महावस्तु-अवादन · भाग 261280
नामेन मतिसारो गुणगणपरिचारितमती च ॥
कामेषु दोषदर्शी अनर्थिको सर्वकामभोगेषु ।
ओरुप्तकुशलमूलो गृहे न रमति विवेकरतो ॥
[_म्वु_3.105_] तं अवच सत्यवर्धनो पुत्र भुंजाहि प्रणीतकामगुणं ।
वैश्रवणभवनसदृशे अमरभवनसन्निभे वेश्मे ॥
तं अवच मतिसारो दशांगुलिं प्रणामयित्वा ।
नैतानि धरणिपाल धनानि पण्डितस्य भाव्यानि ॥
अबुधजनसमर्थितानि सरागवशानि हि तानि विद्यन्ति ।
. . . . . . . . . . . . . . . . . . . . .
किं कारणं अनन्धो अन्धस्य वशेन उत्पथं गृह्णे ।
वुह्यंतस्य वेलगतो कथं स्पृहेया अत्राणस्य ॥
बद्धस्य कथं मुक्तो वचनेन काराध्वम् अभिक्रमेय ।
विषमस्थस्य समागमं कथं स्पृहेया नरो विज्ञो ॥
प्रतिभासि मे नरपति अन्धो वुह्यन्तो चिरनष्टो च ।
वुह्यसि कामोघेन अहं च कामां जुगुप्सामि ॥
तस्य च बलवन्तस्य पितुनो आज्ञाये स मतिसारो ।
प्रव्रजे जहित्व राज्यं कुमारो कामां च अनपेक्षो ॥
उरगो वा जीर्णत्वचं पक्वखेटपिण्डम् इव त्यजे राज्यं ।
सागरान्तमहिं सर्वां सो कामेषु दोषदर्शावी ॥
अतिक्रम्य कामधातुं मतिसारो ब्रह्मविहारम् आचरे ।
. . . . . . . कुमारो ब्रह्मत्वगमनाये ॥
प्रव्रजितस्मिं कुमारे अनुव्रतो स्य पुरोहितकुमारो ।
नामेन सोमदत्तो अनुप्रव्रजेसि मतिसारं ॥
[_म्वु_3.106_] प्रव्रजितस्मिं कुमारे पिता अकासि तस्मिं अप्रसादं ।
गत्वान सोमदत्तो प्रसादयेसि धरणीपालं ॥
तत् किं मन्यसि उदायि मतिसारो अन्यः तेन कालेन ।
तेन समयेन हम् एव अनर्थिको कामभोगेहि ॥
तत् किं मन्यसे उदायि अन्यो सो सत्यवर्धनो आसि ।
अन्यम् एव सो नरपतिः शुद्धोदनो सो तदा आसि ॥
तत् किं मन्यसे उदायि अन्यो सो अनुव्रतो सोमदत्तो ।
तुवम् एव सो अभूषि प्रसादये सत्यमहं नाम ॥
तस्माद् दानीं उदायि राजं शुद्धोदनं प्रसादेहि ।
भेष्यति महासमुदयो प्रसन्ने तस्मिं महीपाले ॥
भेष्यति अनन्तफलस्य उपचयः मरुमानुषाणां कुलपुत्र ।
राजवरप्रसादेन नरवरं त्वरितं प्रसादेहि ॥
संप्रति शाक्याधिपती अतिमानहतो वितर्कमथितो व ।
तिष्ठति सविषण्णमती गिरितटपतितो यथ नागो ॥
ओजहरेण बलवन्तो पुरुषो यथ राक्षसेन परिक्षिप्तो ।
नैवात्मानं न प्रजा जानति परम् एव भूमिपतिः ॥
ऐश्वर्यहानिम् अनुस्मरन्तो ऐश्वर्यं च विचिन्तेन्तो ।
मम कासि अप्रसादं गत्वा त्वं लहु प्रसादेहि ॥
अथ खलु राजा शुद्धोदनो कपिलवस्तुस्य नगरद्वारातो प्रतिनिवर्तित्वा सर्वेण
[_म्वु_3.107_] शाकियमण्डलेन सार्धं स्वकायां दर्शनशालायां प्रत्यस्थासि ॥ तत्र राजा शुद्धोदनो शाक्या शाक्यायिन्यश् च आमन्त्रेसि ॥ महन्तातो पि ऐश्वर्याधिपत्या प्रभ्रंशित्वा कुमारो प्रव्रजितो । यदि न कुमारो प्रव्रजितो अभविष्य सो राजा भवे चक्रवर्ती चातुर्द्वीपो विजितावी धार्मिको धर्मराजा सप्तरत्नसमन्वागतो तस्य इमानि सप्त रत्नानि भवेन्सुः । तद्यथा । चक्ररत्नं हस्तिरत्नं अश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नं एवं सप्तरत्नं । पूरं चास्य पुत्रसहस्रं भवेत्* शूराणां वीराणां वरांगरूपिणां परसैन्यप्रमर्दकानां । सो इमानि चत्वारि महाद्वीपा सागरगिरिपर्यन्ता अखिलान् अकण्टकां अदण्डेनाशस्त्रेण अनुत्पीडेन धर्मेण वाभिनिर्जित्वा अध्यावसिष्य राजान सहस्रेषु च परिवृतो भवेय तेषाम् अस्माकं हस्तोक्तं चक्रवर्तिराज्यं अभविष्यत् ते वयं कुमारेण प्रव्रजितेन महन्तातो ऐश्वर्याधिपत्यातो भ्रंशिताः ॥
___अथ खल्व् आयुष्मान् उदायी न्यग्रोधारामातो वैहायसम् अभ्युद्गम्य राज्ञो शुद्धोदनस्य शाक्यियमण्डलपरिवृतस्य पुरतो तालमात्रं वैहायसम् अन्तरीक्षे अस्थासि ॥ अद्राक्षीद् राजा शुद्धोदनः आयुष्मन्तं उदायिं तालमात्रं वैहायसम् अन्तरीक्षे तिष्ठन्तं दृष्ट्वा च पुनः हृष्टो तुष्टो सौमनस्यजातो उत्थायासनातो एकान्सम् उत्तरासंगं कृत्वा येनायुष्मां उडायि तेनांजलिं प्रणामेत्वा आयुष्मन्तम् उदायिं गाथाये अध्यभाषे ॥
कुतस् त्वम् आगच्छसि रक्तचीवर
केन त्वम् अर्थेन इहानुप्राप्तो ।
किं वात्र आकांक्षसि त्वं उडायि
सुदुल्लभं सिद्धव्रतान दर्शनं ॥ {सुदुर्लभं}
[_म्वु_3.108_] लाभस् ते राष्ट्राधिपते शिरीमतो
यस्य तव पुत्र नराणम् उत्तमः ।
तेजेन ओभासति सर्वलोकं
सहस्ररस्मीव उदेत्व मेदिनीं ॥
एवं दानि स्थविरेण उदायिना तालमात्रं वैहायसम् अन्तरीक्षे स्थितेन बहूनि बुद्धमाहात्म्यानि परिकीर्तितानि तानि च राजा शुद्धोदनो श्रुत्वा प्रीतो संवृत्तो ॥ सो दानि शाक्या शाक्यायिन्यश् च आमन्त्रयति ॥ सय्यथापि नाम वासिष्ठाहो सूर्यस्य अभ्युदेन्तस्य एतं पूर्वंगमम् एतन् निमित्तं यद् इदं अरुणो उदायी नो सर्वसंशयच्छेत्ता सुगतस्य श्रावको ॥
बुद्धस्य पुत्रो परमार्थदर्शी
उपागतो शाक्याकुलं तदन्तः ।
प्रसादये सत्यमहं इत्य् एवं
. . . . . . . . . . . .
आशाय कृष्यते क्षेत्रं बीजम् आशाय वप्यते ।
आशाय वाणिजा यान्ति समुद्रं धनहारका ।
यो यस्य आशाय तिष्ठामि सा मे आशा समृध्यतु ॥
पुनर्पुनः क्षिप्र वपन्ति बीजं
पुनर्पुनः वर्षति देवराजः ।
पुनर्पुनः वर्धति बीजग्रामं
पुनर्पुनर् लाभं लभन्ति कर्षिका ॥
[_म्वु_3.109_] पुनःपुनर् याचनका उपेन्ति
पुनर्पुनः सत्पुरुषा ददन्ति ।
पुनर्पुनः सत्पुरुषा पि दत्त्वा
पुनःपुनर् स्वर्गम् उपेन्ति स्थानं ॥
दुल्लभो पुरुषाजन्यो न सो सर्वत्र जायते ।
यत्र सो जायते वीरः तं कुलं सुखम् एधति ॥
वीरो हि वै सप्त युगां पुनाति
यस्मिं कुले जायति भूरिप्रज्ञो ।
पितेव शाक्या नयति देवदेवो
त्वयापि जातो मुनि सत्यनामः ॥
शुद्धोदनो नाम पिता जिनस्य
बुद्धस्य माया किल नाम माता ।
या बोधिसत्वं परिहार्य कुक्षिणा
कायस्य भेदात् स्वर्गेषु मोदति ॥
सा मोदति कामगुणेहि पञ्चहि
इष्टेहि कान्तेहि बुद्धस्य माता ।
अतिरिव . . . . . . पुण्यकामा
परिवारिता अप्सरसां गणेहि ॥
पुत्रस्य बुद्धस्य असह्यतायिनो
अंगीरसस्याप्रतिमस्य तायिनो ।
प्रीतः पिता हर्षित एष शाक्य
धर्मेण त्वं गौतम आर्यको सि ॥
राजा आह ॥
यस्यान्तिके प्रव्रजितो सि भिक्षु
श्रद्धाय सो चरति ब्रह्मचर्यं ।
[_म्वु_3.110_] न सो भीतो नापि भयं उपेति
एको पि सो रमति वृक्षमूले ॥
उदायी आह ॥
यस्यान्तिके प्रव्रजितो स्मि राज
श्रद्धाय सो चरति ब्रह्मचर्यं ।
न सो भीतो नापि भयं उपेति
एको पि सो रमति वृक्षमूले ॥
एकं वरन् तं मुनिम् अप्रमत्तं
निन्दाप्रशंसासु अवेपमानं ।
सिंहो व शब्देषु असन्त्रसन्तं
वातं व जालस्मिं असज्जमानं ।
नेतारं अन्येषु अनन्यनेयं
भीरं जिनं शाक्य कथं वदेसि ॥
यं वेदयसि अनोपमप्रज्ञं
मह्यं पुत्रं तस्य पिता ति ब्रूमि ।
पुत्रस्य तस्य मह्य पुत्रो भोसि
भुक्त्वान भिक्षु हर पिण्डपात्रं ॥
एष्याम वयं अपि दर्शनाय
बुद्धं अनतिवरं वितीर्णकांक्षं ।
लोके उदपासि स सत्वसारो
पुत्रं मह्यं यथा वदेसि भिक्षु ॥
भुक्त्वान भोजनं यावदर्थं
शुचिं प्रणीतं रसस्वादुपेतं ।
[_म्वु_3.111_] सो प्रक्रमे पिण्डपात्रं ग्रहेत्वा
उपसंक्रमे येन जिनो अनेयो ॥
सो तं प्रदेशं उपसंक्रमित्वा
उपनामये पिण्डपात्रं जिनस्य ।
वन्दित्व पादां अवचि तथागतं
यास्यन्ति ते ज्ञातयो दर्शनाय ॥
एदृशां गुणां श्रुणित्व भूमिपालो
त्रिखुत्तम् उदानयति सुलब्धा लभा ।
मह्यं अनन्ता यं त्रिसाहस्राय
लोकधातूये जिने जीवमाने
भविष्यति संगमो नायकेन ।
संपुष्पिता द्रुमलता कुसुमावकीर्णा
आसेविता च द्विजसंघनिनादितेन ।
एवं पि मह्यं हृदयं प्रीतिसंकुसुमितं
श्रुत्वान पुत्रं मम सर्वगुणोपपेतं ॥
अथ खलु राजा शुद्धोदनः अन्यतरं राजामात्यम् आमन्त्रयति ॥ भो भणे अमात्य सर्वार्थसिद्धो कुमारो अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धित्वा प्रवृत्तप्रवरधर्मचक्रो कपिलवस्तूपवनेषु अनुप्राप्तो । ततः पुत्रस्य सर्वार्थसिद्धस्य कुमारस्याभ्युद्गमनं करिष्यामि ॥ ततो कपिलवस्तुनगरे घोषणां कारापेहि । सर्वेहि शाक्येहि ब्राह्मणगृहपतिकेहि सर्वेहि च गान्धर्विकेहि सर्वेहि च श्रेणीहि सर्वेहि च शिल्पायतनेहि मया सार्धं सर्वार्थसिद्धस्य प्रत्युद्गमनं कर्तव्यं ॥ साधु महाराजेति ॥ सो राजामात्यो शुद्धोदनस्य प्रतिश्रुत्वा क्षिप्रम् एव कपिलवस्तुनगरे चत्वरशृंगाटक-अन्तरापणमुखेषु
[_म्वु_3.112_] घोषणां कारयति ॥ भगवन्तो सर्वार्थसिद्धकुमारो अनुत्तरां सम्यक्संबोधिम भिसंबुद्धित्वा कपिलवस्तूपवनेषु अनुप्राप्तो । ततो सर्वभवन्तेहि राज्ञा शुद्धोदनेन सार्धं भगवतो प्रत्युद्गमनाय गन्तव्यं ॥
शाक्यानां वंशगतो भेष्यति यो स्य त्राणं
सिद्धाभिप्रायो तृषभावविरक्तचित्तो ।
क्षीणाश्रवो विगतरागो समंतचक्षुः
द्रक्ष्यामथ द्वादशवर्षे अनन्तप्रज्ञं ॥
आनंदभेरिरवं श्रुत्वा शाक्यराष्त्रे
संगीतिं देवगणवादितं लुम्बिनीये ।
येन प्रतिज्ञा कृता बुद्धो भविष्यं लोके
सो एष्यति भूतवचनो विगतान्धकारो ॥
प्रक्रान्तो सप्तपदं यो इह लुंबिनीये
बोध्यंगसप्तरतनानि अबुध्ये येन ।
यो सिंहनादं नदते अहं लोके ज्येष्ठो
सो एष्यति परवादं प्रभंजमानो ॥
येनेदं अपकृतं गर्भशय्यं अशेषं
उच्छोषितो च से पुनः भवहेतुः सर्वं ।
उच्छोषिता तृषलता च दुःखस्य मूलं
सो एष्यति बंधप्रमोक्षं करोन्तो लोके ॥
ते दानि कपिलवस्तुतो शाक्या शाक्यायिन्यश् च तं घोषं श्रुत्वा क्षिप्रम् एव राजकुलद्वारे
[_म्वु_3.113_] सन्निपतिता सकुमारामात्या भटबलाग्रा पुरोहितप्रमुखा ब्राह्मणाः श्रेष्ठिप्रमुखो वनिग्ग्रामो सर्वे ये कपिलवास्तव्या गन्धर्विका । तद्यथा चक्रिकवैतालिकनटनर्तक-ऋल्लमल्लपाणिस्वरिका शोभिका लंघका कुम्भतूणिका वेलम्बका द्विस्त्वलभाणका पंचवटुका गायनका भाण्डविका हास्यकारका भेरीशंखमृदंगपटहिका तूणवपणववेणवल्लकी-एकदशीवीणावादा च बहुवाद्यका च सर्वे राजकुलद्वारे सन्निपतेन्सुः । सर्वे च कपिलवास्तव्या श्रेणियो । तद्यथा सौवर्णिका हैरण्यिका प्रावारिका शंखिका दन्तकारका मणिकारका प्रस्तारिका गन्धिका कोशाविका तैलिका घृतकुण्डिका गौलिका वारिका कर्पासिका दध्यिका पूपिका खण्डकारका मोदककारका कण्डुका समितकारका सक्तुकारका फलवाणिजा मूलवाणीजा चूर्णकुट्टगन्धतैलिका आग्रीवनीया आविद्धका गुडपाचिकाः खण्डपाचकाः शुण्ठिकाः सीधुकारकाः शर्करवाणिजा । एते चान्ये च बहुव्यवहारिका सर्वे राजकुले सन्निपतेन्सुः । सर्वे च कपिलवास्तव्या शिल्पायतना । तस्यथा लोहकारका ताम्रकुट्टा सुवर्णकारका तद्धुकारका प्रध्वोपका रोषिणो त्रपुकारका शीशपिच्चटकारा जन्तुकारका मालाकारा पुरिमकारका कुम्भकारा चर्मकारा ऊर्णवायका वरूथतन्त्रवायका देवतातन्त्रवाया चैलधोवका रजका शुचिका तन्त्रवाया चित्रकारका वर्धकिरूपकारकाः कालपात्रिकाः पेललकाः पुस्तकारकाः पुस्तकर्मकारका नापिता कल्पिका छेदका लेपका स्थपतिसूत्रधारका उप्तकोष्ठकारका कूपखनका मृत्तिकावाहका काष्ठवाणिजा तृणवाणिजा स्तंबवाणिजा वंशवाणिजा नाविका ओलुम्पिका सुवर्णधोवका मौष्टिका । एते चान्ये च उच्चावचा जनता हीनोत्कृष्टमध्यमा
[_म्वु_3.114_] सर्वे राजकुलद्वारे सन्निपतेन्सुः ॥ एवं दानि राजा शुद्धोदनो इमेन च जनकायेन अन्तःपुरेण सार्धं कुमारामात्येहि परिवृतो धनुकरथिकहस्त्यारोहेहि सार्धं चर्तुर्घोटरथम् अभिरुहित्वा श्रेष्ठिप्रमुखो निगमो सार्थवाहप्रमुखो वाणिजग्रामो पुरोहितप्रमुखा ब्राह्मणा अष्टादश श्रेणीयो पुरस्कृतो परिवृतो महता राज-ऋद्धीये महता राजानुभावेन महतो जनकायस्य हक्कारहिक्कारभेरीमृदंगपटहशंखसंनिनादेन कपिलवस्तुतो नगरातो निर्यात्वा येन न्यग्रोधारामस् तेन प्रस्थितो भगवतो दर्शनाय ॥ भगवतो दानि एवं भवति ॥ अभिमानिनो शाक्याः यदि सानं स्वके आसने निषण्णको प्रतिसंमोदयिष्यामि अथ सानं भविष्यति चित्तस्यान्यथात्वं कथं हि नाम यो कुमारो चक्रवर्तिराज्यम् अपहाय पव्रजितो अनुत्तरां सम्यक्संबोधिम् अभिसंबुधित्वा धर्मम् अधिगतो धर्मस्वामी आत्मानं प्रतिजानाति सो पितरं च वृद्धतरकां च गुरुस्थानीयां च न प्रत्युत्थिहति । नास्ति च सो सत्वो वा सत्वकायो वा यस्य तथागते प्रत्युपस्थिहन्ते न सप्तधा मूर्ध्नं स्फलेया । यन् नूनाहं पौरुषमात्रं वैहायसम् अन्तरीक्षे दीर्घं चंक्रमं चंक्रमेयं ॥
___अथ खलु भगवां पितु राज्ञो शुद्धोदनस्य शाकियमण्डलस्य च मानातिमानं ज्ञात्वा आगमनं विदित्वा पौरुषमात्रं वैहायसम् अन्तरीक्षे दीर्घं चंक्रमं चंक्रमति अस्पृशन्तो पादतलेहि भूमियं ॥ अथ खलु राजा शुद्धोदनो दूरतो एवं न्यग्रोधारामे भगवन्तं पश्यति पौरुषमात्रं वैहायसम् अन्तरीक्षे दीर्घं चंक्रम्म् चंक्रमन्तं अस्पृशन्तं पादतलेहि भूमियं दृष्ट्वा च पुनः आश्चर्याद्भुतसंहृष्टरोमकूपजातो आश्चर्यं यादृशं कुमारेण धर्मो अभिगमितो यथा सर्वलोके द्विपदानम् उत्तमो ॥ अथ खलु राजा शुद्धोदनो शाक्यो शाकियानाम् आमन्त्रयति ॥ पश्यथ भगवन्तो येन कुमारेण संकल्पो
[_म्वु_3.115_] चिन्तितो प्रार्थयता द्रष्टुं सर्वज्ञं सर्वधर्मेष्व् अभिज्ञातसंकल्पं सर्वसिद्धं नरेन्द्रं सो पश्यतु सिद्धार्थं सर्वसिद्धिसंप्राप्तं ॥
दृष्ट्वान पुत्रं परिपूर्णकायं
सुलक्षितं लक्षविचित्रितांगं ।
पञ्चममासे यथ एव चन्द्रो
परिवृतो लक्षणतारकेहि ॥
दृष्ट्वा सुरूपं असमानकायं
तम् आयताक्षं शिरिय ज्वलमानं ।
. . . . . . . . . . .
अथ खलु राजा शुद्धोदनो यावत्तकं यानस्य भूमि तावत्तकं यानेन यात्वा यानातो प्रत्योरुह्य स्व-अन्तःपुरेण सार्धं शाकियमण्डलेन च पदसा येव न्यग्रोधारामं प्रविष्टो येन भगवान्स् तेनोपसंक्रमित्वा मूर्ध्ना भगवतः पादौ वन्दित्वा गाथाम् अध्यभाषि ॥
इमं तृतीयं तव भूरिप्रज्ञ
पादान्ते वन्दामि समन्तचक्षुः ।
यं च ते नैमित्तिका व्याकरेन्सुः
यं जम्बुच्छाया न जहे इमं च ॥
अथ खलु भगवां न्यग्रोधारामे तालमात्रं वैहायसम् अन्तरीक्षे स्थित्वा विविधविचित्राणि यमकप्रातिहार्याणि करोति । हेष्ठिमं कायं प्रज्वलति उपरिमातो कायातो शीतस्य वारिस्य पंच धाराशताति श्रवन्ति । उपरिमे काये प्रज्वलिते हेष्ठिमातो कायातो शीतस्य वारिस्य पंच धाराशतानि श्रवन्ति ॥ अथ खलु भगवान् ऋषभवर्णम् ऋद्धिये
[_म्वु_3.116_] अभिनिर्मिणित्वा चलत्ककुभं वर्णरूपसमुपेतो पुरस्तिमायां दिशायां अन्तरहितो पश्चिमायां दिशायां प्रादुर्भवति । पश्चिमायां दिशायां अन्तरहितः पुरस्तिमायां दिशायां प्रादुर्भवति । उत्तरस्यां दिशायां अन्तरहितो दक्षिणायां दिशायां प्रादुर्भवति । दक्षिणायां दिशायाम् अन्तर्हितो उत्तरायां दिशायां प्रादुर्भवति ॥ एवं दानि महाप्रातिहार्यं विस्तरेण कर्तव्यं ॥ तत्र दानि बहूनि प्राणिकोटीशतसहस्राणि भगवतो एदृशं ऋद्धिप्रातिहार्यन् दृष्ट्वा प्रमुदिता प्रीतिसौमनस्यजाता संवृत्ता आश्चर्याद्भुतप्राप्ता हक्कारसहस्राणि प्रवर्तेन्ति ॥ महाप्रजापतीय दानि गौतमीय यदा भगवान् अभिनिष्क्रान्तो तस्या रुण्णेन शोकेन च अक्षीणि पटलेहि व संछन्ना अन्धा संजाता । तहिं च न्यग्रोधारामे भगवतो विविधानि विचित्राणि यमकप्रातिहार्याणि करेन्तस्य हक्कारसहस्राणि वर्तन्ति महाप्रजापती गौतमी यशोधराये पृच्छति । किं एते हक्कारसहस्राणि कुर्वन्ति ॥ यशोधरा आह ॥ एषो भगवां वैहायसम् अन्तरीक्षे विविधानि विचित्राणि यमकप्रातहार्याणि करोति नापि त्वं पश्यसि ॥ यशोधरा आह ॥ आगमेहि अहन् तथा करिष्यामि यथा त्वं पश्यसि ॥ ताये दानि यशोधराये यत्र भगवतो प्रातिहार्याणि करोन्तस्य कायातो पंच धाराशतानि श्रवन्ति ततः उदकांजलिं पूरेत्वा महाप्रजापतीये गौतमीय अक्षीणि आक्षालितानि तानि च पटलानि बुद्धानुभावेन भिन्नानि । तस्या दानि यथापौराणा शुद्धा विमला दृष्टि संजाता ॥
___अथ खलु भगवां वैहायसम् अन्तरीक्षे विविधानि विचित्राणि यमकप्रातिहार्याणि कृत्वा बहूनि प्राणिसहस्राणि ऋद्धिप्रातिहार्याणि दर्शयित्वा आर्यधर्मेषु प्रतिष्ठापयित्वा प्रज्ञप्त एव आसने निषीदे ॥ अथ खलु राजा शुद्धोदनो शाक्या च भगवतः
[_म्वु_3.117_] पादौ शिरसा वन्दित्वा भगवन्तं साधु च सुष्ठु च प्रतिसंमोदेत्वा एकमन्ते निषीदेन्सुः । महाप्रजापती गौतमी च यशोधरा च सार्धं च अंतःपुरेण भगवतः पादौ शिरसा वन्दित्वा भगवन्तं प्रतिसम्मोदेत्वा एकमन्ते निषीदेन्सुः । अथ खलु राजा शुद्धोदनो वेगजातो भगवतो हिताहितं अपृच्छे ॥
तं देववर्णं सुकुमाररूपं
उद्यानभूमिं अनुचंक्रमन्तं ।
पिता पुत्रं प्रांजलिको उपागमे
इन्द्रं व देवा त्रिदशा व शक्रं ॥
इदं तृतीयं तव भूरिप्रज्ञ
पादान् ते वन्दामि समन्तचक्षुः ।
यं च ते नैमित्तिका व्याकरेन्सुः
जंबुच्छाया न विजहे इमं च ॥
ते देववर्णा उभये समागता
बुद्धो च बुद्धस्य पिता च राजा ।
उपशोभति सालवने निषण्णो
चन्द्रो यथा अभ्रगणा प्रमुक्तो ॥
अथाप्रमेयस्य पितुर् अभूषि
चिरस्य दृष्ट्वान प्रियं मनापं ।
पुत्रं स्वकं प्राणसमं निषण्णं
हिताहितं पृच्छति वेगजातो ॥
पुरा तव कम्बलपादुका व
सुचित्रा सूक्ष्मास्तरसंस्थितासु ।
[_म्वु_3.118_] अभिरुह्य तां चंक्रमसे च वीर
श्वेतस्मिं छत्त्रस्मिं धरीयमाने ।
सो दानि ताम्रमृदुजालिनीहि
समन्तनेमीहि सहस्रेहि ।
कुशकण्टकशर्करम् आक्रमन्तो
कच्चित् ते पादौ न रुजन्ति वीर ॥
भगवान् आह ॥
सर्वाभिभू सर्वविदू हम् अस्मि
सर्वेषु धर्मेषु अनोपलिप्तः ।
सर्वं जहे तृष्णक्षया विमुक्तो
न मादृशो संप्रजनेति वेदना ॥
राजा आह ॥
पुरा तव लोहितचन्दनेन
शशिस्य रक्तोपनिभेन काले ।
मनोज्ञगन्धेन सुशीतलेन
स्नपका विलिंपेन्सु ते स्नापयित्वा ॥
सो दानि ग्रीष्मासु खरासु रात्रिषु
वनाद् वनं ईर्यसि चंक्रमन्तो ।
ओदातशीतेन सुखेन वारिणा
को दानि ते स्नापयते किलन्तं ॥
भगवान् आह ॥
शुद्धा नदी गौतम शीलतीर्था
अनाविला सद्भिः सदा प्रशस्ता ।
[_म्वु_3.119_] यस्मिं ह्रदे देवगणेहि स्नातो
ओगाढगात्रो प्रतरामि पारं ॥
धर्मो ह्रदो गौतम शीलतीर्थो
अनाविलो सद्भिः सदा प्रशस्तो ।
यस्मिं ह्रदे देवगणेहि स्नातो
पृथिवीं प्रवाहेति स्वपुण्यगन्धां ॥
राजा आह ॥
यदा तुवं काशिकवस्त्रधारी
पदुमुत्पलचम्पकवासितानि ।
शुद्धानि वस्त्राणि निवासयित्वा
सो शोभसि शाकियमण्डलस्मिं
शक्रो व साहस्रगतान मध्ये ॥
सो दानि शाणानि च पट्टकानि च
रक्तानि वस्त्राणि द्रुमत्वचानि ।
धारेसि तं च अजुगुप्समानो
इदं पि ते आश्चरियं भदन्त ॥
भगवान् आह ॥
न चीवरे शयने भोजने वा
अनुध्यापिता भोन्ति जिना नरेन्द्र ।
लब्ध्वा मनापं अथवापि अप्रियं
उपेक्षका भोन्ति जिना प्रजानका ॥
राजा आह ॥
पुरा तव अजन्यरथा विचित्रा
सुवर्णकंसरुचिरा महार्हा ।
[_म्वु_3.120_] श्वेतं च च्छत्त्रं मणिखड्गचामरं
ध्रुवं ग्रहेन्सु ते दिशं प्रयायतः ॥
पुरा तव वातजवो उदग्रो
हयोत्तमो कण्ठको शीघ्रवेगो ।
आजानेयो कञ्चनजालच्छन्नो
अभीक्ष्ण सो वहति येन कामं ॥
यो युग्ययानेहि तुवं उपेतो
रथेहि अश्वेहि च कुंजरेहि च ।
राष्ट्रेण राष्ट्रं अनुचंक्रमन्तो
कच्चिन् न श्रान्तो सि तद् अद्य ब्रूहि ॥
भगवान् आह ॥
रथो मे ऋद्धिपादो स्वचित्तवाहनो
धृती च प्रज्ञा च स्मृती च सारथी ।
सम्यक्प्रधाना चतुरो मे अश्वा
समं प्रयातो हं पदं सुसंस्कृतं ॥
राजा आह ॥
पुरा तुवं रूपियभाजनेषु
सुवर्णपात्रेषु च भुंजियान ।
शुचिं प्रणीतरसकं च भोजनं
राजानुभावेन उपस्थिहेन्सु ॥
सो दानि लोणं च अलोणकं च
लूखं अलूखं अरसं सरसं च ।
[_म्वु_3.121_] परिभुंजसि तं च जुगुप्समानो
इदं पि ते आश्चरियं भदन्त ॥
भगवान् आह ॥
ये चापि बुद्धा पुरिमा अतीता
अनागता यो पि चहं अनेयो ।
लूखं अलूखं अरसं सरसं च
दमार्थिको लोकहिताय भुंजति ॥
राजा आह ॥
पुरा तुवं गोष्ठिकतूलिकासु
अजिनास्तृते क्षोमसुखोपधाने ।
सुवर्णपादे शयने महान्ते
त्वं मोदसे मुक्तपुष्पावकीर्णे ॥
सो दानि दुर्गाय खराय भूमिये
तृणानि पत्राणि च संस्तरित्वा ।
त्वं मोदसे . . . . . सत्वसारो
कच्चित् ते गात्राणि रुजन्ति धीर ॥
भगवान् आह ॥
नास्मद्विधा शाक्य दुःखं स्वपन्ति
सर्वे च मे शोकज्वरा प्रहीणा ।
सो हं सदा निर्ज्वरथो विशोको
जग्राम्य् अहं सर्वभूतानुकम्पी ॥
[_म्वु_3.122_] राजा आह ॥
पुरा तुवं गौतम स्वके अगारे
अन्तःपुरे देवविमानकल्पे ।
प्रदीपखद्योतगणाभिकाशे
कूटागारे पिथितवातपाने ॥
विचित्रमाल्याभरणाथ नारिथो
अलंकृता अप्सरसन्निकाशा ।
उपस्थिता किंकरणीया उत्सुका
मुखं उदीक्षन्ति किम् आर्य आह ॥
भगवान् आह ॥
अद्यापि मे शाक्य स्वके विहारे
देवा च ब्रह्मा च प्रभास्वरा च ।
चित्तं प्य् एषां मह्य वशेन वर्तति
यहिं च इच्छामि तहिं थपेमि ॥
राजा आह ॥
भेरीमृदंगतुरियाभिगीतो
पणिस्वराख्यानविदूहि तत्वं ।
स शोभसि शाकियमण्डलस्मिं
शक्रो व साहस्रगतान मध्ये ॥
भगवान् आह ॥
सूत्रान्ते वैय्याकरणाभिगीतो
विद्याविमुक्तिप्रतिबोधनो हं ।
[_म्वु_3.123_] सोभाम्य् अहं भिक्षुसंघमध्ये
ब्रह्मा व साहस्रगतान मध्ये ॥
राजा आह ॥
पुरा तुवं भीम स्वके अगारे
अन्तःपुरे देवविमानकल्पे ।
रक्षन्ति ते वर्मधरा मनुष्या
सुसञ्चिताः खड्गडृढा प्रहारिणो ॥
सो दानि एको विहरे अरण्ये
उलूकभेरण्डकसंनिनादे ।
अनेकव्यालाचरितासु रात्रिषु
क्वचित्* न भीतो सि तद् अद्य ब्रूहि ॥
(भगवान् आह ॥ )
सर्वे पि चे यक्षगणा समागता
चण्डा पि हस्ती गिरिदुर्गचारी ।
न मादृशे रोमहर्षं जनेयु
भयं प्रहायाभयम् अस्मि प्राप्तः ॥
एको चरामि मुनि अप्रमत्तो
निन्दाप्रशंसासु अवेपमानो ।
सिंहो व शब्देषु असन्त्रसन्तो
वातं व जालेषु असज्यमानं ।
नेतारम् अन्येषु अनन्यनेयं
भीरुं जिनं शाक्य कथं वदेसि ॥
[_म्वु_3.124_] राजा आह ॥
पृथिवी च ते विजिता सर्वकल्पा
पुत्राण ते पूरसहस्रम् अस्य ।
रत्नानि च सप्त परित्यजित्वा
श्रामण्यम् एवाभिगतो सि वीरा ॥
भगवान् आह ॥
पृथिवी च मे विजिता सर्वकल्पा
पुत्राण मे पूरसहस्रम् अस्ति ।
रत्नानि च अष्ट इमानि सन्ति
एतादृशं रत्नम् अन्यं न अस्ति ॥
तं वीतरागं सुसमाहितेन्द्रियं
सम्यक्प्रमुक्तं अखिलं अनश्रवं ।
पुत्रं पिता प्रांजलिको उपागमे
देशेहि मे मार्गं मनुष्यहिताये ॥
तम् एनं ज्ञानेन फरित्व शास्ता
शुद्धोदनं पितरं एतद् अब्रवीत्* ॥
अभीक्ष्णं सो लोचय भिक्षुदर्शनं
मा प्रमाद्यि भेष्यति तुह्यं धर्मो ॥
अथाप्रमेयस्य पितु अभूषि
संवर्णितं तायिनो भिक्षुदर्शनं ।
समनन्तरं सत्पुरुषो भजन्तो
अथोत्तरीधर्मचक्षुं विशोधये ॥
एतादृशो आसि तदा समागमो
[_म्वु_3.125_] पितुश् च पुत्रस्य च हर्षणीयो ।
तन् तादृशं सुगतम् अनुस्मरन्तो
निरामिषां को न लभेय प्रीतिं ॥
_____पितापुत्रसमागमो समाप्तो ॥
भिक्षू भगव्न्तम् आहंसुः ॥ पश्य भगवं कथं आयुष्मता उदायिना अयं राजा शुद्धोदनो अभिप्रसादितो ॥ भगवान् आह ॥ न हि भिक्षवो एतरहिम् एव एतेन उदायिना एषो राजा शुद्धोदनो अभिप्रसादितो अन्यदापि एष एतेन उदायिना राजा शुद्धोदनो अभिप्रसादितो ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवं ॥ भगवान् आह ॥ अन्यदापि भिक्षवः ॥
___भूतपूर्वं भिक्षवो अतीतम् अध्वानं नगरे वाराणसीये कशिजनपदे राजा ब्रह्मदत्तो नाम राज्यं कारयति कृतपुण्यो महेशाख्यो सुसंगृहीतपरिजनो दानसंविभागशीलो महाबलो महाकोशो महाबलवाहनो । तस्य तं नगरं वाराणसी काशिजनपदं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णजनमनुष्यं च बहुजनमनुष्यं च सुखितमनुष्यं च प्रशान्तडिम्बडमरं सुनिगृहीततस्करं व्यवहारसंपन्नं ॥ तत्र सुपात्रो नाम काकराजा प्रतिवसति अशीतिसहस्रपरिवारो ॥। तस्य दानि काकराज्ञो सुपार्श्वा नाम काकभार्या । तस्या काकीये राजभोजनेन दोहलको । सा तस्य सुपात्रस्य काकराज्ञो तं दोहलं आचिक्षति ॥ सो आह ॥ अहं आनापयिष्यं राजभोजनं भुंजाहीति ॥ सो दानि काकराजा अमात्यम् आह ॥ सुपार्श्वाये राजभोजनेन अभिप्रायो आणापेहि काकानां यं राज्ञो ब्रह्मदत्तस्य महानसातो राजभोजनम् आहरिष्यन्ति ॥ सो अमात्यो आह ॥ स्वामि आनयिष्यामि राजभोजनं पि ॥ सो दानि आमात्यो तेषां काकानाम् आणापेति । गच्छथ राज्ञो ब्रह्मदत्तस्य
[_म्वु_3.126_] महानसातो राजभोजनम् आनेथ सुपात्रस्य काकराज्ञो भार्या परिभुंजिष्यति ॥ ते काका आहन्सुः ॥ राजकुलं इष्वस्त्रशिक्षितैः रक्षीयति । परिसमन्तेन राजकुलस्य पक्षी न शक्नोति अतिक्रमितुं ततो न शक्याम वयं राज्ञो ब्रह्मदत्तस्य महानसातो राजभोजनम् आनयितुं ॥ अपरे पि आणाप्यन्ति न च उत्सहन्ति । अशीतिहि काकसहस्रेहि न च कोचिद् उत्सहति राज्ञो ब्रह्मदत्तस्य महानसातो राजभोजनम् आनेतुं मा तत्र गता कांडेन वा गुडिकाये वा हन्येम ॥ तस्य दानि काकराज्ञो अमात्यस्य एतद् अभूषि ॥ अहं सुपात्रस्य काकराज्ञो अशीतिनां काकसहस्राणां अमात्यो यदि च अहं न शक्नोमि एतं सुपात्रस्य काकराज्ञो आणत्तिकं कर्तुं न पुरुषकारकं भवति अस्माकं गच्छामि स्वकं राज्ञो सुपात्रस्य निवेदितुं ॥ महाराज अत्र स्वकं महानसातो राजभोजनं आनेमि यदि हन्यामि यष्टं भवतु एकशरीरेण न पुनः सुपात्रस्य काकराज्ञो भार्याये भोजनं नानेमि ॥ सो दानि तेषां राजपुरुषाणां इष्वस्त्रशिक्षितानां प्य् आलुप्तचित्तानां नाज्ञातो । ततः राज्ञो ब्रह्मदत्तस्य महानसातो नानाप्रकारं राजभोजनं प्रत्यग्रं वर्णरसोपेतं तुण्डेनादायापगच्छति ॥ दिवसे दिवसे पुनर्पुनः हरति ॥
___तेहि तेहि सूपेहि राज्ञो ब्रह्मदत्तस्य निवेदितुं ॥ अत्र महानसे काको अपराध्यति राजभोजनम् उच्छिष्ठीकरोति विट्टालेति विध्वंसेति वयं कर्मे प्रशृता तेहि कर्मेहि उत्क्षिप्ता स्म निवारयितुं ॥ राज्ञा अमात्या आणत्ता ॥ एवं महानसं जालेन पिधापेथ यथ सो काको न महानसे शक्येय अपराध्यितुं ॥
मनसा देवानां वचसा पार्थिवानां
नचिरेणाढ्यानां कर्मणा दरिद्राणाम् इति ॥
[_म्वु_3.127_] राज्ञो ब्रह्मदत्तस्य वचनमात्रेण सर्वन्तं महानसं जालेन अपिहितं ॥ सो काको तत्र महानसे न शक्नोति ओपतितुं नापि शक्नोति अपराध्यितुं ॥ सो पि तर्केति कथं अहं अतो राजभोजनं हरिष्यन्ति ॥ तस्य काकस्य एतद् अभूषि ॥ यन् नूनाहं एतं पन्थं रक्षेयं येन पथेन महानसातो राज्ञो भक्तं अल्लीपीयति ॥ यतः पन्थातो तं पश्यति राज्ञो अल्लीपीयन्तं ओदनं वा व्यञ्जनं वा मान्सप्रकाराणि वा खज्जकं वा तिलकृतं वा अन्यं वा कंचिद् भक्ष्यं ततः तण्डेनादाय गच्छति ॥ राज्ञा आणत्तं सर्वेषाम् एतेषां परिवेषकानां वर्षवराणां च भोजनभाजनानां पिधानानि देथ ॥ ते दानि परिवेषका तं भोजनं पिधानेहि अपिहित्वा महानसातो राज्ञो अल्लीयन्ति ॥ ततो सो काको न भूयो शक्नोति हर्तुं ॥ तस्य दानि काकस्य एतद् अभूषि ॥ कथम् अहं शक्येयं काकराज्ञो भार्याये भूयो राजभोजनं हर्तुं ॥ सो दानि यं राजा ब्रह्मदत्तो चेटीनां हस्ते अर्पयन्तो देवीनां कबलानि प्रेषति ततश् चेटीनां हस्तातो हरति ॥ राज्ञा ब्रह्मदत्तेन श्रुतं । अतः देवीनां कबलेहि प्रवेशीयन्तेहि सो काको चेटीनां हस्तातो भोजनं हरति ॥ राज्ञा आणत्तं ॥ सर्वासां चेटीनां कबलानि प्रवेशयन्तानां अपिधानानि देथ ॥ तत्र च राज्ञो ब्रह्मदत्तस्य गुरुकं अमर्षं संजातं ॥ अहो यादृशो एषो काकः धृष्टो मुखरो प्रगल्भो च साहसिको च धनुहस्तेहि न शक्यति रक्षितुं अन्तन् दृरष्ट्वा ओपतति ॥ राज्ञा आणत्तं ॥ यो मे एतं काकं जीवन्तं गृहीत्वा अल्लीपेय तस्य विपुलं अभिच्छादनं ददेयं ॥ सर्वस्य परिवारस्य आणत्तं एवं राजा ब्रह्मदत्तो जल्पति ॥
[_म्वु_3.128_]___अपरा दानि चेटी राज्ञो ब्रह्मदत्तस्य अर्पयतो स्वकाये देवीये कबलं आदाय वस्त्रेहि अपिहित्वा गच्छति । सा दानि तेन काकेन दृष्टा । तस्य एतद् अभूषि । कथं अतो चेटीय हस्तातो भोजनं हरेयं । यन् नूनाहं अस्या चेटीये नासाग्रे लग्नेयं ततः सा चेटी त्रस्ता इमं भोजनं उज्झिष्यति ततो अहं यं तं भोजनं गृह्य गमिष्यामि ॥ सो दानि येनाभूद् दासी ओपतित्वा ताये चेटीये नासे लग्नो । तत्र नासे व्रणो क्षतो । चेटीये भीताये भोजनम् उज्झित्वा सो काको उभयेहि हस्तेहि गृहीतो ॥ सा दानि चेटी काकम् आदाय नासाय रुधिरेण घरन्तेन राज्ञो ब्रह्मदत्तस्य उपसंक्रान्ता । अयं सो दृष्टकाकः गृहीतो ॥ सो दानि राजा ब्रह्मदत्तो तस्या चेटीये प्रीतो संवृत्तो । शोभनं ते कृतं यं त्वया एषो काको गृहीतो ॥ तेन दानि राज्ञा ब्रह्मदत्तेन ताये चेटीये विपुलो आच्छादो दिन्नो ॥ सो च काको परिभाषियति । न शोभनं यं त्वं राजकुलं पि धर्षयसि ॥ सो दानि काको राजानं ब्रह्मदत्तं गाथाये अध्यभाषे ॥
वाराणस्यां महाराज काकराजा निवासितो ।
अशीतिकाकसहस्रेहि सुपात्रो परिवारितो ॥
तस्य दोहलिनी भार्या सुपार्श्वा मान्सम् इच्छति ।
राज्ञो महानसे पक्वं प्रत्यग्रं राजभोजनं ॥
तस्याहं वचनं श्रुत्वा करन्तो अनुशासनीं ।
भर्तुर् अपचितिं कृत्वा नासाये अकरि व्रनं ॥
अथ खलु भिक्षवः राजा ब्रह्मदत्तो तस्य काकराजामात्यस्य प्रीतो संवृत्तो । इमस्य काकराजामात्यस्य तस्य काकराजस्य सकाशातो नैव ग्रामो न भोगो नापि
[_म्वु_3.129_] च अन्या काचिद् वृत्तिः । स्वकेन तुण्डेन वृत्तिं पर्येषन्तो आत्मत्यागं तस्य काकराजस्य कार्यं करोति ॥ अथ भिक्षवो राजा ब्रह्मदत्तो अमात्यपार्षद्यां गाथाये अध्यभाषे ॥
एतादृशो अरहति राजभोगं हि भुंजितुं ।
यथायं काकराजस्य प्रह्व आमरणाद् द्विजो ॥
तस्य दानि काकस्य राज्ञा ब्रह्मदत्तेन दैवसिकं राजभोजनं अनुज्ञातं । राजभोजनस्य प्रत्यग्रस्य नानाप्रकारस्य पूरं भोजनं कृत्वा तस्य काकस्य अर्थाये एकान्ते क्षिप्यति अतः तं दैवसिकं स्वयं च भुंजेसि काकराजस्य च हरेसि ॥ परिवारस्य आणत्तं । न केनचिद् एतस्य काकस्य राजकुलं गच्छन्तस्य वा आगतस्य वा किंचिद् व्याघातं उत्पादयितव्यं ॥
___भगवान् आह ॥ स्यात् खलु पुनर् भिक्षवो युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन सुपात्रो नाम काकराजा अभूषि । न खल्व् एवं द्रष्टव्यं । तत् कस्य हेतोः । अहं स काकराजो अभूषि ॥ या काकराजस्य भार्या सुपार्श्वा नाम सा एषो यशोधरा अभूषि ॥ यश् च काकराजस्य अशीतीनां काकसहस्राणाम् अमात्यो अभूषि एषो स कालोदायी स्थविरः ॥ यो भूद् राजा ब्रह्मदत्तः स एष राजा शुद्धोदनो अभूषि ॥ तदापि एषो एतेन प्रसादितो एतरहिं पि एष एतेन प्रसादितः ॥
_____काकजातकं समाप्तः ॥
भिक्षू भगवन्तम् आहन्सुः ॥ पश्य भगवन् कथम् इयं महाप्रजापती भगवतो शोकेन अन्धा संजाता भगवन्तं चागम्य अनन्धा संजाता ॥ भगवान् आह ॥ न भिक्षवो एतरहिम् एव एषा महाप्रजापती मम शोकेन कारुण्येन च अन्धा संजाता मम एव
[_म्वु_3.130_] चागम्य अनन्धा संजाता । अन्यदाप्य् एषा महाप्रजापती मम आगम्य अनन्धा संजाता ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि भिक्षवः ॥
___भूतपूर्वं भिक्षवः अतीतमध्वाने हिमवन्तपार्श्वे चण्डगिरिर् नाम पर्वतो तस्य दानि पार्श्वे महन्तो वनखण्डो वृक्षसहस्रेहि पुष्पफलोपेतेहि संछन्नो पद्मिनीहि च आश्रमेहि च उपेतो ऋषिगणानुचीर्णो प्रान्तो प्रविविक्तो ॥ तत्र महान्तं हस्तियूथं प्रतिवसति षड्दन्तकुलं ॥ तहिं आजनियो हस्तिपोतो जातो षड्दन्तो इन्द्रगोपकशीर्षो सप्तांगसुप्रतिष्ठितो कुमुदवर्णो । सो यदा संवर्धितो तदा मातां गुरुगौरवेण प्रेम्नेन च परिचरति । तस्या पूर्वं भोजनं पानीयं च दत्त्वा पश्चाद् आत्मना परिभुंजति कालेन च तां कालेन उद्धतशरीराया वनलताया परिमार्जति स्नापयति ॥ एवं सो हस्तिपोतो सावहितं प्रसादेन प्रेम्नेन च गौरवेण च सर्वकालं जनेत्रिं परिचरति ॥ सो दानि कदाचित् तां मातुं स्नापयित्वा परिविषित्वा आसितां ज्ञात्वा गजगणेन सार्धं चरन्तो वाह्येन निर्गतो ॥ सो दानि मृगलुब्धकेहि मृगव्यं अण्वन्तेहि दृष्टो तेहि गत्वा काशिराज्ञो निवेदितं । देव अमुत्र वनखण्डे एदृशो गजपोतको प्रतिवसति प्रासादिको दर्शनीयो देवस्य योग्यो भवेय ॥
___अथ खलु भिक्षवः काशिराजा तेषां लुब्धकानां श्रुत्वा सबलवाहनो तं वनखण्डम् आगमे ॥ तेन स हस्तिपोतो वनखण्डातो निगृह्य अपराहि करेणुहि परिवारितो वाराणसीं प्रवेशितो हस्तिशालायां च थावितो ॥ तस्य दानि राज्ञो
[_म्वु_3.131_] भवति । भद्रको मे अयं यानो भविष्यतीति ॥ सो दानि सर्वसत्कारेहि सत्क्रियति स्वयं राजा तस्य भोजनं च पानीयं च ददाति । तस्य तं सर्वसत्कारं न प्रीणयति शोकेन तां मातरं अनुस्मरन्तस्य गम्भीरं च निश्वसति अश्रूणि च पातयति शुष्यति च मिलायति च ॥ सो दानि राजा प्रेम्नानुगतो अंजलिं प्रगृह्णेत्वा तं गजपोतं पृच्छति ॥ सर्वसत्कारेहि ते गजोत्तम सत्करोमि अथ च पुनस् त्वं शुष्यसि च मिलायसि च परिहायसि च वर्णरूपतो न च ते पश्यामि उदग्रम् आत्तमनं प्रहृष्टमुखवर्णं । देहि मे वाचं आख्याहि केन ते उपकरणेन वैकल्यं उपस्थापयिष्यामि प्रियो च मे त्वं गजोत्तम मनापो च आख्याहि मे केन त्वं परिहायसि भोजनं च पानीयं च न प्रतीच्छसि ॥ सो दानि गजपोतो राज्ञा पृच्छीयमानो मानुषिकाये वाचाये आह ॥ देव न मे केनचिद् वैकल्यं उपकरणेन नैवम् आहारेण मम कृत्यं मम माता तहिं वनखण्डे प्रतिवसति जीर्णा वृद्धा गतवया चक्षुर्विहीना दुर्बलकाया यदा विज्ञाप्राप्तो स्मि नाभिजानामि मातुर् पूर्वं अदत्त्वा भोजनं वा पानं वा स्वयं परिभुंजितुं । एष मे समादानो मम मरणं इहैव भविष्यति । न पुनर् अहं अदत्त्वा माताये स्वयं परिभुंजेयं भोजनं वा पानीयं वा ॥ सो दानि काशीराजा धार्मिको च सकृपो च परानुग्रहप्रवृत्तो च । तस्य एतद् अभूषि । आश्चर्यम् इदं इमस्य हस्तिपोतस्य याव मातृज्ञो च धार्मिको च आजानेयो च यस्य अद्य एत्तकानि दिवसानि भोजनं अप्रतीच्छन्तस्य पानीयम् अपिबन्तस्य मातृशोकेन । एकत्येषु मनुष्येषु नैते गुणा सुलभरूपा ये इमस्य गजपोतस्य । नैतम् अस्माकं साधु न प्रतिरूपं यं वयं इमान् एवरूपा कल्याणसत्वा विहेठाम ॥ सो दानि महामात्राणाम् आह ॥ मुंचथ एतं हस्तिपोतं गच्छतु वनखण्डं यतो स्माभि आनीतो मातृवर्तको मातरे
[_म्वु_3.132_] समागच्छतु मा इह अनाहारो मरिष्यति ततो वयं निरर्थका अधर्मेण संयुज्येम ॥ सो दानि राजाणत्तीये तस्यैव वनखण्डस्य समीपे नेत्वा मुक्तो ॥
___सो दानि तं वनखण्डं गत्वा नैवाहारं करोति न पानीयं पिबति तां मातरं मार्गति ॥ तस्य दानि सा माता शोकेन रुदमाना च तं पुत्रकं अपश्यन्ती अन्धीभूता ॥ सो दानि गजपोतको तां मातरं अलभन्तो पर्वतशिखरम् अभिरुहित्वा कुंजररावां मुंचति । तस्य महान्तं कुंजररावं मुंचतो ताये मातरे तं स्वरं प्रत्यभिज्ञातं पुत्रस्य मे एषो स्वरो ति ताये पि महानिनादं मुक्तं ॥ ततः तेन मातुस्वरो प्रत्यभिज्ञातो ॥ सो दानि तस्या मातु मूले उपसंक्रमे ॥ तस्य सा माता उदकह्रदस्य मूले आसति अन्धा परिभ्रमन्ती पुत्रशब्दं श्रुत्वा रेणुगुण्ठितशरीरा ॥ सो दानि गजपोतको ततः ततो वनलतां सुकुमारां भुंजित्वा तां मातरं परिमार्जति रेणुं चास्या शरीरातो अपनेति । ततश् च उदकह्रदातो शुण्डं उदकस्य पूरेत्वा हृष्टो आत्तमनो प्रीतिसौमनस्यजातो तां मातां स्नापेति ॥ सा दानि स्नाता च तानि च अक्षीणि धौतानि सर्वमलं म्रक्षितं अशुच्यपगतं चास्या परिशुद्धा दृष्टी संवृत्ता ॥ सा दानि हस्तिनिका तं पुत्रकं पश्यित्वा प्रीतिसौमनस्यजाता पृच्छति । पुत्र कहिं सि गतो मम मेल्लित्वा अनाथाये दुर्बलचक्षुयेति ॥ सो तस्या माताये तां प्रकृतिं विस्तरेण आचिक्षति यथा गृहीतो यथा च ओसृष्टो ॥ सा तं पुत्रकं आह ॥ एवं पुत्र आनन्दतु काशिराजा सपरिवारो यथा अद्य तव दृष्ट्वा अहं नन्दामि ॥
___स्यात् खलु भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन काशिराजा अभूषि । न खल्व् एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एषो नन्दो मम
[_म्वु_3.133_] पित्रियपुत्रो भ्राता सो काशिराजा अभूषि ॥ यो गजपोतको अहम् एव तदा अभूषि ॥ या गजपोतस्य माता अभूषि एषा सा महाप्रजापती गौतमी तदापि मम शोकेनान्धा संजाता मम एवागम्य अनन्धा संजाता । एतरहिं पि एषा महाप्रजापती गौतमी मम शोकेनान्धा संजाता मम येव चागम्य अनन्धा संजाता ॥
_____समाप्तं हस्तिनिकाजातकस्य परिकल्पं ॥
नीवरणं विजहित्वा शृणोथ एकाग्रमानसा सर्वे ।
यथ बोधिसत्वचर्या सुदुष्करा हर्षणीया च ॥
तिर्यग्योनिगतस्यापि गजस्य स्वमातरे सौहृदम् आसि ।
किं पुनः मनुष्यभूतो गुरुं पुरिचरेय तं विप्रं ॥
कामं पि बोधिसत्वा सर्वजगति वत्सला प्रकृतिस्निग्धा ।
अतिवत्सला तु गुरुषु यथा श्रुतं कीर्तयिष्यामि ॥
हिमवन्तपादपार्श्वे चण्डोग्रे चण्डपर्वते रम्ये ।
तापसकुल-आश्रमेहि क्वचित् क्वचि कृताभ्यलंकारे ॥
किन्नरकुंजरवानरवराहशार्दूलव्याघ्रगणचीर्णे ।
रुरुमहिषसरभचरिते वृषभचमरिशम्बराकीर्णे ॥
मोरशुकजीवजीवकचकोरकरविंकशकुनमिथुनेहि ।
समन्तं हि तं वनवरं शोभति मधुरं रवन्तेहि ॥
[_म्वु_3.134_] शोभन्ति च क्वचिक्वचित् पद्मसरा राजहंसपरिपूर्णा ।
कलहंसलीलगलिता गजयूथविलोलिताश् च पुरे ॥
क्वचिद् भ्रमरमधुकरिभिश् चूर्णितकुसुमेहि पादपसमीपं ।
कृतसंस्तरा विचित्रा हरिणशकुनलीलिता स्थान्ति ॥
क्वचिद् वृद्धतापसेहि ध्यानरतिरतेहि निर्झरगतेहि ।
संशोभते वनवरं स्वाध्यायरतेहि च परेहि ॥
क्वचि दृष्टकुमारेहि दीर्घजटा-अजिनवल्कलधरेहि ।
संशोभते वनवरं विचित्रफलमूलहस्तेहि ॥
तस्मिं प्रवणे भिरामे परिहरति जनेत्रीं नेत्रप्रहीणां ।
जीर्णां दुर्बलगात्रां गजोत्तमो सर्वभावेन ॥
सो गजगणेन सार्धं रमन्तो अपनिर्गतो महद्दूरं ।
राजा च सह बलेन गजग्रहणकारणं प्राप्तो ॥
दृष्ट्वान तं गजवरं राज्ञः सूतो पि हर्षितो अवचि ।
गजवरो लक्षणुपपेतो गजोत्तमो पार्थिव यूथे ॥
गजगणगतं गजेन्द्रं तं दृष्ट्वा वाहनं उदारं तं ।
संगृह्णि काशिराजा वनात् पुरवरं निबन्धित्वा ॥
सो नैव पिबति पानं न च भुंजति श्वसति च सो भीक्ष्णं ।
तं अवच मधुरगिरया स हस्तिरत्नं पृथिवीपालो ॥
नागवर मा कृशो भव प्रतीच्छ भक्तं पिबाहि पानीयं ।
अभिरामयिष्यामि इध पुरोत्तमे खु शोचिष्ठाः ॥
[_म्वु_3.135_] गजोत्तमो आह ॥
न खु शोचामि नरपते बन्धनम् उपरोधनं क्षुधपिपासां ।
इतो च मे दुःखतरं नरेश्वर तेन शोचामि ॥
राजा आह ॥
किन् तव इतो गजवर दुःखतरं दुःखतरं पुनर् अन्यं ।
येन ते न प्रतिभाति पानीयम् अशनं च आख्याहि ॥
गजपोतको आह ॥
माता मम गतवया जीर्णा अतिवत्सला नयनहीना ।
सा मया विना मरिष्यति नरेश्वर तेन शोचामि ॥
तस्याहं बिसमृणालं पूर्वं उपानयामि अनयनाये ।
भुंजामि पश्चात्मना साद्य अनसना ति शोचामि ॥
ग्रीष्मे परिदग्धगात्रा शीतलवनच्छादितोदकं चैवं ।
उपनामेमि स्नपेमि च साद्य अनाथ ति शोचामि ॥
संप्रति वने अनयना परिभ्रमति रेणुगुण्ठितशरीरा ।
हा पुत्रेति च वदति तद् अद्य दुःखतरम् आसाद्य ॥
श्रुत्वा गजेन्द्रवचनं मनुजेन्द्रो सुमधुरं सुकरुणं च ।
अश्रुपरिपूर्णवदनो नरवरो वारणम् अध्यभाषित ॥
एकत्येषु मनुष्येषु सुदुल्लभा एदृशा गुणा सम्यक्* ।
येन तव इमा गजवर हृदयस्मिं जायते पीडा ॥
मुंचथ लघु गजवरं चरतु वने गुरुजनं परिचरन्तो
[_म्वु_3.136_] भवतु जननी आश्वस्ता नंदतु सह पुत्ररतनेन ॥
सा गजवरस्य माता दुःखार्दितशोकशल्यसंशीर्णा ।
गगणम् इव कालमेह्गो नादयति वनं परिचरन्ती ॥
भवतु जननी सवत्सा नन्दन्तु वनमृगा च वनदेवता ।
आख्याते नन्दतु मे अनयना माता रतनकेन ॥
इष्टं लुब्धेहि दन्तहेतोः व्याघ्रेहि रुधिरमान्सार्थं ।
नीतं व राजधानिं गजोत्तमं काशिम् आविक्षे ॥
वनदेवता भणन्ति गजोत्तमो प्रवरलक्षणसमंगी ।
तं गृह्णे काशिराजा वनात् पुरवरं निबन्धित्वा ॥
तं खु मरणं भविष्यति मह्यं अनाथाये नष्टनयनाये ।
सो पि च गजो मरिष्यति सुवत्सलो मह्यं शोकेन ॥
यो विचरे गिरिवरेषु वनेषु प्रवरेषु फुल्लशिखरेषु ।
स खु मरिष्यति नागो मम चोपवनं च शोचन्तो ॥
अथ तव न जातु गजवर जनेत्री त्वयि रोषिता न परिभ्रष्टा ।
प्रेम्नेन अनुचरित्थ तथ तुह्य विभोक्षणं भवतु ॥
अथ त्वय न जातु वीर अदत्त्व तव जननिये प्रथमभक्तं ।
फलमूलभोजनं वा तथ तुह्य विभोक्षणं भवतु ॥
अथ गजवरो त्वरितो मातरम् उपगम्य आलपति स्निग्धं ।
सुकुमारलताये च परिमार्जति रेणुपरिशुद्धां ॥
[_म्वु_3.137_] बद्धो स्मि काशिराज्ञा पुरोत्तमे दारुणेहि पाशेहि ।
तव तु कृतेन अनयना मुक्तो पुन धर्मराजेन ॥
सा गजवरस्य घोषं श्रुत्वा स्पर्शं च तस्य उपलभ्य ।
प्रीतमनसा उदग्रा पुनः सनयना गजं लब्ध्वा ॥
हस्तिनिका आह ॥
एवं नन्दतु नन्दन्तो काशिराजा सबान्धवो ।
यथाहं अद्य नन्दामि पुत्रेण नयनेहि च ॥
एतं पुत्रं पूर्वं शैलवने मृगान्विते ।
सपुत्रा अद्य नेत्रेहि पश्यति वरकुंजरं ॥
पूर्वजातिम् अभिज्ञाय संबुद्धो वदतां वरो ।
जातकम् इदम् आख्यासि शास्ता भिक्षुणम् अन्तिके ॥
अहं गजवरो आसि माता सा आसि हस्तिनी ।
तेनाद्याप्य् अस्या पुत्रो हं गाडस्नेहा च गौतमी ॥
एयं दीर्घस्मिं संसारे स्नेहद्वेषेण दुःखिता ।
स्नेहद्वेषप्रहाणार्थं धर्मं चरथ निर्ममा ॥
_____हस्तिनीजातकं समाप्तं ॥
त्रिभिः प्रातिहार्यैर् बुद्धा भगवन्तो सत्वां विनयन्ति । तद्यथा ऋद्धिप्रातिहार्येण अनुशासनीप्रातिहार्येण धर्मदेशनाप्रातिहार्येण ॥ भगवता इमेहि त्रिहि प्रातिहार्येहि
[_म्वु_3.138_] न्यग्रोधारामे बहूनि प्राणिसहस्राणि आर्ये धर्मे विनीता ॥ अथ खलु राहुश् चासुरेन्द्रो वेमचित्री च असुरेन्द्रो मुचिलिन्दो च असुरेन्द्रो षष्ठीहि असुरनयुतेहि सार्धं प्रभूतं गन्धमाल्यम् आदाय बहूनि असुरसहस्राणि च बहूनि च असुरकन्यासहस्राणि सर्वालंकारभूषितानि आमुक्तमणिकुण्डलानि महता असुरानुभावेन महता असुर-ऋद्धीये येन कपिलवस्तुन्यग्रोधारामस् तेनोपसंक्रमित्वा न्यग्रोधारामस्य उपरि वैहायसम् अन्तरीक्षे स्थित्वा भगवतो पूजासत्कारम् अकरेन्सुः । सर्वगन्धेहि सर्वमाल्येहि सर्वनृत्येहि सर्वगीतेहि सर्ववादितेहि सर्वतूर्यताडावचरेहि भगवन्तं सत्कृत्वा गुरुकृत्वा मानयित्वा पूजयित्वा अपचयित्वा अनुत्तराये सम्यक्संबोधये चित्तम् उत्पादेन्सुः । अहो पुनर् वयं पि भवेम अनागते अध्वाने तथागता अर्हन्तः सम्यक्संबुद्धा विद्याचरणसंपन्नाः सुगता लोकविदनुत्तरा पुरुषदम्यसारथः शास्तारो देवमनुष्याणां यथायं भगवान् एतर्हि एवं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागता भवेम अशीतिहि अनुव्यंजनेहि उपशोभितशरीरा अष्टादशहि आवेणिकेहि बुद्धधर्मेहि समन्वागता दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि विशारदा यथा भगवां एतरहिं एवञ् च अनुत्तरं धर्मचक्रं प्रवर्तेम यथापि भगवता एतरहि । एवं च मो देवमनुष्या श्रोतव्यं श्रद्धातव्यं मन्येन्सुः यथा व भगवतो एतरहि एवं च समग्रं श्रावकसंघं परिहरेम यथा भगवां एतरहिं । एवं तीर्णा तारयेम मुक्ता मोचेम आश्वस्ता आश्वासेम परिनिर्वृता परिनिर्वापेम । एवम् एतं भवेय बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्य अर्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ अथ खलु भगवान् तेषाम् असुराणाम् इदम् एवंरूपं चेतोप्रणिधानं
[_म्वु_3.139_] विदित्वा तस्याये वेलाये स्मितं प्रादुष्करे समनन्तरं प्रादुष्कृते च भगवतो मुखद्वारातो नानावर्णा अनेकवर्णा अर्चिषो निश्चरित्वा नीलपीतमांजिष्ठा रक्तश्वेतावदाता कनकवर्णा सर्वं बुद्धक्षेत्रं ओभासयित्वा यावद् अकनिष्ठा देवनिकाया भगवन्तं त्रिखुत्तं प्रदक्षिणीकृत्वा भगवतो पुरतो अंतरहिताः ॥
___अथ खल्व् आयुष्मान् अश्वकी येन भगवांस् तेनोपसंक्रमित्वा तेनांजलिं प्रणामयित्वा भगवन्तम् एतद् उवाच ॥ नाहेतुकं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्रादुष्करोन्ति । को भगवं हेतोः कः प्रत्ययो स्मितस्य प्रादुष्करणाय ॥ अथ भगवान् आयुष्मता अश्वकिना पृष्टो तं [असुरा यावद् अकनिष्ठा देवनिकाया भगवन्तं त्रिक्षुत्तं प्रदक्षिणीकृत्वा भगवतो पुरतः अंतरहिता] असुराणां चेतोप्रणिधानं गाथाभि व्याकर्षि ॥
तत्रम् अकासि स्मितं द्विपदेन्द्रो
दानवचित्त विदित्वम् उदारं ।
पृच्छति अश्वकि प्रांजलिं कृत्वा
दृष्ट्व स्मितं सुगतस्य मुखातो ॥
नेह अहेतुक लोकप्रदीपो
प्रादुकरोति स्मितं परमर्षि ।
ब्रूहि नरोत्तम हेतु स्मितस्य
यत् ते कृतं इह लोकहितेषी ॥
अद्य निःसंशयं बोधिर् उदारा
केनचि संजनिता परिषायां ।
यस्य तथागत आशय ज्ञात्वा
प्रादुकरोति स्मितं रमणीयं ॥
[_म्वु_3.140_] संशयितो पि अयं इह अद्य
दृष्ट्व स्मितं सुगतस्य मुखातो ।
ब्रूहि नरोत्तम मा चिरम् अस्तु
छिन्दहि संशयितान विलेखं ॥
यं अकरि स्मितं लोकप्रदीपो
दानवपूजं विदित्वम् उदारां ।
व्याकरणं भण आसुरकायं
यं व श्रुणित्व भवेय उदग्रो ॥
भगवान् आह ॥
साधु ते अश्वकि पृच्छिता प्रश्ना
यस्य कृते स्मितं लोकहितस्य ।
तस्य ते वक्ष्यं फलं निखिलेन
एकमनो भणतो मे श्रुणेहि ॥
पूजा इह मे कृता असुरेहि
बोधिम् अनुत्तरं प्रार्थयमाना ।
ते विजहित्व तमासुरकायं
स्वर्गगता रमिष्यन्ति चिरं पि ॥
देवपुरायं चिरं निवसित्वा
पंचहि कामगुणेहि समंगी ।
मानुषलोकम् इमं पुनरेत्वा
पूजयिष्यन्ति जिनां द्विपदेन्द्रां ॥
कल्पसहस्रशतानि बहूनि
कृत्व पुनः पुन पूज जिनेषु ।
[_म्वु_3.141_] कांचनसंनिभलक्षणधारी
सर्वे जिना भविष्यन्ति जितारी ॥
श्रुत्व च व्याकरणं असुराणां
तुष्ट उदग्रो सदेवकलोको ।
प्राणसहस्रशतानि बहूनि
प्रस्थित तत्र अनुत्तरयाने ॥
अथ खलु संबरो असुरेन्द्रो ताये वेलाये इमां गाथाम् अध्यभाषि ॥
एदृशेहि मे मित्रेहि सदा भोतु समागमो ।
यं निशाम्य यम् आगम्य पूजेम द्विपदोत्तमं ॥
अथ खलु भगवान् तानि षष्ठी असुरनयुतानि अनुत्तराये सम्यक्संबोधीये व्याकरित्वा बहूनि च प्राणिसहस्राणि आर्यधर्मेषु प्रतिष्ठापयित्वा राजानं शुद्धोदनं च सपरिवारं च उद्योजये ॥ अथ खलु राजा शुद्धोदनो सपरिवारो उत्थायासनातो भगवतः पादौ शिरसा वन्दित्वा प्रक्रमे । तथा सर्वो जनकायो ॥
___अथ खलु राजा शुद्धोदनो तस्यैव रात्रिये अत्ययेन प्रभूतं खादनीयं भोजनीयं प्रतिजागरित्वा कपिलवस्तुनगरं सिक्तसंमृष्टं कृत्वा अपगतरजं अपगतपाषाणशर्करकठल्लं मुक्तपुष्पावकीर्णं गन्धघटिकाधूपितधूपनं चित्रपरिक्षिप्तं विततवितानं ओसक्तपट्टदामकलापं । यावच् च कपिलवस्तुं यावच् च न्यग्रोधारामं नटनर्तक-ऋल्लमल्लपाणिस्वरिकां कुम्भतूणिकशोभिकां द्विस्त्वलवेलम्बकां देशेदेशेषु स्थापयित्वा महता राजानुभावेन महता राज-ऋद्धीयेन भगवतो नगरं प्रवेशितं करोति ॥ अथ खलु राजा शुद्धोदनो भगवन्तं सश्रावकसंघं पुरस्कृत्वा राजकुलं प्रवेशेति ॥
[_म्वु_3.142_] अथ खलु भगवां शुद्धोदनस्य निवेशनं प्रविशित्वा प्रज्ञप्त एवासने निषीदे यथासनो च भिक्षुसंघो ॥ अथ खलु राजा शुद्धोदनो भ्गवन्तं स्वहस्तं प्रणीतेन प्रभूतेन खादनीयभोजनीयेन सन्तर्पयति संप्रवारेति मित्रामात्या च भिक्षुसंघं ॥ अथ खलु भगवां भुक्तावी धौतहस्तो अपनीतपात्रो राजानं शुद्धोदनं धर्म्या कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा उत्थायासनातो प्रक्रमे ॥ अपरं दिवसं महाप्रजापती गौतमी भगवतो सश्रावकसंघस्य भक्तं करोति । अपरं दिवसं यशोधरा भक्तं करोति । अपरं दिवसं अन्तःपुरिका । अपरं दिवसं शाकियमण्डलं भगवतो सश्रावकसंघस्य भक्तं करोति ॥
___यशोधराये दानि भगवतो सश्रावकसंघस्य मोदकं सज्जीकृतं सर्वं ज्ञातिवर्गं निमन्त्रितं ॥ भगवां कालज्ञो वेलज्ञो समयज्ञो पुद्गलपरापरज्ञो काल्यस्यैव निवासयित्वा पात्रचीवरम् आदाय भिक्षुसंघपरिवृतो भिक्षुसंघपुरस्कृतो यशोधराये निवेशनं प्रविशित्वा निषीदे प्रज्ञप्ते एवासने यथासनो च भिक्षुसंघो ॥ अथ खलु यशोधरा राहुलमाता महाप्रजापतीगौतमीये सार्धं ज्ञातिवर्गेण च भगवन्तं सश्रावकसंघं प्रणीतेन खादनीयभोजनीयेन सन्तर्पयति संप्रवारयति ॥ ताये दानि यशोधराये राहुलस्य हस्ते प्रत्यग्रो प्रणीतो मोदको वर्णगन्धरसोपेतो दिन्नः गच्छ इमं मोदकं पितुर् देहीति ॥ तेन गच्छित्वा भगवतो पात्रे प्रक्षिपित्वा भगवतो छायायां निषीदित्वा मातरम् एतद् उवाच ॥ सुखा खल्व् अम्ब श्रमणस्य इयं छाया ॥ अथ खलु यशोधरा राहुलं कुमारम् एतद् उवाच ॥ याच पुत्र पैतृकं धनं ॥ अथ खलु राहुलो कुमारो भगवन्तम् एतद् उवाच ॥ देहि मे श्रमण पैतृकं धनं ॥ भगवान् आह ॥ राहुल प्रव्रजाहि ततो पैतृकं धनं दास्यामि ॥ अथ खलु राजा सान्तःपुरो
[_म्वु_3.143_] शाक्या च सपरिवारा हृष्टा अभून्सुः तुष्टा उदग्रा भगवतो राहुलो पुत्रो विनये यशोधराये किं दोषो त्ति ॥ यशोधरा दानि सर्वालंकारेहि आत्मानम् अलंकृत्वा भगवन्तं परिविषति कथं पुनर् आर्यपुत्रो अगारम् अध्यावसति न च भगवतो चित्तस्यान्यथाभावो ॥ अथ खलु भगवां भुक्तावी धौतपाणि अपनीतपात्रो राजानं शुद्धोदनं सान्तःपुरं महाप्रजापतीं गौतमीं च यशोधरां च राहुलमातरं सपरिवारां धर्म्या कथया संदर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वा उत्थायासनातो प्रक्रमे ॥
___भिक्षू भगवन्तम् आहन्सुः ॥ पश्य भगवं यशोधरा मोदकेहि लोभेति ॥ भगवान् आह ॥ न भिक्षवो एतरहि एव एषा यशोधरा मम मोदकेहि लोभेति ॥ भिक्षू आहन्सुः ॥ अन्यदापि भ्गवं ॥ भगवान् आह ॥ अन्यदापि भिक्षवो ॥
___भूतपूर्वं भिक्षवो अतीतम् अध्वानं नगरे वाराणसी काशिजनपदे तस्य उत्तरेण अनुहिमवन्ते साहंजनी नाम आश्रमपदं शान्तं विविक्तं विगतजनपदं मनुष्यरहेयं प्रतिसंलयनसारोप्यं मूलोपेतं पत्रोपेतं पुष्पोपेतं पानीयोपेतं ॥ तहिं काश्यपो नाम ऋषिः प्रतिवसति पंचाभिज्ञो चतुर्ध्यानलाभी महर्द्धिको महानुभोगो ॥ तेन ग्रीष्माणां पश्चिमे मासे क्षुद्रपाकानि फलानि भुक्तानि तृषितेन च बहुतरं पानीयं पीतं । तस्य अभिष्यण्णा वातातपा संवृत्ता । तेन उपलकुण्डके सशुक्रं प्रस्रावं कृतं ॥ अपराये मृगीये तृषिताये तं प्रस्रावं पानीयसंज्ञाय पीतं ॥ ऋतुमतीये ताये मृगीये अशुचिम्रक्षितेन मुखतुण्डेन सशुक्रं योनिमुखं जिह्वाय प्रलीढं । ताये संमूर्छयित्वा कुक्षिं प्रतिलब्धं ॥ सो च ऋषि मैत्रीविहारी तस्य मृगपक्षी पि न
[_म्वु_3.144_] सन्त्रसन्ति मृगपक्षिशतानि आश्रमस्य परिसमन्ते चरन्ति प्रतिवसन्ति च सापि मृगी तस्यैव आश्रमस्य परिसमन्तेन चरति तत्रैव परिक्रमति ॥ सा दानि कालेन समयेन दारकं प्रजायति ॥ तेन ऋषिणा दृष्टा तस्यैतद् अभूषि । कुतो इमस्या तिरिच्छानगताये मृगीये मानुषो अपत्यो ति ॥ समन्वाहरित्वा ऋषीणां ज्ञानं प्रवर्तति । सो दानि ऋषि समन्वाहरति । अमुकं कालं मये अधिमात्रं क्षुद्रपाकानि फलानि परिमुक्तानि बहुतरकं च मे पानीयं पीतं ततो मे अभिष्यण्णेहि धातूहि अपलकुण्डके सशुक्रं प्रस्रावं कृतं । एताये मृगीये तृषिताये पानीयसंज्ञाये पीतं ऋतुमतीये ततो च ताये कुक्षिं प्रतिलब्धं । ममैवैषो अंगनिस्रावो ति । तेन दानि गर्भरूपं अजिनकेन गृह्णीय तं आश्रमपदं प्रवेशितो ॥
___सा दानि मृगी पृष्ठतो अन्वेति । तेन तस्य गर्भरूपस्य फलकेन नाभि च्छिन्ना तैलेन च अभ्यंगितो सुखोदकेन तं गर्भमलं परिधौतं ॥ सो ऋषि तं गर्भरूपं तस्या मृगीये स्तने अल्लीपेति सापि मृगी पायेति । ऋषिणापि तस्या मृगीये स्तनं तस्य दारकस्य मुखे प्रक्षिप्यति ॥ यं कालं सो दारको आसितो भवति ततः सा मृगी तस्य आश्रमस्य परिसमन्तेन चरित्वा पानीयं च पिबित्वा पुनः गर्भरूपं स्तनं पायेति जिह्वाग्रेण नं परिलेहति ॥ यं कालं सो गर्भरूपो पादेहि पि अण्वितः ततो स्वयन् तस्या मृगीये स्तनं गृह्णित्वा पिबति ॥ एकचरं शृंगकं जातन्ति तेन ऋषिणा एकशृंगो ति नामं कृतं ॥ सो दानि यथा से माता मृगेहि सार्धम् अण्वति तथा सो पि एकशृंगको ऋषिकुमारो अण्वति मृगेहि च मृगपोतकेहि च सार्धं क्रीडमानो । यतो यतः सा माता मृगगणेहि सार्धं अण्वति ततः ततो पि एकशृंगो ऋषिकुमारो
[_म्वु_3.145_] अण्वति । मृगपोतकेहि सार्धं क्रीडन्तो अण्विय अण्विय मृगेहि मृगपोतकेहि च सार्धं पुनस् तं ऋषिस्य आश्रमपदं आगच्छति । ततो नं ऋषि क्षुद्रक्षुद्राणि फलानि वर्णगन्धरसोपेतानि देति ॥ यदा सो ऋषिकुमारो आश्रमपदे शयितो भवति ततो बहू मृगा च मृगपोतका च तम् ऋषिकुमारम् अनुपरिवारेत्वा शयन्ति ॥ यं वेलं ते मृगा च मृगपोतका च चरितुकामा भवन्ति ततः तम् ऋषिकुमारं शयमानं मुखतुण्डकेन प्रतिबोधयन्ति ॥ एवन् ते मृगा च मृगपोतका च नानाप्रकारा च पक्षी तेन ऋषिकुमारेण सार्धं तत्र आश्रमपदे अभिरमन्ति ॥ यं कालं सो एकशृंगको ऋषिकुमारो विज्ञप्राप्तः संजातो तस्य ऋषिस्य तं आश्रमं सिंचति संमार्जति मूलानि नानाप्रकाराणि आनेति पत्राणि आनेति उदकं आनेति काष्ठानि आनेति तम् ऋषिं परिमर्दति स्नापेति अग्निहोत्रं प्रतिजागरेति । तम् ऋषिं परिविसति नानाप्रकाराहि मूलविकृतीहि पत्रविकृतीहि पुष्पविकृतीहि फलविकृतीहि पानीयं उपनामेति । प्रथमं तं ऋषिं परिविसित्वा तां च मृगीं मातरं पश्चात् स्वयम् आहारं करोति ॥ तेन ऋषिणा तस्य ऋषिकुमारस्य ध्यानानां च अभिज्ञानां च मार्गम् उपदिष्टं ॥ तेन दानि ऋषिकुमारेण पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तेन विहरन्तेन घटन्तेन व्यायमन्तेन चत्वारि ध्यानान्य् उत्पादितानि पंच चाभिज्ञा साक्षीकृता ॥ सो दानि ऋषिकुमारो चतुर्ध्यानलाभी पंचाभिज्ञो कौमारब्रह्मचारी महर्द्धिको महानुभावो संजातो अभिज्ञातो देवमनुष्याणां ॥
___एकशृंगको ऋषिकुमारो अनुहिमवन्ते गंगाये नदीये कूले साहंजनी-आश्रमपदे प्रतिवसति । वाराणसीयं च नगरे काशिराज्ञो पुत्रो न भवति ॥ तेन दानि बहू इष्टिप्रक्रियास्थानानि कृतानि पुत्रार्थाय यथा मे पुत्रो भवेय न चास्य पुत्रो संभवति
[_म्वु_3.146_] विस्तीर्णे अन्तःपुरे धीतरो व अस्ति ॥ तेन दानि काशिराज्ञा श्रुतं । गंगाय कूले साहंजनी नाम आश्रमपदं तत्र काश्यपो नाम ऋषि प्रतिवसति तस्य राज-ऋषिस्य तत्र आश्रमपदे प्रतिवसन्तस्य मृगीये सकाशातो एकशृंगको नाम ऋषिकुमारो उत्पन्नो ति । यन् नूनाहं नलिनीधीतरां राजकुलकुमारीं एकशृंगस्य ऋषिकुमारस्य ददेयं सो मे पुत्रो भविष्यति जामातिको च ॥ अथ खलु भिक्षवो स काशिराजा ब्रह्मणपुरोहितम् आह ॥ तत्र काश्यपि नाम ऋषिः प्रतिवसति ।तस्य राजर्षिस्य तत्र आश्रमपदे प्रतिवसन्तस्य मृगीये सकाशातो एकशृंगको नाम ऋषिकुमारो उत्पन्नो ति । यं नूनाहं नलिनीधीतां राजकुमारीं एकशृंगस्य ऋषिकुमारस्य ददेयं सो मे पुत्रो भविष्यति जामातिको च ॥
___अथ खलु भिक्षवः स काशिराजा ब्राह्मणं पुरोहितं राजाचार्यं आमन्त्रयति । गच्छथ पुरोहित इमां नलिनीं राजकन्यां एकशृंगस्य ऋषिकुमारस्य देथ । सो मे पुत्रो भविष्यति जामातिको च ॥
___अथ खलु भिक्षवो ब्राह्मणपुरोहितो राजाचार्यः नलिनीं राजकुमारीं सपरिवारां अश्वरथे आरूढयित्वा प्रभूतं चान्नपानं मोदकानि च नानाप्रकाराणि खादनीयभोजनीयानि आदाय साहंजनीं आश्रमपदं आगमे ॥ ते च दानि साहंजनीम् आश्रमपदं गत्वा आश्रमस्य नातिदूरेणापि समीपे गता ॥ तत्र नलिनी राजकुमारी सखीहि सार्धं क्रीडति हसति तानि च क्रीडमानानि दृष्ट्वा तानि मृगपक्षिगणानि सन्त्रसन्ति दिशोदिशं परिधावन्ति ॥ अथ खलु भिक्षवः एकशृंगस्य ऋषिकुमारस्य एतद् अभूषि ॥ किं नु खल्व् इमे द्य मृगपक्षिणाः सन्त्रसन्ति दिशोदिशं च परिधावन्ति ॥ अथ खलु भिक्षवः एकशृंगो ऋषिकुमारः येन नलिनी राजकन्या तेनागमि ॥ अद्राक्षीद् भिक्षव एकशृंगको ऋषिकुमारो नलिनीं राककुमारीं सखीहि सार्धं क्रीडन्तीं
[_म्वु_3.147_] स्वलंकृतां सुभूषितां महारहेहि वस्त्रेहि । दृष्ट्वा च पुनः तस्यैतद् अभूषि ॥ शोभना खल्व् इमे ऋषिकुमारा उदाराणि तासां अजिनानि जटानि च अजिनमेखलानि च ॥ निध्यायति राजकन्यानां । सो दानि राजकन्यानां अजिनमेखलानि अतिरिव काये विभासन्तानि पश्यति ॥ सो दानि एकशृंगको नलिनीं पृच्छति ॥ शोभनानि युष्माकं अजिनानि जटानि मेखलानि च कण्ठासूत्राणि च ॥ सा दानि निलनी राजकुमारी एकशृंगं ऋषिकुमारं हस्ते गृह्य आह ॥ एतानि एदृशानि अस्माकं अजिनानि च मेखलानि च कण्ठसूत्राणि च हस्तसूत्राणि च ॥ सा दानि तस्य ऋषिकुमारस्य मोदकानि पानं च अनुप्रदासि इदम् अस्माकं हस्ते मोदकं परिभुंजाहीति ॥ तेन दानि तानि मोदकानि परिभुक्तानि पानकं पि च पीतं ॥ तस्य तहिं आश्रमपदे कटुकषायेहि फलफलेहि जिह्वेन्द्रियप्रत्याहतस्य तेहि मोदकेहि परिभुंजमानस्य अतिरिव रसेषु आस्वादो नुगृहीतो ॥ तानि च पानकपिबनानि पीत्वा सो दानि आह ॥ शोभनानि युष्माकम् इमानि फलाफलानि पानीयं च अजिनमेखलानि च कण्ठसूत्राणि च हस्तसूत्राणि च उदाराणि न भोजनानि अस्माकं आश्रमे एदृशानि ॥
___अथ खलु भिक्षवो नलिनी राजकुमारी एकशृंगं ऋषिकुमारं एतद् उवाच ॥ आगच्छ ऋषिकुमार इदम् अस्माकं उटजानि संचारिमानि येन इच्छाम तेन एतानि उटजानि आदाय गच्छाम आगच्छ अस्माकं उटजं प्रविश आश्रमं ते च उपदर्शयिष्यामि ॥ सा दानि नलिनी तत्र यानं अभिरुहित्वा एकशृंगस्य हस्तं प्रणामि आगच्छ प्रविशाहि इदम् अस्माकं उटजं आश्रमं प्रवेक्ष्याम त्ति ॥ सो दानि तत्र याने अश्वानि आयुक्तानि दृष्ट्वा आह ॥ मम मृगी माता इमं च उटजं मृगा
[_म्वु_3.148_] वहन्ति नाहं अत्र प्रविशामि ॥ सा दानि नलिनी एकशृंगस्य ऋषिकुमारस्य हस्ते लग्नति कण्ठे लग्नति आलिंगति चुम्बति प्रलोभेति च ऋषिकुमारो च ताये नलिनीये मूर्धातो उपादाय यावत् पादेषु निमित्तं पश्यति । अन्यादृशा स्वकानि जटानि अन्यादृशानि नलिनीये अन्यादृशं रूपं पश्यति अन्यादृशं नलिनीये अन्यादृशं स्वकं मुंजमेखलं अन्यादृशं नलिनीये अन्यादृशानि स्वकानि हस्तपुत्राणि पश्यति अन्यदृशानि नलिनीये ॥ सा दानि ऋषिकुमारेण सार्धं आलापसमालापं कृत्वा विश्वासं च संभावयित्वा प्रेम्नं च संजनयित्वा यथोक्तं भगवता ॥
पूर्वेवासनिवासेन प्रत्युत्पन्नहितेन वा ।
एवन् तं संजायते प्रेम्नं उत्पलं वा यथोदके ॥
यत्र मनं निवसति चित्तं वापि प्रसीदति ।
निष्ठां पण्डितो गच्छेया संतुष्टा मे पुरे सह ॥
तेषां संसारे सन्सरन्तानां दीर्घरात्रं जन्मसहस्रकोटीभिः परस्परेषां समागमो आसि भार्यापतिषां तस्मात् तेषां सह दर्शनेन परस्परं प्रेम्नं निपतति ॥ सा दानि नलिनी एकशृंगस्य ऋषिकुमारस्य प्रलोभनाभिप्राया राजार्हाणि मोदकानि खादनीयभोजनीयानि च परिभुंजापेत्वा प्रणीतानि च पानकानि पायेत्वा आलम्बित्वा च चुंबयित्वा च कण्ठसमालग्नतो च कृत्वा अश्वयानं अभिरुहित्वा वाराणसीं प्रत्यागता ॥ एतां प्रकृतिं विस्तरेणारोचयति ॥ एकशृंगको ऋषिकुमारो पि आश्रमं गत्वा तां नलिनीं राजधीतां मूर्ध्नातो समुपादाय यावत् पादेषु रंजनीयानि निमित्तानि मनसिकरोन्तो आसति नैव मूलफलानि आनेति न उदकं न काष्ठानि न आश्रमपदं संमार्जति अग्निहोत्रं पटिजागरेति ॥
[_म्वु_3.149_]___सो दानि ऋषिः तं कुमारं चिन्तापरं दृष्ट्वा पृच्छति ॥ न ते काष्ठानि भिन्नानि न ते उदकं आहृतं अग्निहोत्रं न जुहितं किन् तुवं ध्यानं ध्यायसि ॥ ऋषिकुमारो आह ॥ इह अन्यातो आश्रमातो ऋषिकुमारो संबहुलेहि ऋषिकुमारेहि सार्धं आगतो प्रासादिको दर्शनीयो शोभनेहि जटेहि अजिनेहि शोभनेहि कण्ठसूत्रेहि हस्तसूत्रेहि शोभनेहि मुंजमेखलेहि मृष्टानि च सानं फलफलानि पानीयं च न एदृशं यथास्माकं मृगयुक्ते पि उटजे अण्वन्ति ते मया आश्रमस्य अमुकस्मिं प्रदेशे दृष्टा तेन च मे ऋषिकुमारेण सार्धं प्रीति संजाता कण्ठे च सो गृह्य मम प्रकाशं वक्त्रेण वक्त्रं प्रणिधाय शब्दं करोति तं मे जनये प्रहर्षं तम् अहं स्मरन्तो परिदीनवक्त्रो तेन विना न रमामि आश्रमे ॥ ऋषिणो दानि ऋषिकुमारस्य श्रुत्वा तद् अभूषि ॥ यादृशं अयं ऋषिकुमारो तेषां वर्णसंस्थानं आचिक्षति न ते ऋषिकुमारा स्त्रीहि ताहि भवितव्यं ॥ सो दानि ऋषि तं एकशृंगकं ऋषिकुमारं आह ॥ पुत्र न ते ऋषिकुमारा स्त्रियास् तायो ऋषीन् आलोभेन्ति तपातो वारयन्ति । ऋषिभिस् तायो दूरातो परिवर्जयितव्या अन्तरायकरायो ब्रह्मचारिणां । मा तेहि सार्धं समं करोहि आशिविषसमा तायो विषपत्रसमा तायो अंगारकर्षूपमा तायो ॥
___सो दानि काशिराजा तं पुरोहितं आह ॥ नावासु अशोकवनिकानि रोपेत्वा पुष्पफलोपेतेहि वृक्षेहि गंगाये प्रतिश्रोतेन तं आश्रमपदं गच्छाहि नलिनीये सपरिवाराये सार्धं ततो तम् ऋषिकुमारं नावायम् आरूपित्वा आनेहि ॥ सो दानि पुरोहितो काशिराज्ञः प्रतिश्रुत्वा नलिनीं राजकन्यां पुरिमांतांगिकचेतिष्ठाहि नावाहि विततवितानाहि चित्रदुष्यपरिक्षिप्ताहि ओसक्तपट्टदामकलापाहि धूपनधूपिताहि
[_म्वु_3.150_] मुक्तपुष्पावकीर्णाहि सपरिवारां आरूपित्वा गंगाये प्रतिश्रोतेन तं साहंजनिं आश्रमपदं गतो ॥ तेन दानि तस्य आश्रमपदस्य समीपे नावानि स्थापेत्वा सा नलिनी राजकन्या एकशृंगस्य ऋषिकुमारस्य सकाशं विसर्जिता गच्छ त्वं ऋषिकुमारम् आनेहि ॥ सा दानि नलिनी राजकुमारी नावातो ओरुहित्वा सपरिवारा तत्राश्रमपदे नानाप्रकाराणि वनकुसुमानि च वनकिसलयानि च प्रलावेन्ती आसति । तां पि च दृष्ट्वा ततो आश्रमातो मृगपक्षिगणा स्वकस्वकानि रुतानि मुंचन्तानि दिशोदिशं प्रधावन्ति ॥ ऋषिकुमारो पि तानि मृगपक्षिगणानि सन्त्रसन्तानि दृष्ट्वा तं प्रदेशं गतः । ततो तां पश्यति नलिनीं राजकुमारीं सपरिवारां वनकुसुमानि च वअनकिसलानि च प्रलावेन्तीं ॥ दृष्ट्वा च पुनर् येन नलिनी राजकुमारी तेनोपसंक्रान्तो ॥ नलिनीये ऋषिकुमारो भूयो अभिनन्दितो कण्ठे च लग्ना भूयो च आलिंगितो चुंबितो च मोदकानि च खज्जकप्रकाराणि च परिभुंजित्वा राजार्हाणि च पानकानि पिबित्वा नलिनीये सार्धं तान् नावां आरूढो ॥ नलिनी आह ॥ इमे अस्माकं आश्रमे उदके संचरन्ति ॥ सो ताये प्रलोभेत्वा नावायानेन वाराणसीम् आनीतो । पुरोहितेन ऋषिकुमारस्य नलिनी पाणिग्रहं कृत्वा दिन्ना ॥ सो ताये नलिनीये सार्धं आसति क्रीडति न पन संयोगं गच्छति । जानाति वयस्यो मे ऋषिकुमारो ति ॥
___सो दानि ताये नलिनीये सार्धं तस्यां नावायां साहंजनिम् आश्रमपदं गतः ताये च मातरे मृगीये एकशृंगको ऋषिकुमारो नलिनीये राजकुमारीये सार्धं आगच्छन्तो दृष्टः ॥ सा दानि पुत्रं पृच्छति । पुत्र कहिं सि गतो ति ॥ सो दानि आह ॥ इमस्य मे वयस्यस्य आश्रमं गतो ति ॥ एषो मे वयस्य अग्निं प्रदक्षिणीकृत्वा उदकेन पाणिना गृहीतो ति ॥ तस्या दानि मृगीये एतद् अभूषि ॥ न खलु
[_म्वु_3.151_] पुनर् अयम् ऋषिकुमारो वयस्यं जानाति भार्यां वा इयं च कन्या अयं च ऋषिकुमारो पुरुषोत्तमो एतेन तु एषा भार्या अग्निं प्रदक्षिणीकृत्वा उदकेन पाणिगृहीता भार्या लब्धा ति ॥ तत्र को से ऋषिकुमारस्य एतम् अर्थं संबोधये यथा न एष ऋषिकुमारो काशिराज्ञो एषा धीता नलिनी नाम तव भार्या दिन्ना ति ॥ तत्र च साहंजनिस्य आश्रमपदस्य हेष्टा गंगाकूले प्रतिव्रतानां तापसीनां आश्रमपदं प्रविशन्तो ऋषिकुमारो तापसीहि वारियति ॥ मा तुवं अत्र आश्रमपदे प्रविशाहि त्वं पुरुषो एषो च स्त्रीणां प्रतिव्रतानां ब्रह्मचारिणीणां आश्रमो ति न लभ्यं अत्र पुरुषेण प्रविशितुं ॥ सो दानि ऋषिकुमारो तां तापसीं पृच्छति ॥ को वा स्त्री पुरुषो वा ति ॥ तस्य ताये तापसीये स्त्रीधर्मा च आचिक्षिता न एष तव वयस्यो न एष ऋषिकुमारो एषा स्त्री नलिनी नाम राजकुमारी काशिराज्ञो धीता त्वं पुरुषो मृगीतो उत्पन्नो ततो त्वं न जानासि एषा तव उदकेन भार्या दिन्ना त्वं च एतस्या पति नो लभ्या युष्माभिः अन्यमन्यं त्यजितुं ॥
___सो दानि ऋषिकुमारो तासान् तापसीनां श्रुत्वा नलिनीये सार्धं साहंजनिं आश्रमपदं पितुः काश्यपस्य ऋषिस्य सकाशं गतो पितुः पादां वन्दित्वा सार्धं नलिनीये एतां प्रकृतिं सर्वां आरोचयति ॥ ऋषिस्य एतद् अभूषि ॥ न शक्यति ऋषिकुमारो नलिनीये विना इह आश्रमपदे प्रतिवसितुं परस्परस्य एते बद्धसंजाता स्नेहसंजाता ॥ सो दानि तं पुत्रं एकशृंगं ऋषिकुमारं आह ॥ पुत्र एषा तव नलिनी राजकुमारी अग्निदेवं साक्षीकृत्वा उदकेन पाणिगृहीता दिन्ना । एषा ते भार्या त्वं च एतस्या पतिः । न लभ्या युष्माभिः परस्परस्य त्यजितुं । गच्छ एताय सार्धं वाराणसीं नगरं ॥ ते दानि ऋषिस्य पादां वन्दित्वा प्रदक्षिनीं च कृत्वा
[_म्वु_3.152_] मातरं च अभिवादेत्वा वाराणसीं गता गत्वा काशिराज्ञो उपसंक्रान्ता ॥ राज्ञा ऋषिकुमारस्य अनुरूपं गृहं दिन्नं परिवारं च उपस्तरणप्रत्यास्तरणं च सर्वाणि च उपभोगपरिभोगानि च युवराज्येनाभिषिक्तो ॥
सर्वे क्षयान्ता निचयाः पतनान्ता समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं पि जीवितं ॥
सो दानि काशिराजा कालधर्मेण संयुक्तो कालगतो एकशृंगेण वाराणस्यां राज्यं प्रतिलब्धं ॥
___तेन दानि नलिनीये मूलातो यमजाता द्वात्रिंशत्पुत्रा जाता । अपराणां पि देवीनां मूलातो सातिरेकं पुत्रशतं जातं ॥ धर्मेण राज्यम् अनुशासयित्वा चिरं दीर्घरात्रं ज्येष्ठपुत्रं राज्ये भिषिंचित्वा पुनः ऋषिप्रव्रज्यां प्रव्रजितो ॥ तेन दानि पूर्वरात्रापररात्रं जागरिकायोगसमनुयुक्तेन युज्यन्तेन घटन्तेन व्यायमन्तेन बाहितकेन मार्गेण चत्वारि ध्यानान्य् उत्पादितानि पंचाभिज्ञा साक्षात्कृता ॥ सो दानि कामधातुं समतिक्रमित्वा कायस्य भेदात्* ब्रह्मदेवनिकाये उत्पन्नो ॥
___भगवान् आह ॥ यस् तेन कालेन काश्यपो ऋषिर् एषु स शुद्धोदनो अभूषि । या सा मृगी एषा सा भिक्षवो महाप्रजापती अभूषि । यश् च काशिराजो भूद् एषैव महानामो शाक्यो भूत्* । यश् चैकशृंगको ऋषिकुमारस् तदाहं एव बभूव । या च नलिनी नाम राजकन्या एषैव यशोधरा अभूषि ॥ तदापि एषा आत्मानं अलंकृत्वा मम प्रलोभेति । एतरहिं पि एषात्मानं अलंकृत्वा मम प्रलोभेति ॥
_____नलिनीये राजकुमारीये जातकं समाप्तं ॥
[_म्वु_3.153_] भिक्षू भगवन्तम् आहन्सुः ॥ पश्य भगवन् कथम् इयं यशोधरा राज्ञा शुद्धोदनेन अननुयुज्यित्वा अपर्यवगाहित्वा अनपराधी वध्या ति ओसृष्टा । भगवान् आह ॥ न भिक्षवः एतरहिम् एव एषा यशोधरा राज्ञा शुद्धोदनेन अननुयुज्यित्वा अनपराधी वध्या ओसृष्टा । अन्यदापि एषा यशोधरा इमिना राज्ञा शुद्धोदनेन अननुयुज्यित्वा अपर्यवगाहित्वा अनपराधी वध्या ओसृष्टा ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवं ॥ भगवान् आह ॥ अन्यदापि भिक्षवो ॥
___अतीतमध्वाने अनुहिमवन्ते महावनखण्डं तत्र माण्डव्यस्य ऋषिस्य आश्रमपदं चतुर्ध्यानलाभिनः पंचाभिज्ञस्य महाभागस्य मूलोपेतं फलोपेतं पुष्पोपेतं पत्रोपेतं पानीयोपेतं मृगपक्षिशतसहस्रेहि निषेवितं ॥ अथ खलु भिक्षवो माण्डव्येन ऋषिणा ग्रीष्माणां पश्चिमे मासे क्षुद्रपाकेहि फलेहि परिभुक्तेहि बहुतरेण च पानीयेन पीतेन अभिष्यण्णेहि धातूहि उपलकुण्डके सशुक्रं प्रस्रावं कृतं ॥ अथ खलु भिक्षवो अन्यतरा मृगी ऋतुमती तृषायां भ्रान्ता पानीयसंज्ञाय ततो उपलकुण्डकातो तम् ऋषिस्य सशुक्रं प्रस्रावं पीतं । अशुचिम्रक्षितेन च मुखतुण्डकेन स्वकं योनिमुखं परिलेहसि । अचिन्त्यो सत्वानां कर्मविपाकः । ताये मृगीये तं शुक्रं रुधिरं च संमूर्छित्वा कुक्षिं प्रतिलब्धं ॥ सा दानि तस्यैव आश्रमपदस्य परिसामन्तेन चरति परिभ्रमति च ॥ सा दानि कालेन च समयेन च दारिकां दर्शनीयां अक्षुद्रावकाशां परमया शुभवर्णपुष्कलतया समन्वागतां गौरीं नवनीतपिण्डसंनिभां प्रसूता ॥ सा दानि मृगी तां दारिकां प्रसूता च तेन च ऋषिणा तं द्रव्यं दृष्टं ॥ तस्यैतद् अभूषि ॥ कुतो इमस्यान्तिरच्छानगताये मृगीये मानुषं अपत्यन्ति ॥ समन्वाहरित्वा ऋषिणां पंचाभिज्ञानां ज्ञानं प्रवर्तति ॥ सो दानि ऋषि माण्डव्यो
[_म्वु_3.154_] पंचाभिज्ञो महाभागो समन्वाहरति ॥ इह मम अत्र आश्रमपदे अन्यस्य पुरुषस्य प्रचारो नास्ति । एषा च मृगी इमहिं एव मम आश्रमपदे जाता संवृत्ता तथान्यान्यपि मृगपक्षिशतानि इह वनखण्डे संवृत्तानि नैव मम क्वचित्* मृगो वा पक्षी वा अन्यवनखण्डं गच्छति न चान्यातो वनखण्डातो कोचित्* मृगपक्षी इहागच्छति । इह एते वनखण्डे मृगपक्षिगणा जाता च संवृत्ता च संवृद्धा च अभिरता च अमनुष्यचरितं च वनखण्डं । अमुककाले मया ग्रीष्माणां पश्चिमे मासे पक्वसुपक्वानि च फलफलानि परिभुक्तानि सुशीतलं च बहुतरं पानीयं पीतं । ततः मे भिष्यण्णेहि धातूहि उपलकुण्डके सशुक्रं प्रस्रावं कृतं एताये मृगीये तृषिताये तं सशुक्रं प्रस्रावं पानीयसंज्ञाये पीतं । ततो एताये मृगीये कुक्षिं प्रतिलब्धं । मम एष अंगनिस्रावो ॥ तस्य ऋषिस्य माण्डव्यस्य तत्र दारिकाये अतिप्रेम्नं संजातं ॥ तेन सा दारिका अजिनकेन गृह्य आश्रमम् आनीता । साप्य् अस्य मृगी पृष्ठतो न्वेति ॥ तेन दानि ऋषिणा ताये दारिकाये तं नाभि फलशस्त्रकेन च्छिन्नं मानुषिकाये च नं केलायनाय केलायन्ती ताये वनमृगीये स्तनाचूषणं आसति । सो पि नं ऋषि क्षुद्रपाकानि फलानि मुखे पीडेति कालेन कालं तैलेनाभ्यंगेति सुखोदकेन स्नपेति ॥ संवर्धयमाना च सा दारिका ताये मृगीये तेन च ऋषिणा अतीव तं वनं शोभेति सा च नां माता जिह्वाये परिलिहति ॥ यत्र काले सा दारिका विवर्धमाना पादेहि पि अण्वति ततो यत्र पादा निक्षिपति तत्र तत्र ताये दारिकाये पूर्वोपचितेन शुभस्य कर्मस्य विपाकेन पद्मानि प्रादुर्भवन्ति ॥
[_म्वु_3.155_] समन्तेन च आश्रमपदे तस्य ऋषिस्य ताये दारिकाये पर्याहिण्डन्तिये पद्मपङ्क्ती उत्थापिता पद्मवनम् इव शोभति तेहि च पद्मेहि सा दारिका क्रीडति हस्तेनापि गृह्य अण्वति ॥ तस्य दानि ऋषिस्य तस्या दारिकाये तंशुभकर्मविपाकतो क्रमेषु पद्मानि प्रादुर्भूतानि दृष्टा विस्मयं संजातं अहो दारिकाये ऋद्धीति यत्र यत्र क्रमा निक्षिपति तत्र तत्र प्रासादिकानि दर्शनीयानि पद्मानि प्रादुर्भवन्ति कृतपुण्याये इमाये दारिकाये भवितव्यं पूर्वं दक्षिणीयेषु ओरुप्तकुशलेषु कुशलमूलाये यस्या इमं एदृशं अनुभावं ॥ तेन दानि ऋषिणा ताये दारिकाये पदुमावतीति नामं कृतं ॥
___सा दानि संवर्धमाना ताये मातरे सार्धं तस्याश्रमस्य परिसमन्तेन अण्वति । यतो यतो सा मृगी चरमाणा अण्वति ततो ततो सापि दारिका ताये मातरे सार्धं अण्वति मृगेहि च मृगपोतकेहि च सपरिवारा क्रीडन्ती अण्वति ॥ यदा च बुभुक्षिता भवति ततो ताये मातरे सार्धं तम् आश्रमं आगच्छति अपरेहि मृगेहि मृगीहि च मृगपोतकेहि च सपरिवारिता । ततो सो ऋषि आश्रमगताये मृगीये मृष्टमृष्टानि फलानि देति मृष्टमृष्टानि च पानकानि देति ॥ सा दानि फलफलानि स्वयं पि खादति अपरेषां मृगपोतकानां देति ॥ यदा सा दारिका तत्राश्रमे शयिता भवति ततो ते मृगपोतका च मृगपोतिका च चारिकां अनुपरिचरित्वा शयन्ति यदा च चरितुकामा भवन्ति ततो तां दारिकां मुखतुण्डकेन प्रतिबोधयन्ति ॥ यतो यतो मृगा चरन्तो अण्वन्ति ततो ततो सा दारिका तेहि मृगेहि मृगपोतकेहि मृगपोतिकाहि च सार्धं क्रीडन्ती अण्वति । यतो यतो सा अण्वति
[_म्वु_3.156_] ततो ततो समन्तेषु क्रमकेषु पद्मानि प्रादुर्भवन्ति । सापि दारिका तत एवन् तानि पद्मानि गृह्य स्वयं च आबन्धति तेषां च मृगपोतकानां पद्मानि आबन्धति ॥ एवं सा तेहि सार्धं क्रीडन्ती तहिं आश्रमपदे संवर्धते परस्परं विनापि न रमन्ति ॥ यत्र काले सा दारिका विज्ञप्राप्ता ततो तम् ऋषिस्य आश्रमं सिंचति शोधेति नानाप्रकाराणि मूलविकृतीनि आनेति पत्रविकृतीनि नानाप्रकाराणि आनेति पुष्पविकृतीनि नानाप्रकाराणि आनेति फलविकृतीनि नानाप्रकाराणि आनेति उदकम् आनेहि काष्ठं वा समिधानि वा आनेति । तं च ऋषिं तैलेनाभ्यंगेति स्नापेति । अग्निहोत्रं से पटिजागरेति तं च ऋषिं नानाप्रकारेहि मूलेहि च पत्रेहि च पुष्पेहि च फलेहि च परिविसति । नानाप्रकाराणि च फलपानानि आनयति । यतो यतो च तत्राश्रमपदे अण्वति यतो यतो गच्छति मूलहारिका वा पत्रहारिका वा पुष्पहारिका वा फलहारिका वा ततो तेहि मृगपक्षीहि परिवारिता आगच्छति ॥
___कदाचित् सा पदुमावती तेहि मृगपक्षीहि परिवारिता उदकहारिकं गता काम्पिल्लको च राजा ब्रह्मदत्तो बलाग्रेण सार्धं मृगव्यं अण्वन्तः तं प्रदेशं उज्झितो वातजवसमेन तुरंगेन मृगम् अनुजवन्तो । तेन मृगेन सो राजा ब्रह्मदत्तो वनखण्डम् उपनीतः ॥ यथोक्तं भगवता धर्मपदेषु ॥
गतिर् मृगाणां प्लवनं आकाशं पक्षिणां गतिः ।
धर्मो गतिर् द्विजातीनां निर्वाणं महती गतीति ॥
सो मृगो तत्र वनखण्डे नष्टो ॥ तेन राज्ञा ब्रह्मदत्तेन वनखण्डे तं मृगं मार्गन्तेन
[_म्वु_3.157_] तहिं उदककूले पदुमावती दृष्टा कृष्णाजिनेन निवस्ता उत्तरासंगिका च उदककुम्भेन गृहीतेन पद्मेन च शोभनेन हस्तगतेन प्रासादिका दर्शनीया परमया वर्णपुष्कलतया समन्वागता । यत्र यत्र च क्रमाणि निक्षिपति तत्र तत्र पद्मानि प्रादुर्भवन्ति मनोरमाणि सुदर्शनीयानि । दृष्ट्वा च पुनर् भिक्षवो राज्ञो ब्रह्मदत्तस्य पदुमावतीं ऋषिकुमारीं एतद् अभूषि ॥ अहो कन्यायाः रूपवन्तं ऋद्ध्यनुभावं यत्र यत्र क्रमाणि निक्षिपति तत्र तत्र पदुमानि प्रादुर्भवन्ति अतीव चक्षुरमणीयानि प्रासादिकानि दर्शनीयानि का नु खल्व् इयं भविष्यति देवकन्या वा नागकन्या वा किन्नरकन्या वा मानुषी वा इयं भविष्यति अमानुषी वा । यं नूनाहं उपसंक्रम्य परिपृच्छेयं ॥
___अथ खलु भिक्षवो राजा ब्रह्मदत्तो येन पदुमावती ऋषिकुमारी तेनोपसंक्रमित्वा पदुमावतीं ऋषिकुमारीम् एतद् अवोचत्* ॥ भद्रे का त्वं कस्य वासि ॥ एवम् उक्ते भिक्षवः पद्मावती ऋषिकुमारी राजानं ब्रह्मदत्तम् एतद् अवोचत्* ॥ अहं खलु ऋषि पद्मावती नाम ऋषिकुमारी माण्डव्य-ऋषिस्य धीता मूलफलभोगिकस्य वनवासिस्य ब्रह्मचारिस्य ॥ एवम् उक्ते भिक्षवः राजा ब्रह्मदत्तो पद्मावतीं ऋषिकुमारीम् एतद् अवोचत्* ॥ केवरूपा ते भद्रे न्जोजनविधानानि उपवने निवसन्तीये येनापि एवं उपचितशरीरा कीदृशानि ते वस्त्रविधानानि येन ते चैवं सुकुमारवर्णनिभा ॥ एवम् उक्ते भिक्षवो पदुमावती ऋषिकुमारी राजानं ब्रह्मदत्तम् एतद् अवोचत्* राज्ञो वस्त्राणि परामृशन्ती ॥ मूलफलानि अस्माकम् आहारं अजिनानि प्रावरणानि एवं सूक्ष्माणि यादृशानि इमानि न च अजिनानि ॥ एवम् उक्ते भिक्षवः
[_म्वु_3.158_] राज्ञो ब्रह्मदत्तस्य एतद् अभूषि ॥ अविधिज्ञा इयं ऋषिकुमारी राज्ञो राजार्हाणां वा वस्त्राणां नैव ऋषिस्य विशेषं अभिजानाति न राजानस्य नैव अजिनानां विशेषं जानाति नापि राजार्हाणां वस्त्राणां विशेषं जानाति नापि मम तुरंगस्य । एषा च ऋषिकुमारी राजकन्या ममैषा भार्या अनुरूपा भवेया न शक्या मया माण्डव्येन ऋषिणा अनभ्यनुज्ञाता पाणिनापि प्रष्टुं कुतो पुनर् इतो आश्रमातो कम्पिल्लं नगरं नयितुं । माण्डव्यो ऋषि महाभागो शापेन मे सपरिवारं भस्मीकरेय । यं नूनाहं पदुमावतीम् ऋषिकुमारीम् उपायेन प्रलोभयेयं ॥ पौराणानां च भिक्षवो राज्ञां मृगव्येन गच्छन्तानां मधुसर्पिसंयुक्तानि सक्तूनि राजार्हाणि च मोदकानि च उक्कारिकानि च यमलकं पूरेत्वा अश्वपृष्ठे पल्लाणस्य पृष्ठतो बन्ध्यन्ति मा राजा अश्वेन एको अद्वितीयो वनेषु हृतो समानो बुभुक्षाय मरेय ॥ तेन खलु पुनर् भिक्षवो समयेन राज्ञो ब्रमदत्तस्य मधुसर्पिसंयुक्तानि सक्तूनि मोदकानि च उक्कारिकानि च यमलकं पूरेत्वा अश्वपृष्ठे पृष्ठतो पल्लाणवध्रेण बद्धम् अभूषि ॥ अथ खलु भिक्षवः राजा ब्रह्मदत्तो यमलकातो मोदकं उक्कड्ढेत्वा पदुमावतीये अदासि ॥ हन्त भद्रे इमानि अस्माकं फलानि ॥ सा दानि आह ॥ जाने कतमानि शोभनतराणि फलानि युष्माकं वा अस्माकं वा ॥ सा दानि तं मोदकं परिभुंजित्वा आह ॥ भगवं शोभनानि इमानि युष्माकं फलानि मृष्टानि रसवन्तानि अस्माकं पुनः फलानि कटुकषायाणि ॥ राजा आह ॥ एदृशानि अस्माकं आश्रमे वृक्षेषु फलानि यदीच्छसि ईदृशानि परिभुंजितुं ततो तं मम आश्रमपदं गच्छाहि ॥ एवम् उक्ते भिक्षवः पदुमावती ऋषिकुमारी राजानं ब्रह्मदत्तम् एतद् उवाच ॥
[_म्वु_3.159_] इच्छामि अहं एदृशानि फलानि परिभोक्तुं आगमे मुहूर्तं इदम् अस्माकं आश्रमं न दूरं यावद् इमं उदकं हरामि तातस्य आमन्त्रेमि ततः तव आश्रमं गमिष्यामि ॥ अथ खलु भिक्षवो राजा ब्रह्मदत्तो पदुमावतीये अपराणि मोदकानि अदासि ॥ इमानि पितुर् उपनामेहि एवं वदेहि । यस्य ऋषिस्य आश्रमे एदृशानि फलानि तस्याहं भार्या भविष्यामीति । लहु त्वं च आगच्छेहि एष अहं इह नदीतीरे आसामि ॥
___अथ खलु भिक्षवः पदुमावती ऋषिकुमारी येन माण्डव्यस्य आश्रमपदं तेनोपसंक्रमित्वा पानीयभाण्डं निक्षिपित्वा तानि मोदकानि पितुर् माण्डव्यस्य अनुप्रदासि । इमानि तात फलानि खादाहि यस्य ऋषिस्य आश्रमे एदृशानि फलानि तस्याहं भार्या भविष्यामि ॥ अथ खलु भिक्षवो माण्डव्यस्य ऋषिस्य एतद् अभूषि ॥ नूनं पंचालराजा ब्रह्मदत्तो मृगव्येन अण्वन्तः इमस्याश्रमस्य समीपं अनुप्राप्तो तेन इमानि मोदकानि दिन्नानि परिभुक्तानि पदुमावतीये राजार्हाणि मोदकानि न एषा शक्यति भूयो इहाश्रमे कटुकशायेहि फलाफलेहि यापयितुं पदुमावती च राजकन्या । यन् नूनाहं अस्य राज्ञो ब्रह्मदत्तस्य भार्या प्रयच्छेयं ॥ अथ खलु भिक्षवो माण्डव्यो र्षिः पदुमावतीं ऋषिकुमारीम् एतद् उवाच ॥ न खलु पदुमावति एवंरूपाणि फलानि भवन्ति को ते ज्वलनसमेहि कामेहि प्रलोभेति ॥ अथ खलु भिक्षवो पदुमावतीये एतद् अभूषि ॥ भवितव्यं कामा नाम ते वृक्षा येषां इमानि एदृशानि फलानि ॥ अथ पदुमावती एवं पितरम् एतद् अवोचत्* ॥ यदि तात कामफलानाम् एदृशो आस्वादो तान्य् अहं परिभुंजिष्यामि न मे इमानि महत्फलानि रोचन्ति ॥ अथ माण्डव्यो ऋषिः पदुमावतीम् एतद् उवाच ॥ को ते पदुमावति इमानि फलानि अदासि केवरूपो वा सो ऋषिकुमारो कतरस्मिं वा प्रदेशे तिष्ठति ॥
[_म्वु_3.160_] एवम् उक्ते पदुमावती माण्डव्यं ऋषिम् एतद् उवाच ॥ सूक्ष्माजिनो तात ऋषिकुमारो दकतीरे स्थाति मृगम् अभिरुह्य तेन मे इमानि फलानि दिन्नानि तस्य च तात आश्रमे एदृशानि फलानि ॥ अथ माण्डव्यो ऋषिः पदुमावतीये सार्धं येन राजा ब्रमदत्तस् तेनोपसंक्रमित्वा राजानं ब्रह्मदत्तं प्रतिसंमोदेत्वा पदुमावतीं राज्ञो ब्रह्मदत्तस्य उदकेन अदासि ॥ एषा ते महाराज भार्या भवतु महाराजस्य च एषा अनुरूपा मा च परस्य वचनेन अननुयुजित्वा विप्रियं कुर्यासि ॥
___अथ राजा ब्रह्मदत्तो पदुमावतीं अश्वपृष्ठम् आरूपेत्वा माण्डव्यस्य ऋषिस्याभिवादनं कृत्वा तत्रैव अश्वपृष्ठे अभिरुहित्वा येन कंपिल्लं नगरं तेन प्रक्रमे ॥ अद्राक्षीद् राज्ञो ब्रह्मदत्तस्य बलाग्रं दूरत एवागच्छन्तं दृष्ट्वा च पुनर् येन राजा ब्रह्मदत्तो तेनोपसंक्रमे ॥ अथ राजा ब्रह्मदत्तो ततो अश्वपृष्ठतो ओतरित्वा पदुमावतीये ऋषिकुमारीये सार्धं हस्तिपृष्ठम् अभिरुहित्वा येन कंपिल्ले नगरे स्वकम् उद्यानं तेन प्रयासि ॥ अश्रोषीत् पद्मावती कंपिल्ले नगरे महतो जनकायस्य निर्घोषं नगरं च कंपिल्लम् अद्राक्षीत्* उद्विद्धप्राकारं अट्टालगोलकतोरणं रमणीयं च ॥ दृष्ट्वा च पुनः राजानं ब्रह्मदत्तम् आमन्त्रयसि । कस्य एतं वत वनविवरे निर्घोषो श्रुयति ऋषिणां एतं वनमृगाणां च उटजानि एतानि उद्विद्धानि दृश्यन्तीति ॥ अथ राजा ब्रह्मदत्तो पद्मावतीम् एतद् उवाच ॥ एतम् ऋषिणां वनमृगाणां च निर्घोषो एतानि चास्माकं उटजानि उद्विद्धानि दृश्यन्तीति ॥ अथ राजा ब्रह्मदत्तो येन स्वकम् उद्यानं तेनोपसंक्रमित्वा हस्तिपृष्ठातो प्रत्योरुहित्वा पदुमावतीये उद्यानं प्रवेशे ॥ अथ खलु राजा ब्रह्मदत्तो अमात्यपारिषद्यान् आमन्त्रयसि ॥ हो भणे ग्रामणिका क्षिप्रं पुरोहितम् आनेथ
[_म्वु_3.161_] पदुमावतीये वस्त्राणि चाभरणानि च याव च राजकुलं याव च उद्यानं तम् अत्रान्तरं सर्वं अलंकारापेथ विततवितानं चित्रपुष्पपरिक्षिप्तं ओसक्तपट्टदामकलापं धूपनधूपितं सिक्तसंमृष्टं मुक्तपुष्पावकीर्णं देशेदेशेहि नटनर्तक-ऋल्लमल्लकपाणिस्वर्यशोभिकद्विस्त्वलकवेलम्बकनट्टधराणि उपस्थपेथ ॥
मनसा देवानां वचसा पार्थिवानां
नचिरेणाढ्यानां कर्मणा दरिद्राणाम् इति
वचनमात्रेण राज्ञो अमात्येहि यथाणत्तं सर्वं पटिजागृतं ॥ अथ पदुमावती राजानं ब्रह्मदत्तम् एतद् अवोचत्* ॥ कहिं ते भगवं शरणं समिधा वा उण्होदकं कमण्डलु वा समयो वा मे अग्निहोत्रं जुहनाय ॥ अथ राजा ब्रह्मदत्तो पदुमावतीम् आह ॥ आगमेहि मुहूर्तं सार्धं ते सूक्ष्माणि अजिनानि आनीयन्ति ततः गंगायां स्नात्वा सहिता अग्निं जुहिष्यामः ॥ अथ राज्ञो अमात्यपारिषद्या तत्क्षणं तत्मुहूर्तं अन्तःपुरं तम् उद्यानं आनयेन्सुः पदुमावतीये वस्त्राणि चाभरणानि चानयेन्सु ब्राह्मणं च पुरोहितं राजाचार्यं आनयेन्सु श्रेष्ठिप्रमुखो च निगमो पि निर्यासि सार्थवाहप्रमुखो वणिजग्रामो निर्यासि सर्वाणि चाष्टादश श्रेणी निर्यान्सुः ॥
___अद्राक्षीद् राज्ञो अमात्या पारिषद्या नैगममहत्तरका च ब्राह्मणा च पुरोहितो च राजाचार्यो ब्रह्मदत्तस्य देवीं पदुमावतीं सर्वालंकारविभूषितां प्रासादिकां दर्शनीयां परमवर्णपुष्कलतया समन्वागतां । राज्ञा ब्रह्मदत्तेन सार्धं अग्निप्रदक्षिणीं करोति । यत्र यत्र च क्रमाणि निक्षिपति तत्र तत्र पद्मानि प्रादुर्भवन्ति प्रासादिकानि दर्शनीयानि । दृष्ट्वा च हृष्टा तुष्टा हर्षसंजाता राजानं ब्रह्मदत्तम् आमन्त्रयेन्सुः ॥ नास्माभिः महाराज कदाचित् कस्यचिद् एदृशी ऋद्धी दृष्टा वा श्रुता वा
[_म्वु_3.162_] यथा इमस्या पदुमावतीये देवीये । साधु महाराज पदुमावती देवी पादेहि राजकुलं प्रवेशियतु ततो महाजनकायो देवीये इमां एवरूपां ऋद्धिं दृष्ट्वा प्रीता भवेन्सुः ॥ अथ राजा ब्रह्मदत्तो सान्तःपुरः पदुमावतीये देवीये सार्धं अमात्यपारिषद्यपुरस्कृतो महता जनकायेन सार्धं महता राज-ऋद्धीये महता राजानुभावेन उद्यानातो राजकुलं प्रवेशि ॥ अद्राक्षीत् सो जनकायो यावच् च उद्यानं यावच् च राजकुलं पदुमावतीये पदवीतिहाराणां उभयतो पदुमानि प्रासादिकानि दर्शनीयानि ॥ दृष्ट्वा पुनः महाजनकायो उदानं उदानेसि ॥ कृतपुण्यो महाराजा ब्रह्मदत्तो यस्य इमम् एवंरूपं स्त्रीरत्नं प्रादुर्भूतं ॥ अथ राजा पदुमावतीये सार्धं उपरिप्रासादवरगतो पंचहि कामगुणेहि समर्पितो समङ्गीभूतः क्रीडति रमति प्रविचारयति पदुमावतीं च देवीं मदेहि अक्षेहि च गीतवाद्येहि च शेखेति तावद् अन्या देवीयो न समन्वाहरति पदुमावतीये प्रमत्तो । पदुमावती च राज्ञा ब्रह्मदत्तेन सार्धं संवसन्ती आपन्नसत्वा संजाता ॥
___यत्र काले देवीप्रजननवेला ततः राज्ञा ब्रह्मदत्तेन या अन्तःपुरिकायो कुशलायो स्त्रीधर्माणं ता आणत्ता पदुमावतीम् उन्नेथ । राजा च हिरण्यसुवर्णं अग्रतो कृत्वा नानाप्रकाराणि च वस्त्राणि निषण्णो ये मे निवेदयिष्यन्ति क्षेमेण पदुमावती प्रजाता ति तेषां आछादं दास्यामि ॥ तासां पि देवीनाम् एतद् अभूषि ॥ यद् उपादाय पदुमावती आनीता तद् उपादाय अस्माकं राजा न समन्वाहरति । अत्र एषा प्रजायमानी अस्माभि अनयव्यसनम् आपादयितव्यं ॥ ता दानि तां पदुमावतीं
[_म्वु_3.163_] पृच्छन्ति ॥ जानसि कथं स्त्रियो प्रजायन्तीति ॥ सा दानि आह ॥ न जानामीति ॥ ता दानि अन्तःओउरिका आहंसुः ॥ स्त्रीये प्रजायमानीये अक्षीणि पट्टकेन बध्यन्ति ॥ सा दानि आह ॥ मह्यं पि प्रजायमानीये अक्षीणि पट्टकेन बन्धेथ ॥ तस्या दानि यं वेलं प्रजायिष्यतीति ततो अस्या अक्षीणि पट्टकेन बद्धानि ॥ सा दानि स्वौ दारकौ प्रजाता प्रासादिका दर्शनीया ॥ तासां दानि एतद् अभूषि ॥ अपुत्रा तावेयं देवी राज्ञो ब्रह्मदत्तस्य इष्टा च बहुमता च आसि किं पुनः सपुत्रा अपुत्रस्मिं राजकुलस्मिं । इमाये द्वौ दारका जाता ततो अधिमात्रं राज्ञो ब्रह्मदत्तस्य प्रिया भविष्यतीति वयं च न समन्वाहरिष्यति ॥ ताहि दानि अन्तःपुरिकाहि ते दारका तपनस्मिं चैलकं उपस्तरित्वा तत्र प्रक्षिप्ताः ॥ तं तपनं स्वपिहितं सुबद्धं कृत्वा राजक्येन तापनीयेन तापयित्वा नदीये गंगाये प्रक्षिप्ता । पदुमावतीये च स्वकेन गर्भमलेन मुखं म्रक्षितं ॥ सा दानि पदुमावती अन्तःपुरिकां पृच्छति किं मे जातन् ति ॥ ताहि पि अन्तःपुरिकाहि दुवे उल्बकानि कर्भमलेन प्रम्रक्षयित्वा पदुमावतीये अल्लीपितानि ॥ इमानि प्रजातासि ॥ सा दानि आह ॥ मुंचथ एतानि किं एतेषां करिष्यामीति ॥ राजा दानि ब्रह्मदत्तो पृच्छति ॥ किं देवी प्रजाता ति ॥ ता आहंसुः ॥ महाराज दुवे दारका प्रजाता प्रासादिका दर्शनीया ते च नं जातमात्रा ताये खादिता । कुतो महाराज ब्रह्मचारिस्य ऋषिस्य अपत्यन्ति पिशाची एषा त्वया आनीता त्वं दिष्ट्या जीवन्तो मुक्तो ॥ ताये पिशाचिनीये मूलातो आगच्छ पश्याहि तां यदि अस्माकं न श्रद्दधासि ॥ सो दानि तां देवीं पश्यनाय प्रविष्टो पश्यति च पदुमावतीं
[_म्वु_3.164_] रुधिरम्रक्षितेन यादृशी राक्षसी ॥ सो दानि तान् दृष्ट्वा भीतो संजातो ॥ अमात्यानाम् आह ॥ गच्छथ तां घातायेथ मानुषिका ति कृत्वा एषा मयानीता यदि एषा पिशाचिनी वा राक्षसी वा न मे ताये कार्यं ॥ सा दानि ततो राजकुलातो निष्कासिता ॥
___सा दानि तेषाम् अमात्यानां पृच्छति ॥ कहिं मे नयिष्यथ ॥ ते आहन्सुः ॥ राज्ञासि ब्रह्मदत्तेन वध्या ओसृष्टा ॥ सा दानि तेषां अमात्यानां पृच्छति ॥ किं मये राज्ञो ब्रह्मदत्तस्य अपराद्धं येनाहं वध्या ओसृष्टा ॥ ते अमात्या आहन्सुः ॥ त्वया दुवे दारका जनित्वा खादिता ततो राज्ञा पिशाचिनीति कृत्वा वध्या ओसृष्टा ॥ सा आह ॥ न मे दारका जाता पृच्छामि अन्तःपुरिकां ता आहन्सुः दुवे ते उल्बका जाता ते पि तत्रैव मेल्लिता नैव दारकानि पश्यामि नैव खादामि ॥ ते दानि अमात्याः पण्डिता स्त्रीमायानां शाठ्यानां चाभिज्ञाः ॥ तेषाम् एतद् अभूषि ॥ इयं पदुमावती ब्रह्मदत्तस्य इष्टा च बहुमता च स्थानं विद्यति यं एताहि अन्तःपुरिकाहि एषा पदुमावती अजानमानी खलीकृता भवेय विप्रलब्धा वा ॥ ते दानि अमात्या तां पदुमावतीं पृच्छन्ति ॥ कथं सि प्रजाता ति ॥ सा दानि तेषां अमात्यानां तां प्रकृतिं विस्तरेण आचिक्षति ॥ ताहि मे अन्तःपुरिकाहि प्रजायमानीये अक्षीणि पट्टकेन बद्धानि नैव दारकान् पश्यामि नैव खादामि । यं कालं च प्रजाता ततो पृच्छामि तानि अन्तःपुरिकानि किं मे जातं ति ताहि दानि मम दुवे उल्बका अल्लीपिता ते जाता ति ॥ तेषां दानि अमात्यानाम् एतद् अभूषि ॥ इयं देवी अन्तःपुरिकाहि ईर्ष्याप्रकृतेन विप्रलब्धा इयं च देवी ब्रह्मदत्तस्य इष्टा च बहुमता च मा पश्चाद् राजा ब्रह्मदत्तो
[_म्वु_3.165_] दवीये पद्मावतीये विप्रतिसारी भवेय शोकेन च गैलान्यं पतेय ॥ तेहि दानि अमात्येहि सा देवी पदुमावती स्वके गृहे गोपिता राज्ञो ब्रह्मदत्तस्य निवेदितं घातिता देवीति ॥ ता दानि देवीयो घातिता पदुमावतीति श्रुत्वा तस्य राज्ञो ब्रह्मदत्तस्य चटुलायन्ति घृतं च परिक्षिपन्ति सर्षपाणि च अग्नौ प्रक्षिपन्ति चतुर्दिशं च बलिं निष्कासयन्ति शान्तिं च करोन्ति दिष्ट्यासि महाराज जीवन्तो मुक्तो राक्षसीहस्तातो ॥ तं मुहूर्तं राजा स्नातो विलिप्तो निष्पुरुषेण नाटकेन प्रक्रीडितो । तावद् अन्तःपुरिकायो काचिद् वीणां प्रवादिता काचित् सुघोषकं काचित् मृदंगं काचिद् वेणुं काचित् प्रणृत्यन्ति काचिद् गायन्ति ॥
___अथ खलु भिक्षवो अन्यतरा देवता माण्डव्यस्य ऋषिस्य अभिप्रसन्ना वैहायसम् अन्तरीक्षे स्थिहित्वा राजानं ब्रह्मदत्तम् एतद् उवाच ॥ दुःश्रुतन् ते महाराज अपरिज्ञातं ते महाराज अविज्ञातन् ते महाराज यो त्वम् अननुयुंजित्वा अपर्यवगाहेत्वा अनपराधीं पदुमावतीं वध्याम् अवसिरसि तादृशस्य महाभागस्य ऋषिस्य वचनं न समनुस्मरसि ॥ अथ राज्ञो ब्रह्मदत्तस्यान्तःपुरिका देवताये अन्तरीक्षगताये तं घोषं श्रुत्वा सुष्ठुतरं गायन्ति वादेन्ति च यथा राजा ब्रह्मदत्तो एताये देवताये जल्पन्तीये न श्रुणेयाति ॥ अथ राजा ब्रह्मदत्तो अन्तःपुरिकां निस्थपेति आगमेथ तावद् यावज् जानाम किम् एषा देवता अन्तरीक्षगता जल्पतीति ॥ ता दानि अन्तःपुरिका राज्ञो वचनेन तूष्णीभूता संजाता देवता राज्ञो ब्रह्मदत्तस्याह ॥ दुःश्रुतन् ते महाराज यो त्वम् अननुयुंजित्वा अपर्यवगाहित्वा अनपराधीं पदुमावतीं वध्यां ओसिरेसि ताडृशस्य महाभागस्य ऋषिस्य संदेशं न समनुस्मरसि ॥ राजा दानि
[_म्वु_3.166_] ब्रह्मदत्तो ताये देवताये श्रुत्वा अन्तःपुरिकायो पृच्छति ॥ सत्यं जल्पथ किन् ते दानि दारका ये पदुमावतीये जाताः ॥ ता दानि अन्तःपुरिकायो राज्ञो ब्रह्मदत्तेन पृच्छियमानीयो वा पश्यन्ति ॥ पदुमावती राजाणत्तीये घातिता प्रभवति राजा अस्माकं पि परित्यजितुं आचिक्षाम नं सत्यं यथाभूतं ति ॥ ता दानि अन्तःपुरिका आहन्सुः ॥ महाराज पदुमावतीये दुवे दारका जाता ते चास्माभिः तपनाये प्रक्षिपित्वा राजक्याये मुद्राये मुद्रेत्वा सतपना नदीये गंगाये प्रवाहिता नापि तयापि दृष्टा नापि खायिता पि ॥ तस्य दानि राज्ञो ब्रह्मदत्तस्य दौर्मनस्यं उत्पन्नं ॥ अनपराधी तादृशी स्त्रीरत्नं मया घातापितं तादृशस्य च महाभागस्य ऋषिस्य मया संदेशं न कृतं पुत्रा लभ्यन्ता च परिभ्रष्टा ति ॥
___सापि दानि मंजूषा नदीये गंगाये वुह्यन्ती कैवर्तकेहि मत्स्यान् बन्धन्तेहि उत्क्षिप्ता ॥ ते दानि केवट्टा तां मंजूषां पश्यन्ति राजक्याये मुद्राये मुद्रितां ॥ तेषां केवट्टानाम् एतद् अभूषि ॥ मा हैव चोरेहि राजकुले अपराद्धं ततो इमा मंजूषा प्रष्टा भविष्यति सर्वञ् च गुह्यं प्रकाशीभवति गच्छाम इमां मंजूषां राज्ञो ब्रह्मदत्तस्य उपनामेम मा वयं चौरा ति कृत्वा ज्येष्ठेन दण्डेन शासीयेम ॥ ते दानि तां मंजूषाम् आदाय राज्ञो ब्रह्मदत्तस्य उपसंक्रान्ता महाराज अस्माभिर् नद्यां गंगायां मत्स्यान् बन्धन्तेहि इयं मंजुषा उदकेन वुह्यन्ती उत्क्षिप्ता राजमुद्राये मुद्रिता तां देवो प्रत्यवेक्षतु ॥ अथ खलु भिक्षवो राजा ब्रह्मदत्तो अमात्यपारिषद्यान् आमन्त्रयति ॥ हो भणे
[_म्वु_3.167_] जानथ किम् अत्र मंजूषायं ति ॥ सा दानि मंजूषा अमात्येहि मुक्ता पश्यन्ति च तानि पदुमावतीये दुवे दारका प्रासादिका दर्शनीया ॥ ते आहंसुः ॥ महाराज इमहिं मंजूषायां दुवे दारका प्रासादिका दर्शनीया पदुमावतीये पुत्राणि महाराजस्य सदृशानि । अनपराधी महाराज पदुमावती देवी देवेन अननुयुंजित्वा अपर्यवगाहित्वा वध्या ओसृष्टा ॥ अथ राजा ब्रह्मदत्तो तानि दारकानि दृष्ट्वा पदुमावतीये च बहूनि गुणगणानि समनुस्मरन्तो मूर्छित्वा भूम्यां पतितो हं स्त्रीरत्नातो भ्रष्टो ॥ अथ तेषाम् अमात्यानाम् एतद् अभूषि ॥ मा हैव राज्ञो देवीये उत्कण्ठन्तस्य किंचिद् एव शरीरस्याबाधं भवेय ॥ ते दानि आहन्सुः ॥ महाराज मा पदुमावतीये कारणेन उत्कण्ठेहि अस्माभिर् एवं देवार्थं उपलभित्वा साहसं न कृतं देवी स्थापिता न घातिता अनागतं अर्थपदं ज्ञात्वा ॥ सो दानि राजा ब्रह्मदत्तो एतम् अमात्यानां वचनं श्रुत्वा प्रह्लादितो संजातः ॥ अमात्यान् आह ॥ कहिं पदुमावतीति ॥ अमात्या आहंसुः ॥ अमुत्र गेहे ति ॥ राजा दानि तत्र देवीये पदुमावतीये सकाशं गतो ॥ गत्वा राजा पदुमावतीं देवीं बहुप्रकारं संज्ञापेति दिष्ट्यासि देवि तादृशातो व्यसनातो द्य मुक्ता दिष्ट्यासि मया च पुत्रेहि च समंगीभूता । सपत्नीहि सि च नं घातापिता किन् ते अभिप्रायं किन् तेषां तव अमित्राणां दापयामि कीदृशं वा व्यसनं निगच्छन्तु श्रेयं भवे यदि राजाणत्त्या सर्वावन्ता निगडबद्धा शाणशाटकनिवस्ता अटनं परिचरन्तु ॥ अथ खलु भिक्षवो पदुमावती देवी रुदमानी राजानं ब्रह्मदत्तम् एतद् उवाच ॥ मा महाराज तासां देवीनां किंचिद् विप्रियं करोहि ॥ एता ज्येष्ठायो अहं कनीयसा या च एतषां
[_म्वु_3.168_] कल्पिता वृत्ती तां सानं अभिवर्धेहि मा परिहापेहि सर्वाणि च अनुवर्ताहि ॥ यथाकृतानाम् कर्मणां सत्वा विपाकम् अनुभवन्ति कालं कालम् आसाद्य यथा द्रुमाणां पुष्पफला ॥ मया एवं महाराज तानि कर्माणि कृतानि यद् अहं त्वया सत्कृता च मानिता च मया एवन् तानि कर्माणि कृतानि यद् अहं त्वया वध्या ओसृष्टा ॥ अथ राजा ब्रह्मदत्तो पदुमावतीं देवीम् एतद् उवाच ॥ मा देवि अश्रूणि प्रपातेहि सर्वन् ते राष्ट्रं निःसृजामि पुत्रेहि समंगीभूता अभिरमाहि क्षमाहि च मे एतं अपराधं ॥ अथ पद्मावती देवी राजाणं ब्रह्मदत्तम् एतद् उवाच ॥ किं मे महाराज विजानन्तीये राज्येन पुत्रेण वा धनेन वा गंसामि अहं प्रव्रजित्वा पुनः तातस्य सकाशं ॥ उक्ताहं तातन को ते पदुमावति ज्वलनसमेहि कामेहि प्रलोभेति ते मे तातस्य वचना इदानीं परिदहन्ति यथाहं तातेन आश्रमपदे उक्ता यं तव महाराज मृगीव आश्रमातो पितुः सकाशातो अनपराधी वध्या ॥
___अथ पदुमावती देवी पुनस् तापसी प्रव्रजित्वा धातुरक्तानि वस्त्राणि प्रावरित्वा माण्डव्यस्य ऋषिस्य आश्रमं आगमे ॥ माण्डव्यो च ऋषी कालगतो अभूषि । तृणकुटीपर्णकुटीनि विशीर्णानि अभूंसुः ॥ अथ पदुमावतीये देवीये एतद् अभूषि ॥ तादृशेन मे निर्बन्धेन विनाशावेतौ राजा ब्रह्मदत्तो प्रत्याख्यातः पितातो मे कालगतातो अयं परिभ्रष्टा ॥ यं नूनाहं भिक्षाचारं चरामि जनपदानि च राजधानीयो च अण्वन्ती ॥ अथ पदुमावती देवी ग्रामनिगमराजधानीषु अण्वन्ती वाराणसीं राज्ञो कृकिस्य नगरं गता ॥ अद्राक्षीद् वाराणसीयको काशिराजा
[_म्वु_3.169_] पदुमावतीं देवीं पुरान्तरे दृष्ट्वा च पुनः काशिराजा पदुमावतीं देवीं बहुप्रकारं प्रलोभेति किं तव भद्रे प्रव्रज्यायं तरुणाये जातरूपाये अभिरूपाये इमानि पादपानि पुष्पितानि फुल्लानि प्रासादिकानि प्रसादनीयानि मनोरमकराणि एहि अमुककानन् आन्तरे अभिरमिष्याम ॥ एवम् उक्ते पदुमावती तापसी काशिराजानम् एतद् उवाच ॥ अग्निं महाराज इच्छसि प्रवेष्टुं यं प्रव्रजिताये सार्धं इच्छसि रमितुं धर्मस्थिताय नाहं महाराज कामेषु अर्थिका ति ॥ काशिराजा आह ॥ यदि भद्रे न इच्छसि ततो बलसा ते ग्रहिष्यामि ॥ पदुमावती आह ॥ यदि बलसा मे गृह्णसि ततो ते तपसा अग्नीव शुष्कतृणं दहिष्यामि ॥ सो दानि राजा तं श्रुत्वा भीतो प्रत्यागतो च सा च इह राष्ट्रे यथासुखं यथाफासु ॥ अहं ते निमन्त्रेमि सर्वहितोपस्थानेन ॥
___अथ ब्रह्मदत्तो राजा ब्राह्मणवेषेण काशिराज्ञो गृहं प्रविशित्वा अहं पि महाराज अक्षेहि कुशलो ति । सो पि राज्ञो देवीहि सार्धं क्रीडन्तस्य क्रीडते पदुमावतीं च सम्भाषति । केन क्रोधेन इहागता ॥ पदुमावती आह ॥ तव एव महाराज अपराधेन इहागता ॥ ततो काशिराजा संशयितो राजानं ब्रह्मदत्तं पृच्छति ॥ न मे कदाचिद् अष्टापदस्य एतादृशी नीति श्रुतपूर्वा कस् त्वं का ते एषा ति ॥ राजा ब्रह्मदत्तो आह ॥ अहं ब्रह्मदत्तो पंचालराजा एषा मे पदुमावती भार्या इहागता ॥ एवम् उक्ते काशिराजा ब्रह्मदत्तं राजानम् एतद् उवाच ॥ स्वागतन् ते महाराज अनुरागतन् ते महाराज नेहि देवीं अहं बलाग्रेण संविभज्य नेमि ॥ अथ राजा ब्रह्मदत्तो पंचालराजा पदुमावतीं देवीं वाराणसीतो चतुरंगेन बलकायेन सार्धं हस्तिपृष्ठे आरूपयित्वा महता राजानुभावेन महता राज-ऋद्धिये पुनः कंपिल्लं नगरं आनेसि ॥ पदुमावतीये च देवीये राज्ञा ब्रह्मदत्तेन ओसृष्टवध्याये व
[_म्वु_3.170_] क्रमेषु तानि पदुमानि अन्तर्हितानि अभून्सुः । पुनश् च राज्ञा ब्रह्मदत्तेन वाराणसीतो कंपिल्लं आनीताये भूयो क्रमेषु पद्मानि प्रादुर्भूतानि ॥
___भगवान् आह ॥ न खलु भिक्षवो न्यो स माण्डव्यो ऋषिर् अहम् एव तदा माण्डव्यो ऋषिर् अभूवं ॥ न खलु भिक्षवो न्या पदुमावती देवी । एषैव यशोधरा तदा पदुमावती देवी अभूषि ॥ न खलु भिक्षवो न्यः स राजा ब्रह्मदत्तो भू । एष राजा शुद्धोदनस् तदा राजा ब्रह्मदत्तो अभूत्* ॥ तदापि एतेन राज्ञा शुद्धोदनेन एषा यशोधरा अननुयुंजित्वा अपर्यवगाहित्वा वध्या ओसृष्टा । एतरहिं पि एषा एतेन राज्ञा शुद्धोदनेन अननुयुंजित्वा अपर्यवगाहित्वा अनपराधी वध्या ओसृष्टा ॥
_____पदुमावतीये परिकल्पो समाप्तो ॥
भिक्षू भगवन्तम् आहन्सुः ॥ कस्य भगवं कर्मस्य विपाकेन पदुमावतीये क्रमेषु पद्मानि प्रादुर्भवन्ति यदा च राज्ञा ब्रह्मदत्तेन वध्या निसृष्टा ततो स्या तानि पदुमानि अन्तरहितानि भूयो च राज्ञा ब्रह्मदत्तेन वाराणसीतो कंपिल्लं आनीताये सन्तीये पुनर् अस्या क्रमेषु पद्मानि प्रादुर्भूतानि ॥ भगवान् आह ॥ एतस्या एवेदं भिक्षवो पदुमावतीये कर्मणो विपाकं अभूषि येनास्या क्रमेषु पद्मानि प्रादुर्भूतानि अभून्सुः राज्ञा च ब्रह्मदत्तेन वध्याये निसृष्टाये अन्तरहितानि भूयो च राज्ञा ब्रह्मदत्तेन वाराणसीतो कंपिल्लं आनीताये सन्तीये प्रादुर्भूतानि ॥
___भूतपूर्वं भिक्षवो अतीतमध्वाने नगरे वाराणसीयं अपरस्य गृहपतिस्य प्रेषणकरी पद्मिनीतो उदकघटम् आदाय पद्मेन च हस्तगतेन वहिर्नगरातो अन्तोनगरं प्रविशति ॥
[_म्वु_3.171_] अपरो च प्रत्येकबुद्धो वाराणसीये नगरे पिण्डाय चरित्वा वहिर्नगरं निर्धावति प्रासादिकेन ईर्यायथेन अभिक्रान्तेन प्रतिक्रान्तेन प्रासादिको अभिप्रसन्ना च देवमनुष्या ॥ तस्या दारिकाये प्रत्येकबुद्धं दृष्ट्वा चित्तप्रसादम् उप्तन्नं । प्रसन्नचित्ताय तं पद्मं तस्य प्रत्येकबुद्धस्य दिन्नं । प्रत्येकबुद्धेनापि अनुग्रहार्थं प्रतिगृहीतं ॥ सा दानि दारिका तं पद्मं तस्य प्रत्येकबुद्धस्य हस्ते अतीव शोभमानं पश्यति स्वकं च हस्तं क्षीणितं पश्यति ॥ ताये दानि भूयो तस्य प्रत्येकबुद्धस्य सकाशातो तं पदुमं याचितं भगवं देहि मे तं भूयो पदुमं ति ॥ प्रत्येकबुद्धेन तं पदुमं भूयो तस्या दारिकाये दिन्नं हन्त भद्रे ति ॥ ताये पदुमं भूयो प्रत्येकबुद्धस्य हस्तातो गृहीतं ॥ सा दानि स्वकं च हस्तं पद्मेन शोभमानं पश्यति प्रत्येकबुद्धस्य हस्तं क्षीणितं पश्यति । ताये विप्रतिसारं संजातं । न शोभनं मया कृतं यं मे प्रसन्नचित्ताये एतस्य ऋषिस्य इमं पदुमं दत्त्वा पुनः आच्छिन्नं ॥ ताये दानि तं पदुमं भूयो तस्य प्रत्येकबुद्धस्य दिन्नं ॥ प्रतिगृह्णाहि मे भगवन् भूयः इमं पदुमं अनुकंपाम् उपादाय ॥ सो दानि पदुमो तस्या दारिकाये तेन प्रत्येकबुद्धेन पुनर् गृहीतं ॥
___भगवान् आह ॥ स्यात् खलु पुनर् भिक्षवो युष्माकम् एवम् अस्याद् अन्या सा तेन कालेन तेन समयेन वाराणसीयं दारिका अभूषि । न खल्व् एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एषा सा भिक्षवो पदुमावती वाराण्सीयं दारिका अभूषि ॥ यं से तं प्रसन्नचित्ताये प्रत्येकबुद्धस्य पद्मं दिन्नं तस्य कर्मस्य विपाकेन पदुमावतीये क्रमेषु पद्मानि प्रादुर्भवन्सुः । यं से तस्य प्रत्येकबुद्धस्य हस्तातो तत् पदुमं भूयो आच्छिन्नं तस्य कर्मस्य विपाकेन राज्ञा ब्रह्मदत्तेन वध्याये आणत्ताये तानि पदुमानि क्रमेषु अन्तर्हितानि ।
[_म्वु_3.172_] यं से तं पदुमं भूयो तस्य प्रत्येकबुद्धस्य दिन्नं तस्य कर्मस्य विपाकेन भूयो राज्ञा ब्रह्मदत्तेन वाराणसीतो कंपिल्लम् आनीताये पुनः क्रमेषु पद्मानि प्रादुर्भूतानि ॥
_____समाप्तं पदुमावतीये पूर्वयोगं ॥
भिक्षू भगवन्तम् आहन्सुः ॥ कस्य भगवन् कर्मस्य विपाकेन राहुलस्य कुमारस्य षड्वर्षाणि गर्भावासो अभूषि ॥ भगवान् आह ॥ एतस्य वैषो भिक्सवो राहुलस्य कुमारस्य पौराणं कर्मविपाकं ॥
___भूतपूर्वं भिक्षवो तीतम् अध्वानं वैदेहजनपदे मिथिलायां राजधान्यां ब्राह्मणो राजा अभूषि ॥ तस्य द्वे पुत्रा अभून्सुः भद्रो च नाम कुमारो सूर्यो च नाम कुमारो ज्येष्ठो सूर्यो कनीयसो चन्द्रो ॥ अथ खलु भिक्षवो सो वैदेहको ब्राह्मणराजा आयुक्षयाच् च कर्मक्षयाच् च कालम् अकार्षी ॥ चन्द्रो सूर्यम् आह ॥ त्वं ज्येष्ठो तुवं राज्यं प्रापुणेहि । अहं ऋषिप्रव्रज्यां प्रव्रजिष्यामि ॥ अथ सूर्यो कुमारो चन्द्रं कुमारम् एतद् उवाच । किं राज्ञां कर्तव्यन्ति ॥ चन्द्रो कुमारो आह ॥ राज्ञा जनस्य आणत्ती दातव्या ॥ अथ खलु सूर्यो चन्द्रम् एतद् अवोचत्* ॥ अहं कुमार राजा तव आणपेमि त्वं राजा भवाहि अहं च ऋषिप्रव्रज्यां प्रव्रजिष्यामि ॥ अथ खलु भिक्षवः सूर्यो कुमारो चन्द्रं कुमारं मिथिलायां राज्येनाभिषिंचित्वा ऋषिप्रव्रज्यां प्रव्रजेसि ॥ तेन दानि पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तेन विहरन्तेन चत्वारि ध्यानानि निष्पादितानि पंच चाभिज्ञा साक्षीकृता महर्द्धिको महानुभावो ऋषि संजातो ॥
[_म्वु_3.173_] ये पि सूर्यस्य कुमारस्याभ्यन्तरे परिवारा अभूषि ते पि सूर्येण सार्धं ऋषिप्रव्रज्यां प्रव्रजिता सर्वे च चतुर्ध्यानलाभी पंचाभिज्ञा महर्द्धिका महानुभावा संजाता ॥ अथ सूर्यस्य ऋषिस्य एतद् अभूषि ॥ अहं खलु चतुर्ध्यानलाभी पंचाभिज्ञो अयं च मे परिवारो सर्वो चतुर्ध्यानलाभी पंचाभिज्ञो यं नूनाहं उत्तरिविशेषं आरभेयं ॥ तेन दानि समादानं कृतं न मया अदिन्नं उदकं दन्तकाष्ठं पि परिभोक्तव्यं ॥
___अथ खलु भिक्षवो सूर्यो ऋषिर् अपरकालेन स्मृतिसंमोहेन अपरस्य ऋषिस्य उदकभाजनातो अदिन्नं उदकं पिबे ॥ तेन पीतेन अस्य स्मृतिर् उत्पद्ये मम व्रतसमादानं न मया अदिन्नं उदकं दन्तकाष्ठं पि परिभोक्तव्यं इति । इमं च मया इमस्य ऋषिस्य उदकभाजनातो स्मृतिसम्मोहेन उदकम् अदिन्नं पीतं । चौरो अहन्ति तस्य कौकृत्यम् उत्पन्नं चौर्यं मया कृतं ति यं मे परस्य उदकभाजनातो अदिन्नं उदकं पीतन्ति ॥ सो दानि दुःखदौर्मनस्यजातो आसनातो उत्थाय पृथिव्यां निषण्णो ॥ अथ खलु ते माणवका येन सूर्यो ऋषिस् तेनोपसंक्रमित्वा सूर्यं ऋषिम् अभिवादेन्सुः ॥ अथ खलु भिक्सवो सूर्यो ऋषी तां माणवकान् एतद् अवोचत्* ॥ मा यूयं माणवका मम अभिवादेथ ॥ अथ खलु भिक्षवस् ते माणवका सूर्यम् ऋषिम् एतद् अवोचत्* ॥ भो उपाध्याय किस्य वयं उपाध्यायं नाभिवादेष्यामः ॥ सूर्यो ऋषि आह ॥ अहं खलु माणवका चौरो ति ॥ माणवका आहन्सुः ॥ किं वा कथं वा उपाध्याय ॥ सूर्यो ऋषि आह ॥ अमुकस्य माणवकस्य उदकभाजनातो अदिन्नम् उदकं पीतं ॥ ते दानि माणवका एतम् आहन्सुः ॥ मा भवन् उपाध्याय एवं वदेहि ॥ न भवां चौरो यम् अस्माकं उदकं उपाध्यायस्य स्वकं ते उदकं पीतं मा कौकृत्यं जनेहीति ॥ सूर्यो ऋषि आह ॥ जानन्ति माणवका मम व्रतसमादानं न मया कदाचिद् अदिन्नं उदकं दन्तकाष्ठं पि भुक्तं पूर्वं मया अदिन्नपूर्वं उदकं पि पीतं ।
[_म्वु_3.174_] सो हं चौरो संवृत्तो दण्डकर्मं करोथ यथा चौरस्य क्रियति तस्य मे ॥ माणवका आहन्सुः ॥ भो उपाध्याय न वयं उत्सहाम उपाध्यायस्य दण्डकर्मं कर्तुं । एषो च ते चन्द्रो राजा भ्राता तस्य सकाशं गच्छाहि ॥ सो ते दण्डकर्मं दास्यति ॥
___अथ खलु सूर्यो ऋषिर् येन मिथिला राजधानी तेन प्रयासि राज्ञो चन्द्रस्य सकाशं ॥ अश्रोषीद् राजा चन्द्रो भ्राता मे सूर्यो ऋषि मिथिलायां आगच्छतीति ॥ अथ चन्द्रो राजा चतुरंगेन बलकायेन सार्धं सूर्यस्य ऋषिस्य प्रत्युद्गमनाय निर्याति ॥ अथ खलु चन्द्रो राजा येन सूर्यो ऋषिस् तेनोपसंक्रमित्वा यानातो ओरुह्य सूर्यं ऋषिम् अभिवादयति ॥ अथ खलु सूर्यो ऋषि चन्द्रं राजानम् एतद् उवाच ॥ मा खलु पुनस् त्वं महाराज मम अभिवादेहि ॥ एवम् उक्ते भिक्षवश् चन्द्रो राजा सूर्यं ऋषिम् एतद् उवाच ॥ किस्याहं भगवं ज्येष्ठं भ्रातरं सूर्यं ऋषिं दृष्ट्वा नाभिवादयिष्यामि ॥ एवम् उक्ते भिक्षवः सूर्यो ऋषिश् चन्द्रं राजानम् एतद् अवोचत्* ॥
अहं चौरो महाराज अदिन्नं उदकं पिबे ।
तस्य करोहि मे दण्डं यथा चौरस्य क्रियति ॥
अथ खलु भिक्षवः चन्द्रो राजा सूर्यम् ऋषिम् एतद् उवाच ॥ अनुजानाम्य् अहं भगवं यं त्वया उदकं पीतं स्वविजितातो तम् उदकं पीतं यं मम राज्यं तव पि तं राज्यं गच्छ येन इच्छसि मा भगवं कौकृत्यं करोहि ॥ अथ सूर्यो ऋषिश् चन्द्रं राजानं गाथाये अध्यभाषे ॥
नाहं शक्तो महाराज कौकृत्यं प्रतिविनोदितुं ।
साधु मे क्रियतु दण्डो यथा चौरस्य क्रियति ॥
[_म्वु_3.175_]___अथ खलु चन्द्रस्य वैदेहस्य राज्ञो पुत्रो च भागिनेयो च चन्द्रं वैदेहराजम् एतद् उवाच ॥ क्रियतु देव ऋषिस्य दण्डकर्मं कौकृत्यस्य प्रतिविनोदनार्थं मा ऋषि कौकृत्येन किलम्यतु ॥ अथ चन्द्रस्य राज्ञो एतद् अभूषि ॥ कीदृशम् अहं सूर्यस्य ऋषिस्य दण्डकर्म कुर्येयं येन ऋषि निःकौकृत्यो भवेय ॥ अथ खलु चन्द्रो राजा अशोकवनिकां सिक्तसंमृष्टां कारापेत्वा प्रणीतं च आसनं प्रज्ञप्तं खाद्यभोज्यं च प्रवेशयित्वा राजार्हाणि मोदकानि वृक्षशाखेषु बन्धापेत्वा सूर्यं ऋषिम् एतद् उवाच ॥ गच्छ भगवं अत्र अशोकवनिकायां आसाहि यं चात्र खाद्यभोज्यं शय्याविधानं च ततो यथासुखं परिभोगं अनुजानामि ॥ अथ खलु चन्द्रो राजा सूर्यं ऋषिम् अशोकवनिकायां षड्रात्रं वारेसि ॥ अथ चन्द्रस्य राज्ञो षड्रात्रात्ययेन एतद् अभूषि ॥ कथम् अहं सूर्यम् ऋषिं निःकौकृत्यं कृत्वा विसर्जेयं ति ॥ तस्यैतद् अभूषि ॥ यं नूनाहं सर्वबन्धनप्रमोक्षं कारापेयं ॥ कारापेसि खलु भिक्षवः चन्द्रो राजा सप्तमे दिवसे सर्वबन्धप्रमोक्षं । सूर्यो च ऋषि अमात्येहि उक्तो ॥ गच्छथ भगवां उद्धृतदण्डो ति । राज्ञा चन्द्रेण सर्वबन्धनमोक्षं कारापितं ॥ सो दानि निष्कौकृत्यो पुनः आश्रमपदं गतः ॥
___भगवान् आह ॥ स्यात् खलु भिक्सवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन चन्द्रो राजा । एष तदा राहुलभद्रकुमारो अभूषि ॥ यः सूर्यो ऋषिस् तदा अहम् एवाभूवं ॥ यत् सूर्यो ऋषि अशोकवनिकायां षड्रात्रं उपरुद्धः तस्य कर्मस्य विपाकेन राहुलो कुमारो षड्वर्षाणि गर्भावासस्थितो अभूषि ॥
_____राहुलभद्रस्य पूर्वयोगं ॥
[_म्वु_3.176_]___राजा दानि शुद्धोदनः शाक्यां संनिपातयित्वा आह ॥ भवन्तो यदि न कुमारो सर्वार्थसिद्धो अगारातो अनगारियं प्रव्रजितो तं राजा चक्रवर्ती भवेय बहूनां राजानसहस्राणां ईश्वरो भवन्तो पि सर्वे अनुयाता भवेथ सचे चक्रवर्तिराज्यम् अपहाय क्षत्रियकुलातो अगारातो अनगारं प्रव्रजितो अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो सो च क्षत्रियो ब्राह्मणपरिवारो व तं नो अनुरूपं भवेत्* ॥ ते दानि शाक्या आहन्सुः ॥ आणपेतु देवः किं क्रियतूति ॥ राजा शुद्धोदनो आह ॥ कुलातो कुलातो एकः क्षत्रियकुमारो प्रव्रजतु । यत्र एकः सो एकपुत्रको मा प्रव्रजतु । यत्र दुवे भ्रातरो ततो एको प्रव्रजतु । यत्रापि संबहुला भ्रातरो ततो पि एको प्रव्रजतु ॥ शलाकानि चारेथ कथं योभूयेन शाक्यगणस्य उत्पद्यतु प्रव्रजितुं शाक्यकुमारा ॥ कुलपुरुषकेण तत्र शलाकानि चारीयन्ति योभूयेन शाक्यगणस्य उत्पद्यति ॥ यदा राज्ञा शुद्धोदनेन आणत्तं प्रव्रजन्तु शाक्यकुमारा कुलपुरुषकेण यो च एकपुत्रको सो मुच्यतु तत्र दानि तेन कुलपुरुषकेण पंच कुमारशता अभिनिष्क्रमन्ति प्रव्रज्याय ॥ राज्ञो शुद्धोदनस्य भगवां च पुत्रो सुंदरनन्दो च । भगवता प्रव्रजितेन सुन्दरनंदो मुच्चति ॥ शुक्लोदनस्य पुत्रा आनंदो च उपधानो च देवदत्तो च । तेषां देवदत्तो अभिनिष्क्रमति ॥ आनन्दो पि इच्छति प्रव्रजितुं माताये मृगीये शाक्यकन्याये नानुजानीयति ॥ सो वैदेहं जनपदं गत्वान मौनव्रतेन
[_म्वु_3.177_] आसति ॥ शुक्रोदनस्य पुत्रा नन्दनो च नन्दिको च एते अभिनिष्क्रमन्ति । अपरे च दुवे पुत्रा गृहे स्थिता ॥ अमृतोदनस्य पुत्रा अनुरुद्धो च महानामो च भट्टिको च ॥ अनुरुद्धो च महानामेन पृच्छीयति । किं त्वं प्रव्रजिष्यसि गृहकार्यं वा चिन्तयिष्यसीति ॥ सो अनुरुद्धो पुण्यवन्तो न पृच्छति किं गृहम् अध्यावसन्तेन करणीयं किं वा प्रव्रजितेन करणीयं पुण्यवन्तो निष्पुरुषेण नाटकेन क्रीडन्तो आसति पंचहि कामगुणेहि समर्पितो समंगीभूतो । तस्य अस्तमिते आदित्ये सहस्रं दीपवृक्षाणि निशि प्रदीप्यन्ति । मोहनस्य जिज्ञासनार्थं एकूनं दीपवृक्षसहस्रं प्रदीपापितं । तस्य दानि ताव विशुद्धं मान्सचक्षुं यं तं एकूनं दीपवृक्षसहस्रं तस्य चित्ते नास्ति संपूर्णं दीपवृक्षसहस्रन् ति । तस्य दासपरिवारो सर्वो विस्मितो । अहो परिशुद्धं कुमारस्य चक्षुं ति । यत्र नाम दीपवृक्षसहस्रातो एकेन दीपेन ऊनं अविशुद्धानि दीपानि संजानाति ॥
___सो दानि तं ज्येष्ठभ्रातरं महानामं पृच्छति ॥ किं गृहम् अध्यावसन्तेन करणीयं किं वा प्रव्रजित्वा करणीयन् ति ॥ सो नं आह ॥ गृहम् अध्यावसन्तेन कल्यतो एवोत्थितेन राज्ञो सुखरात्री दातव्या शाक्यमहत्तरकानाम् अपि सुखरात्री दातव्या ये पि कान्ता ते पि अवलोकेतव्या कालगतानां पि मृतकरणीयेहि स्थातव्यं गृहजना वेष्टेतव्या दासीदासकर्मकरपौरुषेया वेष्टेतव्या भोजनाच्छादनेन सर्वेहि च उत्सवेहि समन्वाहरितव्या व्ययकर्मेन उत्सविकेन पारिव्ययिकेन च हस्त्यश्व-अजगवेडकानि
[_म्वु_3.178_] वेष्टापयितव्यानि रथयुग्ययानानि वेष्टापयितव्यानि ग्रामाणि च भोगानि च परिपालयितव्यानि कर्मान्तानि कालानुकालं प्रत्यवेक्षितव्यानि फलानि वाहयितव्यानि नानाप्रकाराणि धान्यजातीनि रोपयितव्यानि निवेष्टितव्यानि प्रत्यवेक्षितव्यानि च । कालानुकालं च यथापक्वानि च धान्यजातानि लवापयितव्यानि खलधानेषु संहारापयितव्यानि ओपुनापयितव्यानि । यत् किंचिद् गृहकार्यं अभ्यन्तरवाहिरं सर्वं कर्तव्यं ॥ अनुरुद्धो आह ॥ प्रव्रजितेन पुनः किं कर्तव्यं ॥ महानामो आह ॥ प्रव्रजितेन पूर्वाह्ने भिक्षा अण्वितव्या लूखं वा प्रणीतं वा आहारेण आहारं कार्यं कृत्वा एकं आत्मानं दमेतव्यं शमेतव्यं परिनिर्वापयितव्यं ॥ अनुरुद्धो आह ॥ अलं मे गृहकार्येण यूयं करेथ अहं प्रव्रजिष्यामि ॥
___ते दानि पंचमात्रा शाकियकुमारशता महता राजानुभावेन महता राज-ऋद्धीये स्वकस्वकेहि विभवेहि अभिनिष्क्रमेन्सुः । केचिद्* हस्तिपृष्ठेहि सुवर्णच्छत्त्रेहि सखुरप्रवारेहि केचित् सुवर्णशिविकाहि नानारत्नसंछन्नाहि केचित् सौवर्णेहि रथेहि चतुर्घोटेहि नानारत्नजालसंछन्नेहि सवैजयन्तिकेहि सनन्दिघोषेहि उच्छ्रितच्छत्त्रध्वजपताकेहि । केचिद् अश्वपृष्ठेहि सर्वालंकारविभूषितेहि हेमजालसंछन्नेहि । देवदत्तो च हस्तिनपृष्ठे स्वलंकृतेन हेमजालसंछन्नेन उच्चसिंहासने निषण्णो निर्धावितो । तस्य निर्धावन्तस्य तोरणाग्रे कर्कटकस्मिं मकुटं लग्नं । तेन कर्कटकेन तं मकुटं देवदत्तस्य शीर्षातो उत्क्षिप्तं महाजनकायेन अट्टप्रहासं क्षिप्तं नैमित्तिकेन च होरपाठकेन च व्याकृतो येन कार्येण देवदत्तो कुमारो अभिनिष्क्रमति तं कार्यं न प्रापयिष्यतीति । उत्तमार्थे परिहापयिष्यतीति यम् एतं उत्तमांगतो मकुटं तोरणाग्रातो कर्कटकेन उत्क्षिप्तं ॥
[_म्वु_3.179_]___अथ खलु ते पंच शाक्यकुमारशतानि महता राजानुभावेन महता राज-ऋद्धीये सर्वनृत्तेहि सर्वगीतेहि सर्वतूर्यताडावचरेहि कपिलवस्तुतो नगरातो निर्यात्वा येन न्यग्रोधारामं तेन प्रयासि ॥ अथ खलु ते पंच शाक्यकुमारशता यावद् एव यानानां भूमिस् तावद् एव यानेहि यात्वा यानेषु प्रत्योरुह्य येन भगवान्स् तेनोपसंक्रमित्वा अनेकजनसहस्रपरिवारिता भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थान्सुः ॥
___तेषां दानि शाक्यकुमाराणां उपालिर् नाम नापितदारको उपस्थानकरो कृतकुशलमूलो पुरिमकेहि सम्यक्संबुद्धेहि वासितवासनो छिन्नबन्धनो नवुत्पत्तिको आर्यधर्माणां चरमभविको लाभी ध्यानानां चाभिज्ञानां च ॥ सो दानि मातरे भगवतो उपनामितो अयं भगवतो केशानि ओतारेष्यति । भगवतापि ऽधिवासितं ॥ सो दानि उपालि भगवतो केशानि ओतारेति ॥ सा दानि उपालिस्य माता भगवन्तं पृच्छति ॥ सुखं भगवं उपालि केशानि ओतारेति ॥ भगवान् आह ॥ सुखं केशानि ओतारेति अपि च तथागतं अभ्यासादेति ॥ सा दानि आह ॥ मा दारक भगवन्तं अभ्यासादेहि ॥ सो दानि प्रथमं ध्यानं समापन्नो ॥ सा ताव नं पुनर् भगवन्तं पृच्छति ॥ सुखं भगवं उपालिदारको केशानि ओतारेति ॥ भगवान् आह ॥ सुखं दारको केशानि अवतारयति अपि तु खुरं पिलिपलिपायेति ॥ सा दानि आह ॥ मा दारक क्षुरं पिलिपलिपायेहि ॥ सो दानि द्वितीयं ध्यानं समापन्नो ॥ सा पुनः उपालिस्य माता भगवन्तं पृच्छति ॥ सुखं भगवन्* उपालिदारको केशान्य् अवतारयतीति ॥ भगवान् आह ॥ सुखं उपालिदारको केशान्य् अवतारयति अपि तु आश्वासप्रश्वासेहि तथागतं उपहनति ॥ सा दानि आह ॥ मा दारक आश्वासप्रश्वासेहि भगवन्तं उपहन ॥ सो तान्य् अतिक्रमित्वा
[_म्वु_3.180_] तृतीयं ध्यानं चतुर्थं ध्यानं समापन्नो ॥ भगवान् भिक्षूणाम् आह ॥ गृह्णथ एतं भिक्षव उपालिहस्तातो क्षुरं मा भूमिं प्रपतिष्यति ॥ सो दानि क्षुरो उपालिस्य हस्तातो भिक्षुभिर् गृहीतो ॥
___ते दानि शाक्यकुमाराः स्वकस्वकानि वस्त्राभरणानि उज्झित्वा उपालिस्य पुरतो निक्षिपेन्सुः । इमन् ते उपालि धनं भवतु । अस्माकं प्रव्रजितानां नैतेन कार्यं ति । भगवतो सन्तिके वयं प्रव्रजिष्यामः ॥
___उपालिस्यापि एतद् अभूषि ॥ इमे शाक्या कुमारा राज्यम् अवजहिय इमानि च वस्त्राभरणानि मम दत्त्वा अगारातो अनगारियं प्रव्रजन्ति किं पुनर् अस्माभिः क्षुरवृत्तीहि न प्रव्रजितव्यं भवेय । अहम् अपि प्रव्रजिष्यामि । न एतेषां वान्तानाण् {सेनर्त्: वान्तन्तं} परिभुंजिष्यामि ॥ अथ खलूपालिः कल्पको येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वंदित्वा भगवन्तम् एतद् अवोचत्* ॥ प्रव्राजेतु मे भगवां उपसंपादेतु मे सुगतो ॥ अथ खलु भगवां उपालिकल्पकं एहिभिक्षुकाए आभाषे । एहि भिक्षु उपालि चर तथागते ब्रह्मचर्यं ॥ तस्य दानि भगवतो एहिभिक्षुकाये सहोक्तेन यत् किंचिद् गृहिलिंगं गृहिगुप्ति गृहिध्वजं गृहिकल्पं सर्वम् अन्तर्हितं त्रिचीवरं चास्य प्रादुर्भवे सुंभकं च पात्रं प्रकृतिस्वभावसंस्थिता च केशा ईर्यापथो चास्य संस्थिहे सय्यथापि नाम वर्षशतोपसंपन्नस्य भिक्षुस्य आयुष्मतो उपालिस्य प्रव्रज्या उपसंपदा भिक्षुभावो ॥ येनान्तरेण पंच शाक्यकुमारशता मातापितॄणां मित्रज्ञातिसालोहितानां च प्रतिसंमोदेन्ति तेनान्तरेण उपालि प्रथमतरं प्रव्रजितो ॥
[_म्वु_3.181_]___अथ खलु पंच शाक्यकुमारशता येन भगवान्स् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् एतद् उवाच ॥ प्रव्रजेतु मे भगवां उपसंपादेतु मे सुगतो ॥ अथ खलु भगवां तानि पंच कुमारशतानि स्थापयित्वा देवदत्तं एहिभिक्षुकाये आभाषे ॥ एथ भिक्षवः शाक्यकुमारा चरथ तथागते ब्रह्मचर्यं ॥ तेषां दानि भगवता एहिभिक्षुकाये आभाष्टानां यत् किंचि गृहिलिंगं गृहिगुप्ति गृहिध्वजं गृहिकल्पकं तत् सर्वम् अन्तरहाये त्रिचीवराणि च सानं प्रादुर्भवेन्सुः सुंभकानि च पात्राणि प्रकृतिस्वभावसंस्थिता केशा ईर्यापथो च सानं संस्थिहे सय्यथापि नाम वर्षशतोपसंपन्नानां भिक्षूणां एष आयुष्मन्तानां शाक्यकुमारशतानां प्रव्रज्या उपसंपदा भिक्षुभावो ॥
___ते दानि भगवता वुच्चन्ति ॥ उपालि भिक्षु युष्माकं वृद्धतरको एतस्य पादां वन्दित्वा सर्वे पटिपाटिकाये तिष्ठत । यो च प्रथमतरं तथागतस्य उपालिस्य च पादां वन्दित्वा पटिपाटिकाये स्थास्यति सो वृद्धतरको भविष्यति ॥ ते दानि भगवतो उपालिस्य च पादां वन्दित्वा सर्वे भिक्षुशता पटिपाटिकाये स्थिता ॥ अपि हि जितं महाजनकायो एवम् आह ॥ जितमानक्रोधा शाक्या निहतमानदर्पा शाक्या ति ॥ राज्ञापि शुद्धोदनेन सपरिवारेण शाक्येहि च उपालिस्य भिक्षुस्य पादा वन्दित्वा । आयुष्मांश् च उपालि एवम् आह ॥ स्वागतं राज्ञो शुद्धोदनस्य अनुरागतं राज्ञो शुद्धोदनस्य ॥ अथ खलु राज्ञो शुद्धोदनस्य अमात्यपारिषद्या आयुष्मन्तं उपालिं तं राजानं शुद्धोदनं आत्मना आभाषन्तं दृष्ट्वा तं विभावयेन्सुः ॥ कथं नाम उपालिकल्पको हीनजात्यो राज्ञा शुद्धोदनेन भाषति ॥
[_म्वु_3.182_] राजापि शुद्धोदनो तेषां पारिषद्यामात्यानाम् आह ॥ मा भवन्तो आर्यस्य उपालिस्य हीनजात्येन समुदाचरथ । अन्यास्य पुरिमा जाति अन्या एतरहिं श्रमणस्य राज-ऋद्धि न एष भूयो हीनजात्यो ति वक्तव्यः ॥
___भिक्षू भगवन्तम् आहन्सुः ॥ पश्यथ भगवं कथम् आयुष्मतो उपालिस्य हीनजात्यस्य भगवन्तम् आगम्य सराजिकाय परिषाय पादा वन्दिता ॥ भगवान् आह ॥ न भिक्षव एतरहिम् एव एतस्य उपालिस्य हीनजात्यस्य ममागम्य सराजिकाय परिषाय पादा वन्दिता अन्यदापि एतस्य उपालिस्य हीनजात्यस्य ममागम्य सराजिकाय परिषाय पादा वन्दिता ॥ भिक्ष भगवन्तम् आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि भिक्षवो ॥
___भूतपूर्वं भिक्षवो अतीते ध्वनि नगरे वाराणस्यां काशिजनपदे द्वे दरिद्रा दारका कुल्माषपुटकानि भक्तं गृह्य काष्ठहारका गच्छन्ति प्रत्येकबुद्धो च वाराणसीं पिण्डाय प्रविशति प्रासादिकेन ईर्यापथेन अभिक्रान्तप्रतिक्रान्तेन आलोकितविलोकितेन संमिंजितप्रसारितसंघाटी पात्रचीवरधारणेन नागो पि विय कारितकारणो अन्तर्गतेहि इन्द्रियेहि अन्तर्गतेन मानसेन स्थितेन धर्मताप्राप्तेन स्मृतः संप्रजानो समाहितो एकाग्रचित्तो संवृतेन्द्रियो अविक्षिप्तदृष्टी ॥ ते खु तं दृष्ट्वा प्रसादम् उपसंक्रमन्ति ॥ ते दानि प्रसन्नचित्ता अन्योन्यं एवम् आहन्सुः ॥ ये केचिद् दारका रुच्छवृत्तिका अशनवसनविप्रहीना मनुष्यदुर्गता मनुष्यकृपणा मनुष्यवराका यथा वयं चान्ये च सर्वे एदृशेषु द्विपादकेषु पुण्यक्षेत्रेषु कुशलमूलानि न कृत्वा ये केचित् पुनर्
[_म्वु_3.183_] आढ्या महाधना महाभोगा क्षत्रियमहाशाला वा ब्राह्मणमहाशाला वा अन्ये वा केचित् सुखिता सर्वे ते एवरूपेषु द्विपादेषु पुण्यक्षेत्रेषु कुशलानि कृत्वा । यं नूनं वयं इमां कुल्माषां इमस्य ऋषिस्य पात्रेषु प्रतिष्ठापयेम ॥ तेहि दानि ते कुल्माषा तस्य प्रत्येकबुद्धस्य पात्रेषु प्रतिष्ठापिता ॥ प्रत्येकबुद्धो पि तेषां दारकानां तां भिक्षां प्रतिगृह्य हंसराजा विय वैहायसेन प्रक्रमितो ॥ ते दारका तं प्रत्येकबुद्धं वैहायसेन गच्छन्तं दृष्ट्वा प्रीतिसंजाता महाभागो अस्माभिः ऋषिः पिण्डपात्रेण प्रतिमानितो ॥ ते दानि प्रीतिसौमनस्यजाताः प्रणिधानं उत्पादेन्ति ॥ एको आह ॥ अहं अनेन कुशलमूलेन राजा भवेयं क्षत्रियो मूर्ध्नाभिषिक्तो ॥ द्वितीयो आह ॥ अनेन कुशलमूलेन ब्राह्मणमहाशालकुले उपपद्येयं आढ्यो महाधनो महाभोगो ॥
न हि चित्तप्रसन्नेन स्वल्पिका भवति दक्षिणा ।
तथागते च संबुद्धे ये च बुद्धान श्रावका ॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं हि जीवितं ॥
ते दानि दारका आयुक्षयाच् च कर्मक्षयाच् च कालगता समागता तत्रैव वाराणसीयं नगरे । एको पि राजकुले राज्ञो अग्रमहिषीये उपपन्नो द्वितीयो पि पुरोहितकुले पुरोहितस्य भार्याये कुक्षिस्मिं उपपन्नो ॥ कालेन समयेन राजभार्या पुरोहितभार्या च प्रजाता । उभये दारका जाता ॥ उभयेषां सप्ताहं रमणीयानि जातकर्माणि कृतानि सप्ताहस्यात्ययेन राजपुत्रस्यापि ब्रह्मदत्तो ति
[_म्वु_3.184_] नाम कृतं पुरोहितपुत्रस्यापि उपको ति नाम कृतं ॥ अनुरूपा धात्री उपस्थापिता राजपुत्रो च पुरोहितपुत्रो च यथा उत्पलं वा पदुमं वा कुमुदं वा पुण्डरीकं वा तथा संवर्धन्ति ॥ यथोक्तं भगवता ॥
कृतपुण्या हि वर्धन्ति न्यग्रोधा विय सुभूमियं जाता ।
अनुपन्थके विय द्रुमा अल्पपुण्या विहीना त्ति ॥
ते दानि यत्र काले विवृद्धा विज्ञप्राप्ता संजाता ततो लिपीयं पि सेखियन्ति लेखाशिल्पगणनां धारणमुद्रां ॥ राजपुत्रो पि ब्रह्मदत्तो हस्तिस्मिं अश्वस्मिं धनुस्मिं त्सरुस्मिं धावितस्मिं लंघिते जविते इष्वस्त्रज्ञानेषु सर्वत्र गतिंगतो संजातो ॥ पितरे च कालगतेन ब्रह्मदत्तो कुमारो अमात्येहि वाराणस्यां राज्येनाभिषिक्तो ॥ उपको च माणवको अन्यतराये माणविकाये सार्धं प्रतिबद्धचित्तो अभूषि ॥ सो दानि ताये माणविकाये कस्मिंचिद् एव स्थाने किंचित् कालं अवसादितो अभूषि न तं ओलोकेति । वाराणसीयं च कौमुदी चातुर्मासी उपस्थापिता सापि माणविका उपकस्य माणवकस्य भावानुरक्ता प्रत्यागता ॥ माणव कौमुदी चातुर्मासी उपस्थिता गन्धमाल्यं मे उपस्थापेहि यथा कौमुदी चातुर्मासी रमणीयं करेयाम ॥ सो दानि माणवको तस्या माणविकाये श्रुत्वा तुष्टो आत्तमनो अभूषि । दिष्ट्या मे माणविका प्रत्यागता ति ॥ तस्य दानि उपकस्य माणवकस्य गंगाकूले माष अपरस्य पुरुषस्य सकाशातो याचनकं लब्धं । सो च नं माषो तत्रैव गंगाकूले गोपितको अभूषि ॥ सो दानि तस्य माषस्य अर्थाये विघने
[_म्वु_3.185_] मध्याह्ने वर्तमाने हर्षेण मधुराणि किन्नरीय गीतानि गायन्तो गंगाकूले [तस्य माषस्य अर्थाये] गच्छति ॥
___अद्राक्षीद् भिक्षवः राजा ब्रह्मदत्तो उपरिप्रासादवरगतः उपकं माणवकं मध्याह्ने विघने मधुरेण स्वरेण गायन्तं अन्तोनगरातो वहिर्नगरं गच्छन्तं दृष्ट्वा च पुनर्मस्य उपके माणवके प्रेम्नं निपतितं ॥ यथोक्तं भगवता ॥
पूर्वे वासनिवासेन प्रत्युत्पन्ने हितेन वा ।
एवन् तं जायते प्रेम्नं उत्पलं वा यथोदके ॥
यत्र मनो निविशति चित्तं वापि प्रसीदति ।
निष्ठां पण्डिता गच्छेयुः संवुत्था मे पुरा भवे ॥
एवं तस्य राज्ञो ब्रह्मदत्तस्य तत्र उपके माणवके सह दर्शनेन प्रेम्नं निपतितं ॥ तन राज्ञा ब्रह्मदत्तेन उपकस्य माणवकस्य दूतो प्रेषितो ॥ गच्छथ यो एषो माणवको गायन्तो अन्तर्नगरातो वहिर्नगरं गच्छति एतं आनेथ ॥ सो तेहि गत्वा उच्चति ॥ आगच्छ माणवक राजा ते शब्दापेतीति ॥ सो दानि तेहि राजपुरुषेहि राज्ञो सकाशम् उपनीतो ॥ देव अयं सो माणवको आनीतो ॥ अथ खलु राजा ब्रह्मदत्तो उपकं माणवकं गाथाये अध्यभाषे ॥
मध्यन्तिके वीतिनते कुक्कुलवत्ततो मही ।
अथ गायसि वक्त्राणि न तापयति आतपो ॥
उपरि तपति आदित्यो हेष्टा तपति वालिका ।
उदग्रचित्तो सुमनो अथ वक्त्राणि गायसि ॥
[_म्वु_3.186_] अथ खलु भिक्षवः उपको माणवको राजानं ब्रह्मदत्तं गाथाये प्रत्यभाषे ॥
न आतपो तापयति अन्तका तापयन्ति मां ।
अन्तकाश् च विघाताश् च ते तापेन्ति न आतपो ॥
इत्वरं खु अयं तापो यो खु कायं प्रतापये ।
कार्या नाम विवादा च ते तापेन्ति न आतपो ॥
राजा दानि ब्रह्मदत्तो उपकं माणवकं गाथाये प्रत्यभाषति ॥
किन् ते जनेति संक्षोभं अयं केन प्रतप्यति ।
तापेन पीडितो कायो तं त्वं आख्याहि पृच्छितो ॥
अथ खलु भिक्षवो उपको माणवको राजानं ब्रह्मदत्तं गाथाये प्रत्यभाषति ॥
वृषली देव कान्ता मे कुंभदासी अरिंदम ।
तस्या उपस्थितो सर्वो तयास्मि उपतापितो ॥
अथ भिक्सवो राजा ब्रह्मदत्तो उपकं माणवकं आमन्त्रयति ॥ कहिं माणवक गमिष्यसीति ॥ अथ खलु भिक्षवः उपको माणवको राजानं ब्रह्मदत्तं गाथाये प्रत्यभाषति ॥
माषो मे याचनालब्धो गंगातीरस्मिं गोपितो ।
पुरस्तिमे नगरस्य तदर्थाय व्रजाम्य् अहं ॥
अथ खलु भिक्षवो राजा ब्रह्मदत्तो उपकं माणवकं आमन्त्रयति ॥ आगमेहि
[_म्वु_3.187_] तावत्* माणवक मुहूर्तं शीतलके गमिष्यसि ॥ अथ खलु उपको माणवको राजानं ब्रह्मदत्तं गाथाये प्रत्यभाषे ॥
येहि अर्थो अयानस्य ऊर्ध्वं तिष्ठन्ति तिष्ठतो ।
याने तु वह्यमानस्य पुरतो धावन्ति धावतो ।
गंसाम्य् अहं महाराज तस्य माषस्य कारणा ॥
(अथ खलु राजा ब्रह्मदत्तो उपकं माणवकं गाथाये प्रत्यभाषे)
सचे ते अर्थो माषेण अहं माषं ददामि ते ।
करोहि कृत्यं माषेण उष्णे माणव मा व्रज ॥
उपको माणवको आह ॥ यदि वेदो माषं दास्यति एतं द्वितीयं माषं एतेहि माषेहि तुष्टा भवे पि वृषली कौमुदीयं च अविघ्नं भविष्यति ॥ अथ खलु उपको माणवको राजानं ब्रह्मदत्तं गाथाये अध्यभाषे ॥
यं च माषं देवो दद्यात् तं द्वितीयं भविष्यति ।
एतेहि द्वीहि माषेहि तुष्टा सा वृषली भवे ॥
राजा आह ॥ अहन् ते माणव दुवे माषाणि दास्यामि मा च उष्णेन पच्यन्तो गच्छाहि ॥ राजा ब्रह्मदत्तो उपकं माणवकं गाथाये अध्यभाषे ॥
सचे ते अर्थो माषेहि दुवे माषा ददामि ते ।
करोहि कृत्यं माषेहि उष्णे माणव मा व्रज ॥
[_म्वु_3.188_] उपको आह ॥ एते च द्वे माषा तं च तृतीयं भविष्यति आमन्त्रणं च भविष्यति । एवं वृषलीये रमणीयं कौमुदिकं भविष्यति ॥
भवतश् च दुवे माषा तं तृतीयं भविष्यति ।
एतेहि त्रीहि माषेहि तुष्टा सा वृषली भवे ॥
राजा ब्रह्मदत्तो उपकं माणवकं एवम् आह ॥ माणवक उष्णे मा गच्छाहि अहं ते त्रयो माषां दास्यामीति ।
सचे ते अर्थो माषेहि भूयो माषां ददामि ते ।
करोहि कृत्यं माषेहि उष्णे माणव मा व्रज ॥
माणवको आह ॥ देव एतानि व त्रयो माषा तं चतुर्थं भविष्यति आमन्त्रणं तत्र भूयो भविष्यति । एवं वृषलिकाये सार्धं रमणी कौमुदीयं भविष्यति ॥
भवतश् च त्रयो माषा तं चतुर्थं भविष्यति ।
चतुर्हि देव माषेहि उदग्रा वृषली भवे ॥
एतेन क्रमेण राजा ब्रह्मदत्तो शतसहस्रं उपकस्य माण्वकस्य देति तं च माषं न मुंचति । यावद् अपरार्धेन ततो माषातो न निवर्तितो ॥ तेन दानि राज्ञा ब्रह्मदत्तेन अर्धराज्यं तस्य उपकस्य माणवकस्य दिन्नं । अन्तःपुरातो अर्धं दिन्नं । कोशकोष्ठागाराणां पि दिन्नम् अर्धम् अमात्यभट्टबलाग्राणां पि अर्धं दिन्नं ॥
___ते दानि उभये राज्यं कारयन्ति । उभौ अर्थानि समनुशासन्ति ॥ सो दानि माणवको पंचहि कामगुणेहि समर्पितो क्रीडति रमति परिचारयति ॥ सो दानि
[_म्वु_3.189_] राजा ब्रह्मदत्तो अत्यर्थं अतीव उपकस्य माणवकस्य सन्तिके विश्वस्तो यदि कहिंचि पि गच्छति ततः उपकस्य माणवकस्य उत्संगे शीर्षं दत्त्वा शयति ॥ तस्य दानि उपकस्य राज्ञा शयितेन एतद् अभूषि ॥ कथं एकराज्येन दुवे राजानो यं नूनाहं इमं राजानं ब्रह्मदत्तं घातेत्वा अहम् एव एको राजा भवेयन् ति ॥ तस्य दानि भूयो एतद् अभूषि । न एतद् मम साधु भवेय न प्रतिरूपं यम् अहं राज्ञो ब्रह्मदत्तस्य कृतज्ञस्य अकृतज्ञो भवेयं ॥ द्वितीयं तृतीयकं पि एतद् अभूषि । न एतं साधु भवेय न प्रतिरूपं यं एके राज्ये दुवे राजानो यं नूनाहं राजानं ब्रह्मदत्तं जीवितातो व्यवरोपयित्वा अहम् एव एको काशिराजा भवेयं ति ॥ तस्य दानि द्वितीयकं तृतीयकं पि एतद् अभूषि । न एतं मम साधु भवेय न प्रतिरूपं यं अहं राज्ञो ब्रह्मदत्तस्य कृतज्ञस्य अकृतज्ञो भवेयन्म् ति ॥ सो दानि अविधाविधन् ति प्रव्रजितो तेन राजा ब्रह्मदत्तो प्रतिबुद्धो ॥ सो तं आह ॥ उपक अविधाविधन् ति वक्षि ॥ सो दानि आह ॥ एवंरूपो मे देव चित्तो अभूषि । यं नूनाहं ब्रह्मदत्तं जीवितातो व्यवरोपयित्वा अहम् एव एको काशिराजा भवेयं ति ॥ तस्य सो ब्रह्मदत्तो राजा न पत्तीयति ॥ सो दानि उपको आह ॥ एवम् एतं देव यथा तं जल्पामीति ॥ अथ खलु राजा ब्रह्मदत्तो उपकं माणवकं गाथाये अध्यभाषे ॥
दिन्नो मे अर्धराज्यं ते स्तोकस्तोकेन माणव ।
एकं मुंचसि न माषं कथं अन्तो भविष्यति ॥
अथ खलु उपको माणवको राजानं ब्रह्मदत्तं गाथाये प्रत्यभाषे ॥
न हि अन्तो अनन्ताये तृष्णाये इह विद्यति ।
प्रव्रजिष्याम्य् अहं राजन् न राज्येन रतो स्मि च ॥
[_म्वु_3.190_] बहूहि कामेहि अलं मे येहि बालो न तृप्यति ।
अलं मे सर्वकामेहि प्रव्रजिष्यामि नगारियं ॥
काम जानामि ते मूलं संकल्पात् काम जायसे ।
न कामं कल्पयिष्यामि ततो मे न भविष्यसि ॥
अल्पेषु बालो कामेषु बहूष्व् अपि न तृप्यति ।
अपहाय सर्वकामानि प्रतिबुद्धो व पश्यति ॥
इच्छामि दानं प्रभवन्ति च ते
इच्छा प्रशान्ता च न भोन्ति एवं ।
एतं व इच्छाय फलं विदित्वा
न प्रार्थये पुत्रपशुं धनं च ॥
अथ खलु उपको माणवको ब्रह्मदत्तं राजानम् एतद् उवाच ॥ अनुजानाहि मे देव प्रव्रजिष्यामि ॥ राजा आह ॥ मा प्रव्रजाहीति सहिता राज्यं कारयिष्यामः ॥ उपको आह ॥ न महाराज राज्येन अर्थो अनुजानाहि मे प्रव्रजिष्यामि ॥ सो दानि राज्ञा ब्रह्मदत्तेन अनुज्ञातो यदि एवं अभिप्रायो प्रव्रजाहीति ॥
___तहिं दानि काशिषु उत्तरेण कुम्भकारस्य प्रव्रजितस्य ऋषिस्य पंचाभिज्ञस्य आश्रमपदं ॥ सो दानि उपको माणवको तम् आश्रमपदं गत्वा तस्य कुम्भकारस्य प्रव्रजितस्य ऋषिस्य सकाशातो प्रव्रजितो ॥ तेन दानि पूर्वरात्रापररात्रेण जागरिकायोगम् अनुयुक्तेन विहरन्तेन युज्यन्तेन घटन्तेन व्यायमन्तेन चत्वारि ध्यानानि उत्पादितानि महर्द्धिको महानुभावो ऋषी संजातो चन्द्रमण्डलं सूर्यमण्डलं आश्रमे पर्यंकेन निषण्णो पाणिना परिमार्जति परामृषति यावद् ब्रह्मलोकं कायेन वशे
[_म्वु_3.191_] वर्तेति ॥ अथ खलु राजा ब्रह्मदत्तो उपकस्य माणवकस्य स्पृहयन्तो अभीक्ष्णं इमां गाथां भाषति ॥
अल्पस्य इमं महाविपाको
उपको अध्यगमे महान्तम् अर्थं ।
सुलब्ध लाभा खलु माणवस्य
यो प्रव्रजे कामरतिं प्रहाय ॥
राज्ञो ब्रह्मदत्तस्य अन्तःपुरिका पुनर्पुनः इमां गाथां राज्ञो ब्रह्मदत्तस्य सकाशातो शृण्वन्ति न चास्यार्थं विजानन्ति ॥ तस्य दानि राज्ञो ब्रह्मदत्तस्य गंगपालो नाम कल्पको । राज्ञो ब्रह्मदत्तस्य स विश्वस्तो यथासुखं अन्तःपुरं प्रविशति उपस्थानकरो ॥ सो दानि राज्ञा ब्रह्मदत्तेन उक्तः ॥ गंगपालक केशश्मश्रुं मे करोहीति ॥ एवं वदित्वा ओसुप्तो ॥ तेन तस्य शयितस्य केशश्मश्रु कृतं राजापि विबुद्धित्वा आह ॥ गंगपाल आगच्छ करोहि मे केशकर्मं ॥ गंगपालो आह ॥ कृतं ते देव केशश्मश्रुं शयितस्य ॥ सो दानि गंगपालो आदर्शकं गृह्य राज्ञो ब्रह्मदत्तस्य अल्लीनो निध्यायतु देवो ति । राजा आदर्शकेन केशश्मश्रु निध्यायन्तो गंगपालस्य कल्पकस्य प्रीतो संवृत्तो ॥ राजा आह ॥ गंगपाल तुष्टो स्मि तव एतेन शिल्पेन अभिराद्धो ग्रामवरेण प्रवरेण प्रवारेमि गृह्ण ग्रामं सयदि इच्छसि ॥ सो दानि आह ॥ यावत् संमन्त्रेमि ततो देवस्य सकाशातो ग्रामवरं ग्रहेष्यामीति ॥ सो दानि गंगपालो राज्ञो ब्रह्मदत्तस्य अन्तःपुरिकानां आचिक्षति ॥ अद्य मया राजा ब्रह्मदत्तो शिल्पेन आराधितो ग्रामवरेण चाहं प्रवारितो गृह्णामि ग्रामवरन् ति ॥
[_म्वु_3.192_] अन्तःपुरिका आहन्सुः ॥ मर्षेहि ग्रामवरं एषो राजा अभीक्ष्णम् इमां गाथां भाषति ॥
अल्पस्य इमं महाविपाको
उपको अध्यगमे महान्तम् अर्थं ।
सुलब्ध लाभा खलु माणवस्य
यो प्रव्रजे कामरतिं प्रहाय ॥
वयं च एताये गाथाये अर्थं न विजानामथ । ततो गच्छ राजानं ब्रह्मदत्तं जल्पाहीति अलं मे देव ग्रामवरेण यं देवो अभीक्ष्णं इमां गाथां भाषति ॥
अल्पस्य इमं महाविपाको
उपको अध्यगमे महान्तम् अर्थं ।
सुलब्ध लाभा खलु माणवस्य
यो प्रव्रजेत् कामरतिं प्रहाय ॥
एतस्य मे महाराज अर्थं आचिक्षाहीति ॥ सो दानि गंगपालो राज्ञो ब्रह्मदत्तस्य उपसंक्रमित्वा आह ॥ देव अलं मे ग्रामवरेण यं देवो अभीक्ष्णं इमां गाथां भाषति ॥
अल्पस्य इमं महाविपाको
उपको अध्यगमे महान्तम् अर्थं ।
सुलब्ध लाभा खलु माणवस्य
यो प्रव्रजेत् कामरतिं प्रहाय ॥
इमस्या देव गाथाये अर्थम् आख्याहि ॥ एतं मे वरं भवतु ॥ राजा आह
॥ [_म्वु_3.193_] उपको माणवको अर्धराज्यम् अपहाय कामेषु आदीनवं दृष्ट्वा ऋषिप्रव्रज्यां प्रव्रजितो सो च पंचाहिज्ञो महाभागो ऋषि संवृत्तो अहं च कामेषु प्रमत्तो । सो हं तस्य उपकस्य माणवकस्य स्पृहयन्तो अभीक्ष्णं एतां गाथां भाषामि ॥ सो दानि गंगपालो राज्ञो श्रुत्वा अन्तःपुरं प्रविशित्वा अन्तःपुरिकान् आश्वासेति ॥ तस्य मा उत्कण्ठथ न राजा प्रव्रजिष्यति । तस्य उपकस्य माणवकस्य स्पृहयन्तो राजा अभीक्ष्णं एतां गाथां भाषति ॥ इदानीं अन्तःपुरिका हृष्टा तुष्टा आत्तमना हिरण्यस्य सुवर्णस्य च वस्त्राभरणानां च महान्तं राशिं कृत्वा गंगपालम् आहन्सुः ॥ गंगपाल इदन् ते अभिच्छादं भवतूति ॥ तस्य दानि गंगपालस्य एतद् अभूषि ॥ सो च नाम उपको माणवको आढ्यो गृहम् अपहाय प्रव्रजितः किं पुनर् मया न प्रव्रजितव्यं भवेय । यं नूनाहं पि प्रव्रजेयं किं मे परेषां चित्तेन कार्यं ॥ सो दानि अन्तःपुरिका आह ॥ अलं मे तेन हरिण्यसुवर्णेन अहं पि प्रव्रजिष्यामि ॥ सो दानि ब्रह्मदत्तस्य उपसंक्रमित्वा आह ॥ देव अनुजानाहि मे प्रव्रजिष्यामि इति ॥ राजा आह ॥ कस्य सन्तिके प्रव्रजिष्यसि ॥ सो आह ॥ उपकस्य ऋषिस्य सन्तिके प्रव्रजिष्यामि ॥ राजा आह ॥ अनुजानामि प्रव्रजाहीति ॥
___सो दानि गंगपालो उपकस्याश्रमं गत्वा प्रव्रजितो ॥ तेनापि पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तेन विहरन्तेन युज्यन्तेन घटन्तेन व्यायमन्तेन चत्वारि ध्यानानि निष्पादितानि पंचाभिज्ञा साक्षीकृता चन्द्रमण्डलसूर्यमण्डलपरिमार्जको ऋषि संवृत्तो ॥ अश्रोषीद् भिक्षवो राजा ब्रह्मदत्तो सर्वे ते त्रयो ऋषयो पंचाभिज्ञा संवृत्ता ते महर्द्धिका महानुभावा । तस्य दानि तेषां ऋषीणां दर्शनकामता
[_म्वु_3.194_] उदपासि ॥ सो दानि अमात्यपारिषद्यान् आमन्त्रयति ॥ गच्छाम तेषां ऋषीणां दर्शनाय कुम्भकारस्य प्रव्रजितस्य च उपकस्य च गंगपालस्य चाश्रमं सर्वे ते त्रयो ऋषयो चतुर्ध्यानलाभी पंचाभिज्ञा महर्द्धिका महानुभावा ति । सो कालो तथारूपाणां दक्षिणेयानाम् दर्शनायोपसंक्रमणाय पर्युपासनाय ॥ अमात्यपारिषद्या आहन्सुः ॥ मा देवो तेषां सकाशं गच्छतु ते नाम इह आनयितव्या ॥ [सो दानि गंगपालो राज्ञो ब्रह्मदत्तस्य आम्रवनं गतो नापितभाण्डं ओलंबयित्वा प्रव्रजितो ॥ अथ खलु अन्यतरो राजामात्यो राजानं ब्रह्मदत्तं गाथाये अध्यभाषे ॥
अयम् एव सो आम्रवनो ब्रह्मदत्तस्य श्रीमतो ।
यत्र क्षुरं च भाण्डं च ओलंबित्वा प्रव्रजितो ॥]
न देवेन हीनजात्यानां सकाशं गन्तव्यं ति । तेहि नाम देवस्य सकाशम् आगन्तव्यं ॥ राजा आह ॥ न एष धर्मो यं दक्षिणेया वुच्चेन्सुः इह आगच्छथ राजानं दर्शनायेति । अस्माभिः तत्र गन्तव्यं ऋषयो दर्शनाय ॥ अथ खलु राजा ब्रह्मदत्तो कुमारामात्यसंपरिवृतो येन ते ऋषयस् तेनोपसंक्रमे ॥ अथ खलु गंगपालो ऋषिर् येन राजा ब्रह्मदत्तस् तेनोपसंक्रमित्वा राजानं ब्रह्मदत्तम् एतद् उवाच ॥ स्वागतं राज्ञो ब्रह्मदत्तस्य निषीदतु राजा ब्रह्मदत्तो ॥ अथ खलु राज्ञो ब्रह्मदत्तस्य अमात्यपारिषद्या गंगपालं ऋषिं वाचाये सन्तर्जयेन्सुः सच्छम्बितं करेन्सुः ॥ किं
[_म्वु_3.195_] वदेसि त्वं गंगपाल हीनजात्यो समानो राजानं ब्रह्मदत्तं नामेन समुदाचरसि ॥ अथ खलु राजा ब्रह्मदत्तो तां अमात्यपारिषद्यां गाथाये अध्यभाषे ॥
मा किंचि वदथ गंगपालं
मुनिनां मौनपदेहि शिक्षमाणं ।
एषो अतरे तम् अर्णवोघं
यं तरित्वान भवन्ति वीतरागाः ॥
तपसा प्रजहन्ति पापकानि
तपसा विधमन्ति अन्धकारं ।
भावन् तपसा अभिभूय गंगपालो
नामेन अभिभाषे ब्रह्मदत्तं ॥
सांदृष्टिकं पश्यथ यावद् एवं
क्षान्तिसौरभ्यस्यिदं विपाकं ।
लोकस्य सदेवकस्य प्रव्रज्यं
देवान मनुजान वन्दनीयं ॥
अथ खलु राजा ब्रह्मदत्तो सार्धं अमात्यपारिषद्येहि तेषां ऋषीणां पादौ शिरसा वन्दित्वा एकान्ते निषीदे ॥
___तस्य दानि गंगपालस्य या गृहस्थभूतस्य भार्या अभूषि सापि पतिव्रता अन्यं पुरुषं मनसापि न प्रार्थयति ॥ तस्या गंगपालो जिज्ञासनार्थं दिव्येन रूपेण निर्मितेन सुवर्णभाजनम् आदाय उपसंक्रम्य प्रलोभयति इमं सौवर्णं भाजनं गृह्णाहि मया सार्धं परिचारेहि ॥ सा दानि आह ॥ न हि पतिव्रता अहन् ति ॥
[_म्वु_3.196_] सो दानि देवपुत्रो तं दिवसं प्रत्याचिक्षितो अपरं दिवसं रूप्यभाजनम् आदाय उपसंक्रान्तो इमं रूप्यभाजनं प्रतिगृह्णाहि मया च सार्धं परिचारेहि ॥ सा दानि आह ॥ न हि पतिव्रता अहन् ति ॥ तं पि दिवसं प्रत्याचिक्षितो अपरं दिवसं कांसभाजनम् आदाय उपसंक्रमे इमं कांसभाजनं प्रतिगृह्णाहि मयापि सार्धं प्रविचारेहि ॥ अथ खलु सा नारी तं देवपुत्रं गाथाये ध्यभाषे ॥
नारी नरो जिह्मये वारणेन
उत्कर्षये यत्र करोति च्छन्दं ।
विप्रत्यनीकं खलु देवतानां
प्रत्याख्यातो अल्पतरेण एष ॥
अथ खलु देवपुत्रो तां नारीं गाथाये प्रत्यभाषे ॥
आयुं च वर्णं च मनुष्यलोके
प्रहीयते मनुजानां सुगात्री ।
तेनैव वर्णेन धनं पि अर्ज्यं
परिहीयसे जीर्णतरासि अद्य ॥
भगवान् आह ॥ स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन उपको नाम ऋषि अभूषि । न खल्व् एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । अहं स उपको नाम तदा ऋषि अभू ॥ नान्यः स ब्रह्मदत्तराजा । एष शुद्धोदनस् तदा ब्रह्मदत्तो काशिराजा अभूषि ॥ नान्यो भिक्षवस् तदा गंगपालो नाम नापितो
[_म्वु_3.197_] ऋषिप्रव्रजितो भूद् एष उपालिस् तदापि एतस्य हीनजात्यस्य मम आगम्य सराजिकाय परिषाय पादा वन्दिता एतरहिं पि एतस्य हीनजात्यस्य ममागम्य सराजिकाय परिषाय पादा वन्दिता ॥
_____समाप्तं उपालिगंगपालानां जातकं ॥
___भिक्षू भगवन्तम् आहंसुः ॥ पश्य भगवन् कथं भगवता प्रव्रजितेन महान्तो जनकायो अनुप्रव्रजितो ॥ भगवान् आह ॥ न भिक्षवो एतरहिम् एव मया प्रव्रजन्तेन महाजनकायो अनुप्रव्रजितो ॥ भिक्षू आहंसुः ॥ अन्यदापि भगवं ॥ भगवान् आह ॥ अन्यदापि भिक्षवो ॥
___भूतपूर्वं भिक्षवो अतीमध्वाने राजा दिशांपती नाम अभूषि महागोविन्दीयं सूत्रं विस्तरेण व्याकरोति ॥
___भग्वान् सम्यक्संबुद्धो यद् अर्थं समुदागतो तम् अर्थम् अभिसंभावयित्वा राजगृहे विहरति गृद्धकूटे पर्वते शास्ता देवानां च मनुष्याणां च सत्कृतो गुरुकृतो मानितो पूजितो अपचितो विस्तरेण कर्तव्यं निदानं याव चेतोवशिप्राप्ता च बुद्धा भगवन्तो येहि येहि विहारेहि आकांक्षन्ति तेहि तेहि विहारेहि विहरन्ति ॥ अथ खलु पंचशिखो गन्धर्वपुत्रो अभिक्रान्तवर्णो अभिक्रान्तकायो रात्रीयं केवलकल्पं गृद्धकूटं पर्वतं वर्णेन ओभासयित्वा येन भगवान्स् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थासि एकम् अन्तस्थितो भगवन्तम् एतद् उवाच ॥ आरोचेम् अहं भदन्त
[_म्वु_3.198_] भगवतो प्रतिवेदेम् अहं भदन्त भगवतो यं मया त्रयस्त्रिंशानां देवानां शक्रस्य च देवानाम् इन्द्रस्य महाब्रह्मणो च सुधर्मायां देवसभायां सन्निषण्णानां संमुखाच् छ्रुतं संमुखात् प्रतिगृहीतं भाषमाणानां ॥ एवम् उक्ते पंचशिखं गंधर्वपुत्रं भगवान् एतद् उवाच ॥ आरोचेहि मे त्वं पंचशिख प्रतिवेदेहि मे त्वं पंचशिख यं त्वया त्रयस्त्रिंशानां देवानां शक्रस्य च देवानाम् इन्द्रस्य महाब्रह्मणो च संमुखाच् छ्रुतं संमुखात् प्रतिगृहीतं भाषमाणानां ॥ एवम् उक्ते पंचशिखो गंधर्वपुत्रो भगवंतम् एतद् अवोचत्* ॥ एकम् इदं भगवन् समयं त्रयस्त्रिंशा देवा शक्रो च देवानाम् इन्द्रो महाब्रह्मा च सुधर्मायां देवसभायां सन्निषण्णा अभून्सुः संनिपतिता केनचिद् एव देवानां करिणीयेन ॥ तत्र च भगवं एके देवपुत्रा पश्चाद् उपपन्ना समाना अन्यां पूर्वोपपन्नं देवपुत्रां दिव्येहि पंचहि स्थानेहि अभिभवन्ति आयुषापि बलेनापि यशेनापि श्रियापि परिवारेणापि ॥ एके देवपुत्रा एवम् आहंसुः ॥ इमं तावत्* मारिष पश्यथ पश्चाद् उपपन्ना अन्यां पूर्वोपपन्नां देवपुत्रां दिव्येहि पंचहि स्थानेहि अभिभवन्ति आयुषापि बलेनापि यशेनापि श्रियापि परिवारेणापि ॥ तत्र भगवं एके देवपुत्रा एवम् आहन्सुः ॥ एते खलु मारिष भगवतो श्रावका भवन्ति । ब्रह्मचर्यं चरित्वा कायस्य भेदात् परं मरणात् सुगतिं स्वर्गं त्रायस्त्रिंशे देवनिकाये उपपन्नास् ते । एते पश्चाद् उपपन्ना अन्यां पूर्वोपपन्नां देवपुत्रां दिव्येहि पंचहि स्थानेहि अतीव शोभन्ति आयुषापि [वर्णेनापि] बलेनापि यशेनापि श्रियापि परिवारेणापि ॥ तत्र भगवन्* एकेत्रादेवपु एवम् आहन्सुः ॥ अहो पुन मारिष चत्वारस् तथागता अर्हन्तः सम्यक्संबुद्धा लोके
[_म्वु_3.199_] उत्पद्येन्सुः सर्धं च देशयेन्सुः हितम् अस्याद् देवानां हितं मनुष्याणां हायेन्सुः आसुरा काया दिव्या काया अभिवर्धयेन्सुः ॥ तत्र च भगवं एके देवपुत्रा एवम् आहन्सुः ॥ दुल्लभो मारिष चतुर्णा तथागतानाम् अर्हतां सम्यक्संबुद्धानां लोके प्रादुर्भावः । अहो पुनर् मार्ष त्रयस् तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पद्येन्सुः धर्मं च देशयेन्सुः हितम् अस्याद् देवानां हितं मनुष्याणां च हायेन्सुः आसुरा काया दिव्या काया अभिवर्धयेन्सुः ॥ तत्र भगवन्* एके देवपुत्रा एवम् आहन्सुः ॥ दुल्लभो मारिष त्रयाणां तथागतानां अर्हतां सम्यक्संबुद्धानां लोके प्रादुर्भावः । अहो पुनर् मार्ष दुवे तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पद्येन्सुः धर्मं च देशयेन्सुः हितम् एव स्याद् देवानां हितं मनुष्याणां हायेन्सुः आसुरा काया दिव्या काया अभिवर्धेन्सुः ॥ एवम् उक्ते भगवं शक्रो देवानाम् इन्द्रस् त्रयस्त्रिंशकां देवान् आमन्त्रयति ॥ अस्थानं खल्व् एतं मारिष अनवकाशं यद् एककाले द्वौ तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पद्येन्सुः धर्मं देशयेन्सुः ॥ एवम् उक्ते त्रयस्त्रिंशा देवाः तुष्टा हृष्टा अभून्सुः आत्तमनाः प्रमुदिता प्रीतिसौमनस्यजाताः ॥
___अथ खलु भगवं शक्रो देवानाम् इन्द्रस् त्रायस्त्रिंशकां देवां तुष्टां हृष्टां आत्तमनां प्रमुदितां प्रीतिसौमनस्यजातां विदित्वा आमन्त्रयति ॥ सचेद् धि यूयं मारिष तस्य
[_म्वु_3.200_] भगवतो र्हतः सम्यक्संबुद्धस्य अष्टाव् आश्चर्याद्भुतां धर्मां श्रुणेथ अथ यूयं पि भवेथ भूयस्या मात्रया तुष्टा हृष्टा आत्तमना प्रमुदिता प्रीतिसौमनस्यजाता ॥ एवम् उक्ते भगवंस् त्रायस्त्रिंशाश् च देवास् तं शक्रं देवानाम् इन्द्रम् एतद् अवोचत्* ॥ तेन हि मारिष कौशिक प्रतिभातु ते तस्य भगवतो अर्हतः सम्यक्संबुद्धस्याष्टाव् आश्चर्याद्भुतां धर्मान् उदाहर ॥ अथ खलु शक्रो देवानाम् इन्द्रो भगवतो अष्टाव् आश्चर्याद्भुतां धर्मां भाषे ॥ यदा खलु मारिष भगवान् अर्हं सम्यक्संबुद्धो लोके उत्पन्नो हायन्ति आसुराः काया दिव्या काया अभिवर्धन्ति ॥ एवं च बहुजनहिताय प्रतिपन्नं पुनर् मारिष शास्तारं लोके उत्पन्नं नैवातीतं वा समनुपश्यामि नैतरहिं वा प्रत्युत्पन्नं अन्यत्रैव भगवता अर्हता सम्यक्संबुद्धेन ॥ स्वाख्यातो खलु पुनर् मारिष तथागतस्यार्हतः सम्यक्संबुद्धस्य धर्मविनयः सांदृष्टिक आकालिको एहिपश्यिकः औपनयिकः प्रत्यात्मवेदयितव्यः विज्ञैः यम् इदं मदनिर्मदनं पिपासाप्रतिविनयो आलयसमुद्घातो धर्मोपच्छेदो तृष्णाक्षयो विरागो निरोधो निर्वाणं एवं स्वाख्यातं धर्मविनयं । न पुनः मारिष शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नैतरहिं प्रत्युत्पन्नं अन्यत्रैव तेन भगवतार्हता सम्यक्संबुद्धेन ॥ लाभी खलु पुनर् मारिष भगवां अर्हं सम्यक्संबुद्धो श्रावकानां शैक्षाणां प्रतिपदं अर्हतां च अकोप्यधर्माणां ॥ तेषाम् अपि च स भगवां अर्हं सम्यक्संबुद्धो प्रनुद्य आरण्यकानि शय्यासनान्य् अध्यावसति प्रान्तानि विविक्तानि गतजनपदानि मनुष्यरहसेय्यकानि प्रतिसंलयनसारोप्यानि एको गणाद् व्यपकृष्टो
[_म्वु_3.201_] पकृष्टो एको नाम एकनामनामताम् अनुयुक्तो । एवम् एकनामताम् अनुयुक्तं पुनर् मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नैतरहिं प्रत्युत्पन्नं अन्यत्रैव तेन भगवतार्हता सम्यक्संबुद्धेन ॥ लाभी खलु पुनर् मार्षा भगवां अर्हा सम्यक्संबुद्धो प्रणीतानां खादनीयभोजनीयानां ऋजुरसानां प्रत्यग्ररसानां । तेषाम् अपि च स भगवान् अर्हं सम्यक्संबुद्धो आहारम् आहरेति । अनध्यवसितो अनधिमूर्च्छितो आदीनवदर्शावी निःसरणप्रज्ञः कामेषु विगतमदो आहारम् आहरति । एवं विगतमदं आहारम् आहरन्तं च पुनः मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नैतरहिं प्रत्युत्पन्नं अन्यत्रैव तेन भगवतार्हता सम्यक्संबुद्धेन ॥ अभिज्ञाय खलु पुनर् मार्षा स भगवान् अर्हा सम्यक्संबुद्धो श्रावकाणां धर्मं देशयति नानभिज्ञाय । एवम् अभिज्ञाय । एवम् अभिज्ञाय धर्मदेशनाप्रतिपदासंपन्नं च पुनः मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नैतरहिं प्रत्युत्पन्नं अन्यत्रैव तेन भगवतार्हता सम्यक्संबुद्धेन ॥ तीर्णविचिकित्सः खलु पुनर् मार्षा स भगवान् अर्हा सम्यक्संबुद्धो विगतकथंकथो वैशारद्यप्राप्तः कुशलेषु धर्मेषु । एवं तीर्णविचिकित्सं च पुनः मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नाप्य् एतरहिं प्रत्युत्पन्नं अन्यत्रैव तेन भगवता तथागतेनार्हता सम्यक्संबुद्धेन ॥ संस्यन्दति खलु पुनः मार्षा तस्य भगवतः अर्हतः संयक्संबुद्धस्य निर्वाणं निर्वाणगामिनी च प्रतिपदा सय्यथापि नाम मार्षा गंगोदकं च जमुनोदकं च संस्यन्दमानं संस्यन्दति महासमुद्रे एवम् एव मार्षा तस्य भगवतः सम्यक्संबुद्धस्य संस्यन्दति निर्वाणं च निर्वाणगामिनी च प्रतिपदा । एवं सुदेशितसुप्रज्ञप्तनिर्वाणगामिनीप्रतिपदासंपन्नं
[_म्वु_3.202_] च पुनर् मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नाप्य् एतरहिं प्रत्युत्पन्नं अन्यत्रैव तेन भगवता तथागतेनार्हता सम्यक्संबुद्धेन ॥
___एवम् उक्ते भगवं भूयस् त्रायस्त्रिंशा देवा भूयस्या मात्रया तुष्टहृष्टा आत्तमना प्रमुदिताः प्रीतिसौमनस्यजाताः शक्रं देवानाम् इन्द्रम् आमन्त्रयन्ति ॥ तेन हि मार्षा कौशिक पुनर् एवं प्रतिभातु ते तस्य भगवतो ऽर्हतः सम्यक्संबुद्धस्य पुनर् एवाष्टाव् आश्चर्याद्भुतां धर्मां ॥ अभ्युदाहरे खलु शक्रो देवानाम् इन्द्रो भगवतः पुनर् एवाष्टाव् आश्चर्याद्भुतां धर्मां ॥ यदा खलु पुनर् मार्षा स भगवान् अर्हा सम्यक्संबुद्धो लोके उत्पन्नः हायन्ति आसुरा काया दिव्या काया अभिवर्धन्ति । एवं बहुजनहिताय प्रतिपन्नं एवं बहुजनसुखाय प्रतिपन्नं च पुनर् मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नाप्य् एतरहिं प्रत्युत्पन्नं अन्यत्रैव तेन भगवता अर्हता सम्यक्संबुद्धेन । एवं पेयालं यावत् संस्यन्दति खलु पुनर् मार्षा तस्य भगवतः सम्यक्संबुद्धस्य निर्वाणं च निर्वाणगामिनी च प्रतिपदा । सय्यथापि नाम मार्षा गंगोदकं च जमुनोदकं च संस्यन्दमानं संस्यन्दति महासमुद्रे एवम् एव मार्षा तस्य भगवतो र्हतो सम्यक्संबुद्धस्य निर्वाणं च निर्वाणगामिनी च प्रतिपदा । एवं सुदेशितसुप्रज्ञप्तनिर्वाणधर्मदेशनाप्रतिपन्नं च पुनर् मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नाप्य् एतरहिं प्रत्युत्पन्नं अन्यत्रैव तेन भगवतार्हता सम्यक्संबुद्धेन ॥ एवम् उक्ते त्रयस्त्रिंशा देवा भूयस्या मात्रया हृष्टा आत्तमनाः प्रमुदिताः प्रीतिसौमनस्यजाताः ॥
___अथ खलु भगवन् महाब्रह्मा त्रयस्त्रिंशां देवां भूयस्या मात्रया हृष्टां आत्तमनां प्रीतिसौमनस्यजातां विदित्वा शक्रं देवानाम् इन्द्रम् एतद् अवोचत्* ॥ तेन हि मार्ष कौशिक
[_म्वु_3.203_] प्रतिभातु ते एतस्य भगवतो र्हतः सम्यक्संबुद्धस्य पुनर् एवाष्टाव् आश्चर्याद्भुतां धर्मां ॥ अभ्युदाहरे खलु शक्रो देवानाम् इन्द्रो भगवतः पुनर् एवाष्टाव् आश्चर्याद्भुतां धर्मां ॥ यदा खलु पुनः मार्षा स भगवांस् तथागतो र्हं सम्यक्संबुद्धो लोके उत्पन्नो हायन्ति आसुरा काया दिव्याः काया अभिवर्धन्ति ॥ एवं बहुजनहितसुखाय प्रतिपन्नं च मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नाप्य् एतरहिं प्रत्युत्पन्नं अन्यत्रैव तेन तथागतेनार्हता सम्यक्संबुद्धेन । एवं पेयालं यावत् संस्यन्दति खलु पुनर् मार्षाः तस्य भगवतो र्हतः सम्यक्संबुद्धस्य निर्वाणं च निर्वाणगामिनी च प्रतिपदा । सय्यथापि नाम मार्षा गंगोदकं च यमुनोदकं च संस्यन्दमानं संस्यन्दति महासमुद्रे एवम् एव मार्षा तस्य भगवतो र्हतः सम्यक्संबुद्धस्य निर्वाणं च निर्वाणगामिनी च प्रतिपदा । एवं सुदेशितसुप्रज्ञप्तनिर्वाणधर्मदेशनाप्रतिपन्नं च पुनर् मार्षा शास्तारं लोके उत्पन्नं नैवातीतं समनुपश्यामि नाप्य् एतरहिं प्रत्युत्पन्नं अन्यत्रैव तेन भगवतार्हता सम्यक्संबुद्धेन ॥ एवम् उक्ते त्रयस्त्रिंशा देवा भूयस्या मात्रया हृष्टा आत्तमनाः प्रीतिसौमनस्यजाता अभून्सुः ॥
___अथ भगवन् महाब्रह्मा त्रयस्त्रिंशां देवां भूयस्या मात्रया हृष्टां आत्तमनां प्रमुदितां प्रीतिसौमनस्यजातां विदित्वा गाथाभिर् अध्यभाषि ॥
मोदंति भो पुनर् देवाः त्रयस्त्रिंशा सशक्रकाः ।
तथागतं नमस्यन्ता धर्मस्य सुखधर्मता ॥
ततश् च देवता प्रमुदिता प्रीतिसौमनस्यजाता ॥
[_म्वु_3.204_]___अथ खलु भगवं महाब्रह्मा त्रयस्त्रिंशान् देवां भूयस्या मात्रया हृष्टां प्रमुदितां प्रीतिसौमनस्यजातां विदित्वामन्त्रयेसि ॥ सचेद् धि यूयं मार्षास् तस्य भगवतो ऽर्हतः सम्यक्संबुद्धस्य दीर्घरात्रं महाप्रज्ञप्तिं शृणोथ शुद्धा यूयं भवेथ भूयस्या मात्रया हृष्टा आत्तमनाः प्रमुदिताः प्रीतिसौमनस्यजाताः ॥ एवम् उक्ते भगवं त्रयस्त्रिंशा देवा महाब्रह्माणम् एतद् अवोचत्* ॥ तेन हि मार्ष महाब्रह्म प्रतिभातु ते तस्य भगवतो र्हतः सम्यक्संबुद्धस्य दीर्घरात्रं महाप्रज्ञप्तिं । अभ्युदाहरे खलु महाब्रह्मा भगवतो दीर्घरात्रं महाप्रज्ञप्तिं ॥
___भूतपूर्वं भवन्तो तीतम् अध्वानं राजा दिशांपती नाम अभूषि ॥ राज्ञः खलु पुनर् भवन्तो दिशांपतिस्य गोविन्दो नाम ब्राह्मणो अभूषि पुरोहितः राजाचार्यो पण्डितो निपुणो मेधावी तेषु तेष्व् अर्थेषु ॥ राज्ञः खलु पुनर् भवन्तो दिशांपतेः पुत्रो रेणुर् नाम अभूषि प्रियो मनापो पण्डितो निपुणो मेधावी तेषु तेष्व् अर्थेषु ॥ गोविन्दस्य खलु पुनर् भवन्तो ब्राह्मणस्य ज्योतिपालो नाम माणवको अभूषि एकपुत्रको प्रियो मनापः पण्डितः निपुणः मेधावी तेषु तेष्व् अर्थेषु ॥ अथ खलु पुनर् भवन्तो दीर्घस्याध्वनो त्ययेन गोविन्दो ब्राह्मणः कालम् अकार्षीत्* ॥ अथ खलु पुनर् भवन्तो राजा दिशांपतिः गोविन्दे ब्राह्मणे कालगते शोचति क्लाम्यति परिदेवति उरस्ताडं क्रन्दति सम्म्मोहम् आपद्यति ॥ हंभो यस्मिं दानि वयं समये गोविन्दस्य अर्थार्थानि सम्यग् निर्यातयित्वा पंचहि कामगुणेहि समर्पिता समंगीभूता क्रीडाम रमाम परिचारेम तस्मिं समये गोविन्दो ब्राह्मणः कालगतो ति ॥ अश्रोषीत् खलु भवन्तो
[_म्वु_3.205_] रेणुकुमारो राजा किल दिशांपतिर् गोविन्दे ब्राह्मणे कालगते शोचते क्लाम्यति परिदेवति उरस्ताडं क्रन्दति संमोहम् आपद्यति ॥ अथ खलु भवन्तो रेणुकुमारो येन राजा दिशांपतिस् तेनोपसंक्रमित्वा राजानं दिशांपतिम् एतद् अवोचत्* ॥ मा महाराज शोच मा क्लाम्य मा परिदेव मा उरस्ताडं क्रन्द मा संमोदम् आपद्य । तत् कस्य हेतोः । अस्ति महाराज गोविन्दस्य ब्राह्मणस्य ज्योतिपालो नाम माणवको पुत्रो प्रियो मनापः पण्डितो निपुणो मेधावी तेषु तेष्व् अर्थेषु पितुः पण्डिततरो निपुणतरो व्यक्ततरश् च । यं पि च पिता किंचित् संजानाति सर्वं ज्योतिपालेन माणवकेन रहो न्वभ्यस्तं ॥ तं महाराजा स्वके पैतृके स्थाने स्थापयतु यद् इदं पौरोहित्ये गोविन्दिये ॥
___अथ खलु भवन्तो राजा दिशांपतिर् अन्यतरं पुरुषम् आमन्त्रयति ॥ एहि त्वं पुरुष येन ज्योतिपालो माणवकस् तेनोपसंक्रमित्वा ज्योतिपालं माणवकम् एवं वदेहि ॥ राजा दिशांपतिर् भवन्तं ज्योतिपालम् आमन्त्रयति । उपसंक्रमतु भवां ज्योतिपालो येन राजा दिशांपतिः ॥ साधु महाराज त्ति स पुरुषो दिशांपतिराजस्य श्रुत्वा येन ज्योतिपालो माणवकस् तेनोपसंक्रमित्वा तं ज्योतिपालम् एतद् अवोचत्* ॥ राजा दिशांपतिर् भवन्तं ज्योतिपालम् आमन्त्रयति उपसंक्रमतु भवां ज्योतिपालो येन राजा दिशांपतिः गोविन्दे ब्राह्मणे कालगते ॥ साधु भवन् ति ज्योतिपालो माणवो तस्य पुरुषस्य प्रतिश्रुत्वा येन राजा दिशांपतिस् तेनोपसंक्रमित्वा राज्ञा दिशांपतिना सार्धं
[_म्वु_3.206_] संमोदनीयां कथां संमोदयित्वा सारायणीयां कथां व्यतिसारयित्वा एकान्ते निषीदि ॥ एकान्ते निषण्णं ज्योतिपालं माणवं राजा दिशांपतिर् एतद् अवोचत्* ॥ ओवदतु मे भवां ज्योतिपालो अनुशासतु मे भवां ज्योतिपालो मा च भवां चिरायतु अस्माकं ओवादानुशासनीये । एते च वयं भवन्तं ज्योतिपालं स्वके पैतृके स्थाने स्थापेम यद् इदं पौरोहित्ये गौविन्दीये ॥ अथ खलु भवन्तो ज्योतिपालो माणवः स्वके पैतृके स्थाने स्थापितो पौरोहित्ये गोविन्दीये यद् अप्य् अस्य पिता कर्म कारापयति तद् अपि कर्म कारापयति यद् अप्य् अस्य पिता कर्मान्तानि अभिसंभुणोति तां पि ज्योतिपालो माणवो कर्मान्तां अभिसंभुणोति यद् अप्य् अस्य पिता अर्थार्थं समनुशासति तं ज्योतिपालो माणवो अर्थार्थं समनुशासति यद् अप्य् अस्य पिता अर्थार्थं अभिसंभूणोति तद् अपि ज्योतिपालो माणवो अर्थार्थम् अभिसंभुणोति ॥ अपि हि जितं ब्राह्मणगृहपतिनो नैगमजानपदा एवम् आहन्सुः ॥ गोविन्दो पुनर् भवन्तो ज्योतिपालो माणवो महागोविन्दो ज्योतिपालो इति ॥ अपि हि जितं ज्योतिपालस्य माणवकस्य गोविन्दो महागोविन्दो ति एवम् अक्षरम् अग्निन्यं उपनिपते ॥
___अथ खलु भवन्तो महागोविन्दो ब्राह्मणो येन ते क्षत्रियास् तेनोपसंक्रमित्वा तेषां क्षत्रियाणाम् एतद् उवाच ॥ एन्तु भवन्तो एन्तु भवन्तो येन रेणुकुमारस् तेनोपसंक्रमित्वा रेणुं कुमारम् एवं वदेथ ॥ यंसुखी भवां रेणुः तंसुखी वयम् अपि यंदुःखी भवान् रेणुः तंदुःखी वयम् अपि । अयं भो रेणु राजा दिशांपति जीर्णो वृद्धो महल्लको अध्वगतो वयम् अनुप्राप्तो दुर्जयं खलु पुनः तं भो रेणु यम् इदं जीवितं मरणान्तं ॥
[_म्वु_3.207_] सचेद् धि भो रेणु राज्ञो दिशांपतेर् अत्ययन राजकर्तारो भवन्तं रेणुं राज्येनाभिषिंचिष्यन्ति शक्ष्यति भवां रेणु अस्माकम् अपि राज्येन संभजितुं ॥ एवम् उक्ते भगवां रेणुकुमारो षट् क्षत्रियान् एतद् अवोचत्* ॥ सचेत्* मां भवन्तो राज्ञो दिशांपतेर् अत्ययेन राजकर्तारो राज्येनाभिषिंचिष्यन्ति संविभजिष्याम्य् अहं भवन्तो राज्येन ॥ अथ कोचि दानि अस्माकं राज्ये अन्यो नाप्य् एवं सुखम् एधिष्यति अन्यत्रैव भवद्भिः ॥
___अथ खलु भवन्तो दीर्घस्याध्वनो त्ययेन राजा दिशांपतिः कालम् अकार्षीत्* ॥ अथ खलु भवन्तो राजकर्तारो येन रेणुकुमारस् तेनोपसंक्रमित्वा रेणुकुमारम् एतद् उवाच ॥ राज्यं सि कुमार प्राप्तो राज्येन त्वाम् अभिषिंचाम ॥ एवम् उक्ते भवन्तो रेणुः कुमारो तां राजकर्तारां एतद् अवोचत्* ॥ तेन हि भवन्तो सुखी भवथ यस्येदानि कालं मन्यथ ॥ अथ खलु स रेणुराजा राज्येनाभिषिक्तो पंचहि कामगुणेहि समर्पितः समंगीभूतः क्रीडति रमति परिचारयति ॥ अथ खलु भवन्तो महागोविन्दो ब्राह्मणो येन ते षट् क्षत्रिया तेनोपसंक्रमित्वा तान् षट् क्षत्रियान् एतद् अवोचत्* ॥ एन्तु भवन्तो अयं हि भवन्तो रेणुराजा राज्येनाभिषिक्तो पंचहि कामगुणेहि समर्पितो समंगीभूतो क्रीडति रमति परिचारयति कामा च नाम एते भवन्तो मदनीया ॥ एन्तु भवन्तो येन रेणुराजा तेनोपसंक्रमित्वा रेणुं राजानम् एवं वदेथ । स्मरति भवां रेणु तं वचनं ॥ साधु भवन्ति एते षट् क्षत्रिया महागोविन्दस्य ब्राह्मणस्य प्रतिश्रुत्वा येन रेणुराजा तेनोपसंक्रमित्वा रेणुं राजानम् एतद् अवोचत्* ॥
[_म्वु_3.208_] स्मरति भवां रेणु तं वचनं ॥ एवम् उक्त भवन्तो रेणुराजा तां षट् क्षत्रियान् एतद् अवोचत्* ॥ स्मराम्य् अहं भवन्तो तं वचनं । अथ को पि दानिम् इमां महापृथिवीं सप्तधा भाजयिष्यति ॥ एवम् उक्ते भवन्तो षट् क्षत्रिया रेणुं राजानम् एतद् उवाच ॥ अथ को हि दानि भो रेणु तेन भगवता महागोविन्देन अन्यो पण्डिततरो वा व्यक्ततरो वा य इमां महापृथिवीं सप्तधा भाजयिष्यति ॥ अथ खलु भवन्तो रेणुराजा अन्यतरं पुरुषम् आमन्त्रयति ॥ एहि त्वं भो पुरुष येन महागोविन्दो ब्राह्मणस् तेनोपसंक्रमित्वा महागोविन्दं ब्राह्मणं एवं वदेहि । राजा रेणुर् भगवन्तं महागोविन्दम् आमन्त्रयति ॥ साधु महाराजेति स पुरुषो रेणुस्य राज्ञः प्रतिश्रुत्वा येन महागोविन्दो ब्राह्मणस् तेनोपसंक्रमित्वा महागोविन्दं ब्राह्मणम् एतद् उवाच ॥ राजा रेणुर् भगवन्तं महागोविन्दं आमन्त्रयति । उपसंक्रमतु भवां महागोविन्दो येन राजा रेणुः ॥ साधूति महागोविन्दो ब्राह्मणः तस्य पुरुषस्य प्रतिश्रुत्वा येन रेणुराजा तेनोपसंक्रमित्वा रेणुना राज्ञा सह संमोदनीयां कथां संमोदयित्वा सारायणीयां कथां व्यतिसारयित्वा एकान्ते निषीदि ॥ एकान्ते निषण्णो महागोविन्दो ब्राह्मणो रेणुं राजानम् एतद् उवाच ॥ इमा भवन्तो महापृथिवी सप्तराज्यविस्तीर्णा ॥
दक्षिणेन संक्षिप्ता शकटमुखसंस्थितं ।
अण्डमध्यमं रेणुस्य राज्ञः आसि अतः पुरं ॥
कलिंगानां च अस्मकानां यो . . . . . . . ।
माहिष्मती च . . . . . सौवीराणां च रोरुकं ॥
[_म्वु_3.209_] मिथिलां च विदेहानां . . . अंगेषु मापये ।
वाराणसीं च काशिषु एतं गोविन्दमापितं ॥
अथ खलु भवन्तो गोविन्दो ब्राह्मणस् तां षट क्षत्रियां स्वकस्वकेषु राज्येषु प्रतिष्ठापये ॥
___अचिराभिषिक्ता च षड् राजानः क्षिप्रम् एवं संनिपतिता येन महागोविन्दो ब्राह्मणस् तेनोपसंक्रमित्वा महागोविन्दं ब्राह्मणम् एतद् अवोचत्* ॥ ओवदतु मो भवां महागोविन्दो अनुशासतु मो भवां महागोविन्दो यथा च भवां महागोविन्दो रेणुस्य राज्ञः अर्थार्थानि समनुशासति तथा इमेषु षट्सु राज्येषु अर्थार्थानि समनुशासतु ॥ तेन खलु पुनस् समयेन महागोविन्दो ब्राह्मणः सप्तानां राज्ञां अर्थार्थानि समनुशासति । सप्त च ब्राह्मणशतसहस्राणि मन्त्रां वाचेति सप्त च स्नातकशतानि मन्त्रां वाचेति । वदतो मे नुवदथ ॥
___अपि हि जितं ब्राह्मणगृहपतिनो नैगमजानपदा च महाभागं गोविन्दं ब्राह्मणं एवं संजानन्ति ॥ पश्यति आर्यो महागोविन्दो साक्षान् महाब्रह्माणं महाब्रह्मणा च पुनः सार्धं विज्ञेयं मन्त्रिय मन्त्रिय अर्थार्थानि समनुशासति ॥ अश्रोषीत् खलु भवन्तो महागोविन्दो ब्राह्मणो । मम किल ब्राह्मणगृहपतिनो नैगमजानपदा एवं संजानन्ति आर्यो महाभागो गोविन्दो साक्षात् पश्यति ब्रह्माणं महाब्रह्मणा च पुनः सार्धं चिन्तयति यान्य् अर्थार्थानि समनुशासति । न खलु पुनर् अहं पश्यामि साक्षात
[_म्वु_3.210_] महाब्रह्माणं न पुनर् अहं महाब्रह्मणा सार्धं विज्ञेयं मन्त्रिय मन्त्रिय अर्थार्थानि समनुशासामि ॥ न खलु पुनर् मे तत् साधु न प्रतिरूपं यम् अहं अभूतं असन्तं वर्णं अधिवासयेयं ॥ श्रुतं खलु पुनर् मे तं पौराणानाम् आचार्याणां प्रवयानां जीर्णानां वृद्धानां महल्लकानां अध्वगतवयम् अनुप्राप्तानां संमुखाद्भाषमाणानां । यो चत्वारि वार्षिकां मासां प्रतिसंलीनो करुणं ध्यानं ध्यायति तं साक्षात्* महाब्रह्मा उपसंक्रमति यश् चास्यार्थो अभिप्रेतो भवति तं वास्य पृच्छितेन विसर्जियति । यं नूनाहं चत्वारि वार्षिकानि मासानि प्रतिसंलीनः करुणं ध्यानं ध्यायेयं सचे तं भगवां रेणु अनुजानाति ॥ एवम् उक्ते भवन्तो रेणुराजा महागोविन्दं ब्राह्मणम् एतद् उवाच ॥ तेन हि भो महागोविन्द सुखीभव यस्य व कालं मन्यसीति ॥
___अथ खलु भवन्तो महागोविन्दो चत्वारि वार्षिकां मासां प्रतिसंलीनः करुणं ध्यानं ध्याये ॥ अथ खलु भवन्तो महागोविन्दो ब्राह्मणो चतुर्णां वार्षिकानां मासानां अत्ययेन तदहो पोषधेयं चतुर्दश्यां पौर्णमास्यां शीर्षस्नातो आहतवस्त्रशुचिवस्त्रनिवस्तो अन्तरा च वेदिं अन्तरा चाग्निं स्नातशरीरो पट्टशिलायां आज्यानुलेपनायां अनन्तरहितायां अग्निं प्रज्वालेत्वा श्राद्धानां गृहे निषीदे उत्तरामुखो ॥ अथ खलु भवन्तो नचिरस्यैव उत्तरातो दिशातो महतो आलोकस्य प्रादुर्भावो अभूषि ॥ अद्राक्षीत् खलु भवन्तो महागोविन्दो उत्तरातो दिशातो महतो आलोकस्य प्रादुर्भावं दृष्ट्वा च पुनर् आश्चर्याद्भुतं संविग्नरोमहृष्टजातो अभूषि यथापीदं अदृष्टपूर्वं दृश्यते ॥ अथ खलु भवन्तो महाब्रह्मा नचिरस्यैव उत्तरातो दिशातो वैहायसम् आगत्वा महागोविन्दस्य ब्राह्मणस्योपरिवैहायसम् अन्तरीक्षे अस्थासि ॥ अद्राक्षीत् खलु महागोविन्दो ब्राह्मणो ऊर्ध्वं उल्लोकेन्तो महाब्रह्माणं उपरिवैहायसम्
[_म्वु_3.211_] अन्तरीक्षे स्थितं दृष्ट्वा च पुनर् येन महाब्रह्मा तेनांजलिं प्रणामेत्वा महाब्रह्माणं गाथाये ध्यभाषति ॥
बलं वा यशं वा द्युति वा किन् तुवम् असि मारिष ।
अजानन्तो ते पृच्छामि कथं जानेम ते वयं ॥
एवम् उक्ते भवन्तो महाब्रह्मा महागोविन्दं ब्राह्मणं गाथाये प्रत्यभाषति ॥
यं कुमारो ति संजानन्ति ब्रह्मलोके सनातनं ।
देवा पि संजानंति एवं एवं गोविन्द जानथ ॥
एवम् उक्ते भवन्तो महागोविन्दो ब्राह्मणो महाब्रह्माणं गाथाये भाषति ॥
आसनं उदकं पाद्यं मधुरकल्पं च पायसं ।
प्रतिगृह्णेहि मे ब्रह्म अग्रं अभिहरामि ते ॥
अथ खलु भवन्तो महाब्रह्मा महाब्राह्मणं महागोविन्दं गाथाय प्रत्यभाषति ॥
मूल पाठ: Mahāvastu-avādana · Edition: Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)) · Data entry Emmanuel Fauré · GRETIL (Göttingen) · CC BY-NC-SA 4.0