[_म्वु_3.376_] पिंगलो पुनर् अस्या एको अक्षि । तेन सा कारणेन उपार्धकाशिं क्षमति ॥ तेहि गोष्ठिकेहि सा काशिका वुच्चति । आगच्छ अस्माकं उपस्थानकारी । सा च ताये देवताये अधिष्ठिता न गच्छति अस्ति मे किंचिद् गृहकार्यं न शक्यं आगन्तुं ॥ ते दानि उपार्धकाशिकां आदाय ताम् उद्यानभूमिं गता ॥ सापि देवता काशिकाये वेषेण तेषां गोष्ठिकानां दर्शनपथेन अभिक्रमति ॥ ते तां दृष्ट्वा येन काशिका तेन प्रधाविता । देवता अपरिमिताये गतीये गच्छति गच्छन्ती दृश्यति । सा दानि देवता तां गोष्ठिकान् ततो उद्यानभूमीतो ऋषिवदनं प्रवेशित्वा भगवतो समीपे अन्तर्हिता ॥ ते दानि गोष्ठिका भगवतः पादवन्दा उपसंक्रान्ता ॥
___भगवान् आह ॥
का नु कृईडा का नु रती एवं प्रज्वलिते सदा ।
अन्धकारस्मिं प्रक्षिप्ता प्रदीपं न गवेषथ ॥
को नु हर्षो को नु आनन्दो एवं प्रज्वलिते सदा ।
अन्धकारस्मिं प्रक्षिप्ता आलोकं न प्रकाशथ ॥
ते दानि भगवतः सर्वे बलवशीभावे विनीता एहिभिक्षुकाये च प्रव्राजिता उपसंपादिता ॥ एषा आयुष्मतां त्रिंशद्गोष्ठिकानां प्रव्रज्या च उपसंपदा भिक्षुभावो ॥
_____समाप्तं त्रिंशगोष्ठिकानां प्रव्रज्या ॥
[_म्वु_3.377_]___भगवां वाराणस्यां विहरति शास्ता देवानां च मनुष्याणां च विस्तरेण निदानं कृत्वा अपरे दानि त्रिंश जना ऋषिवदनस्य नातिदूरेण मार्गेण गच्छन्ति । भगवां दानि तेषाम् अनुग्रहार्थाय मार्गस्य समीपे निषण्णो । ते दानि भगवन्तं दृष्ट्वा भगवतः पादवन्दा उपसंक्रान्ता भगवता च सर्वे बलवशीभावेन विनीता एहिभिक्षुकाये च प्रव्राजिता उपसंपादिता । एषा आयुष्मतां त्रिंशानां जनानां प्रव्रज्या उपसंपदा भिक्षुभावो ॥
___भगवां वाराणस्यां विहरति ऋषिवदने मृगदावे शास्ता देवानां च मनुष्याणां च विस्तरेण निदानं कृत्वा कोशलेषु द्रोणवस्तुकं नाम ग्रामं तहिं अपरो ब्राह्मणमहाशालो आढ्यो महाधनो महाभोगो प्रभूतभोगो प्रभूतस्वापतेयो प्रभूतधनधान्यकोशकोष्ठागारो प्रभूतजातरूपरजतवित्तोपकरणो प्रभूतदासीदासकर्मकरपौरुषेयो प्रभूतहस्त्यश्वाजगवेडको । तस्य दानि ब्राह्मणमहाशालस्य मैत्रायणी नाम ब्राह्मणी भार्या प्रासादिका दर्शनीया अक्षुद्रावकाशा परमाये शुभवर्णपुष्कलतया समन्वागता ॥ तस्या दानि मैत्रायणीये पूर्णो नाम माणवो पुत्रो प्रासादिको दर्शनीयो तरुणाभिरूपो कृतपुण्यो महेशाख्यो कृताधिकारो पुरिमकेहि सम्यक्संबुद्धेहि च्छिन्नबन्धनो आज्ञातभूतो आर्यधर्माणां चरमभविको ॥ सो शृणोति । राज्ञो शुद्धोदनस्य सर्वार्थसिद्धो नाम कुमारो द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो येहि द्वात्रिंशतीहि महापुरुषलक्षणेहि महापुरुषस्य द्वे गतीयो भवन्ति न तृतीया । सचेद् अगारम् अध्यावसति राजा भवति चक्रवर्ती चतुर्द्वीपेश्वरो विजितावी धार्मिको धर्मराजा सप्तरत्नसमन्वागतो । तस्य इमानि सप्त रत्नानि भवन्ति तद्यथा चक्ररत्नं हस्तिरत्नं अश्वरत्नं मणिरत्नं गृहपतिरत्नं स्त्रीरत्नं परिणायकरत्नं सप्तमं पूरं चास्य भवति सहस्रं पुत्राणां शूराणां वीराणां वरांगरूपणां
[_म्वु_3.378_] परसैन्यप्रर्मदकानां । सो इमानि चत्वारि महाद्वीपानि अध्यावसति तद्यथा जंबुद्वीपं पूर्वविदेहं अपरगोदानिकं उत्तरकुरुं इमां महापृथिवीं सागरगिरिपर्यन्ताम् अखिलाम् अकण्टकाम् अदण्डेनाशस्त्रेणानुत्पीडेन धर्मेणैवाभिनिर्जित्वा अध्यावसति । सचेत् पुनः अगारतो अनगारियं प्रव्रजति तथागतो भवति अर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च विघुष्टशब्दो विघुष्टकीर्तिरेखो अनन्यनेयो अभिभू अनभिभूतो आज्ञार्थदर्शी वशी वशवर्ती सो च ऋषिणा महर्द्धिकेन महानुभावेन चतुर्हि कारणेहि एकांशेन व्याकृतो बुद्धो लोके भविष्यतीति अथान्येहि पि नैमित्तिकेहि ॥ यदा भगवान् अभिनिष्क्रान्तो सो पि तदहो येव अभिनिष्क्रान्तो अनुहिमवन्तं आश्रमं गत्वा ऋषिप्रव्रज्यां प्रव्रजितो चतुर्ध्यानलाभी पंचाभिज्ञो महर्द्धिको महानुभावो ऋषि संवृत्तो ॥
___तस्य दानि एकूनत्रिंश ऋषिकुमारा शिष्या सर्वे षडंगवेदपारगाश् चतुर्ध्यानलाभिनः पंचाभिज्ञा महर्द्धिका महानुभावा ॥ सो तेषां शिष्याणाम् आह ॥ बुद्धो लोके समुत्पन्नो वाराणस्यां विहरति ऋषिवदने मृगदावे मनुष्याणां धर्मं देशयति आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याण स्वर्थं सुव्यंजनं केवलपरिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति ॥
सर्वे अशरणा स्कंधाः अभितप्ता महाभया ।
अविश्वासिका च असारा च इति भाषति गौतमो ॥
यं नूनं वयं माणवकाहो येन वाराणसीम् ऋषिवदनं मृगदावं तेनोपसंक्रमेयाम
[_म्वु_3.379_] तं भगवन्तं गौतमं दर्शनाय । साधु खलु पुनर् भवति तथारूपाणां तथागतानां अर्हन्तानां सम्यक्संबुद्धानां दर्शनाय उपसंक्रमणं पर्युपासना च ॥ साधूपाध्याय त्ति ते माणवका पूर्णस्य . . . . . . . . . . . ब्रह्मचर्यं संप्रकाशयन्तं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतं अशीतिहि अनुव्यंजनेहि उपशोभितशरीरं अष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतं दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि सुविशारदो शान्तेन्द्रियो शान्तमानसो उत्तमदमशमथपारमिप्राप्तो परमदमशमथपारमिप्राप्तः अन्तर्गतेहि इन्द्रियेहि अवहिर्गतेन मानसेन स्थितेन धर्मताप्राप्तेन ह्रदम् इवाच्छो अनाविलो विप्रसन्नो रतनयूपम् इवाभ्युद्गतो सुवर्णयूपं वा प्रभासमानं तेजसा श्रियाये ज्वलमानं असेचनकं अप्रतिकूलं दर्शनाये । दृष्ट्वा च पुनर् अस्य अतिरिव मनं प्रसीदे ॥ प्रसन्नचित्तो च पुनर् येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वंदित्वा भगवन्तम् एतद् उवाच ॥ प्रव्रजेहि मां भगवं उपसंपादेहि मां सुगत ॥ अथ खलु भगवां पूर्णं ऋषिं मैत्रायणीपुत्रं आत्मत्रिंशं एहिभिक्षुकाये अभिभाषे ॥ एथ भिक्षवश् चरथ तथागते ब्रह्मचर्यं ॥ तेषां दानि भगवता एहिभिक्षुकाये आभाष्टानां यत् किंचिद् ऋषिलिंगं ऋषिगुप्ति ऋषिध्वजं ऋषिकल्पं सर्वं समन्तरहितं त्रिचीवरं च प्रादुर्भूतं सुंभका च पात्रा प्रकृतिस्वभावसंस्थिता केशा ईर्यापथो च सानं संस्थिहे सय्यथापि नाम वर्षशतोपसंपन्नानां भिक्षूणां । एषा आयुष्मतः पूर्णस्य मैत्रायणीपुत्रस्य आत्मत्रिंशस्य प्रव्रज्या उपसंपदा भिक्षुभावो ॥
___सो दानि आत्मत्रिंशो भगवता बलवशीभावे विनीतो । सो दानि बलवशीभावप्राप्तो भगवन्तं सम्मुखं इमाहि सारूप्याहि गाथाहि अभिस्तवे ॥
[_म्वु_3.380_] यं तुषितभवने सन्तो हिमशिखरनिभो गजो भवित्वान ।
अन्तिमम् उपेसि गर्भं दशशतरस्मिसगोत्र तं प्रियं मे ॥
यं च उभयतो उपेतरूपा तव जननी च पिता लोके ।
महिपतिकुलसंभवो अभू दशशतरस्मिसगोत्र तं प्रियं मे ॥
यं प्रतिमुखसन्तो परिच्यवसि जगं न कस्य चि स्पृश्यन्तो ।
पित्तरुधिरश्लेष्मणा अलिप्तो दशशतरस्मिसगोत्र तं प्रियं मे ॥
यं च कनकवर्णं पश्यमाना परमप्रीतं मनो अनुजनेन्ति ।
फणिका अनुगता व रक्तसूत्रं दशशतरस्मिसगोत्र तं प्रियं मे ॥
यं च प्रकम्पयन्तो वसुधां जायेसि बहुजनहिताय ।
जातो पादानि सप्त क्रमेसि दशशतरस्मिसगोत्र तं प्रियं मे ॥
यं पि च जातस्य मुने छत्रं धारयेन्सु गुह्यकाधिपती ।
उभयतो च वीजनीयो दशशतरस्मिसगोत्र तं प्रियं मे ॥
यं पि च ते जातमात्र उदुपाना उद्गमे उदकधारा ।
उष्णा च शीतला च दशशतरस्मिसगोत्र तं प्रियं मे ॥
यं प्रव्रजेसि प्रहाय कामगुणां येव सप्त च रतना ।
चतुरो च महाद्वीपां दशशतरस्मिसगोत्र तं प्रियं मे ॥
अवहाय महीं च ज्ञातयो अथ रत्नानि महाय सप्त वरा ।
जातीमरणस्य कासि अन्तं दशशतरस्मिसगोत्र तं प्रियं मे ॥
[_म्वु_3.381_] वीर महा-आभा उद्गमासि भगवतो चित्ते तदा विमुच्यमाने ।
एकान्तसुखो भवेन्सु दशशतरस्मिसगोत्र तं प्रियं मे ॥
अद्य सुविनीता जिनेन शास्ता परमप्रीतमना आर्या परिषा ।
शत्रुदमने उपेसि कालं दशशतरस्मिसगोत्र तं प्रियं मे ॥
यथा तव प्रणिधी अभूत् पुरस्ताद् यथ समुदागतो असि लोकनाथ ।
प्रणिधी आगमो च ते समृद्धो दशशतरस्मिसगोत्र तं प्रियं मे ॥
तव दशदिशतां गतो प्रणादो जनविषयेषु च नास्ति कोचि तुल्यो ।
परमगतिगतो सि धर्मताये दशशतरसगोत्र तं प्रियं मे ॥
दिष्ट्या भगवान् सुखी अरोगी दिष्ट्या कार्यं इदं तव समृद्धं ।
दिष्ट्या नमुचि हतो त्वया ससैन्यो दिष्ट्या ते विदितम् इमं च परं च ॥
दिष्ट्या ते सहंपति याचेसि दिष्ट्या चास्य प्रतिशृणोषि वीर ।
दिष्ट्या धर्मेण धर्मचक्रं दिष्ट्या प्रवर्तये द्वादशांगुपेतं ॥
दिष्ट्या नदितो ते सिंहनादो दिष्ट्या ते प्रतिवादो नास्ति क्वचित्* ।
दिष्ट्या यं जिनेन धर्मे प्राप्ते दिष्ट्या ते मात्सर्यं नास्ति वर ॥
दिष्ट्या मे अभूषि दिव्यचक्षुः दिष्ट्या श्रोत्रम् अमानुषम् अभूषि मे ॥
दृष्ट्वा हिमवन्ते मृत्युं वा दिष्ट्या ते समिती दृष्टा ॥
[_म्वु_3.382_] इह मे अभूषि पंचाभिज्ञा दिष्ट्या शिष्याण विधेयता अभू ।
दिष्ट्या मो न पापसंगता स्म दिष्ट्या अनुभोमो धर्मराजानं ॥
दिष्ट्या शरणं उपगता स्म दिष्ट्या अभिसमित चतस्रो सत्या ।
दिष्ट्या सुविसारदा ते धर्मे दिष्ट्या स्म वशीभावम् अनुप्राप्ता ॥
एवं खु तदा जिनस्य पुरतो आयुष्मां पूर्णो कथितमार्गो ।
वाराणस्यां मृगदावस्मिं आत्तमनो अनुमोदे धर्मप्राप्तो ॥
_____आयुष्मतो पूर्णस्य मैत्रायणीपुत्रस्य वस्तु समाप्तं ॥
___भगवान् सम्यक्संबुद्धो यद् अर्थं समुदागतो तम् अर्थं अभिसंभावयित्वा वाराणस्यां विहरति ऋषिवदने मृगदावे शास्ता देवानां च मनुष्याणां च विस्तरेण निदानं कृत्वा अवन्तीषु मर्कटं नाम निगमं तत्र ब्राह्मणमहाशालो राज्ञो उज्झेभकस्य तोणेहारकस्य पुरोहितः राजाचार्यो महाधनो महाभोगो प्रभूतभोगो प्रभूतस्वापतेयो प्रभूतधनधान्यकोशकोष्ठागारो प्रभूतजातरूपरजतवित्तोपकरणो प्रभूतदासीदासकर्मकरपौरुषेयो प्रभूतहस्त्यश्वाजगवेडको कात्यायनसगोत्रो । तस्य दानि द्वे पुत्रा एको नालको नामेन द्वितीयो च उत्तरो । उत्तरो ज्येष्ठः नालको कनीयसो पण्डितो निपुणो मेधावी उद्धटिताज्ञो तीक्ष्णबुद्धिको ॥ तेषां मातुलो असितो नाम ऋषी अवन्तीषु विंध्यपर्वते आश्रमपदे प्रतिवसति पंचशिष्यशतपरिवारो मूलफलमकृष्ट-उंछवृत्तिको पंच माणवकशतानि मन्त्रवेदां वाचयति ॥
[_म्वु_3.383_] उत्तरेण तहिं गत्वा वेदा अधीता । सो दानि संगीतिं कृत्वा पितुः सकाशम् आगतो ॥ सो दानि पितुः पुरतो परेषां च ब्राह्मणानां वेदपारगाणां अनुयोगं देति । तस्यानुयोगं देन्तस्य तानि वेदानि नालकेन सर्वाणि ओगृहीतानि ॥ तेनापि पितुश् च तेषां ब्राह्मणानां वेदपारगाणां पुरतो तस्य भ्रातुः सकाशातो वेदानि श्रुत्वा अनुयोगो दिन्नो । तस्य सो पिता ते च ब्राह्मणा वेदपारगा विस्मिता अहो माणवकस्य बुद्धीति ॥ सो दानि मातापितृहि वुच्चति बुद्धो लोके उत्पन्नो गच्छ प्रव्रजाहीति ॥ सो विन्ध्यपर्वतं गत्वा मातुलस्य असितस्य ऋषिस्याश्रमे ऋषिप्रव्रज्यां प्रव्रजितो । तेन युज्यन्तेन घटन्तेन व्यायमन्तेन पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तेन विहरन्तेन चत्वारि ध्यानान्य् उत्पादितानि पंचाभिज्ञा साक्षीकृता ॥
___यदा भगवान् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो प्रवृत्तप्रवरधर्मचक्रो वाराणस्यां विहरति ऋषिवदने मृगदावे देवमनुष्याणां अर्थचर्यां चरमाणो प्राणशतसहस्राणि अमृतं प्रापयन्तो तदान्तेवासिको असितेन ऋषिणा वुच्चति । बुद्धो लोक उत्पन्नो गच्छ प्राचीनं प्रव्रजाहि ॥ सो दानि ऋषिस्याश्रमातो अनुपूर्वेण वाराणसीम् आगतो ॥ वाराणस्यां षट्* शास्तारप्रतिज्ञा प्रतिवसेन्सुः काश्यपो पूरणो मस्करी गोसालिकापुत्रो अजितो केशकम्बली ककुदो कात्यायनो संजयी वेरट्टिकापुत्रो निर्ग्रन्थो च ज्ञातिपुत्रो ॥ तेषां नालको षण्णां शास्तारप्रतिज्ञानां उपसंक्रान्तो न चास्य चित्तम् आराध्यति ॥ चत्वारो महानिधयो संखो वाराणस्यां मिथिलायां पदुमो कलिंगेषु पिंगलो तक्षशिलायां एलपत्रो ॥ वाराणस्यां संखस्य मासिको समाजो वर्तति । तहिं निधानाधिपतयो नागराजानो निमन्त्रितका आगता ॥
[_म्वु_3.384_] तत्र च एलपत्रेण नागराज्ञा प्रश्ना स्थापिता एतां यो प्रश्नां विसर्जेति तस्य धीता च दीयति सुवर्णसहस्रं च ॥
किं स्व अधिपती राजा कथं भोति रजस्वरो ।
कथं स्व विरजो भोति कथं बालो ति वुच्चति ॥
भगवान् आह ॥
षष्ठो अधिपती राजा राज्ये भोति रजस्वरो ।
अरक्तो विरजो भवति रक्तो बालो ति वुच्चति ॥
एलपत्रो आह ॥
केन सो वुह्यति बालो किं सु नुदति पण्डितो ।
योगक्षेमी कथं भोति तं मे आख्याहि पृच्छतो ॥
भगवान् आह ॥
योगेहि वुह्यति बालो योगं नुदति पण्डितः ।
सर्वयोग-असंयुक्तो योगक्षेमीति वुच्चति ॥
एलपत्रो आह ॥
बुद्धबुद्धेहि वुच्चसि स्वप्नं अथ दर्शनं ।
निरीक्ष्य भाषेसि तत्वं उदीरय च्छिन्द संशयं ॥
देवता आह ॥
साक्षं दृष्टो महावीरो मृगदावान्तराश्रितो ।
धर्मश्रेष्ठं प्रकाशेन्तो सिंहो व गिरिकन्दरे ॥
[_म्वु_3.385_] चिरस्य वत द्रक्ष्याम तारकैर् इव लक्षणैः ।
विचित्रगात्रं . . . . बुद्धस्य वरबुद्धिनो ॥
चिरस्य तव श्रोष्याम वाणिं ब्रह्मस्वरोपमां ।
अनित्यं दुःखम् अनात्मेति सर्वक्लेशप्रदारणीं ॥
एतां श्रुत्वा नवघोषां वाणिं ब्रह्मस्वरोपमां ।
मोक्षं प्राप्स्याम तीर्थेभ्यः आसादेत्व नरर्षभं ॥
दृष्ट्वान लोकार्थचरं महर्षिं
महायशं काश्यप अर्थदर्शिं ।
. . . . . सर्वस्य शुभस्य मूलं
शीलं रक्ष्यामो चमरीव बालं ॥
छित्त्वान पन्थं कुवनान्तरस्मिं
यथा शास्तारं मुनिं नो च कृत्वा ।
खण्डित्व शिक्षां परमार्थदर्शिनो
मार्गा च्युतो वीचिम् उपेति कृच्छ्रं ॥
पतन्ति गात्रेषु गिरिप्रकाशा
. . . . . वृष्टिर् अनन्तविद्धिः ।
शाटेति गात्राणि दुःखार्दितस्य
ततो प्रमोचेहि विशालकीर्ते ॥
शृणोमि धर्मं न च अद्दशामि
नेत्रोद्धृतः सूर्यम् इवोदयन्तं ।
आश्वासयादित्यमरीचितेज
[_म्वु_3.386_] मोक्षो कदा भेष्यति तिर्यग्योनिषु ॥
इमं विकृतसंदेहिं दृष्ट्वा दुःशीलसंभवं ।
अश्रुकण्ठो रुदन्तो पि को शीलं न समाचरेत्* ॥
स वै प्रमोदेषु रतो न . . . .
भवे सुशीलेष्व् अचलो ऽचलोपमो ।
व्याकर्ष त्वं अर्थदृशो मतीमां
मैत्रेयगोत्रो भवरागसूदनो ॥
नालको कात्यायनो भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् एतद् उवाच ॥
पुरोहितो मह्यं पिता तोणेहारस्य राजिनो ।
उत्पादेषु विद्यायुक्तो निक्षत्रेषु गतिंगतो ॥
तन् मे पिता अवचासि अर्थकामानुकम्पको ।
बुद्धो खु पुत्र उत्पन्नो गच्छ प्राचीन प्रव्रज ॥
सो हं भगवन्* अनुप्राप्तो साधु त्वं प्रव्राजेहि मां ।
वैशारद्येहि संपन्नां वाचां भाषे तथागतो ॥
कात्यायनं ब्राह्मणं च एहि भिक्षूति आलपे ।
सा एतस्य प्रव्रज्या हि अभू च उपसंपदा ॥
आयुष्मां कात्यायनो आह ॥
अज्ञासि एतं वचनं असितस्य यथातथं ।
त्वां तु गौतम पृच्छामि सर्वधर्माण पारग ॥
[_म्वु_3.387_] अनगारं उपेतस्य भिक्षाजीवं चिकीर्षतो ।
मुनि प्रव्याहर धर्मं मौनेयं उत्तमं पदं ॥
भगवान् आह ॥
मौनेयं च पृच्छसि नाल दुःकरं दुरभिसंभुणं ।
हन्त ते तं च वक्ष्यामि संस्तम्भस्व दृढो भव ॥
समानभागं कुर्यासि ग्रामे आक्रुष्टवन्दितं ।
मनोप्रदोषं रक्षेसि क्षान्तो चानुमतो भव ॥
उच्चावचा निश्चरन्ति दावे अग्निशिखा इव ।
नारी मुनिप्रलोभाये ताव तं मा प्रलोभये ॥
विरतो मैथुना धर्मा हित्वा कामं परोवरं ।
अविरुद्धो असंरुद्धो ये सत्वा त्रसस्थावराः ॥
यथात्मनो तथान्येषां यथान्येषां तथात्मनो ।
आत्मानं उपमां कृत्वा नैव हिंसे न घातये ॥
हित्वाम् इह अल्पिच्छां पि अनिच्छो भोहि निर्वृतो ।
त्यज इच्छां च लोभं च यत्र सक्ता पृथग्जनाः ।
पण्डितो प्रतिपज्जेय सो तरे नरकं इमं ॥
ततो रात्रिविवासातो ग्रामं पिण्डाय ओतरे ।
आह्वयं नाभिनन्देय अभिहारं च ग्रामतो ॥
न मुनि ग्रामम् आसाद्य कुलेषु सहसा चरे ।
[_म्वु_3.388_] घासेषी न च्छिन्नकथो न वाचा प्रेप्सुतां भणे ॥
स पात्रपाणी विचरेया अमूगो मूग्संमतो ।
तं तं दानं न निंदेया दातारं नावजानिया ॥
अदासि इति ते साधु नादासि भद्रम् अस्तु ते ।
उभयेनैव सदृशो रुक्षत्वं विनिवर्तये ॥
सो पिण्डचारं चरित्वा नवान्तं अभिरक्षये ।
ऊनोदरो मिताहारो अल्पेच्छो स्याद् अलोलुपः ॥
सो वृक्षमूलोपगतो आसनोपगतो मुनि ।
ध्यापयति अतो भव्यं आत्मानं नातितोषये ॥
यस्यात्र सरिताआ नास्ति च्छिन्नश्रोतस्य भिक्षवः ।
कृत्याकृत्यप्रहीणस्य परिदाघो न विज्जति ॥
एवं लयनम् आख्यातं संबुद्धेन प्रजानता ।
एको व अभिरमिष्यसि एवं गमिष्यसि दिशो दश ॥
एवं मौनेयं उपेष्यसि क्षुरधारोपमो भव ।
जिह्वाय तालुम् आसाद्य तादृशो संयतो भव ॥
निरामगन्धो असितो वृक्षमूलपरायणो ।
एकासनस्य शिक्षासि श्रमणोपासनस्य च ॥
श्रुत्वा ऋजुरहं ध्यानं ध्यायिनां कामचागिनां ।
[_म्वु_3.389_] ततो हिरिं च श्रद्धां च भूयो शिक्षेय मामको ॥
न पारं द्विगुणायति नापि चैवं गुणायति ।
उच्चावचा प्रतिपदा श्रामण्येन प्रकाशिता ॥
तं नदीषु विजानाति रन्ध्रेषु प्रदरेषु च ।
सन्नादयति खु ओघो शान्तैव महोदधिः ॥
यं ऊनकं तं स्वनति यं पूरं शान्तम् एव तं ।
ऊनकुम्भोपमो बालो ह्रदपूरो व पण्डितः ॥
यो मुनी बहु भाषति उपेतं अर्थसंहितं ।
निर्वाणं साक्षात्कुर्याय जानन्तो बहु भाषति ॥
यो च धीरो मितभाणी जानन्तो न बहु भाषति ।
स मुनी मौनम् अर्हति स मुनी मौनम् अध्यगात्ति ॥
_____नालकप्रश्नं समाप्तं ॥
___भगवा सम्यक्संबुद्धो यद् अर्थं समुदागतो तम् अर्थं अभिसंभावयित्वा वाराणस्यां विहरति ऋषिवदने मृगदावे शास्ता देवानां च मनुष्याणां च विस्तरेण निदानं कृत्वा मथुरायां श्रेष्ठि आढ्यो महाधनो महाभोगो प्रभूतस्वापदेयो प्रभूतधनधान्यकोशकोष्ठागारो प्रभूतजातरूपरजतवित्तोपकरणो प्रभूतहस्त्यश्वाजगवेडको प्रभूतदासीदासकर्मकरपौरुषेयो । तस्य दानि श्रेष्ठिस्य त्रियन्तरा दारिका जाता ॥ सा दानि अमंगला ति कृत्वा परिव्राजिकाये दिन्ना । यदा संवृद्धा भवति ततो
[_म्वु_3.390_] तां प्रव्राजेहि व वृत्तिका ते भेष्यति । धात्री च दिन्ना या तां दारिकां संवर्धेति यं च किंचिद् व्ययकर्म तं श्रेष्ठिना निष्यन्दितं ॥ सा दानि यथा उत्पलं वा पदुमं वा पुण्डरीकं वा तथा संवर्धीयति यत्र काले विज्ञप्राप्ता ततो ताये परिव्राजिकाये प्रव्राजिता ऋषिसेखिता सर्वाणि परिव्राजकशास्त्राणि प्रबोधिता ॥
___सा दानि अन्यमन्याहि परिव्राजिकाहि सार्धं समुल्लापं करोति न चास्या कोचित्* शक्नोति उत्तरं संधितुं । सा एव अग्रम् आख्यायति वादिप्रवादी सर्वशास्त्रविशारदा ॥ अपरो च ब्राह्मणो वेदपारगो सर्वशस्त्रविशारदो वैयाकरणो गतिंगतो वादिप्रवादी दक्षिणापथातो मथुरां आगतो ताम्रपात्रेण पार्श्वं वेठयित्वा महन्तीं उल्कां प्रज्वालेत्वा मथुरां प्रविशति । मध्येन अन्तरापणवीथीये चेतं प्रदिशासि । अस्ति स वर्णकुशलो यो अस्मेहि सार्धं कथयेय ॥ सो दानि माथुरकेहि वुच्चति ॥ निर्वापेहि एताम् उल्कान् ति इहास्माकं प्रव्राजिका अस्तीति बाला दहरा सा त्वया सार्धं सप्तमं दिवसं कथयिष्यति यदि शक्नोसि ताये सार्धं कथयितुं ततः ॥ सो दानि आह ॥ एवम् अस्तु अहं ताये परिव्राजिकाये सार्धं सप्तमं दिवसं कथयिष्यामि । तत्रभवन् तेहि मध्येहि भवितव्यं ॥ तेहि माथुरकेहि नैगमजानपदेहि सा परिव्राजिका शब्दावित्वा वुच्चति ॥ दक्षिणापथातो ब्राह्मणो आगतो वादी वेदपारगो व्याकरणे वादाभिप्रायो शक्यसि तेन ब्राह्मणेन सार्धं सप्तमं दिवसं कथयितुं ॥ सा दानि आह ॥ वाढं शक्यामि तेन वा अन्येन वा सार्धं कथयितुं । अहम् अपि वादाभिप्राया ॥ नैगमेहि परिव्राजिकाय श्रुत्वा मथुरायां चत्वरशृंगाटकवीथीमुखश्रवणामुखेषु घण्ठा घोषापिता ।
[_म्वु_3.391_] सप्तमं दिवसं अमुकाये परिव्राजिकाये दक्षिणापथिकेन ब्राह्मणेन वादिना सार्धं कथासंलापं भविष्यति ॥ यो श्रोतुकामो सो संनिपततु ॥ तत्र रंगेन समन्तेन मंचा बद्धा । महाजनकायो जनपदातो श्रुत्वा मथुरां आगच्छति ॥
___तस्य ब्राह्मणस्य एतद् अभूषि । कीदृशी सा परिव्राजिका या मया सार्धं कथयिष्यति । यं नूनम् अहं तां परिव्राजिकां पश्येयं ॥ सो दानि कौतूहलेन पृच्छपरिपृच्छिकाये तन् तं परिव्राजिकानां आवसथं गतो गत्वा पृच्छति ॥ कतमा सा परिव्राजिका या सा तेन दक्षिणापथिकेन ब्राह्मणेन सार्धं महतीये परिषाये मध्ये कथयिष्यति ॥ तेन ये पृच्छिता तेहि सा परिव्राजिका उपदर्शिता स्वके परिवेणे विसृष्टेन स्वरेणाभिसंस्कारेण स्वाध्यायं करोन्ती ॥ सो ब्राह्मणो तां परिव्राजिकाम् उपसंक्रम्य पृच्छति ॥ भवन्ति त्वं मया सार्धं परिषामध्ये कथयसि ॥ सा दानि आह ॥ वाढं कः संदेहः अहं त्वया सार्धं परिषामध्ये कथयिष्यामि अन्येन वा श्रद्धावादिना ॥ सो दनि ब्राह्मणो तरुणो अभिरूपो सापि तरुणा परिव्राजिका अभिरूपा तेषां परस्परस्य मूले सह दर्शनेनातो प्रेम्नं निपतितं ॥ सो दानि ब्राह्मणो तां परिव्राजिकाम् आह ॥ भवति अहं त्वया अर्थिको ॥ सा परिव्राजिका आह ॥ अहं त्वया अर्थिका ॥ ब्राह्मणो आह ॥ भवति यद्य् एवं तथा करोम यथास्माकं परस्परस्य समागमं च भवे परो च न जानेय । वयं तत्र परिषामध्ये अभिसमयं कृत्वा सल्लपिष्याम । यो अस्माकं निगृह्येय तेन तस्य शिष्यत्वं उपगन्तव्यं । नात्राश्चर्यं एतं पुरुषेहि स्त्री निगृहीता । अथ पुनर् भवती मम निगृह्णेय ततः अहं सर्वलोकस्य कुत्सितो च परिभूतो च भवेयं द्व्यंगुलप्रज्ञाये स्त्रीमात्राये त्वं निगृहीतो ति । भवति तथा करोहि यथाहं भवति निगृह्णेयं ततो त्वं मम शिष्या
[_म्वु_3.392_] भविष्यसि । तद् एवम् अस्माकं परस्परसमागमं भविष्यति । न च नं कोचि जानिष्यति ॥ सा दानि परिव्राजिका आह ॥ एवं भवतु ॥ सो दानि ब्राह्मणो एवं ताये परिव्राजिकाये सार्धं संमन्त्रेत्वा निर्धावितो ॥
___ततो सप्तमे च दिवसे तत्र चतुरङ्गे बहूनि प्राणिसहस्राणि समागतानि राजा माथुरो समागतो कुमारामात्या समागता श्रेष्ठिप्रमुखं नैगमं समागतं सार्थवाहप्रमुखो वाणिजग्रामो समागतो पुरोहितप्रमुखा ब्राह्मणपरिषा समागता अष्टादश श्रेणीयो समागतावो श्रमणब्राह्मणतीर्थिकगणिका समागतानि ॥ सो पि ब्राह्मणो समागतो सापि परिव्राजिका अनेकाहि परिव्राजिकाहि सार्धं समागता । समागत्वा परिषामध्ये स्वकस्वकेषु आसनेषु निषण्णानि ॥ ब्राह्मणो उत्थित्वा सराजिकां परिषां विज्ञपेति ॥ भवन्तो ऽस्माभिर् वटुकचापल्यं कृतं यम् अस्माभिः स्त्रीभिः सार्धं संलापम् अभ्युपागतं । अनाश्चर्यं च भवेय यद् अहम् एतां परिव्राजिकां निगृह्णेयं वदेन्सुः किम् अत्राश्चर्यं यं पुरुषेण स्त्री निगृहीता ति । अथ खलु यं एषा परिव्राजिका मम निगृह्णेया ततो हं सर्वलोकस्य कुत्सितो च परिभूतो च भवेयं द्व्यंगुलप्रज्ञाये स्त्रीमात्राये त्वं निगृहीतो त्ति । ततः मम एषा सराजिका परिषा विज्ञप्ता । यदि एषा परिव्राजिका परिषामध्ये मम शक्येय निगृहीतुं ततो मया एतस्या परिव्राजिकाये शिष्येण भवितव्यं अथाहं एतां परिव्राजिकां परिषामध्ये निगृह्णेयं ततो एताये मम शिष्यत्वम् उपगन्तव्यं ॥ सा दानि परिव्राजिका ताये परिषाये पृच्छीयति ॥
[_म्वु_3.393_] एष ब्राह्मण एवं जल्पति कथं तव उत्पद्यति ॥ सा दानि आह ॥ एवं भवतूति ॥
___ब्राह्मणेन एवं समयं कृत्वा परिव्राजिकाये दण्डकं प्रशक्तं परिव्राजिकापि तं ब्राह्मणं समज्याप्रत्यनुभावार्थं उत्तरं प्रत्युद्धारेति । एवन् तेहि वाक्यप्रतिवाक्येहि तं दिवसं क्षपितं नैव एको एकस्य शक्नोति निग्रहीतुं नैव अपरो अपरस्य ॥ एवं यथा एकं दिवसं तथा सप्तरात्रं गच्छति । च न एको एकस्य शक्नोति निगृह्णितुं नापि अपरो अपरस्य ॥ ते मनुष्या ततो परिषातो विकाले विकाले गृहं गता सन्तो स्त्रीभिः पृच्छीयन्ति कुतो यूयं अद्य सप्तरात्रं उपादाय विकाले विकाले आगच्छथ ॥ ते आहन्सुः ॥ न जानथ कस्यार्थाय वयं विकाले आगच्छाम । दक्षिणापथातो ब्राह्मणो आगतो षडंगवेदपारगो सर्वशास्त्रेषु गतिंगतो वैयाकरणो अद्य सप्तमं दिवसं ताये परिव्राजिकाये सार्धं संलपति न च शक्नोति निगृह्णितुं ॥ ता दानि तेषां स्वामिकानां आहंसुः ॥ एवं पण्डितायो स्त्रीयो को पुरुषो स्त्रिये अग्रतो बुद्धीये च मीमांसाये ॥ तेषां मनुष्याणां भवति ॥ यदि केनचिद् उपायेन सो ब्राह्मणो ताये परिव्राजिकाये परिगृह्णीयेय ततो इमा अस्माकं स्त्रियः सर्वकालं परिभवेन्सुः तृणसंज्ञां पि ता उत्पादयेन्सुः ॥ एवन् तं नगरं सर्वं योभूयेन तस्य परिव्राजकस्य योभूयेन तस्या परिव्राजिकाये अनुकूलकं संवृत्तं ॥ अपरं दिवसं परिषाये समागताये ब्राह्मणेन परिव्राजिकाये उत्तरं दिन्नं ताये च इच्छन्तिये तम् उत्तरं न प्रत्यनुभाष्टं ततः जनेन हक्कारा क्षिप्ता ब्राह्मणस्य जयो परिव्राजिका निगृहीता ॥ तेन दानि ब्राह्मणेन सा परिव्राजिका त्रिदण्डं आरूपयित्वा छत्त्रोपानहां च गृह्णापेत्वा ततो परिषामध्यातो शिष्यधर्मेण निष्कासिता ॥ ब्राह्मणो पि परिव्राजिकाये
[_म्वु_3.394_] आवसथं गच्छति परोपरं च यथाभिप्रायं समागच्छन्ति ॥ अभीक्ष्णसंनिपातेन सा परिव्राजिका आपन्नसत्वसंपन्ना संवृत्ता ॥
___ते दानि मथुराया निर्गम्य दक्षिणापथे जनपदचारिकां चरमाणा नवानां वा दशानां वा मासानाम् अत्ययेन श्वेतवलाकाम् अनुप्राप्ता तहिं श्वेतवलाकायां रात्रिं आवासिता ॥ तत्र सभायां सा परिव्राजिका प्रजाता । दारको जातो प्रासादिको दर्शनीयो परमाये शुभवर्णपुष्कलतया समन्वागतो ॥ तेहि तस्य माणवकस्य सभाये जातो ति सभिको त्ति नाम कृतं ॥ तेहि दानि मातापितृहि सो माणवको संवर्धियति ॥ यत्र काले सो माणवको विज्ञप्राप्तो संवृत्तो ततो पि लिपिं शिक्षापितो गणनां धारणं निक्षेपणं सर्वाणि च परिव्राजकशास्त्राणि अधीयापितो वादिप्रवादी ॥ सो दानि समुद्रुकुक्षिं प्रविष्टो अबुद्धे बुद्धं मार्गति । सो दानि षोडश महाजनपदानि अण्वन्तो वाराणसीं आगतो ऋषिवदनं मृगदावं भगवन्तम् उपसंक्रान्तो ॥
___अथ खलु सभिको परिव्राजको भगवता सार्धं संमोदनीयां कथां संमोदयित्वा सारायणीयां कथां व्यतिसारयित्वा एकान्ते निषण्णो । सभिको परिव्राजको भगवन्तं प्रश्नं पृच्छे ॥
कंक्षाविचिकित्सो आगतो स्मि
प्रश्नं पृच्छितुं अभिकांक्षमाणो ।
तस्य सभिकस्य प्रश्नम् एवं पृष्टं
भगवं अनुपूर्वम् अनुलोमम् अनुसन्धिम् अनुधर्मं व्याकरोहि ॥
भगवान् आह ॥
[_म्वु_3.395_] दूरा सभिका तुवम् आगतो सि
प्रश्नं प्रष्टुम् इहाभिकांक्षमाणो ।
प्रश्नान्तकरो भवामि ते हं
अनुपूर्वम् अनुलोमम् अनुसंधिम् अनुधर्मं व्याकरिष्यामि ॥
एवम् उक्ते सभियो परिव्राजिको भगवन्तं गाथाये प्रत्यभाषि ॥
किंप्राप्तम् आहु भिक्षुणं
सुव्रतं किं कथं च दान्तम् आहु ।
बुद्धो ति कथं प्रवुच्चति
पृष्टो मे भगवं अनुपूर्वम् अनुलोमं अनुसंधिम् अनुधर्मं व्याकरोहि ॥
एवम् उक्ते भगवां सभिकं परिव्राजकम् एतद् उवाच ॥
पद्येन कृतन आत्मना
अभिनिर्वाणगतो वितीर्णकांक्षो ।
विभवं च भवं च ज्ञात्व लोके
उषितवां क्षीणपुनर्भवो स भिक्षुः ॥
सर्वत्र-उपेक्षो स्मृतिमां
न च सो हिंसति कंचि लोके ।
तीर्णो श्रमणो अनाविलो
उत्सन्नो यो न करोति आश्रवं ॥
यस्येन्द्रियाणि भावितानि
[_म्वु_3.396_] अध्यात्मं वहिर्धा च लोके ।
निर्विध्य इमं परं च लोकं
कालं रक्षति भावितो दान्तो ॥
कल्पानि विकीर्य केवलानि
संसारदुःखानि चतूपपातं ।
विगतमलं विरजं अनंगणं
प्राप्तं जातिक्षयन्तम् आहु भिक्षुं ॥
अथ खलु सभिको परिव्राजको भगवतो भाषितम् अभिनन्दित्वा भगवन्तम् एव उत्तरि प्रश्नं पृच्छे ॥
किंप्राप्तिनम् आहु ब्राह्मणं
श्रमणो किं सु कथं सुस्नातको त्ति ।
विशुद्धो नागो कथं प्रवुच्चति
प्रश्नं मे भगवं पृष्टो अनुपूर्वम् अनुलोमं अनुसन्धिम् अनुधर्मं व्याकरोहि ॥
एवम् उक्ते भगवां सभिकं परिव्राजकम् एतद् उवाच ॥
बाहेत्व सर्वपापकानि
विमलो साधुसमाहितो स्थितात्मा ।
संसारम् अवेत्य केवलं
उषितवां क्षीणपुनर्भवो स ब्रह्मा ॥
समितावि प्रहाय पुण्यविपाकं
विरतो ज्ञात्व इमं परं च लोकं ॥
[_म्वु_3.397_] जातीमरणं उपातिवृत्तो
श्रमणो तादि प्रवुच्चति तथत्वा ॥
विस्नापिय सर्वपापकानि
अध्यात्म वहिर्धा च सर्वलोके ।
देवमनुष्येहि कल्पितानि
कल्पं नेति पुनर्* स्नातको मे ॥
अगुं न करोति किंचि लोके
सर्वयोगेहि विसृज्य बन्धनानि ।
सर्वत्र अनिश्रितो विमुक्तो
नागो तायि प्रवुच्चति तथत्वा ।
अथ खलु सभिको परिव्राजको भगवन्तम् एतद् उवाच ॥
किंप्राप्तिनम् आहु वेदको ति
अनुविदितं किन् ति कथन्ति वीर्यवा ति ।
आजानेयो कहिन् ति नाम भोति
प्रश्नं मे भगवं पृष्टो अनुपूर्वम् अनुलोमम् अनुसंधिम् अनुधर्मं व्याकरोहि ॥
एवम् उक्ते भगवां सभिकं परिव्राजकम् एतद् उवाच ॥
वेदानि विचार्य केवलानि
श्रमणानां . . . . . . ॥
सो सर्ववेदनासु वीतरागो
सर्ववेदनाम् अतीत्य वेदको ति ॥
[_म्वु_3.398_] अभावेत्व प्रपंचनामरूपं
अध्यात्मं वहिर्धा च रागभूतं ।
यो समानो रागमूले बंधनप्रमुक्तो
अनुविदितो तायि प्रवुच्चति तथत्वा ॥
यः प्रहीणबन्धनो प्रहाणवां
सर्वदुःखक्षयं जनेत्वा ।
नान्यान् सर्वत्र न रक्षति
विरजो वीर्यवान् प्रवुच्चति तथत्वा ॥
यस्य बन्धनानि संस्कृत्तानि
अध्यात्म वहिर्धा च सर्वलोके ।
सर्वरागबन्धनप्रमुक्तो
आजानेयो ति तम् आहु भूरिप्रज्ञा ॥
अथ खलु सभिको परिव्राजको भगवन्तं प्रश्नं पृच्छति ॥
क्षेत्रज्ञो खलु पुनर् नाम भवति
इति सभिको प्रश्नं पृच्छेत्* मुनिं ।
तत् ते मुनी नाम कथं प्रवुच्चति
प्रश्नं मे भगवं पृष्टो अनुपूर्वम् अनुलोमं अनुसंधिम् अनुधर्मं व्याकरोहि ॥
एवम् उक्ते भगवान् सभिकं परिव्राजकम् एतद् उवाच ॥
क्षेत्राणि संयम केवलानि
दिव्यं मानुषं यं च ब्राह्मं क्षेत्रं ।
[_म्वु_3.399_] स सर्वमूलक्षेत्रबन्धनात् प्रमुक्तो
क्षेत्रज्ञो तायि प्रवुच्चति तथत्वा ॥
कोशानि विचार्य केवलानि
दिव्यं मानुषं यं च ब्रह्मकोशं ।
स सर्वकोशबन्धनात् प्रमुक्तो
कुशलो तायि प्रवुच्चति तथात्वा ॥
विचार्य उभयानि प्रहीणानि
अध्यात्म वहिर्धा च शुक्लमूलं ।
कृष्णमूलम् उपातिवृत्तो
पण्डितो तायि प्रवुच्चति तथात्वा ॥
सतां च असतां च ज्ञात्व धर्मं
अध्यात्म वहिर्धा च मुक्तचित्तो ।
देवमनुष्येहि पूजियो सो
संगमलम् अतीत्य सो मुनि ॥
अथ खलु सभिको परिव्राजको भगवन्तम् एतद् उवाच ॥
श्रोत्रियो . . . . . . . .
. . . . . . . . . . . . ॥
. . . . . किं सु नाम भोति
प्रश्नं मे भगवं पृष्टो अनुपूर्वम् अनुलोमम् अनुसन्धिम् अनुधर्मं व्याकरोहि ॥
एवम् उक्ते भगवां सभिकं परिव्राजकम् एतद् उवाच ॥
श्रुत्वा सर्वधर्मम् अभिज्ञाय
सावद्यम् अनवद्यं च सदेवके लोके ।
[_म्वु_3.400_] असमो अपरिग्रहो विशुद्धो
अनिघो तायि तम् आहु श्रोत्रियन् ति ॥
हित्वा आलयानि आसयानि
बन्धनानि अतिवृत्तो नेति ।
गर्भशय्यं अरतो सर्वपापकेहि
आर्यो तायि प्रवुच्चति तथत्वा ॥
यो मे चरणेहि प्राप्तिप्राप्तो
सम्यग्ज्ञात्व उपेत्य सर्वधर्मां ।
विद्याचरणेन सो उपेतो
चरणवा तायि प्रवुच्चति तथात्वा ॥
दुःखविपाकं यद् अस्ति किंचिद् धर्मं
ऊर्ध्वं अधो तिर्यक्सदेवकस्मिं ।
परिवर्जयित्वा परिज्ञाचारी
मायं मानं च अथो पि क्रोधलोभं ।
पर्यन्तम् अकासि नामरूपं
तं परिव्राजकम् आहु प्राप्तिप्राप्तं ॥
अथ खलु सभिको भगवतो सुभाषितम् अभिनन्दित्वा अनुमोदित्वा भगवन्तम् इमाहि सारूप्याहि गाथाभिर् अभिस्तवे ॥
यानि च त्रीणि यानि च षष्टि
श्रमणप्रवादनिश्रितानि भूरिप्रज्ञ ।
संज्ञाक्षरसंज्ञानिश्रितानि
[_म्वु_3.401_] ओसरणानि वीर ओसरेसि मार्गा ॥
अन्तको सि दुःखस्य पारगो सि धर्माणां
सम्यक्संबुद्धो सि अनाश्रवो सि ।
द्युतिमां धृतिमां प्रभूतप्रज्ञो
दुःखस्यान्तकरो खु वीतरागो ॥
मुनि मौनेयपदेषु प्राप्तिप्राप्तो अकंपियो ।
अतुल्य आदित्यबन्धु विमुक्तिदो शुभव्रतो ॥
तस्य ते नागनागस्य महावीरस्य भाषतो ।
सर्वदेवतानुमोदन्ति उभौ नारदपर्वता ॥
अहं कांक्षितम् अन्वेषे तं मे व्याकार्षि चक्षुमां ।
उपयासा च ते सर्वे विध्वस्ता विनलीकृता ॥
अद्धा मुनि सि संबुद्धो नास्ति नीवरणानि च ।
एवं पुण्ये च पापे च उभयत्र न लिप्यसे ॥
शीतीभूतो दमप्राप्तो द्युतिमां सत्यविक्रमां ।
पादां वीर प्रसारेहि सभिको वन्दि शास्तुनो ॥
सो दानि भगवता बलवशीभावे विनीतो एहिभिक्षुकाये च प्रव्राजितो उपसंपादितो । एषा आयुष्मतो सभिकस्य प्रव्रज्या उपसंपदा भिक्षुभावो ॥
_____सभिकस्य वस्तु प्रश्ना च आश्रवक्षया प्रव्रज्या समाप्तं ॥
___भगवां वाराणस्यां विहरे वरणाये नदीये पारे शास्ता देवानां च मनुष्याणां च विस्तरेण निदानं कृत्वा तस्या दानि वरणाये नदीये कूले महान्यग्रोधवृक्षो मूलवन्तो च स्कन्धवन्तो च शाखापत्रपलाशवन्तो च प्रासादिको प्रसादनीयो नीलो
[_म्वु_3.402_] अंजनमेघसंकाशो ॥ तत्र न्यग्रोधे यदृच्छया पुरुषेण उपयाचितं तस्य च उपयाचनं समृद्धं । तेन तस्य न्यग्रोधस्य महापूजासत्कारं कृतं । तस्य दानि पुरुषस्य दृष्ट्वानुकृतिम् आपद्यन्ता अपरापरे च स्त्रियो च तत्र न्यग्र्धे सत्योपयाचनं ति कृत्वा उपयाचन्ति सर्वाये वाराणसीये तं न्यग्रोधं सत्योपयाचनातो अभिज्ञातो यो च तत्र न्यग्रोधे उपयाचति तं तस्य उपयाचनं समृध्यति ।
शुभाये पूर्वचरितो स्ति कोचिद्*
अयं च देवप्रणिपातम् एति ।
यदृच्छया तं पदम् उपनेति
एवम् एवम् एन्ति कुदर्शनानि ॥
वाराणस्यां च नगरे श्रेष्ठि आढ्यो महाधनो महाभोगो प्रभूतभोगो प्रभूतस्वापदेयो प्रभूतधान्यकोशकोष्ठागारो प्रभूतजातरूपरजतवित्तोपकरणो प्रभूतहस्त्यश्वाजगवेडको प्रभूतदासीदासकर्मकरपौरुषेयो अपुत्रो । तेन दानि पुत्राय बहूनि यष्टोपयाचितशतानि यथा मे पुत्रो भवेयाति न च भवति ॥ ताये दानि श्रेष्ठिभार्याये श्रुतं वरणाये नदीये कूले न्यग्रोधो सत्योपयाचनं तत्र यो यं याचति तस्य तं उपयाचनं समृध्यति ॥ ताये दानि श्रेष्ठिभार्याये तस्य श्रेष्ठिस्य आरोचितं । आर्यपुत्र श्रुतं मे वरणाये नदीये कूले महान्यग्रोधो सत्योपयाचनो तत्र यो यं याचति तस्य तं समृध्यति । गच्छाम तत्र न्यग्रोधे पुत्रम् उपयाचेमः ॥
___श्रेष्ठि सपरिवारो महर्द्धिये समृद्धिये तहिं न्यग्रोधं गतो तहिं गत्वा तस्य न्यग्रोधस्य महापूजासत्कारं कृत्वा ताये भार्याये सार्धं श्रेष्ठिना तत्र न्यग्रोधं उपयाचितं ।
[_म्वु_3.403_] इच्छाम तव मूलातो पुत्रं यदि मे पुत्रो जाआतो भविष्यति ततो इह देवकुलं प्रतिष्ठापयिष्यं महांतं च ते पूजासत्कारं करिष्यामीति ।
स्त्रियः समर्था पुरुषा नियोक्तुं
यो तत्र भद्रो स्त्रियैव मूलं ।
ये चापि संग्रामहता नरेन्द्रा
तेषां प्य् अनयो स्त्रियैव मूलं ॥
ताये पि श्रेष्ठिभार्याये उपयाचितं ॥ त्वं न्यग्रोध सत्ययाचनो श्रूयसि । यथा यथा ते श्रेष्ठिना देवकुलं प्रतिश्रुतं पूजासत्कारं च तथा करिष्यामि अथ मे पुत्रं न दास्यसि ततो ते मूलानि समूलकं छिन्दापयिष्यामि ॥ यन् नामा वृक्षो तन् नामा वृक्षदेवता तत्र प्रतिवसति । तत्र न्यग्रोधे न्यग्रोधो नाम देवपुत्रो प्रतिवसति ॥ सो दानि देवपुत्रो ताये श्रेष्ठिभार्याये तथा उपयाचितो समानो भीतो । अहं न कस्य चिद् एमिनापि आच्छिन्दामि एषा च मे श्रेष्ठिभार्या एवं याचति । यदि एतस्या पुत्रो न भविष्यति परशुणा मे इमं भवनं छेदापयिष्यति ॥ तेन न्यग्रोधेन देवपुत्रेण शक्रो देवानाम् इन्द्रो अधीष्टो । अहं कौशिक नैव कस्यचिद् एमिनापि आच्छिन्दामि मम श्रेष्ठिना भवने पूजासत्कारं कृत्वा एवं चोपयाचितं तद् इच्छामि तथा क्रियमाणं यथा तस्य वाराणसीयस्य श्रेष्ठिस्य पुत्रो भवेय मा मे तं भवनं छिद्येया ॥ सो दानि देवपुत्रो शक्रेण देवानाम् इन्द्रेणाश्वासितो । मा भाहि तथा करिष्यामि यथा तस्य पुत्रो भविष्यति तव भवनं न च्छिन्दिष्यति ॥
[_म्वु_3.404_]___तहिं दानि त्रयस्त्रिंशभवने अपरो देवपुत्रो कृतपुण्यो महेशाख्यो महर्द्धिको महानुभावो कृताधिकारी पुरिमकेहि सम्यक्संबुद्धेहि परिपक्वकुशलमूलो आसंनभूतो निर्वाणस्य एकजन्मप्रतिबद्धो च्यवनधर्मो त्रयस्त्रिंशेषु देवनिकायेषु । सो शक्रेण देवानाम् इन्द्रेण वुच्यति । त्वं च्यवनधर्मो यं च ते च्यवनधर्मनिमित्तानि प्रादुर्भूतानि च्यविष्यसि उपपद्यिष्यसि ततो त्र वाराणस्यां श्रेष्ठिस्य भार्याये कुक्षिस्मिं उपपद्याहि ॥ सो दानि देवपुत्रो शक्रं देवानाम् इन्द्रम् आह ॥ ममाभिप्रायो मनुष्येषूपपद्यित्वा बुद्धस्य भगवतो शासने प्रव्रजिष्यामि प्रव्रजित्वा च दुःखस्यान्तं करिष्यामि । ततो न शक्यं तत्र श्रेष्ठिकुले उपपद्यितुं यत् कारणं श्रेष्ठिकुलो वा प्रमोदकरो अन्तरायकरो कुशलानां धर्माणां अन्यत्राहं अत्र मध्यमे उपपद्यामि । तद् अहं यथासुखं अविघ्नेन भगवतो शासने प्रव्रजित्वा दुःखस्यान्तं करिष्यामि ॥ शक्रो तम् आह ॥ प्रणिधेहि तुवं तत्र श्रेष्ठिकुले चित्तं उपपत्तीये अहं तथा करिष्यं यथा तुवं ततः श्रेष्ठिकुलातो अभिनिष्क्रमित्वा भगवतो शासने प्रव्रजिष्यसि ॥ तेन देवपुत्रेण शक्रस्य देवानाम् इन्द्रस्य वचनेन तत्र वाराणसीयं ओकस्य श्रेष्ठिस्य कुले चित्तं प्रणिहितं । सो दानि त्रयस्त्रिंशेषु देवनिकायेषु च्यवित्वा वाराणसीयं श्रेष्ठिभार्याये कुक्षिस्मिं उपपन्नो कालेन समयेन नवानां वा दशानां वा मासानाम् अत्ययेन सा श्रेष्ठिभार्या प्रजाता ॥
___ताये दारको जातो प्रासादिको दर्शनीयो अक्षुद्रावकाशो परमाये वर्णपुष्कलताये समन्वागतो जातमात्रस्य च श्रेष्ठिना रमणीयानि जातकर्माणि क्रियन्ति
[_म्वु_3.405_] श्रमणब्राह्मणेषु कृपणवनीपकेषु अन्यस्य च जनकायस्य अन्नपानखज्जभोज्यगन्धमाल्यविलेपनं विश्राणीयति तैलप्रणालीयो च प्रवाहीयन्ति घृतप्रणालीयो च पानप्रणालीयो च ॥ सप्ताहस्यात्ययेन दैवज्ञब्राह्मणपरिषा शब्दापिता दारकस्य नामं करोथ ॥ तेहि तस्य दारकस्य नामं करोन्तेहि तस्य दारकस्य यशोदो ति नामं कृतं ॥ ते दानि ब्राह्मणा तेन खादनीयभोजनीयेन संतर्पयित्वा संप्रवारयित्वा हिरण्यसुवर्णस्य उत्संगशतानि दत्त्वा विसर्जिता ॥ यशोदस्य चत्वारि धात्रीयो उपस्थापिताः । एका उद्वर्तेति च स्नापेति चापरा स्तनं पायेति अपरा उच्चारप्रस्रावम् अपकर्षति अपरा अंकेन धारेति ॥ एवं यशोदो कुमारो यथा उत्पलं वा पदुमं वा पुण्डरीकं वा एवं संवर्धीयति ॥ यथोक्तं भगवता ॥
कृतपुण्या हि वर्धन्ति न्यग्रोधो व सुभूमियं ।
अनुपन्थको विय द्रुमो न अल्पपुण्यो विरुह्यति ॥
यदा कुमारो विज्ञप्राप्तो संजातो तदा लिपिं शिक्षितो निक्षेपणं धारणं व्यवहारं च । त्रीणि चास्य पितरेण प्रासादानि कारापितानि हेमन्तिको ग्रीष्मिको वार्षिको षष्टि च स्त्रीसहस्राणि अन्तःपुरं उपस्थापितं ॥ तेहि च प्रासादेहि यन्त्रमन्त्रयुक्तानि सोपानानि कारापितानि पंचहि पुरुषशतेहि अल्लीपियन्ति च अपनीयन्ति च तेहि सोपानेहि अल्लीपियन्तेहि च अपनीयन्तेहि च अर्धयोजनं शब्दं गच्छति ॥
___द्वितीयकुलिको व्यवहारेण पूर्वदेशं गत्वा आगतो । तस्य दानि श्रेष्ठिना दूतं
[_म्वु_3.406_] प्रेषितं ॥ आगच्छ मम पुत्रस्यानुभावं पश्यहीति ॥ सो दानि कुलिको श्रेष्ठिस्य सकाशं आगतो ॥ श्रेष्ठिना सो द्वितीयकुलिको एकपर्यंके उपविशापितो । कुमारो पि यशोदो शब्दावितो । सो पितुश् च द्वितीयकुलिकस्य चाभिवन्दनं कृत्वा तत्रैव पर्यंके उपविशापितो । इमे सर्वे त्रयो एकपर्यंके उपविष्टा ॥ राज्ञा श्रेष्ठिस्य दूतो प्रेषितो । अस्ति राजकार्यो सत्वरो शिघ्रम् आगच्छेसि ॥ श्रेष्ठि द्वितीयकुलिकस्याह ॥ आस त्वं कुमारेण सह अहं याव राजकुलातो आगच्छामि ॥ श्रेष्ठि राजकुलं गतो द्वितीयकुलिको च गृहपति यशोदेन कुमारेण सार्धं आसति ॥
___सो दानि तस्य यशोदस्य श्रेष्ठिपुत्रस्य तां सम्पत्तिं दृष्ट्वा एतद् अभूषि । न खल्व् अयं घरावासो वा इच्छितव्यो यस्येदृशो उपभोगपरिभोगो । निःसंशयं अयं कुमारो बुद्धप्रत्येकबुद्धेषु श्रावकमहेशाख्येषु च कृताधिकारो इच्छितव्यो दिन्नसर्वाकारो वासितवासनो कृतपूर्वयोगो असाधारणो अवरुप्तकुशलमूलो । सचेत् सो कुमारो बुद्धं भगवन्तं देवातिदेवं पश्येय अथ महतार्थेन संयुज्येय ॥ मृहपति आह ॥ कुमार सर्वं खलु यौवनं जरापर्यवसानं सर्वं आरोग्यं व्याधिपर्यवसानं सर्वं जीवितं मरणपर्यवसानं सर्वा संपत्ति विपत्तिपर्यवसाना सर्वेहि प्रियेहि मनापेहि नानाभावं विनाभावं विप्रयोगं चिराद् वाचिराद् वा पितुं पि एतं वा जहिष्यसि एतं वा भवं जहिष्यसि । किं नु खलु ते कुमार भगवां दृष्टो ॥ कुमारो आह ॥ कीदृशो भगवां ॥ गृहपति आह ॥ कुमार देवातिदेवो भगवां तथागतो र्हं सम्यक्संबुद्धो
[_म्वु_3.407_] विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो अशीतिहि अनुव्यंजनेहि उपशोभितशरीरो अष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्वैशारद्येहि सुविशारदो प्रासादिको प्रसादनीयो शान्तेन्द्रियो शान्तमानसो उत्तमदमशमथपारमिप्राप्तः नागो यथा कारितकारणो अन्तर्गतेहि इन्द्रियेहि अवहिर्गतेन मनस्थितेन धर्मताप्राप्तेन गुप्तो नागो जितेन्द्रियो ह्रदम् इवाच्छो अनाविलो विप्रसन्नो रत्नयूपं वा समुद्गतो सुवर्णयूपं वा प्रभासति तेजोराशि वा शिरीया देदीप्यमानो असेचनको अप्रतिकूलो दर्शनाये इहैव वाराणस्यां विहरति च नद्या वरणाय पारिमे तीरे मुक्तो मुक्तपरिवारो शान्तो शान्तपरिवारो दान्तो दान्तपरिवारो ब्राह्मणो ब्राह्मणपरिवारो श्रोत्रियो श्रोत्रियपरिवारो स्नातको स्नातकपरिवारो वेदको वेदकपरिवारो पारगो पारगपरिवारो स्थलगतो स्थलगतपरिवारो सर्वाकुशलधर्मप्रहीणो सर्वकुशलधर्मसमन्वागतो अभिभू अनभिभूतो आज्ञातार्थदर्शी वशी वशवर्ती देवमनुष्याणां अर्थचर्यां चरति ॥
___एवं गृहपतिना द्वितीयकुलिकेन यशोदस्य कुमारस्य पुरतो बुद्धस्य वर्णं भाषितं । कुमारो च यशोदो पूर्वयोगसंपन्नो चरमभविको ॥ तस्य दानि भगवतो दर्शनकामता उदपासि कामेषु चास्य जुगुप्सना उत्पन्ना योनिशो मनसिकारो निष्क्रम्ये चैवं चित्तं प्रस्यन्दति सन्तिष्ठति प्रसीदति ॥ सो दानि रात्रीये अर्धरात्रीसमये प्रतिबुद्धो पश्यति तम् अन्तःपुरं ओसुप्तं काचिद् वीणाम् उपगुह्य काचि तूणं काचित् सुघोषकां काचित्* नकुलं काचिद् वेणुं काचित्* महतीं काचिद् वादिशं काचिद् विकुटकं काचिद् भ्रमरिकां काचिद् एकादशिकां काचित्* मृदंगं काचिद् आलिंगिकां काचित् पणवं काचि दर्दुरं काचित् परस्परस्य अंशे बाहां कृत्वा काचिद्* हनुकां गृह्य
[_म्वु_3.408_] कासांचिल् लाला घरति ॥ कुमारस्य तं दृष्ट्वा विकृतम् अन्तःपुरं श्मशानसंज्ञा उत्पन्ना अभिनिष्क्रमितुकामो च भगवन्तो सन्तिके अगाराद् अनगारियं प्रव्रजिष्यामीति ॥
___शक्रो देवानाम् इन्द्रो अनन्तकेहि देवशतसहस्रेहि परिवृतो गन्धमाल्यम् आदाय आगतो । देवपुत्रेहि सोपाना अल्लीपिता यशोदे च पश्चिमे सोपानके पादतला निक्षिपित्वा देवेहि दिविजं कुसुमवर्षं ओसृष्टं श्रेष्ठिकुले दिव्यानां कुसुमानां जानुमात्रं ओघं संवृत्तं ॥ कुमारो देवशतसहस्रेण संवृतो वाराणसीतो नगरातो निर्गम्य येन भगवांस् तेनोपसंक्रमे ॥ भगवता प्रभा प्रमुक्ता ॥ अद्राक्षीद् यशोदो कुलपुत्रो भगवन्तं वरणाये नदीये पारे असेचनकं अप्रतिकूलं दर्शनाये दृष्ट्वा भगवन्तं मणिपादुकेषु उत्तरित्वा भगवन्तं गाथाये ध्यभाषे ॥
उपद्रुतो स्मि श्रमण उपद्रुतो स्मि मारिष ॥
भगवान् आह ॥ एहि कुमार मा भायाहि इदन् तम् अनुपद्रुतं इमस्मिं धर्मे स्वाख्याते वीतरागो भविष्यसि ॥
___अथ खलु यशोदो श्रेष्ठिपुत्रो येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्तनिषण्णः ॥ तस्य यशोदस्य श्रेष्ठिपुत्रस्य भगवां प्रसादनीयां कथां कथे । तद्यथा दानकथां शीलकथां स्वर्गकथां पुण्यविपाककथां ॥ अभिप्रसादेसि यशोदो श्रेष्ठिपुत्रो भगवतो सन्तिके चित्तम् अभिप्रसन्नः ॥ तस्य पुनर् यशोदस्य श्रेष्ठिपुत्रस्य भगवां चत्वार्य् आर्यसत्यानि प्रकाशयति । दुःखं आर्यसत्यम् आचिक्षति देशयति प्रज्ञापयति विवरति विभजति उत्तानीकरोति प्रकाशयति । दुःखसमुदयम् आर्यसत्यं । दुःखनिरोधं दुःखनिरोधगामिनीप्रतिपदार्यसत्यं आचिक्षति
[_म्वु_3.409_] यावत्* प्रकाशयति ॥ अथ खलु यशोदो श्रेष्ठिपुत्रो तत्रैवासने निषण्णो तिस्रो भिज्ञा षडभिज्ञा बलवशीभावं साक्षीकरोति अनेकविधां ऋद्धिं प्रत्यनुभवति ॥
___अथ खलु यशोदस्य श्रेष्ठिपुत्रस्य मातापितरौ तस्यैव रात्र्या अत्ययेन यशोदं श्रेष्ठिपुत्रं अपश्यन्तौ अश्रुकण्ठा रुदन्मुखा महाज्ञातिस्कन्धस्य परिवृता बहूहि प्राणसहस्रेहि सार्धं वाराणसीतो निर्यात्वा येन भगवांस् तेनोपसंक्रमे यशोदं श्रेष्ठिपुत्रं अन्वेषन्ता । अद्राक्षीत्* यशोदस्य श्रेष्ठिपुत्रस्य मातापितरौ नदीये वरणाये तीरे यशोदस्य मणिपादुकानि दृष्ट्वा च पुनः यशोदस्य मणीपादुकानि गृह्य मुखेन परिचुम्बेन्सुः रोदेन्सुः क्रन्देन्सुः शोचेन्सुः परिदेवेन्सुः ॥ रोदित्वा क्रन्दित्वा शोचित्वा परिदेवित्वा येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् एतद् उवाच ॥ अद्राक्षीद् भगवां यशोदं श्रेष्ठिपुत्रं ॥ यशोदो श्रेष्ठिपुत्रो तथारूपां चेतोसमाधिं समापद्ये यथा नं तत्रैव निषण्णस्य मातापितरौ नादृशेन्सुः न च अन्यो जनकायः ॥ अथ खलु भगवां यशोदस्य श्रेष्ठिपुत्रस्य मातापितरं आमन्त्रयति ॥ निषीदथ गृहपते । स्थानम् एतं विद्यति यशोदं श्रेष्ठिपुत्रं पश्यथ दृष्ट्वा च पुनः यशोदे श्रेष्ठिपुत्रे चित्तं प्रसादेथ ॥ अथ खलु यशोदस्य श्रेष्ठिपुत्रस्य मातापितरौ भगवतो पादौ शिरसा वन्दित्वा एकमन्ते निषीदेन्सुः अन्यो च जनकायो ॥ अथ खलु भगवां यशोदं श्रेष्ठिपुत्रं मनसाध्यभाषे । ऋद्धिप्रातिहार्यं विदर्शेहि ॥
___अथ खलु यशोदो श्रेष्ठिपुत्रो तालमात्रं वैहायसे संस्थितो अनेकविधं ऋद्धिप्रातिहार्यं विदर्शयन्तो सो एको पि भूत्वा बहवो भवति बहुधापि भूत्वा एको भवति
[_म्वु_3.410_] आविर्भावं तिरोकुड्यं तिरोशैलं तिरोपर्वतेषु असज्जमानो गच्छति । इमस्मिं च पृथिवीयं उन्मज्जननिमज्जनं करोति । सय्यथापि नाम उदके पि अभिद्यमानो गच्छति तद्यथापि नाम पृथिवीयं । इमाव् अपि चन्द्रसूर्या एवंमहर्द्धिका एवंमहानुभावौ पर्यंकेन निषण्णः पाणिना परिमार्जति परामृषति यावद् ब्रह्मलोकं कायेन वशे वर्तेति । विविधानि च यमकानि प्रातिहार्याणि करोति हेष्टिमं कायं प्रज्वलति उपरिमातो कायातो शीतस्य वारिस्य पंच धाराशतानि श्रवन्ति उपरिमो कायो प्रज्वलति हेष्टिमातो कायातो शीतस्य वारिस्य पंच धाराशतानि स्रवन्ति वामो पार्श्वो ज्वलति दक्षिणातो पार्श्वातो शीतस्य वारिस्य पंच धाराशतानि श्रवन्ति दक्षिणो पार्श्वो ज्वलति वामातो पार्श्वातो शीतस्य वारिस्य पंच धाराशतानि श्रवन्ति ॥
___अथ खलु यशोदो श्रेष्ठिपुत्रो नीलांजनवर्णं ऋषभम् आत्मानं ऋद्धीये अभिनिर्मिणित्वा पुरस्तिमायां दिशायाम् अन्तरहायति पश्चिमायां दिशायां प्रादुर्भवति पश्चिमायां दिशायां अन्तरहायति पुरस्तिमायां दिशायां प्रादुर्भवति दक्षिणायां दिशायां अन्तरहायति उत्तरायां दिशायां प्रादुर्भवति उत्तरायां दिशायां अन्तरहायति दक्षिणायां दिशायां प्रादुर्भवति ॥ अथ खलु यशोदो श्रेष्ठिपुत्रो सिंहमृगराजम् आत्मानम् ऋद्धिये अभिनिर्मिणित्वा दाठी बलवां केशरी त्रिखुत्तं सिंहनादं नदित्वा पुरस्तिमायां दिशायां अन्तरहायति पश्चिमायां प्रादुर्भवति पश्चिमायां दिशायाम् अन्तर्हायति पुरस्तिमायां दिशायां प्रादुर्भवति दक्षिणातो
[_म्वु_3.411_] अन्तर्हितो उत्तरातो प्रादुर्भवति उत्तरातो अन्तर्हितो दक्षिणायां प्रादुर्भवति भूम्याम् अन्तर्हितो अन्तरीक्षे प्रादुर्भवति अन्तरीक्षे अन्तर्हितो धरण्यां प्रादुर्भवति ॥ अथ खलु यशोदो श्रेष्ठिपुत्रो सर्वश्वेतं हस्तिनागम् आत्मानं ऋद्धिये अभिनिर्मिणित्वा षड्डन्तं इन्द्रगोपशीर्षं सप्ताङ्गसुप्रतिष्ठितं कुमुदवर्णं पुरस्तिमायां दिशायाम् अन्तर्हितो पश्चिमायां प्रादुर्भवति पश्चिमायां अन्तर्हितो पुरस्तिमायां प्रादुर्भूतः दक्षिणातो अन्तर्हितो उत्तरायां प्रादुर्भूतः उत्तरायाम् अन्तर्हितो दक्षिणायां प्रादुर्भूतः भूम्याम् अन्तर्हितो अन्तरीक्षे प्रादुर्भूतः अन्तरीक्षे अन्तर्हितो भूम्यां प्रादुर्भवति ॥ अथ खलु यशोदो कुलपुत्रो चक्रवर्तिवेषम् आत्मानम् अभिनिर्मिणित्वा सप्तरत्नसमन्वागतं चतुरंगेन बलकायेन संपरिवृतो पुरस्तिमायां दिशायां अन्तर्हितो पश्चिमायां प्रादुर्भूतः पश्चिमायाम् अन्तर्हितो पुरस्तिमायां प्रादुर्भूतो दक्षिणायाम् अन्तहितः उत्तरायां प्रादुर्भूतो उत्तरायां अन्तर्हितः दक्षिणायां प्रादुर्भूतो भूम्याम् अन्तर्हितो अन्तरीक्षे प्रादुर्भूतः अन्तरीक्षे अन्तर्हितो भूम्यां प्रादुर्भूतः ॥
___अथ खलु यशोदो कुलपुत्रो तालमात्रं अन्तरीक्षे गच्छति पि तिष्ठति पि निषीदति पि शेय्यम् अपि कल्पयति परितपति पि परिभ्रमति पि । तद्यथापि ग्रीष्माणां पश्चिमे मासे संघट्टका नाम वाता वायन्ति एवम् एव यशोदो श्रेष्ठिपुत्रो तालमात्रं वैहायसम् अन्तरीक्षे गच्छति पि तिष्ठति पि निषीदति पि शेय्यम् अपि कल्पयति परितपति परिभ्रमति पि । एकतालातो द्वितालातो स्थितो एको भूत्वा बहुधा भवति बहुधा भूत्वा एको भवति । यथा प्रथमे परिवर्तके तथा कर्तव्यं यावत् सप्ततालं
[_म्वु_3.412_] सप्ततालातो षट्तालं षट्तालातो पंचताले स्थितो पंचतालातो चतुस्ताले चतुस्तालातो त्रिताले स्थितो त्रितालातो द्विताले स्थितो द्वितालातो एकताले स्थितो एकतालातो धरण्यां स्थितो एको पि भूत्वा बहुधा भवति बहुधापि भूत्वा एको भवति ॥ इति आविर्भावं तिरोकुड्यं तिरोशैलं तिरोपर्वतेषु असज्जमानो गच्छति इमस्मिं पृथिवीयं उन्मज्जति निमज्जति । धरणीतो अभ्युद्गम्य गच्छति पि तिष्ठति पि निषीदति पि शय्याम् अपि कल्पयति परितपति परिभ्रमति पि ॥
___अथ खलु अन्यतीर्थिकचरकपरिव्राजका त्रैदण्डिकम् आनन्दिकगुरुपुत्रकगौतमधर्मचिन्तिकवृद्धश्रावकतृतीया उलूकपक्षिकभगिनी श्रमणा यशोदस्य श्रेष्ठिपुत्रस्य इमानि एवंरूपाणि विविधानि विचित्राणि ऋद्धिप्रातिहार्याणि दृष्ट्वाश्चर्याद्भुतसंविग्नसंहृष्टरोमजाता अभून्सुः यावत् स्वाख्यातो भगवतो गौतमस्य धर्मविनयो विवृतो दण्डच्छिन्नपिलोतिको अलं अलंकाराय अलं प्रसादाय यत्र हि नाम गृहीतो अवदातवसनो काशिकशुचिवस्त्रधरो चन्दनानुलिप्तकगात्रो अंगदी कुण्डली एवम् एवरूपं धर्मं साक्षीकरोति ॥
___अथ खलु भगवां ताये वेलाये यशोदं श्रेष्ठिपुत्रं आरभ्य इमम् उदानम् उदानये ॥
न मुण्डभावो न जटा न पंको
नानासनं थण्डिलशायिका वा ।
रजोजलं वोत्कुटुकप्रहाणं
दुःखप्रमोक्षं न हि तेन भोति ॥
अलंकृतो वापि चरेय धर्मं
क्षान्तो दान्तो नियतो ब्रह्मचारी ।
सर्वेहि भूतेहि निवार्य दण्डं
सो ब्राह्मणो सो श्रमणो स भिक्षुः ॥
[_म्वु_3.413_]___अथ खलु भगवां यशोदस्य मातापितॄणां तस्य च जनकायस्य प्रसादनीयां कथां कथये । तद्यथा दानकथां शीलकथां स्वर्गकथां पुण्यकथां पुण्यविपाककथां । अभिप्रसादयन्ति यशोदस्य मातापितरौ भगवतो सन्तिके चित्तं तं च महाजनकायं अभिप्रसन्नचित्तो ॥ भगवां यशोदस्य मातापितॄणां तस्य च महतो जनकायस्य चत्वार्य् आर्यसत्यानि प्रकाशयति दुःखं दुःखसमुदयं दुःखनिरोधं दुःखनिरोधमार्गं ॥ अथ खलु यशोदस्य श्रेष्ठिपुत्रस्य मातापितॄणां तेष्व् एवासनेषु निषण्णानां विरजं विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धं बहूनां च प्राणिसहस्राणां अधिगता च धर्मा ॥ ते पुनर् यशोदस्य श्रेष्ठिपुत्रस्य मातापितरौ भगवन्तम् एतद् अवोचत्* ॥ प्रव्राजेहि भगवं यशोदं श्रेष्ठिपुत्रं उपसंपादेहि सुगत यशोदं श्रेष्ठिपुत्रं ॥ अथ खलु भगवां एहिभिक्षुकाये आभाषे । एहि भिक्षु चर तथागते ब्रह्मचर्यं ॥
___अथ खलु यशोदस्य श्रेष्ठिपुत्रस्य भगवता एहिभिक्षुकाये आभाष्टस्य यत् किंचिद् गृहिलिंगं गृहिगुप्तं गृहिध्वजं गृहिकल्पं सर्वम् अन्तरहाये त्रिचीवरं चास्य प्रादुर्भवेत् सुंभकं च कंसपात्रं प्रकृतिस्वभावसंस्थिता च केशा ईर्यापथो चास्य संस्थिहे तद्यथा नाम वर्षशतोपसंपन्नस्य भिक्षुस्य । एषा आयुष्मतो यशोदस्य श्रेष्ठिपुत्रस्य प्रव्रज्या उपसंपदा भिक्षुभावो ॥
_____समाप्तं यशोदस्य श्रेष्ठिपुत्रस्य वस्तुं ॥
___भिक्षू भगवन्तम् आहन्सुः ॥ कस्य भगवन् कर्मस्य विपाकेन यशोदो श्रेष्ठिपुत्रो आढ्यो महाधनो महाभोगो श्रेष्ठिकुले उपपन्नो क्षिप्राधिगमो च गृहस्थभूतेनैव बलवशीभावं प्राप्तं ॥ भगवान् आह ॥ एतस्यैव भिक्षवो यशोदस्य श्रेष्ठिपुत्रस्य पूर्वप्रणिधानं ॥
[_म्वु_3.414_]___भूतपूर्वं भिक्षवो इहैव वाराणस्यां नगरे क्षीणकुलपुत्रो अभूषि कृच्छ्रवृत्तिको दरिद्रो परकर्मेण वृत्तिं कल्पयति बुद्धानां चानुत्पादाय प्रत्येकबुद्धा लोके उत्पद्यन्ति बुद्धानाम् अन्तरा दक्षिणेया तूष्णीकशोभना एकचरा खड्गविषाणकल्पा एकम् आत्मानं दमेन्ति परिनिर्वापयन्ति दक्षिणीया पुण्यक्षेत्रा ॥ ततो भद्रिको नाम प्रत्येकबुद्धो ऋषिवदनातो कल्पस्यैव निवासयित्वा पात्रचीवरम् आदाय नातिकाले नातिविकाले समये प्रातरासे वर्तमाने वाराणस्यां नगरे पिण्डाय प्रविष्टो सुसंवृतो कायेन सुसंवृतो वाचाय सुसंवृतो मनेन सूपस्थितिकाय स्मृतिये समाहितो एकाग्रचित्तो सुसंवृतेन्द्रियो ॥
___सो दानि वाराणसीनगरे पिण्डाय चरन्तो तेन क्षीणकुलपुत्रेण पुरुषेण दृष्टो । प्रासादिकाभिप्रसन्ना देवमनुष्या तस्य क्षीणकुलपुत्रस्य पुरुषस्य । भद्रिकं प्रत्येकबुद्धं दृष्ट्वा अतीव मनं प्रसन्नं प्रसन्नचित्तेन गृहं प्रवेशेत्वा गृहे आहारेण प्रतिमानितो एवं चानेन प्राणिधानम् उत्पादितं यं एदृशो दक्षिणेये अधिकारं कृत्वा कुशलमूलं मा कांचिद् दुर्गतिं वा विनिपातं वा गच्छेयं मा वा कदाचिद् दरिद्रेषु कुलेषूपपद्येयं आढ्येषु महाधनेषु महाभोगेषु कुलेषूपपद्येयं ॥ सो दानि भद्रिको प्रत्येकबुद्धो इमम् एवरूपं प्रणिधानं विदित्वा हंसराजा विय वैहायसेन प्रक्रान्तो ॥ सो दानि पुरुषो तं भद्रिकं प्रत्येकबुद्धं वैहायसेन हंसराजा विय विक्रमन्तं दृष्ट्वा च तस्य प्रत्येकबुद्धस्य स्पृहयन्तो भूयो प्रसन्नचित्तो प्रणिधानम् उत्पादेति । एतेषां धर्माणां लाभी भवेयं येषाम् एष प्रव्रजितो धर्माणां लाभी ॥
___भगवान् आह ॥ एष भिक्षवः यशोदो श्रेष्ठिपुत्रो तेन कालेन तेन समयेन इह वाराणस्यां
[_म्वु_3.415_] नगरे क्षीणकुलपुत्रो अभूषि । यं सो तत्र प्रत्येकबुद्धे अधिकारं कृत्वा प्रणिधानम् उत्पादितं तस्य कर्मस्य विपाकेन तद् उपादाय न कदाचिद् दुर्गतिविनिपातेषूपपन्नो मनुष्येषु च्युतो देवेषु देवमहेशाख्यो उपपन्नो देवेषु च्युतो मनुष्यमहेशाख्यो उपपन्नो इहैव च नं पश्चिमे जन्मे तथागतं आरागेत्वा बलवशीभावं प्राप्तो ॥
_____यशोदजातकं समाप्तं ॥
___भगवान् सम्यक्संबुद्धो यद् अर्थं समुदागतो तम् अर्थं अभिसंभावयित्वा वाराणस्यां विहरति ऋषिवदने मृगदावे । तत्र खलु भगवां आयुष्मन्तां पंचकां भद्रवर्गीयान् आमन्त्रयति ॥ मुक्तो हं भिक्षवः सर्वपाशेहि ये दिव्या ये च मानुषा । चरथ भिक्षवश् चारिकां मा च दुवे एकेन अगमित्थ ॥ सन्ति हि भिक्षवः सत्वाः शुद्धा अल्परजा अपरोक्षजातिका ते च अश्रवणत्वाद् धर्माणां परिहायन्ति । अहं पि गंसे येन उरुविल्वायां सेनापतिग्रामकं जटिलानाम् अनुकंपाय ॥
___अथ खलु मारस्य पपिष्ठस्यैतद् अभूषि ॥ अयं खु श्रमणो गौतमो वाराणस्यां विहरति ऋषिवदने मृगदावे सो पंचकां भद्रवर्गिकां भिक्षून् आमन्त्रयति मुक्तो हं भिक्षवः सर्वपाशेहि ये दिव्या ये च मानुषा यूयम् अपि भिक्षवः मुक्ताः सर्वपाशेहि ये दिव्या ये च मानुषाश् चरथ भिक्षवः चारिकां मा च एकेन दुवे अगमित्थ सन्ति भिक्षवः सत्वा अल्परजा अपरोक्षजातिका अश्रवणत्वाद् धर्माणां परिहायन्ति अहं पि गंसे येन उरुविल्वायां सेनपतिग्रामकं जटिलानाम् अनुकंपाय यं नूनाहं उपसंक्रमेयं
[_म्वु_3.416_] विचक्षुकर्माय ॥ अथ खलु मारो पापीमां भगवन्तं गाथाये ध्यभाषे ॥
अमुक्तो मन्यसे मुक्तो किं तु मुक्तो ति मन्यसि ।
गाढबंधनबद्धो सि न मे श्रमण मोक्ष्यसि ॥
अथ खलु भगवां मारं पापीमं गाथाये प्रत्यभाषे ॥
मुक्तो हं सर्वपाशेहि ये दिव्या ये मानुषा ।
एवं जानाहि पापीमं निहतो त्वम् असि अन्तक ॥
अथ खलु मारो पापीमां जानाति खलु मे श्रमणो गौतमो त्ति दुःखी दुमनो विप्रतिसारी तत्रैव अन्तरहाये । इत्थम् एतं श्रूयति ॥
___भगवान् सम्यक्संबुद्धो यद् अर्थं समुदागतो तम् अर्थं अभिसंभावयित्वा वाराणस्याम् विहरति ऋषिवदने मृगदावे शास्ता देवानां च मनुष्याणां च । अथ खलु भगवतो एकस्य रहोगतस्य प्रतिसंलीनस्य अयम् एवंरूपो चेतसः परिवितर्को उदपासि । कामा अनित्यदुःखविपरिणामधर्मा ॥ अथ खलु मारस्य पापीयस एतद् अभूषि ॥ अयं श्रमणो गौतमो वाराणस्यां विहरति ऋषिवदने मृगदावे तस्यैकस्य रहोगतस्य प्रतिसंलीनस्य अयम् एव चेतसः परिवितर्को उदपासि कामा अनित्यदुःखविपरिणामधर्मा यं नूनाहं उपसंक्रमेयं विचक्षुकर्माय ॥ अथ खलु मारो पापीमां येन भगवान्स् तेनोपसंक्रमित्वा भगवन्तं गाथाये ध्यभाषे ॥
दृढो नाम मया पाशो चरति मानसं तव ।
तेन त्वां बन्धयिष्यामि न मे श्रमण मोक्ष्यसि ॥
[_म्वु_3.417_] अथ खलु भगवां मारं पापीमं गाथाये प्रत्यभाषे ॥
पंचकामगुणे लोके मनः षष्ठं प्रवेदितं ।
तत्र मे विगतो छन्दो विन्दो विध्वस्तो विनलीकृतो ।
एवं जानाहि पापीमं निहतो त्वम् असि अन्तक ॥
अथ खलु मारस्य पापीयस एतद् अभूषि । जानाति खलु मे श्रमणो गौतमो ति । दुःखी दुर्मनो विप्रतिसारी तत्रैवान्तरहायि । एत्थं एतं श्रूयति ॥
___भगवान् सम्यक्संबुद्धो यद् अर्थं समुदागतो तम् अर्थम् अभिसंभावयित्वा वाराणस्यां विहरति ऋषिवदने मृगदावे ॥ अथ खलु भगवतो एकस्य रहोगतस्य प्रतिसंलीनस्य अयम् एव चेतसो परिवितर्को उदपासि उपधिर् अनित्यो दुःखो विपरिणामधर्मो ति ॥ अथ खलु मारस्य पापीयस एतद् अभूषि ॥ श्रमणो गौतमो वाराणस्यां विहरति ऋषिवदने मृगदावे एकस्य रहोगतस्य प्रतिसंलीनस्य अयम् एवरूपो चेतसः परिवितर्को उदपासि उपधिर् अनित्यो दुःखो विपरिणामधर्मो ति यं नूनाहं उपसंक्रमेयं विचक्षुकर्माय ॥ अथ खलु मारो पापीमां येन भगवांस् तेनोपसंक्रमित्वा भगवन्तं गाथाये ध्यभाषे ॥
नन्दति पुत्रेहि पुत्रिमां
गोमिको गोहि तथैव नन्दति ।
उपधीहि नन्दति जनो
न हि सो नन्दति यो निरुपधि ॥
[_म्वु_3.418_] अथ खलु भगवां मारं पापीमं गाथाये प्रत्यभाषे ॥
सोचति पुत्रेहि पुत्रिमां
गोमिको गोहि तथैव सोचति ।
उपधीहि जनो प्रबाधितो
न हि शोचति यो निरुधिः ॥
अथ खलु मारो पापीमां जानाति मां श्रमणो गौतमो ति दुःखी दुर्मनो विप्रतिसारी तत्रैवान्तरहाये । इत्थम् एतं श्रूयति ॥
सुविमलविमलस्य निर्मलस्य शुचिस्य
भगवतो ऽमलवर्णो कीर्तितो गौतमस्य ।
तम् अरहितं प्रदेशं सर्वसत्वान देति
सर्वजगतः क्रियाभिर्निर्वृतिं प्रापुणेति ॥
भिक्षू भगवन्तम् आहन्सुः ॥ कथं भगवान् उदानं भाषति ॥
यस्मिं न माया वसति न मानं
यो वीतरागो अनिघो निरासो ।
प्रनुन्नक्रोधो अभिनिर्वृतात्मा
सो ब्राह्मणो स श्रमणो स भिक्षुः ॥
अस्माभिर् अपि भगवन् कथं पिण्डाय चरितव्यं भवति भिक्षां देहीति ॥ भगवान् आह ॥ न होति तूष्णीभूतेन उद्देशेन स्थातव्यं । एवम् आर्याणां याचनं ॥
___भूतपूर्वं भिक्षवो अतीतमध्वाने इहैव वाराणस्यां नगरे राजपुत्रस्य अस्थिसेनो नाम पुरोहितपुत्रो वयस्यो । सो कामेषु आदीनवं दृष्ट्वा परिव्राजकप्रव्रज्यां प्रव्रजितो
[_म्वु_3.419_] कौमारब्रह्मचारी दशकुशलपथसमादायवर्ती देवपारगो परिव्राजकशास्त्रेषु गतिंगतो ॥ सो दानि राजपुत्रो राज्यप्राप्तो सो नं अस्थिसेनं पुरोहितपुत्रं गाथाये अध्यभाषे ॥
नैव द्विषन्ति सप्रज्ञा अस्थिसेन वनीपकं ।
ब्रह्मचारि प्रियो मे सि याचे ब्रह्मे यद् इच्छसि ॥
अथ खलु भिक्षवो अस्थिसेनो वनीपको गाथाये प्रत्यभाषे ॥
याचेन्तो अप्रियो भवति अदेन्तो भवति अप्रियो ।
तस्माद् भवन्तं न याचामि मा मे विद्वेषणा भवेत्* ॥
अथ खलु भिक्षवः स काशिराजा अस्थिसेनं वनीपकं गाथाये प्रत्यभाषे ॥
यो हि याचनको सन्तो याचितव्यं न याचति ।
परं च पुण्यं त्याजेति आत्मना च विहन्यति ॥
अथ खलु भिक्षवः अस्थिसेनो वनीपको तं काशिराजं प्रत्यभाषे ॥
याचनां रोदनम् आहु अदानं प्रतिरोदनं ।
तस्माद् भवन्तं न याचामि मा मे आरोदनं भवेत्* ॥
न वै याचति सप्रज्ञो नार्यो वेदितुम् अर्हति ।
उद्देश आर्या तिष्ठन्ति एषा आर्याण याचना ॥
अथ खलु भिक्षवः स काशिराजा अस्थिसेनं वनीपकं गाथाये प्रत्यभाषे ॥
ददामि ते ब्राह्मण रोहिणीनां
पूर्णं सहस्रं सह पुङ्गवेन ।
[_म्वु_3.420_] आर्यो हि आर्यस्य कथं न दद्या
श्रुत्वान गाथां कथिताम् सुभाषितां ॥
भगवान् आह ॥ नान्यो भिक्षवस् तदा स काशिराज्ञो अस्थिसेनो नाम पुरोहितपुत्रो परिव्राजको वयस्यो अभूषि । अहं स तदा अस्थिसेनो परिव्राजको अभूषि ॥
_____अस्थिसेनस्य जातकं समाप्तं ॥
___भगवान् आह ॥
न वै याचति सप्रज्ञो नार्यो वेदयितुम् अर्हति ।
उद्देशे आर्यास् तिष्ठन्ते एषा आर्याण याचना ॥
एवं भिक्षवः पिण्डचारं चरितव्यं ॥ ते दानि भिक्षू भगवन्तम् आहन्सुः ॥ किम् अस्माभिर् भगवं भिक्षाये लब्धाये वक्तव्यं स्वस्ति स्वस्तीति ॥ भगवान् आह ॥ न भिक्षवो युष्माभिर् आदिशितव्यं भिक्षायां लब्धायां ॥
सर्वपापस्याकरणं कुशलस्योपसंपदा ।
स्वचित्तपर्यादापनं एतद् बुद्धानुशासनं ॥
ते दानि भिक्षू ऋषिवदने मृगदावे वर्षोषिता दिशोदिशं चारिकां प्रक्रान्ता ॥ ऋषिवदने देवता तेषां भिक्षूणां स्थानानि चंक्रमाणि निषद्यानि शय्यानि शून्यानि निरभिरम्याणि दृष्ट्वा रतिं अविन्दन्ती येन भगवांस् तेनोपसंक्रमित्वा भगवन्तं गाथाये प्रत्यभाषे ॥
अरति मे विषये द्य ख्यायति
शून्यं दृष्ट्व विविक्तमानुषं ।
[_म्वु_3.421_] ते चित्रकथा बहुश्रुता
कहिं ते गौतम श्रावका गता ॥
भगवान् आह ॥
मगधां गता कोशलां गता
वज्जिभूमिं च अथापरे गता ।
मृगका व असंगचारिणो
प्रविविक्ता विहरन्ति भिक्षवः ॥
भगवां प्रस्थितो । नाविकेन भगवन्तं दृष्ट्वा गंगातीरम् उपसंक्रमन्तं नावा अल्लीपिता ॥ भगवां नावम् आरुह्य नाविकम् आह ॥
सिंच भिक्षु इमां नावां मैत्राये सिक्ता ते लघु भेष्यति ।
छित्त्वा रागं च दोषं च ततो निर्वाणम् एष्यसि ॥
सिंच भिक्षु इमां नावां करुणाय सिक्ता ते लघु भेष्यति ।
छित्त्वा रागं च दोषं च ततो निर्वाणम् एष्यसि ॥
सिंच भिक्षु इमां नावां मुदिताय सिक्ता ते लघु भेष्यति ।
छित्त्वा रागं च दोषं च ततो निर्वाणम् एष्यसि ॥
सिंच भिक्षु इमां नावां उपेक्षाये सिक्ता ते लघु भेष्यति ।
छित्त्वा रागं च दोषं च ततो निर्वाणम् एष्यसि ॥
मैत्राविहारी यो भिक्षुः प्रसन्नो बुद्धशासने ।
अधिगच्छति पदं शान्तं असेचनं च मोचनं ॥
करुणाविहारी यो भिक्षु प्रसन्नो बुद्धशासने ।
अधिगच्छति पदं शान्तं अपृथग्जनसेवितं ॥
मुदिताविहारी यो भिक्षु प्रसन्नो बुद्धशासने ।
[_म्वु_3.422_] अधिगच्छति पदं शान्तं अकापुरुषसेवितं ॥
उपेक्षाविहारी यो भिक्षु प्रसन्नो बुद्धशसने ।
अधिगच्छति पदं शान्तं निर्वाणं पदम् अच्युतं ॥
धर्मारामो धर्मरतो धर्मम् अनुविचिन्तयं ।
धर्मं समनुस्मरं भिक्षु सद्धर्मान् न परिहायति ॥
उदग्रचित्तो सुमना अभिभूय प्रियाप्रियं ।
ततो प्रामोद्यबहुलो भिक्षु निर्वाणसन्तिके ॥
न शीलव्रतमात्रेण बाहुश्रुत्येन वा पुनः ।
अथ वा समाधिलाभेन प्रान्तशय्यासनेन च ॥
स्पृहयं नैष्क्रम्यसुखं अपृथग्जनसेवितं ।
भिक्षु विश्वासम् आपद्ये अप्राप्ते आश्रवक्षये ॥
भिक्षु न तावता भवति यावता भिक्षते परां ।
विषमां धर्मां समादाय भिक्षु भोति न तावता ॥
यो च कामां च पापां चाधिकृत्वा ब्रह्मचर्यवां ।
निःश्रेणीभूतो सप्रज्ञो स वै भिक्षूति वुच्चति ॥
यतो चरे यतो तिष्ठे यतो आसे यतो शये ।
यतो संमिंजये कायं यतो कायं प्रसारये ॥
यतयायी यतसेय्यो अस्या
यतसंकल्प ध्यायि अप्रमत्तो ।
[_म्वु_3.423_] अध्यायरतो समाहितो
एको संतुषितो तम् आहु भिक्षुं ॥
चक्षुषा संवरो साधु साधु श्रोत्रेण संवरः ।
घ्राणेन संवरो साधु साधु जिह्वाय संवरो ॥
कायेन संवरो साधु मनसा साधु संवरः ।
सर्वत्र संवृतो भिक्षुः सर्वदुःखा प्रमुच्यते ॥
सो दानि भगवता वशीभावेन विनीतो । सिंच भिक्षु इमां नावां ति आभाष्टस्य यत् किंचिद् गृहिलिंगं गृहिगुप्तं गृहिध्वजं गृहिकल्पं सर्वं समन्तर्हितं त्रिचीवरं चास्य प्रादुर्भवेत् सुंभकं च पात्रं प्रकृतिस्वभावसंस्थिता च केशा ईर्यापथं चास्य संस्थिहे तद्यथापि नाम वर्षशतोपसंपन्नस्य भिक्षुस्य ॥ एवं आयुष्मतो गंगेयकस्य नाविकस्य प्रव्रज्या उपसंपदा भिक्षुभावो ॥
___तं तहिं भगवां विसर्जयति ॥ सो दानि भगवन्तं आह ॥ यदि भगवं केनचित् पृच्छियेयं को त्वं ति किं मया भगवं वक्तव्यं ॥ भगवान् आह ॥ श्रमणो पि त्वं ब्राह्मणो पि त्वं वेदको पि त्वं तारको पि त्वं पारगो पि त्वं ॥
___शक्रो देवानाम् इन्द्रो माणवकवर्णम् आत्मानं ऋद्धीये अभिनिर्मिणित्वा प्रासादिको दर्शनीयो शोभनेहि जटेहि नीलेहि नीलमयूरग्रीवसंनिकाशेहि सौवर्णेन यष्टिकमण्डलुना भगवतो पात्रचीवरकुण्डिकम् आदाय पृष्ठतो गच्छति ॥ जनो आह ॥ को स्वायं माणवको प्रासादिको दर्शनीयो ॥ सो दानि आह ॥
यो वीरो धृतिसंपन्नो ध्यायी अप्रतिपुद्गलो ।
अर्हन्तो सुगतो लोके तस्याहं परिचारको ॥
[_म्वु_3.424_] यो वुह्यमानं तारेति धर्मनावाय गौतमो ।
उत्तीर्णो पारगो बुद्धो तस्याहं परिचारको ॥
भगवां पि शक्रं देवानाम् इन्द्रं विसर्जयति ॥
अथ खलु भगवतो एतद् अभूषि ॥ किम् अधिमुक्ता जटिला जटिला खलु जटिलाधिमुक्ता ति भगवां जटिलसहस्रं अभिनिर्मिणित्वा प्रासादिकां प्रसादनीयां महेशाख्यां तेहि संपरिवारितो वैहायसेन ऋद्धीये उरुविल्वाकाश्यपस्य जटिलस्य उपसंक्रान्तो ॥ उरुविल्वाकाश्यपः सपरिवारो सार्धं पंचहि जटिलशतेहि जटिलसहस्रं दृष्ट्वा प्रासादिकां च दर्शनीयां च संकोचम् आपन्नो । इमं वास्माकम् आश्रमं सर्वो उपस्थितो महाजनकायो आगमिष्यति ते चास्माकं अभिप्रसन्ना उरुविल्वाकाश्यपस्य ऋषिस्य सपरिवारस्य लोके समसमो नास्ति अयं च ऋषि जटिलसहस्रपरिवारो महर्द्धिको महानुभावो अद्यैवम् इहाश्रमं प्राप्तो सर्वजनकायो एतस्य ऋषिस्य सहस्रपरिवारस्य महर्द्धिकस्य महानुभावस्याभिप्रसीदिष्यति । अभिप्रसन्ना च प्रसन्नाधिकारं करिष्यन्ति सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति अपचायिष्यन्ति मम सपरिवारस्य न तथा समन्वाहरिष्यन्ति ॥ अथ खलु भगवां उरुविल्वाकाश्यपस्य ऋषिस्य इमम् एवरूपं चेतसो परिवितर्कम् आज्ञाय स्वयं जटिलवेशम् अन्तरहायितं च निर्मितं च जटिलसहस्रं ॥ अथ खलु उरुविल्वाकाश्यपो जटिलो तस्मिं जटिलसहस्रे अन्तर्हिते स्वकेन रूपेण च भगवन्तं दृष्ट्वा तथागतम् अर्हन्तं सम्यक्संबुद्धं विद्याचरणसंपन्नं सुगतं लोकविदं अनुत्तरं पुरुषदम्यसारथिं
[_म्वु_3.425_] शास्तारं देवानां च मनुष्याणां च द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतं अशीतिह अनुव्यंजनेहि उपशोभितशरीरं अष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतं दशहि तथागतबलेहि बलवन्तं चतुर्हि वैशारद्येहि विशारदं प्रासादिकं प्रसादनीयं च शान्तेन्द्रियं शान्तमानसं उत्तमदमसमथप्राप्तं परमदमशमथप्राप्तं नागो विय कारितकारणो अवहिर्गतेहि इन्द्रियेहि अवहिर्गतेन मानसेन स्थितेन धर्मताप्राप्तेन गुप्तो नागो जितेन्द्रियो ह्रदम् इवाच्छो अनाविलो विप्रसन्नो रतनयूपं व अभ्युद्गतं सुवर्णबिम्बम् इव प्रभासयन्तं तेजोराशिं शिरीये दीप्यमानं द्वितीयम् इव आदित्यं उदयन्तं असेचनकं अप्रतिकूलं दर्शनाय । दृष्ट्वा च पुनर् उरुविल्वाकाश्यपो सपरिवारो विस्मितो अभूषि । महर्द्धिको श्रमणो गौतमो महानुभावो ऽयं अहं पुनर् महर्द्धिकतरो ॥
___अथ खलु सो जनकायो आगतागतो भगवन्तम् उपसंक्रमेन्सुः भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् एव पुरस्करेन्सुः भगवतो दर्शनेन न तृप्येन्सुः ॥ अथ उरुविल्वाकाश्यपस्य ऋषिस्य एतद् अभूषि ॥ अहो पुनर् मे आश्रमातो श्रमणो गौतमो अन्येन प्रक्रमेया ॥ अथ भगवान् उरुविल्वाकाश्यपस्य ऋषिस्य इमम् एवरूपं चेतसो परिवितर्कम् आज्ञाय तद्यथापि नाम बलवां पुरुषो संमिंजितां वा बाहां प्रसारये प्रसारितां वा बाहां संमिंजये एत्तकेन क्षणवीतिहारेण उरुविल्वाकाश्यपस्य ऋषिस्याश्रमातो वैहायसम् अभ्युद्गम्य उरुविल्वायां सेनापतिग्रामके प्रत्यस्थासि नद्या नैरंजनायास् तीरे अजपालस्य न्यग्रोधमूले ॥ अथ खलु उरुविल्वाकाश्यपस्य जटिलवृत्तेः अपगतेन जनकायेन एतद् अभूषि ॥ अहो पुनः श्रमणो गौतमो इहागच्छे इहागतो खादनीयं भोजनीयं परिभुंजेया ॥ अथ खलु भगवां उरुविल्वाकाश्यपस्य जटिलस्य इमं एवरूपं चेतसः परिवितर्कम् आज्ञाय तद्यथापि नाम बलवां पुरुषो सम्मिंजितां वा बाहां प्रसारये प्रसारितां वा बाहां संमिंजये एत्तकेन क्षणवीतिहारेण अजपालस्य न्यग्रोधमूलातो वैहायसम् अभ्युद्गम्य उरुविल्वाकाश्यपस्य
[_म्वु_3.426_] जटिलस्याश्रमे प्रत्यस्थासि ॥ अथ खलु उरुविल्वाकाश्यपस्य जटिलस्य सपरिवारस्य एतद् अभूषि ॥ महर्द्धिको श्रमणो गौतमो महानुभावो परसत्वानां परपुद्गलानां चित्तेन चित्तं जानाति महर्द्धिकतरा च वयं ॥ अथ खलु उरुविल्वाकाश्यपो जटिलो भगवन्तं स्वहस्तेन प्रणीतेन खादनीयभोजनीयेन सन्तर्पयति ॥ अथ खलु भगवां भुक्तावी धौतपात्र अपनीतपाणिर् उरुविल्वाकाश्यपस्य ऋषिस्य जटिलस्य तं देयधर्मं इमायानुमोदनायानुमोदये ॥
अग्निहोत्रमुखा यज्ञा सावित्री छन्दसां मुखं ।
राजा मुखं मनुष्याणां नदीनां सागरो मुखं ॥
नक्षत्राणां चन्द्रो मुखं . . . . . . . . . ।
आदित्यो तपसां ऊर्ध्वं तिर्यग् अधस् तपस्वतां ।
सदेवकस्य लोकस्य संबुद्धो वदतां वरो ॥
अथ खलु उरुविल्वाकाश्यपो सपरिवारो वैहायसम् अन्तरीक्षे स्थितो अग्निं जुह्वति तेषां तम् अग्निं न ज्वलति तेषाम् एतद् अभूषि ॥ कस्यायम् अनुभावो येनाग्निर् न प्रज्वलति । नूनं श्रमणस्य गौतमस्यानुभावेन ॥ सो दानि अग्निः प्रज्वलितो तेषाम् एतद् अभूषि ॥ महर्द्धिको श्रमणो गौतमो महानुभावो वयं पुनः महर्द्धिकतरा ॥ तहिं अग्निस्मिं आहुतिं प्रक्षिपति न च पतति तेषाम् एतद् अभूषि ॥ कस्यायम् अनुभावो येनाग्निस्मिं आहुनी न पतति । नूनं श्रमणस्य गौतमस्यानुभावेन । यतो सानं एवं भवति श्रमणस्य गौतमस्यानुभावो ति ततः सा आहुतिर् अग्निहोत्रस्मिं पतति ॥ अग्निं जुहुत्वान्तरीक्षातो
[_म्वु_3.427_] ओतरिष्यामो ति न शक्नोन्ति ओतरितुं ॥ तेषाम् एतद् अभूषि ॥ कस्यायम् अनुभावो येनान्तरीक्षातो न शक्नोम आश्रमं ओतरितुं । नूनं श्रमणस्य गौतमस्यानुभावेन ॥ यतः सानं एतद् अभूषि श्रमणस्यायं गौतमस्यानुभावो ति अथ ततो अन्तरीक्षातो आश्रमे प्रतिष्ठिता शिविकेषु स्वकस्वकेषु निषीदिष्यामो ति न च तानि शिविकानि अद्दशेन्सुः ॥ तेषाम् एतद् अभूषि ॥ कस्यायम् अनुभावो येन वयं शिविकां न दृशेम । नूनं श्रमणस्य गौतमस्यानुभावेन ॥ यतो सानं एवं भवति श्रमणस्य गौतमस्यानुभावो ति अथ तानि सिविकानि अद्दसेन्सुः ॥ तेषाम् एतद् अभूषि ॥ महर्द्धिको श्रमणो गौतमो महानुभावो वयं पुनर् महर्द्धिकतरा । पानियकरकानि आदाय उदकहारा गमिष्यामो ति न च तानि करकानि अद्देन्सुः ॥ तेषाम् एतद् अभूषि ॥ कस्यायम् अनुभावो नूनं श्रमणस्य गौतमस्य । यतो सानं एवं भवति श्रमणस्य गौतमस्यानुभाओ ति अथ तानि स्वकस्वकानि करकानि अद्दशेन्सुः ॥ तेषाम् एतद् अभूषि ॥ महर्द्धिको श्रमणो गौतमो महानुभावो वयं पुनर् महर्द्धिकतरा ॥ करकानि आदाय नैरंजनां नदीं उदकहारिं गता न च शक्नोन्ति तानि करकानि भरयितुं ॥ तेषां एतद् अभूषि ॥ कस्यायम् अनुभावो नूनं श्रमणस्य गौतमस्य ॥ यतो सानं एवं भवति श्रमणस्यायं गौतमस्यानुभावो ति अथ तानि करकानि उदकेन भरेन्सुः ॥ तेषाम् एतद् अभूषि ॥ महर्द्धिको यं श्रमणो गौतमो महानुभावो वयं पुनर् महर्द्धिकतरा ॥ आहारं करिष्यन्ति न च शक्नोन्ति आहारं कर्तुं ॥ तेषाम् एतद् अभूषि ॥
[_म्वु_3.428_] कस्यायम् अनुभावो नूनं श्रमणस्य गौतमस्य ॥ यतो सानं एवं भवति श्रमणस्यायं गौतमस्यानुभावो त्ति ततः शक्नोन्ति आहारं कर्तुं ॥ तेषाम् एतद् अभूषि ॥ महर्द्धिको श्रमणो गौतमः महानुभावो वयं पुनर् महर्द्धिकतरा ॥ कृताहारा काष्ठानि पातयिष्यामो ति उत्क्षिपितानि कुठाराणि न शक्नोन्ति निक्षिपितुं ॥ तेषाम् एतद् अभूषि ॥ कस्यायम् अनुभावो नूनं श्रमणस्य गौतमस्य ॥ यतो सानं एवं भवति श्रमणस्य गौतमस्यायम् अनुभावो ति अथ तानि कुठाराणि उत्क्षिप्तानि निक्षेपेन्सुः तानि च काष्ठानि पातयेन्सुः ॥ तेषां एतद् अभूषि ॥ महर्द्धिको यं श्रमणो गौतमो महानुभावो वयं पुनर् महर्द्धिकतराः ॥
___एवं भगवां उरुविल्वाकाश्यपस्य संमुखा त्रयो भ्रातरां सपरिवारां पंचहि प्रातिहार्यशतेहि विनयेसि । पश्चिमं प्रातिहार्यं ॥ भगवां प्रतिसंलीयितुकामो उरुविल्वाकाश्यपम् आह ॥ काश्यप अत्र अग्निशरणम्हि ते संलयिष्यामीति ॥ उरुविल्वाकाश्यपो आह ॥ सो गौतम अग्निशरणो अप्रवेश्यो केनचित्* मनुष्येण वा अमनुष्येण वा अत्र सरणे दुष्टनागो प्रतिवसति । वयं पि तावद् एतं अग्निशरणं दूरे परिवर्जेम तस्य दुष्टनागस्य भयेन ॥ भगवान् आह ॥ अनुजानाहि त्वं काश्यप प्रतिसंलयिष्यामि अहम् अत्राग्निशरणे ॥ उरुविल्वाकाश्यपो आह ॥ न ते भो गौअतम अग्निशरणं अनुजानामि । अत्र दोष एव आख्यायति एतं अग्निशरणं इमानि च बहूनि तृणकुटिकापर्णकुटिकाशतानि यत्र भवां गौतमो नन्दति तत्र प्रतिलीयतु ॥ अथ खलु भगवां उत्थायासनातो उरुविल्वाकाश्यपस्याग्निशरणं
[_म्वु_3.429_] प्रविशित्वा निषीदे प्रतिसंलयनाय ॥ भगवान् दानि अग्निशरणे तेजोधातुं समापन्नो । सो दानि भगवतः तेजं असहन्तो यतो भगवतो पात्रं चतुर्हि महाराजेहि दिन्नं तत्र ओकस्तो । भगवता च मैत्र्या स्फुटो दमितो च निर्विषो संवृत्तो न च भूयो क्रोधं व्यावहति ॥ अग्निशरणो भगवतो तेजेन एकज्वालीभूतो दृश्यति ॥ तेषां जटिलानाम् एतद् अभूषि ॥ दुष्टनागेन गौतमो श्रमणो दग्धो अग्निशरणो च सर्वं आदीप्तं ॥ ते दानि उदकम् आदाय प्रधाविता अग्निशरणं निर्वापयिष्यामो त्ति श्रमणं च गौतमं परिमोचयिष्यामो त्ति ॥ भगवां तं नागं दमेत्वा निर्विषं कृत्वा पात्रेणादाय उरुविल्वाकाश्यपस्योपनामयति ॥ उरुविल्वाकाश्यपो भगवतो पात्रगतं तन् नागं सपरिवारो विस्मितो । महर्द्धिको श्रमणो गौतमो महानुभावो यत्र हि नाम पश्य भगवन् मनुष्येण वा अमनुष्येण वा न शक्यं प्रवेष्टुं ति सो श्रमणस्य गौतमस्य तेजेन पर्यादिन्नो ॥ अथ खलु उरुविल्वाकाश्यपस्य संमुखा ते त्रयो भ्रातरो सपरिवारा भगवता इमेन पश्चिमेन प्रातिहार्येण सर्वे अभिप्रसादिता ॥
दमयित्वा उरगराजं उरुविल्वाकाश्यप-अग्निशरणस्मिं ।
पात्रेण नीहरित्वा काश्यपशिरिणो उपनयासि ॥
एषो स्य पश्य काश्यप पर्यादिन्नो स्वतेजसा तेजो ।
यस्य भवनं न शक्यं प्रवेष्टुम् इह केनचिल् लोके ॥
संहृष्टरोमकूपो उरुविल्वाकाश्यपो सपरिवारो ।
नरनागेन हि नागो दान्तो उपशमयितो दृष्टो ॥
सो नागो यस्यार्थं महर्षिभवनं आसीद् दुःप्रवेशो ।
सो दान्तो निर्विषश् च कृतो यं बुद्धानुभावेन ॥
[_म्वु_3.430_] भगवान् आह ॥
मया विनीते न सन्ति दोषा अत्रानियतो काश्यप न विद्यते ।
नभं पतेय पृथिवी फलेय च न बुद्धदान्तो सविषो चरेत्* ॥
विसर्जितो भगवता स संवर्तनाग ति पन्नगो भणितो ।
मानुषकायो भूत्वा प्रणिपते चरणेषु सुगतस्य ॥
शरणं भवाहि नरवर अयं न मे अत्ययो महाप्रज्ञ ।
यस्य मम आसि चित्तं प्रदुष्टम् अपविद्धं प्रत्यक्षं ॥
बाह्यं कृतं नरोत्तम अपराधो मम अनत्ययो यम् अहं ।
तं खलु विनायकवर पुन ते शरणं अहं गच्छे ॥
वंदित्व वन्दनीयं बहुशो च प्रदक्षिणीकरित्वान ।
गुरुगारवेण महता नमस्य नागो अपक्रान्तो ॥
भगवता उरुविल्वाकाश्यपो पंचशतपरिवारो नदीकाश्यपो च त्रिशतपरिवारो गयाकाश्यपो च द्विशतपरिवारो सर्वे त्रयो भ्रातरो पंचहि प्रातिहार्यशतेहि बलवशीभावे विनीता एहिभिक्षुकाये सर्वे प्रव्राजिता उपसंपादिता । एथ भिक्षवश् चरथ तथागते ब्रह्मचर्यं ॥ तेषां दानि भगवता एहिभिक्षुकाये आभाष्टानां यत् किंचिद् ऋषिलिंगं ऋषिगुप्ति ऋषिध्वजं ऋषिकल्पं सर्वं समन्तरहितं त्रिचीवरा च सानं प्रादुर्भवेन्सुः सुम्भका च पात्रा प्रकृतिस्वभावसंस्थिता च केशा ईर्यापथो सानं संस्थिहे तद्यथा वर्षशतोपसंपन्नानां भिक्षूणां । एवम् आयुष्मन्तानाम् उरुविल्वाकाश्यपनदीकाश्यपगयाकाश्यपानां त्रयाणां भ्रातॄणां सपरिवाराणां उपसंपदा भिक्षुभावो ॥
[_म्वु_3.431_]___तेषां दानि उपसेनो नाम भागिनेयो तस्यैव नद्या नैरंजनायास् तीरे आश्रमं मापयित्वा पत्रोपेतं पुष्पोपेतं फलोपेतं तत्रासौ प्रतिवसति त्रिशतपरिवारो चतुर्ध्यानलाभी पंचाभिज्ञो महर्द्धिको महानुभावो ॥ तेहि दानि उरुविल्वाकाश्यपप्रमुखेहि भिक्षूहि सर्वन्तं ऋषिभाण्डं अजिनोपानहचीवरा च कठीनका च कमण्डलुं च नद्यां नैरंजनायां प्रवाहिता । सो अस्माकं भागिनेयो उपसेनो एतेन ऋषिभाण्डेन सपरिवारो कार्यं करिष्यति ॥ तेहि तं भाण्डं नैरंजनायां वुह्यन्तं दृष्ट्वा तेहि तं भाण्डं सर्वं उत्कड्ढितं ॥ तस्य दानि उपसेनस्य ऋषिस्य एतद् अभूषि । मा हैव मे मातुलका केनचिद् विहेठिता भविष्यन्ति ॥ सो दानि शीघ्रशीघ्रं त्वरमाणरूपो सपरिवारो उरुविल्वाकाश्यपनदीकाश्यपगयाकाश्यपानां आश्रमं आगतो भगवां च सपरिवारो कृतभक्तकृत्यो । भिक्षुसंघो नद्यां नैरंजनायां पात्राणि निमज्जेत्वा शोधेन्ति परिमार्जन्ति ॥
___अथ खलु उपसेनो ऋषिर् येन उरुविल्वाकाश्यपो तेनोपसंक्रमित्वा आयुष्मन्तं उरुविल्वाकाश्यपं गाथाये अध्यभाषे ॥
मोहं ते जुहितो अग्नि मोहन् ते सो तपो कृतो ।
यं जहे पश्चिमे काले जीर्णां व उरगो त्वचं ॥
अथ खल्व् आयुष्मां उरुविल्वाकाश्यपो उपसेनं ऋषिं गाथाये प्रत्यभाषे ॥
मोहं मे जुहितो अग्नि मोहं मे सो तपो कृतो ।
यं जहे पश्चिमे काले जीर्णां व उरगो त्वचं ॥
सो पि च भगवता सपरिवारो बलवशीभावे विनीतो एहिभिक्षुकाये प्रव्राजितो
[_म्वु_3.432_] उपसंपादितो । एथ भिक्षवो चरथ तथागते ब्रह्मचर्यं ॥ तेषां भगवता एहिभिक्षुकाये आभाष्टानां यत् किंचिद् ऋषिलिंगं ऋषिगुप्ति ऋषिध्वजं ऋषिकल्पं सर्वं समन्तरहितं त्रिचीवरं सानं च प्रादुर्भूतं सुम्भकं च पात्रं प्रकृतिस्वभावसंस्थिता च केशा ईर्या च संस्थिहे तद्यथापि नाम वर्षशतोपसंपन्नानां भिक्षूणां । एषो आयुष्मतो उपसेनस्य अर्धत्रिशतपरिवारस्य प्रव्रज्या उपसंपदा भिक्षुभावो ॥ इदं भगवतो प्रथमं श्रावकसंनिपातं अर्धत्रयोदश भिक्षुशतानि ॥
___भिक्षू भगवन्तम् आहन्सुः ॥ कस्य भगवं कर्मस्य विपाकेन आयुष्मन्ता उरुविल्वाकाश्यपनदीकाश्यपगयाकाश्यपा त्रयो भ्रातरो महर्द्धिका महानुभावा क्षिप्राधिगमा च ॥ भगवान् आह ॥ एतेषाम् एव भिक्षवः पूर्वप्रणिधानं बुद्धे ओरुप्तस्य कुशलमूलस्य विपाको यत् ते महर्द्धिका च महानुभावाश् च क्षिप्राधिगमाश् च ॥ भूतपूर्वं भिक्षवो तीतमध्वाने हस्तिनापुरे राजा महेन्द्रो नामाभूषि कृतपुण्यो महेशाख्यो धार्मिको धर्मराजा सुसंगृहीतपरिवारो दानसंविभागशीलो । तस्य दानि राज्ञो पुष्पो नाम तथागतो र्हन् सम्यक्संबुद्धो सश्रावकसंघो हस्तिनापुरे याचितको वसति ॥ कलिंगेषु सिंहपुरं नाम नगरं तत्र त्रयो भ्रातरो एकमातृका राज्यं कारयंति । तेषां दानि तत्र राज्ये रतनं उत्पन्नं ते तं रतनम् आदाय ततः सिंहपुरातो हस्तिनापुरम् आगता । तेहि तं रतनं राज्ञो महेन्द्रकस्य उपनामितं ॥ सो दानि राजा महेन्द्रको तेन प्राभृतेन तेषां भ्रातॄणां प्रीतो संजातो ॥ सो आह ॥ किं वो करिष्यामि ॥ ते दानि आहन्सुः ॥ इच्छामो भगवां पुष्पो अस्माकं नगरे वर्षावासं वसेथ अस्माकम् अनुकम्पाय । अद्यैव तेन प्राप्तेन महन्तम् आपूर्तं कर्तुकामा ॥ सो दानि राजा महेन्द्रको आह ॥ पुनो पि भगवां पुष्पो अस्माकं नगरे वसिष्यति ॥
[_म्वु_3.433_] यूयम् अपीमेन पुण्येन संगृहीता भवथ ॥ तेहि दानि भ्रातॄहि भगवां पुष्पो सश्रावकसंघो तहिं स्वके नगरे याचितो । भगवां तत्रैव वस्सं वुस्तो परिनिर्वृतो । तेहि भगवतो पुष्पस्य निर्वृतस्य शरीरपूजा च स्तूपो च कारितो ॥
राज्ञो महेन्द्रस्य महिं प्रशासतो
धर्मेण ज्ञानं च समादायवर्तिनो ।
त्रयो भ्रातरो आसि समानचारिणो
पुत्रा च दारा च तदानुवर्तका ॥
ते एकदा सुसमानचारिणो
धर्मेण वै ऐश्वरियं अकासि ।
प्रभूतभोगा रतनानुबद्धा
ताव बहूनि वर्षाणि तोषये ॥
ते एकराज्यसमानभोजना
बुद्धं अद्दशेन्सु द्विपदानम् उत्तमं ।
नक्षत्रनामो . . . पारमीं गतो
स्वशक्तितो देवमनुष्यपूजितो ॥
परिनिर्वृते कारुणिकस्मिं शास्तुनि
स्तूपं अकरिम्ह वयं सप्रज्ञा ।
सपुत्रदारा सह ज्ञातिबान्धवैः
आर्या च श्रेष्ठा नगरस्मिं आत्मनो ॥
हस्तीहि अश्वेहि रथेहि पत्तिहि
नृत्येन गीतेन च वादितेन च ।
[_म्वु_3.434_] गन्धेन माल्येन विलेपनेन च
पूजां अकरिम्ह वयं महर्षिणो ॥
ते स्तूपपूजाय फलेन संप्रति
कल्पां न एम द्वानवति दुर्गा ।
तेनैव कर्मेण महामुने . . . .
सर्वे स्म दान्ता तव धीर शासने ॥
_____समाप्तं आयुष्मन्तानां उरुविल्वाकाश्यपनदीकाश्यपगयाकाश्यपानां जातकं ॥
___भगवां उरुविल्वाकाश्यपस्य आश्रमातो महता भिक्षुसंघेन सार्धं अर्धत्रयोदशभिर् भिक्षुशतैर् महर्षिणाम् आश्रमपदं धर्मारण्यं गतो ॥ तहिं दानि सप्त जटिलशतानि प्रतिवसन्ति सर्वाणि चतुर्ध्यानलाभीनि पंचाभिज्ञानि सविंशशतवर्षिकानि जातीये सर्वाणि च परिपक्वकुशलमूलानि चरमभविकानि । भगवान् तेषां अनुग्रहार्थं तहिं आश्रमपदं गतो । तेषां भगवां जटिलानां धर्मपदेषु सहस्रवर्गं भाषति ॥
सहस्रम् अपि वाचानां अनर्थपदसंहिता ।
एका अर्थवती श्रेया यां श्रुत्वा उपशाम्यति ॥
सहस्रम् अपि गाथानाम् अनर्थपदसंहिता ।
एका अर्थवती श्रेया यां श्रुत्वा उपशाम्यति ॥
यो शतानि सहस्राणां संग्रामे मनुजा जये ।
यो चैकं जये आत्मानं स वै संग्रामजित्* वरः ॥
यो जयेत सहस्राणां मासे मासे शतं शतं ।
न सो बुद्धे प्रसादस्य कलाम् अर्घति षोडशीं ॥
[_म्वु_3.435_] यो जयेत सहस्राणां मासे मासे शतं शतं ।
न सो धर्मे प्रसादस्य कलाम् अर्घति षोडशीं ॥
यो जयेत सहस्राणां मासे मासे शतं शतं ।
न सो संघे प्रसादस्य कलाम् अर्घति षोडशीं ॥
यो जयेत सहस्राणां मासे मासे शतं शतं ।
सो व संपन्नशीलानां कलां नार्घति षोडशीं ॥
यो जयेत सहस्राणां मासे मासे शतं शतं ।
न सो स्वाख्यातधर्माणां कलाम् अर्घति षोडशीं ॥
मासे मासे कुशाग्रेण बालो भुंजेय भोजनं ।
न सो बुद्धे प्रसादस्य कलाम् अर्घति षोडशीं ॥
मासे मासे कुशाग्रेण बालो भुंजेय भोजनं ।
न सो धर्मे प्रसादस्य कलाम् अर्घति षोडशीं ॥
मासे मासे कुशाग्रेण बालो भुंजेय भोजनं ।
न सो संघे प्रसादस्य कलाम् अर्घति षोडशीं ॥
मासे मासे कुशाग्रेण बालो भूम्जेय भोजनं ।
न सो ध्यानप्रसादानां कलाम् अर्घति षोडशीं ॥
मासे मासे कुशाग्रेण बालो भुंजेय भोजनं ।
न सो सम्पन्नशीलानां कलाम् अर्घति षोडशीं ॥
मासे मासे कुशाग्रेण बालो भुंजेय भोजनं ।
न सो स्वाख्यातधर्माणां कलाम् अर्घति षोडशीं ॥
यो च वर्षशतं जीवे अग्निपरिचरं चरेत्* ।
पत्राहारो छवावासी करोन्तो विविधं तपं ॥
यो चैकं भावितात्मानं मुहूर्तम् अपि पूजयेत् ।
सा एकपूजना श्रेयो न च वर्षशतं हुतं ॥
यत् किंचिद् इष्टं च हुतं च लोके
[_म्वु_3.436_] संवत्सरं यजति पुण्यप्रेक्षी ।
सर्वं पि तं न चतुर्भागम् एति
अभिवादनं उज्जुगतेषु श्रेयं ॥
यो च वर्षशतं जीवे दुःशीलो असमाहितः ।
एकाहं जीवितं श्रेयं शीलवन्तस्य ध्यायतो ॥
यो च वर्षशतं जीवे कुशिदो हीनवीर्यवान्* ।
एकाहं जीवितं श्रेयो वीर्यम् आरंभतो दृढं ॥
यो च वर्षशतं जीवे अपश्यं बुद्धशासनं ।
एकाहं जीवितं श्रेयो पश्यतो बुद्धशासनं ॥
यो च वर्षशतं जीवे अपश्यं धर्मम् उत्तमं ।
एकाहं जीवितं श्रेयो पश्यतो धर्मम् उत्तमं ॥
यो च वर्षशतं जीवे अपश्यं उदयव्ययं ।
एकाहं जीवितं श्रेयो पश्यतो उदयव्ययं ॥
यो च वर्षशतं जीवे अपश्यं अच्युतं पदं ।
एकाहं जीवितं श्रेयो पश्यतो अच्युतं पदं ॥
यो च वर्षशतं जीवे अपश्यं अमृतं पदं ।
एकाहं जीवितं श्रेयं पश्यतो अमृतं पदं ॥
ते च दानि भगवता बलवशीभावे विनीता सर्वे च ते परिनिर्वृता । तेषां भगवां शरीरपूजां च कृत्वा स्तूपां च धर्मारण्यातो अजपालस्य न्यग्रोधमागतो ॥
___भगवां सम्यक्संबुद्धो यद् अर्थं समुदागतो तद् अर्थं अभिसंभावयित्वा उरुविल्वायां विहरति नद्या नैरंजनायास् तीरे अजपालस्य न्यग्रोधमूले अचिराभिसंबुद्धो ॥ तेन
[_म्वु_3.437_] खलु पुनः समयेन राज्ञो श्रेणियस्य बिम्बिसारस्य ब्राह्मणो पुरोहितो राजाचार्यो उपरिप्रासादवरगतो रात्र्या प्रत्यूषकालसमये द्वात्रिंशन्महापुरुषलक्षणानां वाचाविस्तरेण स्वाध्यायं करोति ॥ अश्रोषीत् खलु राजा श्रेणियो बिंबिसारो ब्राह्मणस्य पुरोहितस्य राजाचार्यस्य उपरिप्रासादवरगतस्य रात्र्या प्रत्यूषकालसमये द्वात्रिंशन्महापुरुषलक्षणानां वाचाविस्तरेण स्वाध्यायं करोन्तस्य श्रुत्वा च पुनर् अस्य भगवतो स्मृति उदपासि ॥ अहो पुनर् मे विजिते बुद्धो भगवां उत्पद्ये तं चाहं भगवन्तं पश्येयं दृष्ट्वा च पुनर् मे प्रवृत्ते प्रसीदेय प्रसन्नचित्तो च नं पर्युपासेयं सो च मां भगवां धर्मं देशेय तस्य चाहं धर्मं श्रुत्वा आजानेयं ॥
___अथ खलु राजा श्रेण्यो बिंबिसारो तस्यैव रात्र्यात्ययेन अन्यतरं पुरुषम् आमंत्रयति ॥ एहि त्वं पुरुष क्षिप्रम् एव भद्राणि यानानि योजापेहि युक्तानि च मे प्रतिवेदेहि ॥ साधु महाराज त्ति स पुरुषो राज्ञो श्रेणियस्य बिंबिसारस्य प्रतिश्रुत्वा क्षिप्रम् एव भद्राणि यानानि योजयति युक्तानि च तं प्रतिवेदयति । युक्तानि ते महाराज भद्राणि यानानि यस्येदानिं कालं मन्यसे ॥ अथ खलु राजा श्रेण्यो बिम्बिसारो अन्यतरं भद्रं यानम् अभिरुहित्वा महता राजर्द्ध्या महता राजानुभावेन महतो जनकायस्य हक्कारहिक्कारभेरीमृदंगपणवशंखसन्निनादेन राजगृहातो नगरातो निर्यात्वा येनान्यतरा उद्यानभूमी प्रायासि ॥ अथ खलु राजा श्रेण्यो बिम्बिसारो यावतिका यानस्य भूमि तावतकं यानेन यात्वा यानातो प्रत्योरुह्य पदसा येव तां उद्यानभूमिं अनुचंक्रमन्तो अनुविचरन्तो निषीदे सुवर्णमये पर्यंके प्राचीनाभिमुखो स्त्र्यागारपरिवृतो अमात्यपारिषद्यपुरस्कृतो ॥ अथ खलु राज्ञो
[_म्वु_3.438_] बिम्बिसारस्य राजगृहं नगरम् अभिविलोकयन्तस्य राजगृहेयकानि च पर्वतानि पुष्किरिणीं च पौराणां चार्यकां मृतां प्रेतां समनुस्मरन्तस्य कामेषु जुगुत्सुनो उत्पद्ये योनिसो मनसिकारो ॥
उद्यानभूमितो निर्यात्वा अङ्गानां राष्ट्रवर्धनो ।
पर्यंकस्मिं निषीदेसि अवदातसुवर्णमण्डले ॥
तंत्रिघोषाभिनादिता सम्यक्कालप्रबोधना ।
पुष्पिता साला तस्मिं काले संपन्नकुसुमिता वरा ॥
व्यालमृगानुविचीर्णां गोलांगुलनिषेवितां ।
पर्वतां स संवीक्षन्तो पृथुसिंहनिषेवितां ॥
निषीदेत् प्राङ्मुखो राजा पौअराणानि अनुस्मरन्* ।
अश्रुपूर्णेहि नेत्रेहि इमां गाथाम् अभाषिथ ॥
तिष्ठे यं पाण्डरो गिरि कैलासवत् तथैव विपुलो ।
अथ मे पितरो पितामहा प्रेता कालगता अवीततृष्णा ॥
वरा रम्या वना विचित्रा पुष्किरिण्यो शिलोच्चयो ।
यानीमानि गमापेन्सुः कां नु ते दिशतां गता ॥
तथैवेमानि राष्ट्राणि इमा पृथुस्रवन्तियो ।
यानीमानि गमापेन्सुः कां नु ते दिशताम् गता ॥
तथैवेमानि वस्त्राणि इमा निष्का सकुण्डला ।
यानीमानि गमापेन्सुः कां नु ते दिशतां गताः ॥
इमा पुष्किरिणी रम्या नानाद्विजनिकूजिता ।
[_म्वु_3.439_] पुण्डरीकेहि संछन्ना कुमुदसौगन्धिकेहि च ।
ये च ते अत्र स्नायेन्सुः कां नु ते दिशतां गताः ॥
तथैवम् आसना रम्या दिव्या हरितशाद्वला ।
आसन्नोदकसंछन्ना शीतच्छाया मनोरमाः ।
यानि ते चात्र गमापेन्सुः कां नु ते दिशतां गताः ॥
तान्य् एव प्राणिशतानां निवेशनानि पर्वता ।
इमे च मे प्रचारिता अद्य जन्मम् अपश्यतो ॥
शून्यता व मे आख्यायन्ति दिशा पि मे नुचारिता ।
एवं मर्त्यजीवितं किंस्य परीत्तं च दुःखसंयुतं ॥
अनन्तरं जीवितस्य मरणं मरनं ध्रुवं ।
जातस्यामरणं नास्ति एतद् धर्मा हि प्राणिनो ॥
गच्छति खेदेन प्राणी प्रतिपन्नो क्वचिज् जनो ।
रात्रिंदिवं च यान्तीह यमदूता शसनाहरा ॥
अथ खलु अन्यतरस्य राजामात्यस्य एतद् अभूषि ॥ राज्ञो किल श्रेण्यस्य बिंबिसारस्य दौर्मनस्यम् उत्पन्नं को नु खल्व् अस्यात् पर्यायो येनाहं राज्ञो श्रेण्यस्य बिम्बिसारस्य दौर्मनस्यं प्रतिविनोदयेयं ॥ अथ खलु तस्य राजामात्यस्यैतद् अभूषि ॥ राज्ञो किल श्रेण्यस्य बिंबिसारस्य राजगृहं नगरं प्रियं च मनापं च ॥
[_म्वु_3.440_] यन्नूनं अस्याहं पुरतो राजगृहस्य नगरस्य वर्णं भाषेयं ॥ अथ खलु सो राजामात्यो राजं श्रेण्यं बिंबिसारं गाथाये अध्यभाषे ॥
पर्वता इमे सलीला इमे रम्या शिलोच्चया ।
ये इमे राजगृहस्मिं सिक्ता दिविजेन वारिणा ॥
भिन्नकटका च श्रवन्ति . . . . . . . . . . . .
. . . . . . . . . . . . . . . . . . . . . .
अथ खलु राजा श्रेण्यो बिम्बिसारो तं राजामात्यं अपसादये ॥ अस्ति नाम त्वं मोहपुरुषो यं यद् एव वयं विगर्हाम तद् एव त्वं प्रशंसितव्यं मन्यसि ॥ अथ खलु राज्ञो श्रेण्यस्य बिम्बिसारस्य भूयस्या मात्रया कामेषु व्याकुत्सना उत्पद्ये चित्तस्य दुःखदौर्मनस्यं योनिसो मनसिकारो ॥ अथ खलु ब्राह्मणस्य पुरोहितस्य राजाचार्यस्यैतद् अभूषि ॥ राज्ञो श्रेण्यस्य बिंबिसारस्य दुःखदौर्मनस्यम् उत्पन्नं को नु खल्व् अस्यात् पर्यायो येनाहं राज्ञो श्रेण्यस्य बिम्बिसारस्य दुःखदौर्मनस्यं प्रतिविनोदयेयं ॥ अथ खलु ब्राह्मणस्य पुरोहितस्य राजाचार्यस्य एतद् अभूषि ॥ राज्ञो खलु श्रेण्यस्य बिम्बिसारस्य बुद्धो भगवान् प्रियो मनापो च यं नूनाहं तस्य पुरतो बुद्धस्य वर्णं भाषेयं ॥ अथ खलु ब्राह्मणो पुरोहितो राजाचार्यो राजानं श्रेणियं बिम्बिसारं गाथाये अध्यभाष ॥
लाभो स्ति राष्ट्राधिपते शिरीमतो
आंगस्य राज्ञो मगधाधिपस्य ।
यस्योदपासि विजिते तथागतो
विघुष्टशब्दो हिमवां व पर्वतो ॥
[_म्वु_3.441_] शीलेन क्षान्त्या तपसा उपेतो
लोकान्तको उषितब्रह्मचर्यो ॥
समागम्य सहस्राणि शतानि नयुतानि च ।
संप्राप्नोति अमृतं शान्तं योगक्षेमम् अनुत्तरं ॥
___अथ खलु राजा श्रेणियो बिम्बिसारो ब्राह्मणं पुरोहितं राजाचार्यं गाथाये प्रत्यभाषे ॥
प्रियं मे कीर्तये राज्ये प्रियं मे कीर्तये प्रिय ।
प्रियस्य बुद्धस्य लोक-अर्थचरस्य ब्राह्मण ॥
ददामि ते ग्रामवराणि षोडश
युक्तानि आजान्यरथानि च दश ।
दासीशतं च गवां शतं च
प्रियस्य बुद्धस्य यशो प्रकीर्तये ॥
___अथ खलु भगवां मगधेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धम् अर्धत्रयोदशभिर् भिक्षुशतैः येन मगधानां राजगृहं नगरं तद् अनुसारि तद् अनुप्राप्तो तत्रैव विहरति अन्तगिरिस्मिं यष्टीवने उद्याने ॥ अश्रोषीद् राजा श्रेणियो बिम्बिसारो ब्राह्मणस्य पुरोहितस्य राजाचार्यस्य । भगवां किल मगधेषु चारिकां चरमाणो महता भिक्षुसंघेन सार्धं त्रयोदशभिक्षुशतैर् येन मगधानां राजगृहं नगरं तद् अनुसारि तद् अनुप्राप्तस् तत्रैव विहरति अन्तगिरिस्मिं उद्याने यष्टीवने । श्रुत्वा पुनः अन्यतरं राजामात्यम् आमन्त्रयसि । भो भणे अमात्य भगवतो बुद्धस्य प्रत्युद्गमनं गमिष्यामि राजगृहं अलंकारापेहि भद्राणि च यानानि योजापेहि सर्वेहि च राजगृहकेहि ब्राह्मणगृहपतिकेहि सर्वेहि च शिल्पायतनेहि सर्वेहि च श्रेणीहि मया सह भगवतो
[_म्वु_3.442_] बुद्धस्य प्रत्युद्गमनं गन्तव्यन् ति ॥ साधु महाराज त्ति स राजामात्यो श्रेण्यस्य बिंबिसारस्य प्रतिश्रुत्वा क्षिप्रम् एव भद्राणि यानानि योजापेसि राजगृहे घोषणां कारापेसि चत्वरशृंगाटक-अन्तरापणमुखेषु ॥ बुद्धो भगवां राजगृहे अन्तगिरिस्मिं यष्टीवनं उद्यानं समनुप्राप्तो तत्र सर्वेहि भवन्तेहि राज्ञा श्रेण्येन बिम्बिसारेण सार्धं भगवतो प्रत्युद्गमनं गन्तव्यं ॥
___ते दानि घोषणां श्रुत्वा क्षिप्रमेव राजकुलद्वारे सन्निपतिता कुमारामात्यपारिषद्याः पुरोहितप्रमुखा ब्राह्मणाः श्रेष्ठिप्रमुखो निगमो सार्थवाहप्रमुखो वणिजग्रामो सर्वा च राजगृहका अष्टादश श्रेणीयो । तद्यथा चक्रिकतालिकगन्धर्विका नटनर्तक-ऋल्लमल्लपाणिस्वरिका शोभिका लंघका कुंभतूणिका वेलंबका द्विस्त्वलभाणका पंचवटुका गायनका गुणवर्ता ताण्डविका चेतयिका गणिका हास्यकारका भेरिशंखमृदंगपाटहिका तूणपणववीणावल्लकी-एकादशायेल्लवाद्यका अन्ये च बहुवाद्यकरा राजकुलद्वारे सन्निपतेन्सुः सर्वायो च श्रेण्यो । तद्यथा सौवर्णिकहैरण्यिकप्रावारिका मणिप्रस्तारका गन्धिका कोशाविका तैलिका घृतकुण्डिका गोलिका दध्यिका कार्पासिका खण्डकारका मोदककारका कंडुका समितकारका शक्तुकारका फलवाणिजा मूलवाणिजा चूर्णकुट्टा गन्धतैलका अट्टवाणिजा आविद्धका गुडपाचका मधुकारका शर्करवाणिजा ये च अन्ये पि व्यवहारिका सर्वा च शिल्पायतना । तद्यथा लोहकारका ताम्रकुट्टा सुवर्णकारा तद्धुकारा प्रच्चोपका
[_म्वु_3.443_] रोष्यणा त्रपुकारका सीसपिच्चटकारा यन्त्रकारका मालाकारा पुरिमकारका कुंभकारका चर्मकारा कन्दुकारका वरूथतन्त्रवायका रक्तजका सूचका तूलवाया चित्रकारा वर्धकिरूपकारका कालपात्रिका पेशलका पुस्तककारका नापिता कल्पिका छेदका लेपका स्थपतिसूत्रधारका उत्तकोष्ठकारका कूपखानका मृत्तिकावाहका काष्ठवाहका वल्कलवाणिजा स्तंबवाणिजा वंशवाणिजा नाविका ओडुम्पिका सुवर्णधोवका मोट्टिका एते चान्ये च उच्चावचा जनता हीनोत्कृष्टमध्यमा सर्वे राजकुले संनिपतेन्सुः ॥
___अथ खलु स राजामात्यो संनिपतितं जनकायं विदित्वा भद्राणि यानानि योजापयित्वा येन राजा श्रेण्यो बिम्बिसारस् तेनोपसंक्रमित्वा राजानं श्रेणियं बिम्बिसारम् एतद् अवोचत्* ॥ युक्तानि महाराज भद्राणि यानानि महाजनकायं च सन्निपतितं । यस्येदानि देव कालं मन्यसि ॥ अथ खलु राजा श्रेण्यो बिम्बिसारः भद्रं यानम् अभिरुहित्वा मागधकेहि ब्राह्मणगृहपतिकेहि सार्धं द्वादशेहि नयुतेहि संपरिवृतो महता राज-ऋद्धीये महतो जनकायस्य हक्कारहिक्कारभेरीमृदंगमरुपटहशंखसंनिनादेन राजगृहातो नगरातो निर्यात्वा येन अन्तगिरिस्मिं यष्टीवनम् उद्यानं तेन प्रयासि ॥
___अथ खलु राजा श्रेण्यो बिम्बिसारो यावद् एव यानभूमिस् तावद् एव यानेन यात्वा यानातो प्रत्योरुह्य पदसा येव येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषीदेत्* ॥ अप्य् एकत्या भगवता सार्धं संमोदनीयां कथां संमोदयित्वा सारायणीयां कथां व्यतिसारयित्वा एकान्ते निषीदेन्सुः । अप्य् एकत्या भगवतो स्वकस्वकानि मातापितृकानि नामगोत्राणि अनुश्रावयित्वा एकमन्ते निषीदेन्सुः । अप्य् एकत्या येन भगवांस् तेनांजलिं प्रणामयित्वा
[_म्वु_3.444_] एकान्ते निषीदेन्सुः । अप्य् एकत्या मागधका ब्राह्मणगृहपतिका तूष्णीभूता एकान्ते निषीदेन्सुः ॥ तेन खलु पुनः समयेन उरुविल्वाकाश्यपो भगवतो अविदूरे संनिषण्णो अभूषि ॥ अथ खलु तेषां मागधकानां ब्राह्मणगृहपतिकानाम् एतद् अभूषि । किं नु खलूरुविल्वाकाश्यपो श्रमणे गौतमे ब्रह्मचर्यं चरति उताहो महाश्रमणो गौतमो उरुविल्वाकाश्यपो ब्रह्मचर्यं चरति ॥ अथ खलु भगवान् तेषां ब्राह्मणगृहपतिकानाम् इदम् एवरूपं चेतसः परिवितर्कम् आज्ञाय आयुष्मन्तं उरुविल्वाकाश्यपं गाथाये अध्यभाषे ॥
किम् एव दृष्ट्वा उरुविल्ववासि
प्रहाय अग्निं कृशको वदानो ।
पृच्छामि ते काश्यप एतम् अर्थं
कथं प्रहीनं तव अग्निहोत्रं ॥
एवम् उक्ते आयुष्मान् उरुविल्वाकाश्यपो भगवन्तं गाथाये प्रत्यभाषे ॥
अन्नानि पानानि अथो रसानि
कामां स्त्रियो चाभिवदंति यज्ञे ।
एतं मलन् ति उपधीषु ज्ञात्वा
तस्मान् न यज्ञे न हुते रमामि ॥
अथ खलु भगवान् आयुष्मन्तम् उरुविल्वाकाश्यपं गाथाये प्रत्यभाषे ॥
एतेषु त्वं न मनो अकासि
अन्नेषु पानेषु तथा रसेषु ।
अपरं नु तं देवमनुष्यश्रेष्ठं
यहिं रतं काश्यप तुह्य चित्तं ॥
[_म्वु_3.445_] अथ खल्व् आयुष्मान् उरुविल्वाकाश्यपो भगवन्तं गाथाये प्रत्यभाषे ॥
दृष्ट्वा मुनिं शान्तम् अनुपधीकं
अकिंचनं सर्वभवेष्व् असक्तं ।
अनन्यथाभावम् अनन्यनेयं
तस्मान् न यष्टे न हुते रमामि ॥
अथ खलु भगवान् आयुष्मन्तम् उरुविल्वाकाश्यपं गाथाये प्रत्यभाषे ॥
मोहन् ते जुहितो अग्नि मोहन् ते सो तपो कृतो ॥
यं जहे पश्चिमे काले जीर्णां व उरगो त्वचं ।
अथ खल्व् आयुष्मान् उरुविल्वाकाश्यपो भगवन्तं गाथाये प्रत्यभाषे ॥
मोहं नो जुहितो अग्नि मोहं मे सो तपो कृतो ।
यं जहे पश्चिमे काले जीर्णां व उरगो त्वचं ॥
अग्नीहि यज्ञेषु च विप्रमुच्चति
इति स्म मे आसि पुरे अजानतो ।
अन्धस्य जातीमरणानुसारिणो
अपश्यतो उत्तमम् अच्युतं पदं ॥
सो दानि पश्यामि अनाविलं पदं
सुदेशितं नागवरेण तायिना ।
अत्यन्तनिष्ठापदम् आस्पृशे अहं
संसारजातीमरणं प्रहाय ॥
बहू सत्वा विहन्यन्ति करोन्ता विविधां तपां ।
निष्ठां अनधिगच्छन्ता अवितीर्णकथंकथा ॥
[_म्वु_3.446_] दीर्घरात्रं किलिष्टो स्मि दृष्टिसंदानसंदितो ।
सर्वग्रन्थेषु मे भगवां परिमोचेसि चक्षुमां ॥
शास्ता मे भगवां श्रावको हं अस्मि सुगते ॥
___अथ खल्व् आयुष्मान् उरुविल्वाकाश्यपो उत्थायासनातो एकांशम् उत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिखुत्तं प्रदक्षिणीकृत्वा भगवतो पृष्ठतो अस्थासि भगवन्तं मोरहस्तेन वीजयमानो ॥ अथ खलु तेषां मागधकानां ब्राह्मणगृहपतिकानां एतद् अभूषि । उरुविल्वाकाश्यपो श्रमणे गौतमे ब्रह्मचर्यं चरति ॥
___अथ खलु भगवां तेषां मागधकानां ब्राह्मणगृहपतिकानां धार्म्यां कथां प्रणामये ॥ रूपं ब्राह्मणगृहपतये उत्पद्यति पि निरुध्यति पि वेदना उत्पद्यति पि निरुध्यति पि संज्ञा उत्पद्यति पि निरुध्यति पि संस्कारा उत्पद्यन्ति पि निरुध्यन्ति पि विज्ञानं उत्पद्यति पि निरुध्यति पि ॥ आर्यश्रावको च ब्राह्मणगृहपतयो रूपं उत्पादव्ययधर्मो ति समनुपश्यन्तो वेदना संज्ञा संस्कारा विज्ञानम् अनित्यन् ति समनुपश्यति । रूपम् अनित्यन्ति समनुपश्यन्तो वेदना संज्ञा संस्कारा विज्ञानम् अनित्यन् ति समनुपश्यन्तो रूपं दुःखं ति समनुपश्यन्तो वेदना संज्ञा संस्कारा विज्ञानं दुःखं ति समनुपश्यन्तो रूपम् अनात्मेति समनुपश्यति वेदना संज्ञा संस्कारा विज्ञानं अनात्मेति समनुपश्यति । सो रूपं अनात्मेति समनुपश्यन्तो वेदना संज्ञा संस्कारा विज्ञानं अनात्मेति समनुपश्यन्तो
[_म्वु_3.447_] रूपम् उदयव्ययं ति प्रजानाति । रूपम् उदयव्ययं प्रजानन्तो वेदना संज्ञा संस्कारा विज्ञानम् उदयव्ययन् ति प्रजानाति । प्रजानन्तो रूपम् अनित्यन् ति प्रजानाति । प्रजानन्तो वेदना संज्ञा संस्कारा विज्ञानम् अनित्यन् ति प्रजानाति । प्रजानन्तो रूपं दुःखन् ति प्रजानाति । प्रजानन्तो वेदना संज्ञा संस्कारा विज्ञानं दुःखं ति प्रजानाति । प्रजानन्तो रूपम् अनात्मेति प्रजानाति । प्रजानन्तो वेदना संज्ञा संस्कारा विज्ञानं अनात्मेति प्रजानाति । प्रजानन्तो किंचिल् लोके न उपादीयति । अनुपादीयन्तो प्रत्यात्मम् एव परिनिर्वायति । क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नोपरिम् इत्थत्वम् इति प्रजानाति ॥
मूल पाठ: Mahāvastu-avādana · Edition: Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)) · Data entry Emmanuel Fauré · GRETIL (Göttingen) · CC BY-NC-SA 4.0