भाषा

ENहिગુ
ग्रंथ पाठ

महावस्तु-अवादन · भाग 2140

क्रिणन्ति पुत्रदारेण एकगाथां सुभाषितां ।
. . . . . . . . . . . . . . . . . . . . . . . . . . .
साधुना बोधिसत्वेन राज्यं कारयता पुरा ।
. . . . . . . . . . . . . . . . . . . . . . . . . . .
वनगहनं बलगहनं गिरिगहनानि त्यागग्रहणानि ।
विषमाप्रतिसन्निषण्णवनानि तु मनुष्यगहनानि ॥
तृणगुल्मकण्ठकलताकुलानि वृक्षग्रहणा गहनानि ।
शठनिकृतिपैशुन्यानि तु मनुष्यगहनानि ॥
. . . . . . . . . . . . . . . . . . . . . . . . . . .
. . . . . . . . . . . . भण्डिना ब्रूहि ब्राह्मण ॥
[_म्वु_1.92_] . . . . . बोधिसत्वेन एका गाथा सुभाषिता ।
बोधिसत्वेन सा क्रीता परमार्थाभिकांक्षिणा ॥
अहितुण्डिकातो हस्तातो यत्नात् क्रीतं सुभाषितं ।
यावज् जीवन्ते अमुष्यां पेलायां दुष्कृतं कृतं ॥
ब्राह्मणो अभ्युपगम्य ऋषिदेवं नरेश्वरं ।
इदम् उवाच प्रीतात्मा अस्ति एषा सुभाषिता ॥
तस्य मूल्यं तव शीर्षं त्यक्त्वा शीर्षम् इत्य् अब्रवीत्* ।
ब्रूहि ब्राह्मण शीघ्रं मे गाथाम् एतां सुभाषितां ॥
यदि अपि किञ्चित् अशुभं समुदाचरन्ति
संबोधिसत्वचरितान्य् अभिकांक्षमाणाः ।
तैलप्रदीप इव सूर्यमरीचिच्छन्नः
न भ्राजते विपुलपुण्यबलाभिभूतं ॥
सुरूपं नाम भूमिपतिं राक्षसो इदम् अब्रवीत्* ।
अस्ति सुभाषिता गाथा क्रेया यदि क्रीणासि तां ॥
तस्या मूल्यं कुमारं च देवीं त्वां चैव भक्षयेत्* ।
गृह्यतां यदि ते कृत्यं गाथा हि धर्मसंहिता ॥
सो ऽब्रवीद् राजा सुरूपो निःसंगो धर्मगौरवात्* ।
गृह्यतां दीयतां गाथा युक्तं भवतु मा चिरं ॥
[_म्वु_1.93_] तत्रेमां गाथां सुभाषितां राक्षसो अब्रवीत्*
परिदेवितकंपनेषु अनिष्टसंयोगप्रियहीनेषु ।
उषितं नरकेषु वरं न च कुपुरुषसंश्रयनिकेतः ॥
अमात्यं संजयं नाम पिशाचो इदम् अब्रवीत्* ।
स्वकं मे हृदयं देहि शृणु गाथां सुभाषितां ॥
स्वकन् ते हृदयं देमि ब्रूहि गाथां सुभाषितां ।
पिशाचम् अब्रवीद् वीरो संजयो विगतव्यथो ॥
तत्रेमां गाथां सुभाषितां पिशाचो ऽब्रवीत्*
न जातु तृणकाष्ठेहि ज्वलनः शाम्यते ज्वलन्* ।
न जातु उपभोगेभ्यः तृष्णा कामेषु शाम्यति ॥
श्रेष्ठिं वसुन्धरं नाम दरिद्रो इदम् अब्रवीत्* ।
इयं सुभाषिता गाथा सर्वस्वेन तु दीयते ॥

बोधिसत्वो ऽब्रवीत्*
सर्वस्वं ददामि एषां ब्रूहि गाथां सुभषितां ।
एतं सन्तः प्रशंसन्ति धर्मेषु यत् सुभाषितं ॥
तत्रेमां गाथां सुभाषितां दरिद्रो ऽब्रवीत्* ॥
आकीर्णान्य् अपि शून्यानि बालिशा यत्र जन्तवः ।
[_म्वु_1.94_] शून्यान्य् आकीर्णा च सन्ति एकेनापि प्रजानता ॥
सुरूपं नाम राजानं पुरुषो एतद् अब्रवीत्* ।
जम्बुद्वीपेन मूल्येन शक्यं श्रोतुं सुभाषितं ॥
बोधिसत्व उवाच ॥
जम्बुद्वीपं च ते देमि सर्वं यत् किंचि इच्छसि ।
शीघ्रं सुभाषितं ब्रूहि ब्रूहि सत्यं यद् इच्छसि ॥
तत्रेमां गाथां सुभाषितां पुरुषो ऽब्रवीत्* ॥
अहंकारममकारा माना यत्र समुपस्थिता । {सेनर्त्: नाना}
मानं यत्र निरोधाय उत्पद्यन्ते तथागताः ॥
सत्वरं नाम हरिणं लुब्धक इदम् अब्रवीत्* ।
इयं सुभाषिता गाथा देहि मान्सं शृणोहि तां ॥
यदि विनाशधर्मेण मान्सेनाहं सुभाषितं ।
शृणोमि देमि ते मान्सं क्षिप्रं ब्रूहि सुभाषितं ॥
तत्रेमां सुभाषितां गाथां लुब्धको ऽब्रवीत्* ॥
सतां पादरजः श्रेयो न सुवर्णमयो गिरिः ।
सो पान्सु शोकहाराय सो गिरि शोकवर्धन इति ॥
[_म्वु_1.95_] राजानं नागभुजं नाम तद्दासो इदम् अब्रवीत्* ।
चातुर्द्वीपेन राज्येन शक्यं प्राप्तुं सुभाषितं ॥
बोधिसत्वो ऽब्रवीत्* ॥
चातुर्द्वीपं च ते राज्यं देमि क्षिप्रम् उदीरय ।
एतां सुभाषितां वाचां मा विलम्ब ब्रवीहि मे ति ॥
तत्रेमं श्लोकं सुभाषितं तद्दासो ऽब्रवीत्* ॥
लोमोत्पाटनतुल्यम् आहु विदुषः प्राज्ञस्य या विक्रिया
तस्मा ज्ञानबलं समेतिय पुनर् दोषां समूलां नया ।
छित्त्वा दोषविवर्जितेन मनसा संभाति संघः शुचिः
भाति लोकगुरुः सताम् अनुगतो ऽनिक्षिप्तभारो शुचिः इति ॥
एवं सुभाषितार्थाय प्रपाते पतितः पुनः ।
भूयः सुभाषितार्थाय पोतस् त्यक्तो महार्णवे ॥
भूयो अक्षीणि त्यक्तानि श्रुत्वा गाथां सुभाषितां ।
अग्निस्कन्धे पुनः पतितः श्रुत्वा गात्ःआं सुभाषितां ॥
बहूनि एवमादीनि दुष्कराणि जिनर्षभाः ।
सुभाषितानाम् अर्थाय प्रतिपद्यन्ते महायशा ॥
[_म्वु_1.96_] एवम् उक्ते आयुष्मान् महाकाश्यपः आयुष्मन्तं महाकात्यायनम् उवाच ॥ ये पुनर् भो जिनपुत्र बोधिसत्वाः तृतीयायां भूमौ वर्तन्ते कथं चतुर्थायां भूमौ विवर्तन्ति इति ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच ॥ चतुर्दशभिर् भो धुतधर्मधर आकारैर् बोधिसत्वाः तृतीयायां भूमौ वर्तमानाः चतुर्थायां भूमौ विवर्तन्ते ॥ कतमेहि चतुर्दशेहि ॥ अक्षवंकद्यूतक्रीडानुयोगम् अनुयुक्ताश् च भवन्ति । अत्यभीक्ष्णं विवेकं सेवन्ति । राज्यं च कारापयमाणा लोभेनाभिभूता अत्रान्तरविजितवासिनां सर्वस्वहारिणो भवन्ति । अपराधं च अननुयुज्या वधम् आक्षेपयन्ति । बध्यांश् च न संगोपायन्ति । पुरुषांश् च वध्रयन्ति । विप्रतिपन्नाश् च भवन्ति । न च भोगयात्रायां संविभजन्ति विद्यमानेषु विभवेषु । प्रव्रजित्वा च सम्यक्संबुद्धानां भाषतां वा बाहुश्रुत्यं न पर्याप्नुवन्ति । पुरा प्रणिधित्वा च बाहुश्रुत्यं न देशयन्ति । आमिषप्रतिबद्धांश् च सेवन्ति न धर्मप्रतिबद्धा । न चाभीक्ष्णं बुद्धवर्णं भाषन्ति । सम्यक्संबुद्धांश् च लोकसमताये देशेन्ति । न च सम्यक्संबुद्धां लोकोत्तरा इति बोधयन्ति ॥ इमेहि भो धुतधर्मधर चतुर्दशभिर् आकारैः बोधिसत्वाः तृतीयायां भूमौ वर्तमानाश् चतुर्थायां भूमौ विवर्तन्ति ॥ ये हि केचिद् भो धतुधर्मधर बोधिसत्वाः तृतीयायां भूमौ वर्तमानाः चतुर्थायां भूमौ विवर्तेन्सुः विवर्तन्ति विवर्तिष्यन्ति वा सर्वे ते इमेहि चतुर्दशेहिर् आकारैर् नातो भूय इति ॥
[_म्वु_1.97_]___एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच ॥ ये पुनर् भो जिनपुत्र बोधिसत्वा अवैवर्तिया प्रथमं चित्तम् उत्पादयन्ति बोधाय केवरूपेण सुखेन युज्यन्ति केवत्तकाश् च सत्वा सुखसातसंगता भवन्तीति ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिर् अध्यभाषि ॥
सर्वसत्व सुखसातसंगता

संभवन्ति यद् अचिन्त्यम् अद्भुतं ।
जायते यद मनो महर्षिणां
बोधिमार्गपरिभावनात्मकं ॥
सप्तरात्रम् इति निश्चयाश् च ये
ये पि ते निरयदारुणालया ।
ये च प्रेतभवनेषु प्राणिनो
ते भवन्ति सुखिताश् च नाम ॥
सप्तरात्रं न च्यवन्ति प्राणिनो
बोधिसत्वकुशलानुकंपया ।
क्षुभ्यते च वसुधा ससमुद्रा
सप्रभो भ्रमति मेरुमस्तकः ॥
भूमि सन्धिषु अयं प्रवर्तते
निश्चला नभसि नआत्र संशयः ।
तेषु सर्वशुभकर्मराशिनां
तेजसा भ्रमति सर्वसंततं ॥
[_म्वु_1.98_] अथ खलु नामतिदेवो नाम त्रायस्त्रिंशको बोधिसत्वो भूतो एकांसम् उत्तरासङ्गं कृत्वा येन भगवन्तो दृष्टो तेनांजलिं प्रणमय्य भगवन्तम् अभिस्तुतः संमुखं वशीभूतगणस्य इमैः श्लोकैः ॥
यस्य रूपं हेमाभासं तरुणरवि-अविहतवपुं विराजिततेजसा
द्वात्रिंशद्भिः पूर्णैः पूर्णं कुशलचरपुरुषकथितैः सुलक्षणलक्षणैः ।
शीलेनाग्र्यं संपूर्णाभं धरणिनगगुरुतरबलं बलोत्तमधारिणं
ते वन्दे शान्तं ते दान्तं . . . स्मृतिविनयकुशलं सुरासुरसत्कृतं ॥
दीर्घं कालं चित्राचारो कुशल अतिविपुलफलदो भवक्षयकांक्षया
श्लाघ्यैर् नानैः मैत्रीपूर्वैर् बहुविविधजनितकुशलैः शमाभिमुखो मुनिः ।
त्यक्त्वा आवासं नित्यं विद्वान् असुरसुरमहितं सुखितं सत्वप्रतिबोधने
इक्ष्वाकूनां वंशोद्भूतो धरणितलम् अवतरि यशःस्थितो अचलाधृतिः ॥
मायाया देव्याः कुक्षिस्मिं प्रविशिषु स कुमुदसदृशो वरो गजरूपवां
एवं . . . लोकालोकः तुषितवरभवननिलयं विहाय इहागतः ।
सत्वां मत्तां अन्धां दृष्ट्वा विमतिपथविषमपतितां समुद्धरितुं प्रजाः
[_म्वु_1.99_] तस्मिं काले रत्नाकीर्णा विविधनिधिनिचयभरिता चचाल वसुन्धरा
तं शाक्येन्द्रं चारित्राढ्यं स्मृतिनिभृतम् अधिगुणचितं अवन्दि महामुनिं ॥
प्रासादाग्रे देवी माया सुरपतिप्रवरभवने वा सुखैः प्रविचार्यते
नृत्यैर् गीतैर् लास्यैर् वाद्यैः श्रवणहृदिनयनसुभगैः सुरेष्व् इव देवता ।
सा देवी राजानं खिन्नं वदति वनवरं महिपते व्रजेयं यद्ऽ; इच्छसि
लुम्बोद्यानं पुष्पाकीर्णं मधुमधुरपरभृतरुतं मनोहृदिनन्दनं ॥
गत्वा तस्मिं स्त्रीभिः सार्धं प्रविचरति मुदितसुखिता वने वनलोलया
सा चोद्यानं पर्यण्वन्ती तरुणलतकिशलयधरां ददर्श ऽथ लुम्बिनीं । {सेनर्त्: ददर्शथ}
तस्याः शाखां . . . गृह्यान परमरतिसुखमुदिता सलील-अवस्थिता
सा तत्र शाखां रक्षन्ती जनयि जिनम् अजितमनसं महामुनिम् उत्तमं ॥
शीतोष्णे च द्वे वारिधारे प्रवरकुसुमभरिते जिनं यत्र स्नपयिंसु तं
देवा जायन्तं जातमात्रं नृपतिं सुरभुवनमहितं त्रिलोकमहेश्वरं ।
सानुक्रोशं लोकातीतं शरणम् इह दिवि च भुवि चा जरामरणान्तकं

अप्राप्तं तं भूमौ धीरं कमलदलसदृशनयनं सुरासुरनन्दनं ॥
हृष्टा तुष्टा देवा सर्वे त्रिदशप्रभृतिभवनच्युता प्रतिस्थिहिषुर् वनं
[_म्वु_1.100_] इक्ष्वाकूनां वंशोद्भूतो धरणितलम् अवतरि यशस्थितो अचलाधृति ।
विक्रमांश् च सप्त पूर्णं मृगवृषराजामतिर् इव रसमानीकं
ज्येष्ठो श्रेष्ठो लोकाग्रो हं न च मम पुन जरमरणा हतो भव्ऽ; उपद्रवः ॥
छत्रं दैवं रत्नाकीर्णं स्फटिकरुचिरकुसुमचित्रं सिताभ्रसितप्रभं
हस्ता मुक्तं स्थाये सामं समभिच्छदि नृपतितनयं विहायसे उत्थितं ।
वालैश् चोउग्रैः शंखाजाभैर् मृदुभिर् उपचितम् अनुपमं दिवौकसनिर्मितं
उच्चैर् दण्डं मुक्ताश्वेतं भ्रमति मणिकनकविकृतं सुचामरवीजनं ॥
दुन्दुभ्यो चा मेघोन्नादा पवनखगगगनपरिगा नदन्ति महत्स्वराः
पुष्पौघाश् चा दिव्या सृष्टा मरुभि जिनबलवरमुखे सचन्दनचूर्णिताः ।
संतोषातीशययुक्तेभिः सुरमरू जयति सुखकरो रसे रवणीशतैः
क्षुब्धासन्ना नानारत्ना उदधिभुवि तलसलिलयोस् तथागततेजसा इति ॥
_____इति श्रीमहावस्तु-अवदाने तृतीया भूमिः समाप्ता
[_म्वु_1.101_] एवम् उक्ते आयुष्मान् महाकाश्यपो आयुष्मन्तं महाकात्यायनम् उवाच ॥ ये पुनर् भो जिनपुत्र बोधिसत्वा अविवर्तिकताये सन्स्थिहन्ति केवत्तकानि कर्माणि अस्थानताये समुपचरन्ति इति ॥
ततः कात्यायनस्थवीरो जिनशास्त्रविशारदः ।
काश्यपं धुतधर्माणं गाथाभिर् अध्यभाषत ॥
यानि कर्माणि सेवन्ते बोधिसत्वा विजानथ ।
अस्थानताये न सेवन्ते यानि तानि विजानथ ॥
मातरं पितरं चैवाप्य् अरहन्तं तथैव च ।
जीविता न विरोपेन्ति बोधिसत्वा महायशाः ॥
संघं च ते न भिन्दन्ति न च स्तूपभेदका ।
न ते तथागते चित्तं दूषयन्ति कथंचन ॥
न ते पापानि सेवन्ते विपरीताये दृष्टिये ।
अल्पं कृतं न नाशेन्ति किं मम पुनर् यं बहुं ॥
संसरन्ता च संसारे न जातु दृष्टिपूर्वके ।
प्रतिरज्यन्ति धर्मार्थे पुण्ये वा ज्ञानपूर्वके ॥
यस्य वृक्षस्य छायायां सीदन्ति च शयन्ति च ।
न तस्य पत्रहिंसा च न घातेन्ति च रोषिताः ॥
दश कर्मपथां कुशलां सेवन्ति पुरुषोत्तमा ।
[_म्वु_1.102_] न च मन्त्रं प्रयोजेन्ति परस्य देहघातकं ॥
कर्मसंनिश्रिताः सन्तः कौतूहलविनिःश्रिताः ।
आपत्सु न विषीदन्ति न च मोदन्ति वृद्धिषु ॥
कायकर्म वचीकर्म मनोकर्म तथैव च ।
अध्याशयाश् च परिशुद्धाः दानपारमिता च या ॥
अष्टमीप्रभृतिं भूमीं गता ते अनिवर्तिया ।
एकांशेन शुभं कर्म सेवन्ति लोकपूजिताः ॥
प्रथमां च उपादाय भूमीं यावच् च सप्तमी ।
व्यामिश्रं कर्म सेवन्ति भूमीष्व् एतासु जनोत्तमा ॥
एवमादीनि कर्माणि सेवमाना महानराः ।

लोकानाम् अनुकंपार्थं पूरेन्ति भूमयो दशेति ॥
एवम् उक्ते आयुष्मां महाकाश्यपो आयुष्मन्तं महाकात्यायनम् उवाच ॥ ये पुनः भो जिनपुत्र बोधिसत्वा अवैवर्तिका सामन्ते पृथग्जनताये अपायां यान्ति आहोस्विदं नेति । सामन्ते पृथग्जनताये अवरावराश् च गतियो गच्छन्ति आहोस्विदं नेति ॥ एवम् उक्ते आयुष्मां महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच ॥ ये इमे भो धुतधर्मधर बोधिसत्वा अवैवर्तिकधर्मा ते सप्तसु भूमिषु न कथंचित् किञ्चित् कदाचित्* यदृच्छया निरयं पि गच्छन्ति तिर्यग्योनिं वा गच्छन्ति दरिद्रा वा भवन्ति
[_म्वु_1.103_] दुर्बला वा ॥ अथ खलु ब्राह्मणा भवन्ति प्रत्येकब्राह्मणा वा इन्द्राश् च उपेन्द्राश् च यक्षाधिपतयश् च यक्षाश् च नागाश् च नागराजानश् च गन्धर्वा गन्धर्वाधिपतयश् च चक्रवर्तिनश् च प्रादेश्याश् च राजानः अग्रामात्याश् च श्रेष्ठिनश् च जनपदप्रधानाश् च राजपुत्राश् च श्रेष्ठिपुत्राश् च अग्रमहिषीपुत्राश् च नायकाश् च सर्वशौर्यवीर्याश् च भवन्ति बलसम्पन्नाः च भवन्ति उल्लोकनीयाश् चावलोकनीयाश् चाभिवन्दनीयाश् चादेयवाक्याश् च बहुजनप्रियाश् च बहुजनकान्ताश् च बहुजनमनापाश् च संकीर्तनीयाश् च प्रह्लादनीयाश् च महाधनाश् च महाविभवाश् च महापरिवाराश् च महोत्साहा महातेजाश् च भवन्ति ॥ यदि केचित् कथंचित् आर्यापवादहेतोः सप्तसु भूमिषु वर्तमाना अवीचिं महानिरयं गच्छन्ति अथ खलु प्रत्येकनिरयं गच्छन्ति । प्रेतेषु अत्यन्तकायेषु नोपपद्यन्ति । असुरेषु नोपपद्यन्ति । क्षुद्रतिर्यग्योनिं न गच्छन्ति । उत्तरकुरुषु न उपपद्यन्ति । स्त्रीत्वं न गच्छन्ति । विपण्डकत्वं न गच्छन्ति ॥ अथ खलु सर्वासु दशभूमिषु पुरुषा भवन्ति सर्वांगप्रत्यंगोपेताः अविकलेन्द्रिया ॥ यश् च बोधिसत्वो बोधिसत्वं जीविताद् व्यपरोपयति सम्यक्संबुद्धश्रावकं वा श्रोतापन्नं वा ये वा सत्वा प्रत्येकबुद्धत्वाय विनिष्ठास् तथारूपं
[_म्वु_1.104_] पुद्गलं जीविताद् व्यपरोपयित्वा निरयं गच्छति ॥ यं बोधिसत्वाः सप्तसु भूमिषु प्राणातिपातं वा करोन्ति अदत्तं वा हरन्ति सर्वपरिपूर्णं वा अकुशलकर्म न समर्थं बोधिसत्वं निरयं नयितुं ॥ यानि च कर्माणि बोधिसत्वैः पुरतो प्रणिधानस्योपचितानि अकुशलानि तानि च प्रथमचित्तोत्पादाय आवृतानि तिष्ठन्ति यथा महता शैलेन मृगसंघो ॥ असंप्राप्तस्य प्रणिधिचित्तं द्वितीयतृतीयचतुर्थपंचमषष्ठसप्तमासु जातिषु विपच्यति अन्तशो शीर्षपरितापेनापि ॥
___एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच ॥ ये पुनर् भो जिनपुत्र बोधिसत्वा अवैवर्तिका सम्यक्संबुद्धान् आराधयित्वा अगारस्था अनगारियं प्रव्रजन्ति ते तथागताः केवरूपेण ओवादेन ओवदन्ति इति ॥
ततः कात्यायनस्थविरः काश्यपं इदम् अब्रवीत्* ।
दृष्टान्ते हि विविक्ताभिः कथाभिः अनुपूर्वशः ॥
बोधिसत्वचरितं महापकं
जातकापरमतेषु कोविदा ।
देशयन्ति दमदानसंवरं
बोधिसत्वपरिषाय ईश्वरा ॥
यो महाजनहिताय सेवते
कर्मम् अप्रतिसमं नरोत्तमः ।
इत्य् एव तं च मतिमां तथागतो
बोधिसत्वपरिषाय भाषति ॥
सो प्रभुः भगवतो प्रवुच्यति
ज्ञानपूर्वकम् उपेति दुष्करं ।
[_म्वु_1.105_] तस्य लोकि सदृशो सुदुर्लभो
बोधिसत्व इति शासने जिनः ॥
एवम् आदिकं भो धुतधर्मधर सम्यक्संबुद्धा बोधिसत्वपर्षायं धर्मं देशयन्तीति ॥
___एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् इदम् उवाच ॥ यानीमानि भो जिनपुत्र जातकानि जिनभाषितानि इमानि कुतःप्रभृतिकानि विज्ञेयानीति ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् इदम् उवाच ॥ यानीमानि भो धुतधर्मधर जातकानि जिनभाषितानि इमां अष्टमां भूमीं प्रपद्यन्तीति ॥
___एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् इदम् उवाच ॥ कुतः प्रभृति भो जिनपुत्र बोधिसत्वाः सर्वस्वपरित्यागांश् च परित्यजन्ति दुष्करपरित्यागांश् चेति ॥ एवम् उक्ते महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच ॥ अष्टमां भूमिं प्रभृति भो धुतधर्मधर बोधिसत्वाः सर्वस्वपरित्यागांश् च परित्यजन्ति दुष्करपरित्यागां च कुर्वन्ति इति ॥ अष्टमां भूमिं प्रभृति भो धुतधर्मधर बोधिसत्वाः सम्यक्संबुद्धपूजया पूजयितव्या इति ॥ तत्रेदम् उच्यते ॥
अष्टमां प्रभृति भूमिं बोधिसत्वा जिनात्मज ।
सम्यक्संबुद्धा इति द्रष्टव्या अतः प्रभृत्य् अनिवर्तियाः ॥
अतः प्रभृति ध्यानानि गम्भीराणि लभन्ति ते ।
[_म्वु_1.106_] अतः प्रभृति उत्तप्तं ज्ञानं तेषां प्रवर्तते ॥
अतः प्रभृति भाषन्ति वाचां ज्ञानपुरोगमां ।
अतः प्रभृति कुच्छत्ता आयुं मुञ्चन्ति पण्डिताः ॥
अतः प्रभृति या शुद्धा तां जातिम् अनुयान्ति ते ।
अतः प्रभृति यं शुद्धं तद् रूपम् अनुभवन्ति ते ॥
अतः प्रभृति यं लिङ्गं इच्छन्ति भवन्ति तथा ।
अतः प्रभृति यं देवं इच्छन्ति भवन्ति तथा ॥
अतः प्रभृति तिर्थिका वा भवन्ति भवसूदनाः ।
अतः प्रभृति कुच्छन्ति कामां शंसन्ति निर्वृतिं ॥
अतः प्रभृति भूयिष्ठा भवन्ति वदतां वराः ।
शिष्या देवातिदेवानां संबुद्धानां यशस्विनां ॥
अध्येष्यन्ति ततः परेत्य बुद्धैर् धर्मप्रकाशनैः ।
धर्मं देशयथ प्राज्ञा प्रतिगृह्णथ ऋषिध्वजं ॥
अतः प्रभृति विनयन्ति अर्हत्वे सुबहुं जनं ।
अतः प्रभृति विनयन्ति शैक्षभूमौ बहुं जनं ॥

अतः प्रभृति अनुबद्धा देवा यक्षा सगुह्यकाः ।
बोधिसत्वं महासत्वं यावत् प्राप्ता स्वयंभूता ॥
अतः प्रभृति तद् रूपं अग्र्यं सदेवके लोके ।
अतः प्रभृति वर्णो पि तेजोकीर्तियशोबलं ।
[_म्वु_1.107_] लोकेन विषमं भवति बोधिसत्वानम् उत्तमं ॥
अनुत्पादाच् च बुद्धानां पंचाभिज्ञा भवन्ति ते ।
नैष्क्रम्यम् अनुवर्णयन्ति कामेषु दोषदर्शिनः ॥
अतः प्रभृति देवाश् च असुरा ब्रह्मणा सह ।
गुणैः तेषां अनुरज्यन्ता आगच्छन्ति कृतांजली ॥
वशिभूतान या चेष्टा बोधिसत्वान तादृशी ।
अष्टमाभूमिं या चेष्टा भवन्ति तादृशी तथा ॥
एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच ॥ ये इमे भो जिनपुत्र बोधिसत्वा अवैवर्तिकाः चक्रवर्तिराज्यानि कारयन्ति केवरूपं धर्मं देशयन्ति सत्वानां अनुत्पादे च बुद्धानां केवरूपेण संग्रहेण सत्वा संगृह्णन्ति केवरूपां च जनतां उपेक्षन्त इति ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच ॥ ये इमे भो धुतधर्मधर बोधिसत्वा अवैवर्तिका चक्रवर्तिराज्यानि कारयन्ति ते सत्वानाम् एवं धर्मं देशयन्ति ॥ दशकुशलकर्मपथसमायुक्ता सत्वानाम् अनुदर्शयन्ति ॥ मा भवन्तु प्राणिवधम् अदत्तहरणं रक्षितव्यानि परदाराणि अनृतपिशुनपरुषम् अबद्धप्रलापाभिध्याव्यापादमिथ्यादर्शनानि वर्जयितव्यानि इति देशेन्ति ॥ हिरण्यसुवर्णस्य धनस्य अग्रतो निवेशनस्य राशयो उपस्थापयित्वा एवं च वदन्ति
वैकलियं यस्य येन इतो स गृह्णतु धनं ।
[_म्वु_1.108_] धर्मलब्धा मम भोगा मा भवन्तो विषीदथ ॥
अहं माल्यं च गन्धं च धूपं चूर्णं मनोरमं ।
ददामि मा विषीदन्तु भवन्तो रम्यताम् इति ॥
एवम् उक्ते महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच ॥ केवरूपैः कर्मभिर् बोधिसत्वानां चक्रवर्तिराज्यानि कारयमाणानां सप्तरत्नानि भवन्ति ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिः अध्यभाषे ॥
यथ लभति मनुजवृषभो चातुर्द्वीपो प्रभूतधनकोशो ।
सप्त रतनानि राजा अहं इदम् उदीरयिष्यामि ॥
तरुणरविमण्डलनिभं प्रवरदशशतारसंचयमनोज्ञं ।
चक्ररतनं नरवरो पुरिमकुशलसंभवं लभति ॥
परिचारविधिसंयुक्तं ददाति दानम् अनवद्यसंकल्पे ।
अजितजयम् अप्रतिहतं तेन नरवरो लभति चक्रं ॥
हिमनिचयकुमुदवर्णं सप्ताङ्गप्रतिष्ठितं महानागं ।
अनिलबलतुल्यवेगं हस्तिरतनम् अद्भुतं लभति ॥
दुर्गेषु च विषमेषु च संक्रमम् अरिसूदनो प्रतिष्ठपिय ।
तेन खगपथेगामिं गजवररतनं . . . लभति ॥
तद भृङ्गनीलं सुवर्णमनिलजवकेशरिं समुद्यतपादं ।
प्रतिलभति तुरगरतनं सुकृतकुशलसंचयो राजा ॥
[_म्वु_1.109_] हयनवरेहि परिवही मातापितरं गुरुं तथाचार्यं ।
तेन कुशलेन राजा अश्वरतनं अद्भुतं लभति ॥
मणिरतनम् अनुपमवर्णं वैडूर्येण शीरम् अनुपसंपन्ना ।
. . . . . . . . . . . . . . . . . . . . . . . . . . .
लभति प्रमदां मनापां रतनवरम् अनन्तबलवीर्यैः ॥
पूर्वभवे हि निवासे स्वदारसन्तोषसंयमाभिरतो ।
आसीच् च नराधिपती स्त्रीरतनं तेन सो लभति ॥
आढ्यं विविधधनवरं प्रभूतनिधिनिचयसंचयोपेतं ।
गृहपतिरतनम् उदार प्रतिलभति महावशी राजा ॥
विविधधनसंचयानां दाता गुरुषु गुरुगौरवोपेतो ।
तेन स गृहपतिरतनं प्रतिलभति प्रभूतधनकुशलं ॥

नयनयज्ञं मेधाविं व्यक्तं नायकध्वजं चातुर्द्वीपं ।
परिणायकरतनवरं प्रतिलभति महीपतिः विरतो ॥
मार्गगतो प्रणष्टानां हतहतनयनानां देशयि मार्गं ।
तेन परिणायकवरं लभति रतनं उत्तमनायकं ॥
एतैर् धुतधर्मधरा कर्मेहि समुत्थितानि रतनानि ।
तेन च एव नरेन्द्रो धर्मेण महीं प्रशासयति ॥
[_म्वु_1.110_] एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच ॥ ये इमे हि भो जिनपुत्र बोधिसत्वाः प्रथमचित्तम् उत्पादयन्ति ते कतिभिर् आकारैश् चतुर्थ्यां भूमौ वर्तमानाः पञ्चमायां भूमौ विवर्तन्ते ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् एतद् उवाच ॥ ये इमे भो धुतधर्मधर बोधिसत्वाः प्रथमचित्तोत्पादा सप्तभिर् आकारैश् चतुर्थ्यां भूमौ वर्तमानाः पंचमायां भूमौ विवर्तन्ते ॥ कतमेहि सप्तहि ॥ भिक्षुणीदूषकाश् च भवन्ति । पुरुषदूषकाश् च भवन्ति । पण्डकदूषकाश् च भवन्ति । मन्त्रबलेन चापि परस्य असन्तं रोगम् उत्पादयन्ति । सुशीलवन्तांश् च शीलाच् च्यावयन्ति । अहिरीकाश् च भवन्ति । अनोत्रापिणश् च भवन्ति ॥ ये केचिद् भो धुतधर्मधर बोधिसत्वाः प्रथमं चित्तम् उत्पादयन्ति ते इमेभिः सप्तभिर् आकारैश् चतुर्थायां भूमौ वर्तमानाः पंचमायां भूमौ विवर्तन्ति ॥
इत्य् एषा भुमिर् उपदिष्टा चतुर्थी सुगतात्मज ।
रमणीया बोधिसत्वानां ये ते बोधिपरायणा इति ॥
_____इति श्रीमहावस्तु-अवदाने चतुर्थी भूमिः समाप्ता ॥
एवम् उक्ते आयुष्मान् महाकाश्यपो आयुष्मन्तं महाकात्यायनम् एतद् उवाच ॥ भो जिनपुत्र बोधिसत्वा अवैवर्तिका चतुर्थीभूमितो ये पंचमां भूमिं संक्रामन्ति तेषां कतमं सन्धिचित्तं भवतीति ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच ॥ आदीप्तां सर्वभवां पश्यन्ति रागद्वेषमोहेभ्यः । अशरण्यं निरानन्दं सन्धिचित्तं चतुःपंचमानन्तरं भवतीति ॥
___एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच ॥ ये पुनर् भो
[_म्वु_1.111_] जिनपुत्र सम्यक्संबुद्धेन भगवता पंचमायां भूमौ सम्यक्संबुद्धाः पूजितास् तेषां सम्यक्संबुद्धानां कानि नामानि गोत्राणि केवत्ता श्रावकसन्निपाता केवत्तिका प्रभा केवत्तिकम् आयुःप्रमाणम् इति ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकश्यपं गाथाभिः अध्यभाषि ॥
शाक्यमुनि नाम जिनवरो अभूषि वशिभूतकोटिपरिवारो ।
व्यामप्रभो गिरिघनो कनकगिरिनिभो निहतशत्रुः ॥
षड्वर्षसहस्राणि आयुः पुरुषोत्तमस्य तत्कालं ।
नामं तस्य यशव्रतो अभूषि अतिसुन्दरो बुद्धो ॥
गोत्रेण गौतमो ऽसौ अयं च भगवान् तदासि श्रेष्ठिसुतो ।
य्वागूदानं दत्वा बुद्धप्रमुखे कृता प्रणिधिः ॥
यं मये कुशलम् उपचितं संश्लिष्य संघे अर्हन्ते दत्त्वा ।
तेन परमार्थदर्शी भवेयम् अखिलं ममं पुण्यं ॥
अन्तिम्ऽ; अवतरणगामी सुन्दरो सुदर्शनो नाम नरसिंहः ।
भारद्वाजसगोत्रो प्रभा च दशयोजना तस्य ॥
वशिभूतानां कोटी परिवारो तस्य सत्वसारस्य ।
दशवर्षसहस्राणि आयुः तद मारदमकस्य ॥
[_म्वु_1.112_] राजा च चक्रवर्ती अभूषि धरणींधरो ति नामेन ।
सो तं जिनं सुदर्शनं सशिष्यसंघं इदम् उवाच ॥
सर्वं हितोपधानं अहं ति देमि इति पण्डितो अवची ।
एवं च भवेयम् अहं प्रणिधेसि परं प्रणिधि राजा ॥
जरामरणस्य सागरगतां अलीनो जनतां तारेय्यं ।
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . .
अनुपहतकुशलमूलो अभूषि भगवां नरेश्वरो नाम ।
गोत्रेण च वासिष्ठो आभा दशयोजना तस्य ॥
वशिभूतानां कोटी परिवारो तस्य द्वादश आसि ।
नव च वर्षसहराणि मनुजान तदा अभूष्य् आयुः ॥
राजा च चक्रवर्ती अभूषि अपराजितो ति नामेन ।
सो दशबलं नरेन्द्रं प्रसन्नचित्तो इदम् उवाच ॥
सप्तरतनाङ्गचित्रा इमां अनेकरतनसम्पत्तीयो ।
शीति चतुर् उत्तरा तव विभू विहारान् अहं देमि ॥
सो तं दानं दत्त्वा तस्मिं नरेश्वरके अनुप्रणिधिं ।

प्रणिधेसि एवं भवेयम् अधिगच्छेयं जिनबलानि ॥
विजयो नाम अमात्यो अभूषि पूर्वं जिनः सुप्रभो नाम ।
[_म्वु_1.113_] गोत्रेण काश्यपो ऽसौ प्रभा च दशयोजना तस्य ॥
तस्य च शिष्यसंघो अष्टादश कोटी धुतरजानां ।
विंशन् नराण आयुः वर्षसहस्राणि तत्कालं ॥
सो वन्द्य जिनवरं तं विजयो निमन्त्रयी भवनिर्घातिं ।
अधिवासयति दशबलो अथ विजयो हर्षितो आसि ॥
अग्रेण प्रणीतेन च अधिगतस्वादेन भक्ष्यभोज्येन ।
संन्तर्पयित्वानुगतं प्रणिधेसि तदा अनुप्रणिधिं ॥
सो ऽहम् अपि भवेयम् एवं नरवरमहितो नरमरुण हितकरो।
तेनापि नायकवरो दशबलो भवे वादिशार्दूलो ॥
आसीत् पूर्वं बुद्धस् तथागतो रतनपर्वतो नाम ।
गोत्रेण गौतमो ऽसौ प्रभा च दशयोजना तस्य ॥
त्रिंशत् मनुष्यकोट्यो परिवारो आसि दान्तचित्तानां ।
वर्षसहस्राणि विंशं आयुः तदासि मनुष्याणां ॥
राजा च चक्रवर्ती अभूषि तत्कालम् अच्युतो नाम ।
जिनक्रमाणि निपीडिय इदम् अवचि वरं नरमरूणां ॥
प्रासादसहस्राणि मह्यं नरनागा चतुरशीतिं ।
[_म्वु_1.114_] तानि समलंकृतानि सशिष्यसंघस्य अहं देमि ॥
अधिवासनां विदित्वा राजा . . . . . . प्रीतमनो ।
अनुप्रणिधिं प्रणिधेसि पुरतो वरलक्षणधरस्य ॥
कुशलेन अनेन अहं कुशलोपचितवराणां चरितानां ।
दुरन्तकवीर्यकर्मो भवेय नाथो अनाथानां ॥
गगनतलविमलचित्तो संबुद्धो कनकपर्वतो नाम ।
अभूषि नरतामहितो कौण्डिन्यो नाम गोत्रेण ॥
तस्य शुभकर्मजाता शरीरप्रभा अभू योजनानि षट्* ।
पंच वशीभूतानां कोटीयो च परिवारो ऽस्य ॥
दश षड्वर्षा आयुं तदा अभूषि मनुजानां च चतुर्दश सहस्राणि ।
वर्षाणां सप्तत्रिंश वर्षसहस्राणि इत्येव ॥
आसि तद चक्रवर्ती राजा प्रियदर्शनो ति नामेन ।
सप्तरतनद्युतीमान्* चतुर्द्वीपः पृथिविपालो ॥
सो कनकवर्णपर्वतं संबुद्धं क्रमवरेषु निपतित्वा ।
याचति सामात्यगणो मुक्ताहारान्तपुरो प्राह ॥
मम नगरनिगमभरितं राज्यं चतुरो महाधनद्वीपाः ।
तान् तव ददामि वीरा सशिष्यसंघस्य निरपेक्षः ॥
[_म्वु_1.115_] यद् भोजनं ऋषीणां यद् वस्त्रं या च ओषधिविधीयो ।
यानि शयनासनानि च प्रासादवरे तथा येव ॥
निःसृष्टम् एव सर्वं परिभोज्यं यस्य द्वादशाकारं ।
मम प्रवररूपधारि अनुकम्पार्थं कुरुहि करुणां ॥
एतद् दत्त्वा दानं सो पार्थिवलम्बको अनुप्रणिधिं ।

प्रणिधेसि प्रीतिमानसो पुरतो संपूर्णकुशलस्य ॥
परमार्थं शूक्ष्मदर्शि वैशारद्यवरपारमिप्राप्तः ।
तेनाहं नायकवरो भवेय सर्वोपधिक्षयकरो ॥
द्वात्रिंशलक्षणधरो भगवान् नामेन पुष्पदन्तो ति ।
अभूत् परमार्थदर्शि वत्सो गोत्रेण संबुद्धो ॥
तस्यापि योजनानि नव शरीरप्रभा जिनप्रवरस्य ।
वशिभूतकोटियो चतुस्त्रिंशद् दशबले समनुबद्धाः ॥
पंचाशं च अभूषि वर्षसहस्राणि आयुःपरिमाणं ।
मनुजान एवं न विमति कार्या तत्रोपदेशस्मिं ॥
पार्थिवो चैव नरपती तं कालं आसि दुर्जयो नाम ।
अपगम्य पुष्पदन्तं वन्दति पादां सपरिवारः ॥
[_म्वु_1.116_] कृतकरपुटो प्रसन्नः नरप्रभो पुष्पदन्तम् इदम् आह ।
अधिवासयतु मे दशबलो सप्ताहं भोजनविधानं ॥
अधिवासनं विदित्वा राजास्य दुर्जयर्द्धि बल एव । {सेनर्त्: दुर्जयोर्ध्वबल}
छादयति मेदिनितलं सुवर्णपट्टेहि रुचिरेहि ॥
तत्र रतनामयानि विनिक्षिपति आसनानि चित्राणि ।
भोजनविधिं च चित्रां स्थापयति सुगन्धिप्रत्यग्रां ॥
सप्तरतनामयानि छत्राणि नरमरूणां अष्टशतं ।
धारेन्ति भूषणधरा चित्राभरणधारिणो पुरुषा ॥
एवं एकैकस्य वशिभूतस्य धारेन्ति हृदिमनो ।
छत्ररतनं विचित्रं शशिशंखतलोपमं विमलं ॥
सन्तर्पयित्व राजा सपरिवारं पुष्पसाह्वयं सुगतं ।
अथ मनसा प्रणिधेति तदा व सो तं अनुप्रणिधिं ॥
त्वम् इव-म्-अहं संबुद्धो धर्मं प्रकाशयेय नरमरूणां ।
. . . . . . . . . . . . . . . . . . . . . . . . . . . .
द्वात्रिंशल्लक्षणधरो नामेन ललितविक्रमो संबुद्धो ।
आसि भगवां भवनुदो वासिष्ठगोत्रो धुतकिलेशो ॥
तस्य च स्वशरीरजाता प्रभा अभू योजनानि त्रिंश दुवे ।
[_म्वु_1.117_] वशिभूतकोटियो च त्रिंश नरवरस्य परिवारो ॥
आयुं तदा नराणां वर्षसहस्राणि आसि चतुरशीतिं ।
राजा च तदा आसी चतुरंगबलो प्रियो मनापो ॥
प्रासादकोटियो च चत्वारिंशं अनेकरतनानां ।
कारयति भूमिपालो प्रवरं एकं च प्रासादं ॥
शय्यासनं च विपुलं कारयते पार्थिवो निरुपवद्यं ।
भोजनगिलानप्रच्चयम् ऋषियोग्यं सन्निवेशेति ॥
भगवतो निर्यातित्वा सशिष्यसंघस्य सो अनुप्रणिधिं ।
प्रणिधेति हृष्टचित्तो राजा पुरतो दशबलस्य ॥
दुर्लभसदृशो असमः दशबलो च जरामरणविमतिमथनो ।
भवेयं श्रेष्ठो नरमरुणां कुगणीगणवचनमथनो ॥
द्वात्रिंशलक्षणधरो भगवां आसी महायशो नाम ।

गोत्रेण काश्यपो सो विस्तीर्णयशो अमितकीर्तिः ॥
शरीरभासा तस्य पंचाशं योजनानि पुण्यवतो ।
वशिभूतकोटियो च तस्यासी पंचपंचाशं ॥
वर्षसहस्राणि तदा चतुरशीतिं आयुःपरिमाणं ।
[_म्वु_1.118_] आसि तदा मनुजानां चतुर्गुण एष चतुरशीति ॥
राजा तदा अभूषी नामेन सो मृगपतिस्वरो नाम ।
चातुर्द्वीपाधिपतिर् विपुलबलवरो अजितचक्रो ॥
सो रत्नस्कन्धशाखां वनखण्डां योजनानि षण्णवति ।
कारापयि भूमिपति प्रवरां वरवस्त्रसंछन्नां ॥
वैडूर्यमणितलां च कृत्वान वसुधां विभूषणविचित्रां ।
अगुरुवरधूपगन्धां सुगन्धपुष्पावकीर्णतलां ॥
तं तत्र वादिसिंहं ऋषभं सो भोजनेन सप्ताहं ।
तर्पयति भूमिपालो प्रसन्नचित्तो प्रणीतेन ॥
तं सुरवरवन-उपमं ततो वनं तस्य सत्वसारस्य ।
निर्यातयति प्रसन्नो दिवाविहारं दशबलस्य ॥
दत्त्वा स राजा . . . महायशस्य सशिष्यसंघस्य ।
राजा उदग्रचित्तो प्रणिधेति तदा अनुप्रणिधिं ॥
बहुजनमहितो स्वयंभु अनन्यनेयो भवेय सर्वज्ञो ।
कुशलेन हि मे तेन तथागतबलो विभू भोमि ॥
विपुलबलपुण्यकोशो नयानयज्ञो जिनो रतनचूडो ।
[_म्वु_1.119_] आसि अभिनीलनेत्रो निरुपमगुणसंचयो धीरो ॥
तस्य च प्रभा शरीरे योजनशतविस्तरा समन्तेन ।
भारद्वाजसगोत्रो स सर्वदर्शी तदा आसि ॥
तस्य संघो आसी नवनवति कोटियी धूतरजानां ।
वर्षाणां च सहस्राणि चतुराशीतिं तदा आयुं ॥
राजा तद चक्रवर्ति अभूषि चातुर्द्वीपो महिस्थामो ।
नामेन मणिविषाणो शासति धर्मेण यो जनतां ॥
द्वानवति कोटिनयुतां प्रासादानाम् अनेकरूपाणां ।
कारयति भूमिपालो तं रतनजिनं समुद्दिश्य ॥
सो प्रवरकाञ्चननिभं नरमरुगणसत्कृतं रतनचूडं ।
भोजयति सपरिवारं वर्षाणि दश अविश्रामं ॥
प्रथमदिवसं च सुगतं भोजेत्वा सार्धं शिष्यसंघेन ।
निर्यातेति नरवरो प्रासादवरां गुणधरस्य ॥
सो तं दानं दत्वा तस्य महापुद्गलस्य राजवरो ।
अनुप्रणिधेति प्रणिधिं प्रसन्नचित्तो जिनसकाशं ॥
उच्छिन्नमोहजालो प्रसन्नचित्तो असंगप्रतिभानो ।
तारेय्य सर्वजनतां संसारमहार्णवे पतितां ॥
एवम् एव अप्रमेया पंचम्यां भूमियां पुरुषसिंहाः ।
[_म्वु_1.120_] प्रत्येकजिना तथापि शैक्षाशैक्षा च जिनपुत्राः ॥
संपूजिता भगवता इमे तथान्ये तथागताः सर्वे ।

समुपचित कुशलमूलं अर्थे जगतस्य सर्वस्य ॥
एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच ॥ ये भो जिनपुत्र बोधिसत्वा बोधाये प्रणिधेन्ति ते कतिभिर् आकारैः पञ्चमायां भूमौ वर्तमानाः षष्ठायां भूमौ विवर्तन्ति ॥ एवम् उक्ते आयुष्मान् महाकात्यायनः आयुष्मन्तं महाकाश्यपम् उवाच ॥ चतुर्भि भो जिनपुत्र आकारैर् धुतधर्मधर बोधिसत्वा बोधाये ये प्रणिधेन्ति पंचमायां भूमौ वर्तमानाः षष्ठ्यां भूमौ विवर्तन्ति ॥ कतमेहि चतुर्हि ॥ सम्यक्संबुद्धानुशासने प्रव्रजित्वा योगाचारेहि सार्धं सम्भुवं कुर्वन्ति । अष्टमके धुतवेदनागृद्धा भावना उत्त्रसन्ति । शमथविपश्यनाभावनाबहुलाश् च अभीक्ष्णं विहरन्ति । आलंबणालंबणचित्तं हेतुशो परिकल्पेन्ति ॥ ये हि केचि भो धुतधर्मधर बोधिसत्वा बोधाय प्रणिधेन्तो पंचमायां भूमौ वर्तमाना षष्ठ्यां भूमौ विवर्तन्ति सर्वे ते इमेहि चतुर्हि आकारेहि विवर्तेन्सुः विवर्तन्ति विवर्तिष्यन्ति वा ॥
इत्य् एषा पंचमी भूमी व्याकृता संनिदर्शिता ।
तेषां बहुविधपुण्यानां बोधिसत्वान मारिष इति ॥
_____इति श्रीमहावस्तु-अवदाने पंचमी भूमिः समाप्ता ॥
[_म्वु_1.121_] ततः स्थविरः काश्यपः कात्यायनम् अथाब्रवीत्* ।
किं चित्तं बोधिसत्वानां पंचमायां विपश्चितां ॥
ततः कात्यायनस्थविरः मुनिकाश्यपं धुतधर्मधरं गाथयाध्यभाषि ॥
अल्पास्वादनिबद्धो ऽयं लोकावर्तो ऽतिदारुणः ।
. . . . . . . . . . . . . . . . . . . जायते ॥
एवम् उक्ते आयुष्मान् महाकाश्यपः आयुष्मन्तं महाकात्यायनम् उवाच ॥ क्षेत्रम् इति ॥
ततः स्थविरः कात्यायनः महाकाश्यपम् अथाब्रवीत्* ।
श्रूयतां लोकनाथानां क्षेत्रं तत्वार्थनिश्रितं ॥
उपक्षेत्रं च वक्ष्यामि तेषां परमवादिनां ।
तानि निशम्य वाक्यानि शासनं च नरवर ॥
एकषष्टिं त्रिसहस्राणि बुद्धक्षेत्रं परीक्षितं ।
अतो चतुर्गुणं ज्ञेयम् उपक्षेत्रं तथाविधं ॥
एवम् उक्ते आयुष्मां महाकाश्यपः आयुष्मन्तं महाकात्यायनम् उवाच ॥ किं पुनर् भो जिनपुत्र सर्वेषु बुद्धक्षेत्रेषु उत्पद्यन्ति सम्यक्संबुद्धा उताहो केषुचिद् एव उत्पद्यन्ति ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिः अध्यभाषे ॥
किंचित् एव भवति अपरिशून्यं
[_म्वु_1.122_] क्षेत्रम् अप्रतिमरूपधरेहि ।
क्षेत्रकोटिनयुतानि बहूनि
शून्यकानि पुरुषप्रवरेहि ॥
दुर्लभो हि वरलक्षणधारी
दीर्घकालसमुदागतबुद्धी ।
सर्वधर्मकुशलो अतितेजः
सर्वसत्वसुखताधरसत्वो इति ॥
एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच ॥ खलु भो जिनपुत्र को हेतुः कः प्रत्ययः यं एकस्मिं क्षेत्रे द्वौ सम्यक्संबुद्धौ नोपपद्यन्ति इति ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिः अध्यभाषते ॥
यत् कार्यं नरनागेन बुद्धकर्म सुदुःकरं ।
तत् सर्वं परिपूरेति एषा बुद्धान धर्मता ॥
असमर्थो यदि सियाद् बुद्धधर्मेषु चक्षुमां ।
ततो दुवे महात्मानौ उत्पद्येते तथागतौ ॥
तं चासमर्थसद्भावं वर्जयन्ति महर्षिणां ।
तस्मात् दुवे न जायन्ते एकक्षेत्रे नरर्षभौ ॥
न जातु सावशेषेषु बुद्धधर्मेषु श्रुय्यते ।
निर्वृताः पुरुषश्रेष्ठा अतीताध्वे जिनात्मजा ॥
[_म्वु_1.123_] अनागता अतिक्रान्ता संबुद्धा ये च सांप्रतं ।
कृतेन बुद्धधर्मेण निर्वायन्ति नरोत्तमा इति ॥
एवम् उक्ते आयुष्मान् महाकाश्यपः आयुष्मन्तं महाकात्यायनम् उवाच ॥ कतमानि भो जिनपुत्र सम्प्रति अन्यानि बुद्धक्षेत्राणि यत्रैतर्हि सम्यक्संबुद्धा धर्मं देशयन्तीति ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिर् अध्यभाषे ॥
पुरस्तिमे दिशो भागे बुद्धक्षेत्रं सुनिर्मितं ।
तत्र मृगपतिस्कन्धो नामेन जिनपुङ्गवः ॥

पुरस्तिमे दिशो भागे बुद्धक्षेत्रं कृतागदं ।
तत्र सिंहहनुर् नाम जिनो द्वात्रिंशलक्षणः ॥
पुरस्तिमे दिशो भागे बुद्धक्षेत्रं विभूषितं ।
तत्र लोकगुरुर् नाम सर्वदर्शी महामुनिः ॥
पुरस्तिमे दिशो भागे बुद्धक्षेत्रम् अकण्ठकं ।
तत्र ज्ञानध्वजो नाम शास्ता शासति प्राणिनां ॥
पुरस्तिमे दिशो भागे बुद्धक्षेत्रम् अवेक्षितं ।
तत्र कनकबिम्बाभो जिनो नामेन सुन्दरः ॥
दक्षिणस्मिं दिशो भागे बुद्धक्षेत्रं द्रुमध्वजं ।
तत्र अनिहतो नाम संबुद्धो देवनन्दितः ॥
दक्षिणस्मिं दिशो भागे बुद्धक्षेत्रं मनोरमं ।
तत्र नामेन संबुद्धो चारुनेत्रो महामुनिः ॥
[_म्वु_1.124_] दक्षिणस्मिं दिशो भागे बुद्धक्षेत्रम् अकर्दमं ।
तत्र नामेन संबुद्धो मालाधारी विनायकः ॥
पश्चिमस्मिं दिशो भागे बुद्धक्षेत्रम् अविग्रहं ।
तत्र नामेन संबुद्धो अम्बरो भवसूदनः ॥
उत्तरस्मिं दिशो भागे बुद्धक्षेत्रं मनोरमं ।
तत्र नामेन संबुद्धो पूर्णचन्द्रो विधिश्रुतः ॥
हेष्टिमस्मिं दिशो भागे बुद्धक्षेत्रं सुनिष्ठितं ।
तत्र नामेन संबुद्धो दृढबाहुस् तथागतः ॥
उपरिष्टा दिशो भागे बुद्धक्षेत्रम् अनुद्धृतं ।
तत्र बुद्धो महाभागो नामेन अरिसूदनः ॥
बुद्धक्षेत्रसहस्राणि अनेकानि अतः परं ।
बुद्धक्षेत्रसहस्राणां कोटी न प्रज्ञायते ऽपरा ॥
बुद्धक्षेत्राणां शून्यानां कोटी न प्रज्ञायते ऽन्तरा ।
लोकधातूसहस्राणां कोटी न प्रज्ञायते ऽन्तरा ॥
यथा संसारचक्रस्य पूर्वा कोटी न प्रज्ञायते ।
तथाइव लोकधातूनां पूर्वा कोटी न प्रज्ञायते ॥
अतिक्रान्तानां बुद्धानां पूर्वा कोटी न प्रज्ञायते ।
प्रणिधेन्तान बोधाय पूर्वा कोटी न प्रज्ञायते ॥
अवैवर्तिकधर्माणां पूर्वा कोटी न प्रज्ञायते ।
अभिषेकभूमिप्राप्तानां पूर्वा कोटी न प्रज्ञायते ॥
[_म्वु_1.125_] तुषितेषु वसन्तानां पूर्वा कोटी न प्रज्ञायते ।
तुषितेभ्यश् च्यवन्तानां पूर्वा कोटी न प्रज्ञायते ॥
मातु कुक्षौ शयन्तानां पूर्वा कोटी न प्रज्ञायते ।
स्थितानां मातुः कुक्षौ तु पूर्वा कोटी न प्रज्ञायते ॥
जायमानानां वीराणां पूर्वा कोटी न प्रज्ञायते ।
जातानां लोकनाथानां पूर्वा कोटी न प्रज्ञायते ॥
अङ्केषु गृह्यमाणानां पूर्वा कोटी न प्रज्ञायते ।
पादानि विक्रमन्तानां पूर्वा कोटी न प्रज्ञायते ॥

महाहासं हसन्तानां पूर्वा कोटी न प्रज्ञायते ।
दिशां विलोकयन्तानां पूर्वा कोटी न प्रज्ञायते ॥
अङ्केन धारियन्तानां पूर्वा कोटी न प्रज्ञायते ।
उपनीयमानानां गन्धर्वैः पूर्वा कोटी न प्रज्ञायते ॥
पूरेभ्यो निष्क्रमन्तानां पूर्वा कोटी न प्रज्ञायते ।
बोधिमूलम् उपेन्तानां पूर्वा कोटी न प्रज्ञायते ॥
प्राप्नुवन्तानां तथागतज्ञानं पूर्वा कोटी न प्रज्ञायते ।
धर्मचक्रं प्रवर्तेन्तानां पूर्वा कोटी न प्रज्ञायते ॥
सत्वकोटी विनेन्तानां पूर्वा कोटी न प्रज्ञायते ।
सिंहनादं नदन्तानां पूर्वा कोटी न प्रज्ञायते ॥
आयुःसंस्कारं उत्सृजन्तानां पूर्वा कोटी न प्रज्ञायते ।
निर्वायन्तानां वीराणां पूर्वा कोटी न प्रज्ञायते ॥
[_म्वु_1.126_] निर्वृतानां शयन्तानां पूर्वा कोटी न प्रज्ञायते ।
ध्यापियन्तानां वीराणां पूर्वा कोटी न प्रज्ञायते ॥
एवम् एतं यथाभूतं शास्तुपूगं विजानथ ।
क्वचित् क्वचित् च संबुद्धो बुद्धक्षेत्रेषु दृश्यते ॥
एवम् उक्ते आयुष्मान् महाकाश्यपो आयुष्मन्तं महाकात्यायनम् उवाच ॥ यदि भो जिनपुत्रा एत्तका सम्यक्संबुद्धा एको च सम्यक्संबुद्धो अपरिमितान् सत्वा परिनिर्वापयति ननु अचिरेण कालेन सर्वसत्वान् परिनिर्वापयिष्यन्ति । एवम् अयं लोकः सर्वेण सर्वशून्यं भविष्यति सर्वसत्वविरहित इति ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यप गाथाभिः अध्यभाषे ॥
समनन्तरसंपूरं शून्यं भवतु सर्वदा ।
अप्रतिष्ठम् अनालम्बनं निविष्टं भवतु सर्वदा ॥
यत्तिका पृथिवीधातु सत्वा बहुतरका अतो ।
पृथग्जना खु निर्दिष्टा तेन परमदर्शिना ॥
शृण्वतां पुरुषवरस्य शासनं बहुनां कुतः ।
पर्यन्तो भेष्यति सत्वानाम् इति उक्तं महर्षिणेति ॥
एवम् उक्ते आयुष्मान् महाकाश्यपो आयुष्मन्तं महाकात्यायनम् उवाच ॥ ये इमे भो
[_म्वु_1.127_] जिनपुत्र सत्वा सम्यक्संबोधाये प्रणिधेन्ति ते ते कतिभिर् आकारैः षष्ठ्यायां भूमौ वर्तमानाः सप्तमायां भूमौ विवर्तन्त इति ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच ॥ दुभि खलु भो धुतधर्मधर आकारैर् बोधिसत्वा बोधाय प्रणिधेन्तो षष्ठ्यायां भूमौ वर्तमानाः सप्तमायां भूमौ विवर्तन्ति ॥ कतमेहि दुभि ॥ संज्ञावेदयितनिरोधसमापत्तियो च स्पृहयन्ति यस्मिंश् च काले सम्यक्संबुद्धा सत्वपरिज्ञया अहं महात्मा शमीकरो त्ति देवतां सत्कृत्य अवहितश्रोता शृण्वन्ति ॥ ये हि केचिद् भो धुतधर्मधर बोधिसत्वाः षष्ठ्यायां भूमौ वर्तमानाः सप्तमायां भूमौ विवर्तेन्सु विवर्तन्ति विवर्तिष्यन्ति वा सर्वे इमेहि दुभि आकारेहि विवर्तन्ति विवर्तेन्सु विवर्तिष्यन्ति इति ॥
एवं एषा षष्ठी भूमिर् भवति तेषां गुणवराणां ।
हरिणपतीनां हितान महर्षिणां बोधिसत्वानाम् इति ॥
_____इति श्रीमहावस्तु-अवदाने षष्ठी भूमिः समाप्ता ॥
एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच ॥ ये इमे भो धुतधर्मधर बोधिसत्वाः अवैवर्तिकाः षष्ठातो भूमितो सप्तमां भूमिं संक्रमन्ति तेषां केवरूपं सन्धिचित्तं भवतीति ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिर् अध्यभाषत ॥
आत्मदमथे प्रवर्तयते चित्तं परममहाजनहितान ।
यत् सप्तमां भूमि संक्रमन्ति तथा भूमिषु तत्सन्धिचित्तम् इति ॥
[_म्वु_1.128_] एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच ॥ ये इमे भो जिनपुत्र बोधिसत्वा अवैवर्तिकाः ते प्रथमायां भूमौ उपादाय केवरूपेण कायकर्मेण समन्वागता भवन्ति केवरूपेण वाचाकर्मेण समन्वागता भवन्ति केवरूपेण मनकर्मेण समन्वागता भवन्ति केवरूपेण सत्त्वेन समन्वागाता भवन्ति ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच ॥ ये इमे भो धुतधर्मधर बोधिसत्वा अवैवर्तिकास् तेषां प्रथमां भूमिम् उपादाय इमानि कर्माणि भवन्ति ॥ प्रणातिपातवैरमणं प्राणातिपातवैरमणस्य व वर्णं भाषन्ति तदध्याशयान् भूमिषु सत्वान् प्रशंसन्ति ये न परं च किंचित् पापमित्रसंयोगेन प्राणां जीविताद् व्यपरोपयन्ति ॥ परं सप्तहि भूमीहि तेहि विक्रोशमानेहि सत्वेहि करुणां प्रतिलभित्वा शीलं समादियित्वा राज्यं वा परित्यज्य यद् वा तद् वा ऐश्वर्यं त्यक्त्वा अगारेभ्यो ऽनगारियं प्रव्रजित्वा प्राणातिपातवैरमणस्य बहुलं धर्मं देशयन्ति ॥
___भूतपूर्वं च भो धुतधर्मधर सप्तमायां भूमौ वर्तमानो अयं परमपुरुषो राजा कुशो नाम बभूव ॥ तस्य देवी अप्रतिमा नाम अभूषी या इयं यशोधरा राहुलशिरिस्य माता ॥ यो चायं एतरहि कलिपुरुषो देवदत्तः सो तदा जठरो नाम प्रदेशराजा बभूव ॥ तां श्रुत्वा देवीम् अप्रतिंआं कामरागो मानसं पर्यादिन्नवां ॥ सो राज्ञः कुशस्य दूतम् अप्रेषये ॥
देहि अप्रतिमां देवीं मम भार्या भविष्यतीति ।
अथ न दासि युद्धं ते सज्जं सज्जय वाहनं ॥
यत् ते व्यवसितं राज तद् अनुप्रेषयस्व मे ।
[_म्वु_1.129_] अथ नानुप्रेषयसि मे सराज्यो वसम् एष्यसि ॥
एवं श्रुत्वा कुशो राजा भारियाम् इदम् अब्रवीत्* ।
शृणोहि देवि जठरस्य वचनं ब्रूहि निश्चयं ॥
ततो देवी अश्रुवेगं प्रमुंचित्वा राजानं कुशम् उवाच ॥

भद्र वत अहं छेद्ये अहं भेद्ये नराधिप ।
त्वया अनतिरिच्चापि शस्त्रेहि पारमिं गता ॥
जठरस्य शिरं राज पश्य समकूटं मया ।
छिन्नं रुधिरसंक्लिन्नं तव पादेषु वेष्टतु ॥
मया तु जन्तुना त्यक्तः सोनाहारीकृतं शरः ।
जठरस्य भित्त्वा स्वदेहं भूयो भेत्स्यति मेदिनीं ॥
अश्वपृष्ठे रथे स्कन्धे वारणस्य कृतं मया ।
योधनरवराग्रे च जठरस्यान्तं कृतं महं ॥
अहं मन्त्रे अहं सन्ध्या अहं वचनकर्तृमे ।
अघात्यम् अपि घातये हेतुभिः कारणैः तथा ॥
द्वाभ्यांश् च परिमोक्षेयं अहम् एव निरोपम ।
मम माया ह्य् असंख्येया लोकः तृणमयो मम ॥
[_म्वु_1.130_] गन्धमाल्यधरो राजा प्रासादतलगोचरः ।
स्त्रीसहस्रांकम् आसृत्य यथा च निरुत्सुको सिया इति ॥
अथ भो जिनपुत्र देवी अप्रतिमा तथारूपं उपायम् आदेशयि येनोपायेन राजा जठरो विश्वस्त अन्तःपुरं राज्ञः कुशस्य प्रविशि वशम् उपागतो देव्या अप्रतिमाया ॥ अथ सा देवी अप्रतिमा राज्ञो जठरस्य हृदये पदं दक्षिणं कृत्वा सव्यं पादं गुल्फे प्रतिष्ठाप्य श्लोकान् इमान् अगासि ॥
यां पुष्पितां वनलतां भ्रमराः पिबन्ति
पुष्पागमे कुसुमरेणुविचित्रपक्षा ।
नैव त्वया कुपुरुष श्रुतपूर्वरूपं
नात्रापरे मधुकराः प्रणयं करोन्ति ॥
यां पद्मिनीं वनगजो अरुहे कदाचित्*
पंके जलप्रलुलितां मदनातुराङ्गः ।
नैव त्वया कुपुरुष श्रुतपूर्वरूपं
नात्रापरे वनगजाः प्रणयं करोन्ति ॥
या भूमिपालमहितस्य उरे वितीर्णा
मुक्ताकलाप इव संरमते निशायां ।
कमलां तुवं व्यवसितो अनवद्यगात्रीं
प्राप्तुं महीतलगतो इव पूर्णचन्द्रम् इति ॥
[_म्वु_1.131_] अथ खलु भो धुतधर्मधर राजा जठरो तस्मिं काले विक्रोशति ॥ प्रसीद देवि शरणं प्रयच्छथेति ॥ तां देवीम् अप्रतिमां कुशो राजा उवाच ॥
अभयं ददाहि देवी कापुरुषस्य शरणं उपगतस्य ।
तस्य कृतांजलिपुटस्य यावं एषु हि सतां धर्म इति ॥
भूतपूर्वं भो धुतधर्मधर एषो भगवान् उग्रो नाम नागराजा अहितुण्डिकेन मन्त्रौषधिबलैर् वशनीतः सम्बाधम् आपन्नो बभूव ॥ सो च प्रमादात्* अहितुण्डिको भ्रष्टमन्त्रो बभूव ॥ अथ तस्य उग्रस्य नागराज्ञो एतद् अभवत्* ॥ प्राप्यो खल्व् अयं मम कापुरुषो भस्मीकर्तुम् इति । अपि तु नैतद् अस्माकम् अनुरूपं धर्मरक्षानुरक्तानाम् इति ॥ श्लोकान् उवाच ॥
यो पि तुवं मम प्राप्यो भस्मीकर्तुं स्वतेजसा ।
भ्रष्टमन्त्रस्य ते देमि अभयं जीव मे चिरम् इति ॥
भूतपूर्वं भो धुतधर्मधर एष एव भगवान् सिंहो मृगराजा एष चायं कुपुरुषदेवदत्तो लुब्धको बभूव ॥ अथैनं सिंहयोग्यावस्थोपवने वनविचारिं एकचरं उपासीनं विश्वस्तं निर्विचेष्टं निर्वृतम् अपरिपश्यन्तं पूर्वाशयोपचितबद्धवैरः लुब्धको दिग्धेषुणा अविद्ध ॥ सो च विद्धः स्तिमितो गम्भीरधैर्योपपन्नः स्वबले पर्यवस्थितः असन्त्रस्त
[_म्वु_1.132_] ईषदुन्नतशिरोधरो तदा तम् असत्पुरुषं भीतं लयनम् उपगतं निशाम्य चिन्ताम् आपन्नः ॥ प्राप्यो खल्व् अयं मम अधमपुरुषो गिरिशिखरगुहावृक्षरसातलगतो पि हन्तुं । अपि तु न वैरेण वैराणि शाम्यन्ते इति कृत्वा इमं श्लोकम् उवाच ॥
विषलिप्तेन विद्धो ऽहं शरेण मर्मघातिना ।
अद्यैवं न भवेत् तस्य भीतस्य नास्ति ते भयम् इति ॥
भूतपूर्वं भो धुतधर्मधर एषैव भगवान् सार्थवाहो बभूव संमतः ॥ सार्थो चानेनैव असत्पुरुषेण देवदत्तेन देशिकेन सार्थचौरैर् उपस्कृतेन कान्ताराध्वानमार्गप्रतिपन्नः ॥ पूर्ववैरानुषङ्गप्रतिबद्धमानसस् तं सार्थचौरैर् घातापयितुम् उपसंक्रान्तः ॥ तैश् च वाणिजैः सार्थवाहप्रमुखैस् ते चौरा निगृहीता देशिकपूर्वंगमाश् च वधम् उपनीयन्ता विक्रोशन्ता अशरणाः सार्थवाहम् एव शरणम् उपगताः देशिकश् च पराधापराद्धः कृतांजलिपुटः सार्थवाहम् अभयं याचि ॥ तस्य भवशतसहस्रपरिचिता करुणाविहारिणो करुणा समुत्थिता प्राणहरेषु अपि तेषु अभयं दत्त्वा देशिकम् उवाच ॥
अनुवातं मया मुक्तः धूमो देशं विनाशयेत्* ।
देशिकं सह चौरेभ्यः अनुजानामि जीवितम् इति ॥

भूयश् च भो धुतधर्मधर इमिना एव च भगवता राज्ञा सता अग्रमहिष्याः महापराधापराद्धाया
[_म्वु_1.133_] वधस्थानप्राप्तायाः याचिन्त्या अभयं दत्तं । पूर्वोपचितमार्दवार्जवसंपन्न अग्रमहिषीं शान्त्वयित्वा इमं श्लोकम् उवाच ॥
हन्तास्या आमपात्रेण शस्त्रं कायेन पातयेत्* ।
अभयन् ते अहं देमि तच् च स्थानं यथापुरम् इति ॥
एवम् आदीनि भो धुतधर्मधर दुष्करशतसहस्राणि कृतानि बोधिसत्वेहि ये अवैवर्तिका एवं कायेन एवं वाचा एवं मनसा ॥ बहुविधगुणयुक्ता संसारं संसरन्ता बोधिसत्वाश् च भवन्ति । अपि तु कर्मवशम् उपागम्य गुणसंक्षेपकीर्तितक्रिया ते बोधिसत्वा भवन्ति । दृढविक्रमा धृतियुक्ताः सत्यप्रतिज्ञा आर्जवा अशठा भवन्ति । अकृपणाश् च भवन्ति । अलोलाश् च भवन्ति । मार्दवाश् च भवन्ति । सानुक्रोशाश् च विमर्दसहाश् च अपर्यादिन्नचित्ताश् च अलोलितचित्ताश् च दुर्धर्षाश् च दुर्जयाश् च सत्वयुक्ताश् च त्यागसंपन्नाश् च प्रतिज्ञासंपन्नाश् च भवन्ति । प्रतिभानवन्ताश् च विचित्रप्रतिभानवन्ताश् च नयनसंपन्नाश् च अतित्तिगाश् च भवन्ति । परमार्थाभिनिविष्टाश् च भवन्ति । संगृहीतग्राहिणश् च भवन्ति । शुचिसमाचाराश् च भवन्ति । आनिंज्यचित्ताश् च भवन्ति । अतीव बहुमानयुक्ताश् च भवन्ति । गुरुजनसज्जन-उपचारसंपन्नाश् च भवन्ति । उपायकुशलाश् च भवन्ति । सर्वकार्येषु सन्धिग्रहसंयोजकाश् च भवन्ति । राजकार्येषु पदसन्धिविदुषश् च भवन्ति । परिषास्खलितवचना उग्रवचनमर्षयितारश् च भवन्ति । ज्ञानकेतवो बहुजनसंग्रहकुशलाश् च भवन्ति । समचित्ता अनुपक्रुष्टवृत्तिद्वाराश् च भवन्ति । प्रसिद्धकर्मान्ता अभ्युपपत्तिकुशलाश् च भवन्ति । परदुःखेषु परिकरणकुशलाश्
[_म्वु_1.134_] च भवन्ति । आस्वादादीनवेषु अशिथिलमधुराश् च कुत्सितदर्शनेषु दोषसमुद्घातकुशलाश् च भवन्ति । परकोपीनच्छादनेषु अपरिखिन्नाश् च भवन्ति । फलनिर्वृत्यपरिकांक्षिणः रागद्वेषमोहविवेककुशलमूलाश् च भवन्ति । क्लेशव्ययशमाभ्युपकारकुशलाश् च भवन्ति । सर्वोपकारिषु विचिकित्सापरिवर्जिताश् च भवन्ति । सर्वधर्मेषु अपरिखिन्नसंकल्पाश् च भवन्ति । गम्भीरबुद्धधर्मेषु ईहोपसंपन्नाश् च भवन्ति । परमार्थाधिगमे अनुपलिप्तकायकर्मवाक्कर्ममनोकर्माश् च भवन्ति । भवसज्जीवतत्वे अपरामृष्टशुभकर्माश् च भवन्ति । ज्ञानपरमा असंक्लिष्टप्रतिभानाश् च भवन्ति । बुद्धविषयाभिलाषिणः अप्रत्यादेशनपराश् च भवन्ति । ज्ञानकेतव अखिन्नवचनाः प्रवर्जनाकुशलाश् च भवन्ति । अदुष्टस्वभावगता पराभवापगताश् च भवन्ति । विगतसावद्याश् च भवन्ति । त्रिविधौद्धत्यपरिवर्तिजताश् च भवन्ति । स्थितलपा अकामकामिनश् च भवन्ति । अमैथुनगामिनः सर्वसत्वसंग्रहणाविदूषकाश् च लोकम् अनुप्रविष्टाः कृतनिश्चयबलाधानाश् च भवन्ति । सर्वकर्मेषु नानास्थानास्थानकुशलाश् च भवन्ति सत्वाद्याश् च इत्य् एवं गुणसंपन्ना भवन्ति । पुङ्गवा असंख्येयगुणधीरा सत्वेषु समबुद्धिनो भवन्ति च । अत्र उच्यते ॥
न शक्यं गगनस्य अन्तं गन्तुं सर्वविहंगमैः ।
न शक्यं सर्वसत्वेहि गुणा ज्ञातुं स्वयम्भुवाम् इति ॥
ये च भो धुतधर्मधर लोकहितसुखार्थं मन्त्रा वा अगदा वा सत्वानाम् उपकाराये
[_म्वु_1.135_] कल्पेन्ति सर्वे ते बोधिसत्वेहि प्रणीता ॥ यानि च भैषज्यानि लोके प्रचरन्ति सत्वानां हितसुखार्थं सर्वाणि तानि बोधिसत्वेभ्यः उपशिष्टानि ॥ यानि च शास्त्राणि तत्त्वनिश्चययुक्तानि लोके प्रचरन्ति सर्वाणि तानि बोधिसत्वनीतानि ॥ यच् चेह लोके संख्यागणनं मुद्रास्थानानि च सर्वा एषा बोधिसत्वानां नीति ॥ या वा इमा लोके संज्ञा ब्राह्मी पुष्करसारा खरोस्ती यावनी ब्रह्मवाणी पुष्पलिपी कुतलिपी शक्तिनलिपी व्यत्यस्तलिपी लेखलिपी मुद्रालिपी उकरमधुरदरदचीणहूणापीरा वङ्गा सीफला त्रमिदा दर्दुरा रमठभयवैच्छेतुका गुल्मला हस्तदा कसूला केतुका कुसुवा तलिका जजरिदेषु अक्षबद्धं सर्वा एषा बोधिसत्वानां नीति ॥ कनकरजतत्रपुताम्रसीसमणिरतनक्षेत्राणि सर्वाण्य् एतानि बोधिसत्वानां नीतिः ॥ यानि यानि च कारणानि लोकस्य उपकाराये कल्पेन्ति सर्वाण्य् एतानि बोधिसत्वनीतानि ॥ तत्रेदम् उच्यते ॥
लोकस्य अर्थविदुषः पुरुषप्रधानाः
संसारम् अप्रतिसमाः परिवर्तमानाः ।
श्रेयश् चरन्ति मरुमानुषगुह्यकानां
परमो हि समुदागम ईश्वराणाम् इति ॥
[_म्वु_1.136_] एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच ॥ ये ते भो जिनपुत्र अवैवर्तिकास् तेषां किं चित्तम् उत्पद्यते ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच ॥ ये ते भो धुतधर्मधर बोधिसत्वा अवैवर्तिकास् तेषां सप्तमातो भूमितो अष्टमां भूमिं संक्रमन्तानां महाकरुणासंप्रयुक्तं चित्तम् उत्पद्यते ॥
___इत्य् एषा सप्तमा भूमि बोधिसत्वानम् उच्यते इति ॥
_____इति श्रीमहावस्तु-अवदाने सप्तमा भूमिः समाप्ता ॥
एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच ॥ भगवता भो जिनपुत्र सम्यक्संबुद्धेन शाक्यमुनिना प्रथमाद्वितीयातृतीयाचतुर्थापंचमाषष्ठासप्तमासु भूमिषु वर्तमानेन येषु सम्यक्संबुद्धेषु कुशलम् अवरोपितं तेषां सम्यक्संबुद्धानां कानि नामानीति ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच ॥ येषु भो धुतधर्मधर सम्यक्संबुद्धेषु भगवता शाक्यराजवंशप्रसूतेन कुशलमूलम् उपचितं तेषां विपुलबलवरकीर्तिनां नामानि शृणु ॥ प्रथमतः सत्यधर्मविपुलकीर्तिः ततः सुकीर्तिः लोकाभरणः विद्युत्प्रभः इन्द्रतेजः ब्रह्मकीर्तिः वसुन्धरः सुपार्श्वः अनुपवद्यः सुज्येष्ठः सृष्टरूपः प्रशस्तगुणराशिः मेघस्वरः हेमवर्णः सुन्दरवर्णः मृगराजघोषः आशुकारी धृतराष्ट्रगतिः कोकाभिलाषितः जितशत्रुः सुपूजितः यशराशिः अमितततेजः सूर्यगुप्तश् चन्द्रुभानुः निश्चितार्थः कुसुमगुप्तः पद्माभः प्रभंकरः दीप्ततेजः सत्वराजा

[_म्वु_1.137_] गजदेवः कुञ्जरगतिः सुघोषः समबुद्धिः हेमवर्णलम्बदामः कुसुमदामः रत्नदामः अलंकृतः विमुक्तः ऋषभगामी ऋषभः देवसिद्धयात्रः सुपात्रः सर्वबन्धः रत्नमकुटः चित्रमकुटः सुमकुटः वरमकुटश् चलमकुटः विमलमकुटः लोकंधरः विपुलोजः अपरिभिन्नः पुण्डरीकनेत्रः सर्वसहः ब्रह्मगुप्तः सुब्रह्मः अमरदेवः अरिमर्दनश् चन्द्रपद्मः चन्द्राभश् चन्द्रतेजः सुसोमः समुद्रबुद्धिः रतनशृङ्गः सुचन्द्रदृष्टिः हेमक्रोडः अभिन्नराष्ट्रः अविक्षिप्तांशः पुरंदरः पुण्यदत्तः हलधरः ऋषभनेत्रः वरबाहुः यशोदत्तः कमलाक्षः दृष्टशक्तिः नरंप्रवाहः प्रनष्टदुःखः समदृष्टिः दृढदेवः यशकेतुश् चित्रच्छदश् चारुच्छदः लोकपरित्राता दुःखमुक्तः राष्ट्रदेवः रुद्रदेवः भद्रगुप्तः उदागतः अस्खलितप्रवराग्रः धनुनाशः धर्मगुप्तः देवगुप्तः शुचिगात्रः प्रहेतिः प्रथमशतम् आर्यपक्षस्य ॥ भगवान् धर्मधातुः गुणकेतुः ज्ञानकेतुः सत्यकेतुः पुष्पकेतुः वज्रसंघातः दृढहनुः दृढसन्धिः अत्युच्चगामी विगतशत्रुः चित्रमालः ऊर्ध्वसध्निः गुणगुप्तः ऋषिगुप्तः प्रलम्बबाहुः ऋषिदेवः सुनेत्रः सागरधरपुरुषः सुलोचनः अजितचक्रः उन्नतः अजितपुष्यलः पुराषः मङ्गल्यः मुभुजः सिंहतेजः तृप्तवसन्तगन्धः अवध्यपरमबुद्धिः नक्षत्रराजः बहुराष्ट्रः आर्याक्षः सुगुप्तिः प्रकाशवर्णः समृद्धराष्ट्रः कीर्तनीयः दृढशाक्तिः हर्षदत्तः यशदत्तः नागबाहुः विगतरेणुः शान्तरेणुः दानप्रगुरुः उदात्तवर्णः बलबाहुः
[_म्वु_1.138_] अमितौजः धृतराष्ट्रः देवलोकाभिलाषितः प्रत्यग्ररूपः देवराजगुप्तः दामोदरः धर्मराजः चतुरस्रवदनः योजनाभः पद्मोष्णीषः स्फुटविक्रमः राजहंसगामी स्वलक्षणमण्डितः शिति चूडः मणिमकुटः प्रशस्तवर्णः देवाभरणः कल्पदुष्यगुप्तः साधुरूपः अक्षतबुद्धिः लोकपद्मः गम्भीरबुद्धिः शक्रभानुः इन्द्रध्वजः दानवकुलः मनुष्यदेवः मनुष्यदत्तः सोमच्छत्रः आदित्यदत्तः यामगुप्तः नक्षत्रगुप्तः सुमित्ररूपः सत्यभानुः पुष्यगुप्तः वृहस्पतिगुप्तः गगनगामी शुभनाथः सुवर्णः कनकाक्षः प्रसन्नबुद्धिः अविप्रनष्टराष्ट्रः उदग्रगामिः शुभदन्तः सुविमलदन्तः सुवदनः कुलनन्दनः जनक्षत्रियः लोकक्षत्रियः अनन्तगुप्तः धर्मगुप्तः सूक्ष्मवस्त्रः द्वितीयं शतम् आर्यपक्षस्य ॥ प्रत्यासन्नबुद्धिः सत्वसहः मनुष्यनागः उपसेनः सुवर्णचारी प्रभूतवर्णः सुभिक्षाकान्तः भिक्षुदेवः प्रबुद्धशीलः नहीनगर्भः अनालम्भः रतनमुद्रः हारभूषितः प्रसिद्धवेदनः सुगन्धिवस्त्रः सुविजृम्भितः अमितलोचनः उदात्तकीर्तिः सागरराजः मृगदेवः कुसुमहेस्थः रत्नशृङ्गश् चित्रवर्णः पद्मरजवर्णः समन्तगन्धः उदारगुप्तः प्रशान्तरोगः प्रदक्षिणार्थः संक्षिप्तबुद्धिः अनन्तच्छत्रः योजनसहस्रदर्शी उत्पलपद्मनेत्रः अतिपुरुषः अनिवर्तिकबलः स्वगुणशाखः संचितोरः महाराजः चारुचरणः प्रसिद्धरंगः त्रिमङ्गलः
[_म्वु_1.139_] सुवर्णसेनः वर्तितार्थः असंकीर्णः देवगर्भः सुप्रीत्यरतिः विमानराजा परिमण्डनार्थः देवसत्वः विपुलतरांशः सलीलगजगामी विरूढभूमिर् इति ॥
_____इति श्रीमहावस्तु-अवदाने अष्टमा भूमिः समाप्ता
ततो भूयो धुतधर्मधर अतो ऽनन्तरं भगवाञ् चित्रभानुः चारुभानुः दीप्तभानुः रुचितभानुः असितभानुः हेमरथः चामीकरगौरः रजकरथः सुयक्षः अक्षोभ्यः अपरिश्रोतवाहनः देवालंकृतः सुभूषितखण्डः शिथिलकुण्डलः मणिकर्णः सुलक्षणः सुविशुद्धः विमलजेन्द्रः देवचूडः मन्दारवगन्धः पतंगचरश् चारुगन्धः इन्द्रचूर्णः शैलराजकेतुः अरिमर्दनः मणिचक्रः विमलोत्तरीयः सत्याभरणः दृढवीर्यः नन्दिगुप्तः आनन्दमालः चक्रवालगुप्तः दृढमूलः आनन्दचन्द्रः ब्रह्मध्वंसदेवः सौम्यवत्सबाहुः समीक्षितवदनः सत्यावतारः सुप्रतिष्ठितबुद्धिः हारशीतलांगः सुखप्रभः भूरिसत्वः भद्रगुप्तश् चन्द्रशुभः भद्रतेजः इष्टरूपश् चक्रवर्तिदत्तः सुविचक्षणगात्रः वैश्रावणराजा समृद्धयज्ञः संमतरश्मिः दर्शनक्षमः स्रजमालाधारी सुवर्णविषाणः भूतार्थकेतुः रत्नरुधिरकेतुः महार्षचूडः तेजगुप्तः वरुणराजः उदात्तवस्त्रः वज्रगुप्तः धन्यभानुः उत्तप्तराष्ट्रः विशालप्रभः लोकसुन्दरः अभिरूपः हिरण्यधन्यशिरिकः प्रभूतदेहकर्णः
[_म्वु_1.140_] प्रागजितः विचित्रमकुटः दानवगुप्तः राहुवमी पुण्यराशिः सलिलगुप्तः शमितशत्रुः रत्नयूपः सुविकल्पाङ्गः अजितबलः सत्यनामः अविरक्तराष्ट्रः वैश्वानरगुप्तः मधुरवदनः कुसुमोत्पलः उत्तरकुरुराजः अञ्जलिमालाधारी धनपतिगुप्तः तरुणार्कभानुः अनुरूपगात्रः रत्नकरण्डकेतुः महाकोशः बहुलकेशः पुष्पमंजरिमण्डितः अनपविद्धकर्णः अनाविद्धवर्णः सितासितलोचनः अरक्तप्रवाडः सिंहोरस्कः अरिष्टनेमिः बहुराजा ॥ नवमायां भूमौ प्रथमं शतम् आर्यपक्षे ॥ भूमिदेवः पुण्डरीकाक्षः साधुप्रभः ज्योतिगुप्तः बहुप्रभः सत्यंवचः भवदेवगुप्तः संवृत्ततेजः निरुपघातः जानुत्रस्तः रत्नशयनः कुसुमशयनः चित्रशयनः दन्तशयनः सुप्रतिष्ठितचरणः सर्वदेवगुप्तः अरजोत्तरीयः स्वायंभवेन्द्रः प्रसन्नवर्णः भवकेतुः क्षीरपूर्णाम्भ्यः अनन्तबुद्धिः कनकनागराजतेजः बन्धनान्तकरः अनुग्रवर्णक्षेमगुप्तः जिनकान्तारः विमलः मरीचिजालः अजितसेनराजा कनकराशिः गौरः पद्ममालः राजक्षेत्रगुप्तः समपक्षश् चातुर्देवः देवगुप्तः पुष्कलाङ्गः द्विजातिराजः बहुसेनः कुमुदगन्धः शवलाश्वः षड्विषाणपातः सुरभिचन्दनः राजा सहस्रदाता अभयदेवः अरिनिहन्ता विमलशिखरः दुरारोहबुद्धिः यज्ञकोटिगुप्तः रत्नचंक्रमः जालान्तरः परिशुद्धकर्मः कामदेवः गुरुरत्नः

[_म्वु_1.141_] शतसहस्रमाता शुचिप्ररोहः स्तिमितराजा वृद्धदेवः गुरुजनपूजितः जयन्तदेवः सुजातबुद्धिः समीक्षितार्थः उज्झितपरः देवाभिकः असुरदेवः गन्धर्वगीतः वीणारवघोषः शुद्धदन्तः सुदन्तश् चारुदन्तः अमृतफलः मार्गोद्योतयिता मणिकुण्डलधरः हेमजालप्रभः नागभोगबाहुः कमलधरः अशोकसत्वः लक्ष्मीपुत्रः सुनिर्मितरूपः ईश्वरगुप्तः लोकपालराजा सुनिध्यानः अग्रपुरुषः अनिहतवर्णः कुन्दपुष्पगन्धः अङ्कुशः आर्द्रवल्लिप्रतिरूपः कार्यताविचारः स्वतेजदीप्तः प्रकाशधर्मः आर्यवंशकेतुः देवराजप्रभः प्रत्यक्षदेवः अहिभानुरागः कुसुमोत्तरीयः अविरसः प्रथमराजा पुण्डरीकराजा सुभिक्षराजः ॥ द्वितीयो आर्यपक्षः नवमायां भूमौ ॥ स्निग्धगात्रः परमार्थसत्वः अक्लिन्नगात्रः धर्मशूरः सुतीर्थः लोकालोकनिहितमल्लः कुन्दपुष्पगन्धः निरंकुशः अनोतप्तगात्रः उपाध्यायराजा प्रवराग्रमतिः अनभिभूतयशः अनुपच्छिन्नालम्भः देवगुरुः रत्नपुष्पः शुद्धसत्वः वैडूर्यशिखरश् चित्रमाल्यः सुगन्धकायः अनन्तकोशः सममथितः सत्यप्रभः अदीनगामी सुविक्रान्तः असंभ्रान्तवचनः गुरुदेवः नरदेवः नरवाहनः रत्नहस्तः लोकप्रियः परिन्दितार्थः अविशुष्कमूलः अपरितृषितः सर्वशिल्पराजः ग्रहकोशः अनुरक्तराष्ट्रः शिवदत्तमालः शिखरदत्तः चित्रमालः महाविमानः अनोतप्तगात्रश् चित्रहेमजालः शान्तरजः संगृहीतपक्षः अप्रकृष्टः रक्तचन्दनगन्धः अचलितसुमनः उपचितहनु ज्वलितयशा रचितमालः शिरमकुटः तेजगुप्तराजा इति ॥
_____श्रीमहावस्तु-अवदाने नवमी भूमिः समाप्ता ॥
[_म्वु_1.142_] एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच ॥ ये पुनर् भोजिनपुत्र बोधिसत्वाः परिपिण्डतकुशलमूलाः कृतकर्माणः नवमां भूमिं समतिक्रम्य दशमां भूमिं परिपूरयित्वा तुषितभवनम् उपगम्य मनुजभवम् अभिकांक्षमाणाः मातुः कुक्षिम् अवतरन्ति अपुनावर्तम् एवम् आदीनि कृत्वा संकीर्तय परमपुद्गलानाम् आश्चर्याद्भुतधर्मा असाधारणा प्रत्येकबुद्धादिभिः वशिभूतगणादिभिश् च शैक्षपृथग्जनादिभिश् चेति ॥ एवम् उक्ते महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच ॥ गर्भावक्रान्तिसंपन्नाश् च सम्यक्संबुद्धा भवन्ति । गर्भस्थितिसंपन्नाश् च जातिसंपन्नाश् च । जनेत्रीसंपन्नाश् च भवन्ति सम्यक्संबुद्धा । अभिनिष्क्रमणसंपन्नाश् च भवन्ति सम्यक्संबुद्धाः । वीर्यसंपन्नाश् च भवन्ति सम्यक्संबुद्धाः । ज्ञानाधिगमनसंपन्नाश् च भवन्ति सम्यक्संबुद्धाः ॥
___कथं भो धुतधर्मधर गर्भावक्रान्तिसंपन्नाः सम्यक्संबुद्धा भवन्ति ॥
तुषितभवना शिरिघनो पुरिमकुशलमूलसंचयो वीरः ।
अवलोकयति अतिशयेन्ऽ; ओलोकितानि च्यवनकाले ॥
चिन्तयति एवं हितकरो चिन्ताम् अर्थावहां नरमरूणां ।
अमरवरसंपरिवृतो देवगणगुरुर् महापुरुषो ॥
च्यवितुं समयो खु दानि मे संप्रति सत्वा महान्धकारगता ।
हतनयना कलुषनयना मां प्राप्य तस्माद् वीमुच्यन्ते ॥
[_म्वु_1.143_] का दानि शीलसंवरे एवं नारी रता उपशमे च ।
अग्रकुलीना सुवचा त्यागरुचिमार्दववती च ॥
तेजस्विनी च . . . . . का नु खलु हततमरागदोषा च ।
रूपगुणपारमिगता अहीनवृत्ता विपुलपुण्या ॥
का मां समर्था धारयितुं दश मासां का च प्रत्यरहसौख्या ।
भवे मम का नु जननी कुक्षिम् अहम् उपैमि कस्याद्य ॥

पश्यति विलोकयन्तो राज्ञो शुद्धोदनस्य ओरोधे ।
नारीम् अमरवधुनिभां विद्युल्लतानिभां अथ मायां ॥
सो तां निशाम्य जननीम् आमन्त्रयति अमरान्* च्यविष्यामि ।
अन्तिमम् उपेत्य वासं गर्भे सुरमानुषहितार्थं ॥
तं अवच देवसंघो कृतांजलिपुटो वराभरणधारी ।
ऋध्यतु उत्तमपुद्गल प्रणिधि तव अहीनगुणपुण्या ॥
वयम् अपि लोकहिता बहु मनोरमां ओशिरित्वा कामरतिं ।
पूजार्थम् अनिन्दितस्य मनुष्यलोके वसिष्यामो ॥
किं चापि विप्रयोगं त्वया न इच्छाम भूतसंघगुरु ।
अपि तु अरविन्दनयना भविष्यसि गती नरमरूणां ॥
[_म्वु_1.144_] एवं खलु भो धुतधर्मधर सम्यसंबुद्धा गर्भावक्रान्तिसंपन्नाश् च भवन्ति ॥
___कथं च भो धुतधर्मधर सम्यक्संबुद्धा गर्भस्थितिसंपन्ना भवन्ति ॥ बोधिसत्वाः खलु भो धुतधर्मधर मातुः कुक्षिगता मातुर् योनिं निश्राय तिष्ठन्ति । मातुः पृष्ठं निश्राय तिष्ठन्ति । मातुर् उदरं निश्राय तिष्ठन्ति । मातुः पार्श्वं निश्राय तिष्ठन्ति ॥ विष्टम्भितया भो धुतधर्मधर कुसूत्रं प्रवाडवैडूर्यमणिम् उपालम्ब्य न क्वचिद् उपलभ्यते प्रदेशस् तु अस्ति सर्वशस् तथा बोधिसत्वा मातुः कुक्षौ न तिष्ठन्ति तिष्थन्ति च । बोधिसत्वं पुनः खलु भो धुतधर्मधर मातुः कुक्षिगतं देवसंघाः उपसंक्रम्य पृच्छन्ति प्रह्वाः कृतांजलिपुटाः सुमुहूर्तं सुदिवसं प्रीतमनसः । तां च देवसंघान् तथा पृच्छमानां बोधिसत्वा प्रत्यभिनन्दन्ति दक्षिणकरम् उत्कृष्य मातरं च न बाधन्ति ॥ न खो पुनर् भो धुतधर्मधर बोधिसत्वा मातुः कुक्षिगता उत्कुटकेन पार्श्वेन वा यथा कथंचिद् वा स्थिता भवन्ति । अथ खलु भो धुतधर्मधर बोधिसत्वाः पर्यङ्कम् आभुंजित्वा निषण्णा भवन्ति मातरं च न बाधन्ति ॥ बोधिसत्वाः खो पुनर् भो धुतधर्मधर मातुः कुक्षिगता च सन्तो भववादिकथां कथयन्ति कुशलमूलत इति ॥ बोधिसत्वस्य खलु पुनर् भो धुतधर्मधर मातुः कुक्षिगतस्य पूजार्थं सततसमितं दिव्यानि तूर्याणि वाद्यन्ति न कदाचिद् दिवा वा रात्रौ वा तिष्ठन्ति ॥ बोधिसत्वं च भो धुतधर्मधर
[_म्वु_1.145_] मातुः कुक्षिगतं पूजार्थं अप्सरशतसहस्राणि सन्दर्शयन्ति दिव्यं पुष्पवर्षं दिव्यं चूर्णवर्षं नोपरमन्ते कदाचित्* ॥ मातुः कुक्षिम् आदौ कृत्वा बोधिसत्वानां यावत् परिनिर्वृता दशबला च दिव्या च अगुरुधूपा नोपरमन्ति ॥ न खलु भो धुतधर्मधर बोधिसत्वा मातापितृनिर्वृत्ता भवन्ति । अथ खलु स्वगुणनिर्वृत्ता उपपादुका भवन्ति ॥ तत्रेदम् उच्यते ॥
अथ सा कमलदलनयन अनुबद्धा गन्धर्वबहुभि श्यामा ।
सहितं पि तं सुमधुरं शुद्धोदनम् अब्रवीत्* माया ॥
एषा समादियामि प्राणेहि अहिंसं ब्रह्मचर्यं च ।
विरमामि चाप्य् अदिन्ना मद्याद् अनिबद्धवचनाच् च ॥
परुषवचनाच् च नरवर प्रतिविरमामि तथैवं पैशुन्या ।
अनृतवचनाच् च नरपति विरमामि अयं मम छन्दो ॥
परकामेषु च ईर्ष्यां न संजनेष्यं नापि अभिद्रोहं ।
भूतेषु मैत्रचित्ता मिथ्यादृष्टिं च विजहामि ॥
एकादशप्रकारं शीलं सेवाम्य् अहं पृथिवीपाल ।
रजनीम् इमाम् अनूनाम् एवं मे जायते छन्दो ॥
अपि च खलु भूमिपाला कामवितर्को मा मां प्रतिकांक्षि ।
प्रेक्षस्व मा ति अधर्मो भवेय मयि ब्रह्मचारिणिये ॥
संकल्पं प्रपूरेष्यन् ति पार्थिवो भारियाम् इदम् अवोचत्* ।
[_म्वु_1.146_] अभिरम भवनवरगता अहं च राज्यं च ते वश्यं ॥
सा स्त्रीसहस्रम् अग्र्यं अनुरक्तं गृह्य तं विमानवरं ।
अभिरुह्य सन्निषीदे मनापपरिपूर्णपरिवारा ॥
सा कंचिद् एव कालं तस्मिं हिमपाण्डुपुण्डरीकनिभे ।
शयने प्रशमदमरता तुष्णीभावेन क्षेपयते ॥
अथ कौतूहलमनो संजनिया बहुदेवकन्या वरमाल्यधराः ।
जिनमातुः उपगता द्रष्टुमना प्रासादसुन्दराग्रेण स्थिता ॥
उपसंक्रमित्व शयनोपगतां मायां निशाम्य वरविद्युनिभां।
प्रीतिसुखं विपुलं संजनिया अथ संप्रवर्षि दिविजं कुसुमं॥
मानुष्यकं पि किल ईदृशकं रूपं सुजातम् इदम् आश्चर्यं ।
किंचित् कालं स्थिहिय अन्तरतो नायं समा मरुवधूहि भवे ॥
लीलां निशामयथ हे सखिका प्रमदाये यादृशीं यथोपयिकां ।
शयने विरोचति मनं हरति विभ्राजते कनकरीतिः इव सा ॥
इयं तं धरेष्यति महापुरुषं अत्यन्तदानदमशीलरतं ।

[_म्वु_1.147_] सर्वाश्रवान्तकरणं विरजं किं हायते तव नरेन्द्रवधू ॥
चापोदरे करतलप्रतिमे वररोमराजिनि चित्रस्तवने ।
इह वासम् अभ्युपगतो वरदो अविम्रक्षितो अशुचिना भगवां ॥
अनुरूपा त्वं च प्रमदा प्रवरा माता स चैव पुरुषप्रवरो ।
पुत्रो भवान्तकरणो भगवां किं हायते तव नरेन्द्रवधू इति ॥
यस्यां खलु भो धुतधर्मधर जातीयां बोधिसत्वमातरो चरमभविकं बोधिसत्वं धारयन्ति तस्यां जातौ प्रमदावराणां परिशुद्धं परिपूर्णम् अखण्डं ब्रह्मचर्यं भवति ॥ मनसापि तासां प्रमदोत्तमानां रागो नोत्पद्यते सर्वपुरुषेषु भर्तारम् आदौ कृत्वा ॥ बोधिसत्वे च भो धुतधर्मधर मातुः कुक्षिगते बोधिसत्वमाता दिव्यवस्त्रसंवृतशरीरा च भवति दिव्याभरणधारिणी च सुस्नातोच्छादनपरिमर्दनपरिषेकं च अप्सरोगणाः बोधिसत्वमातुः प्रतिजागरन्ति ॥ बोधिसत्वे मातुः कुक्षिगते बोधिसत्वमातुः देवकन्याशतसहस्रेहि सार्धं हास्यं भवति ॥ तथा प्रसुप्तां च बोधिसत्वमातरं देवकन्या मन्दारवपुष्पदामैः परिवीजयन्ति अग्रयौवनमण्डप्राप्ता ॥ यदा च तस्या प्रमदोत्तमायाः बोधिसत्वः कुक्षिम् अवतरति न बोधिसत्वमाता कानिचिद् दुःखान्य् अनुभवति यथान्या प्रमदा ॥ तुषितभवनम् आदौ कृत्वा सर्वेषां बोधिसत्वानां पंच नीवरणानि
[_म्वु_1.148_] विष्कम्भितानि भवन्ति अप्राप्ते धर्मराज्ये ॥ परिपूर्णेहि च दशहि मासेहि सर्वे बोधिसत्वाः मातुः कुक्षौ प्रादुर्भवन्ति दक्षिणेन पार्श्वेन न च तं पार्श्वं भिद्यते । न चात्र किंचिद् विलम्बं भवति जात इत्य् एवं भवति ॥ तत्रेदम् उच्यते ॥
अथ प्रतिपूर्णे दशमे मासे माता प्रभूतपुण्यस्य ।
शुद्धोदनं उपगम्य इदम् अब्रवीत्* दृष्टसंकल्पा ॥
उद्यानगमनबुद्धी उत्पन्ना मे नराधिपा शीघ्रं ।
सज्जेहि वाहनं मे यथोचितां चैवम् आरक्षां ॥
एतं श्रुत्वा वचनं राजा शुद्धोदनो सुप्रीतमनो ।
आलपति साभिलाषं परिवारवरं पृथिविपालो ॥
शीघ्रं गजतुरगवतीं सेनां पदातिसमाकुलां विपुलां ।
प्रासशरशक्तिचित्रां सज्जिय प्रतिवेदयध्वं मम ॥
चतुघोटान तथ अश्वरथान दशशतसहस्रा युज्यन्तु ।
प्रवरा काञ्चनघण्टारवाणि मधुरानुनादानि ॥
अंजनघनसदृशानां नागानां वर्मधारिणां शीघ्रं ।
प्रतिधेयथ अधिमात्रा सज्जानि दशशतसहस्राणि ॥
आयुक्तवर्मकवचा शूरा सज्जीभवन्तु अनिवर्त्या ।
सज्जीभवन्तु चपलं विंशत्साहस्रियो तेषां ॥
[_म्वु_1.149_] विपुल सकिंकिणिरणितं सहेमजालं उडार-अश्वरथं ।
वरमाल्यवस्त्रधारिणो प्रमदा धारेन्तु देवीये ॥
लुम्बिनिवनं च शीघ्रं व्यपगततृणरेणुपत्रसंकारं ।
सुशोधितं मनोज्ञं कुरुत देवीये देवभुवनं वा ॥
एकैकं च द्रुमवरं कुकूलपट्टोर्णकोशिकारेहि ।
कल्पयथ कल्पवृक्षां यथा दिवि देवप्रवरस्य ॥
साधू ति प्रतिश्रुत्वा तस्य वचनेन नरेन्द्रगर्भस्य ।
नचिरेण यथाज्ञप्तं कृतम् इति प्रतिवेदितं राज्ञः ॥
सा सलीलचारुवदना माता मारबलसंप्रमथनस्य ।
अभिरूहि सपरिवारा तानि मनोज्ञानि यानानि ॥
सा विविधाभरणवती पादौघरथौघसंकुला . . . . ।
शोभति सुसंप्रयाता सेना मनुजप्रधानस्य ॥
अवगाह्य तद् वनवरं माया सखिसंवृता जिनजनेत्री ।
विचरति चित्ररथे इव अमरवरवधू रतिविधिज्ञा ॥
सा क्रीडार्थम् उपगता प्लाक्ष्णा शाखां भुजेभिः अवलम्ब्य ।
प्रविजृम्भिता सलीलं तस्य यशवतो जननकाले ॥ {सेनर्त्: प्रतिजृम्भिता}
अथ विंश सहस्राणि अप्रतिमानि तदा अप्सरवराणां ।
दशनखकृतांजलिपुटा मायाम् अभिनन्दिय भणन्ति ॥
[_म्वु_1.150_] अद्य जराजातिमथनं जनयिष्यसि अमरगर्भसुकुमारं ।

देवी दिवि भुवि महितं हितं हितकरं नरमरूणां ॥
मा खु जनयी विषादं परिकर्म वयं तवं करिष्यामः ।
यत् कर्तव्यम् उदीरय दृश्यतु कृतम् एव मा चिन्ता ॥
मातरम् अबाधमानो प्रादुर्भूतो मनापो मायाये ।
दक्षिणपार्श्वेन मुनिः सुसंप्रजानो परमवादी ॥
अथ विविधरतननिचया नगरनगरा अनेकसहस्राणि ।
प्रज्वलि प्रभा च विमला प्रादुर्भूते नरवरेन्द्रे ति ॥
न खलु भो धुतधर्मधर सो अस्ति सत्वो सत्वनिकाये यो चरमां जातिं समनन्तरजातं बोधिसत्वं समर्थो व्याकर्तुं अन्यत्र शुद्धावासेभ्यो देवेभ्यः ॥ तत्रेदम् उच्यते ॥
अंशुकसुवेष्टितशिरा अष्ट सहस्रा महेश्वरवराणां ।
ब्राह्मणवेषधाराणां अभिगच्छि पुरं कपिलवस्तु ॥
ते राजकुलद्वारे वरवसनधरा वराभरणधारी ।
अपगम्य मुदितमनसा प्रतिहारम् उवाच सत्ववरा ॥
शुद्धोधनम् उपगम्य ब्रूवीहि इमे लक्षणगुणविधिज्ञा ।
तिष्ठन्ति अष्टसहस्रं प्रविशेद् इति यद्य् अनुमतन्ते ॥
एतं श्रुत्वा वचनं प्रतिहाररक्षो उपेत्य राजवरं ।
[_म्वु_1.151_] कृतांजलिपुटः प्रणम्य इदं उवाच नराधिपतिं ॥
सुखं अतुलबल दीप्तिद कारय राज्यं चिरं निहतशत्रुः ।
द्वारे ते अमरसदृशा तिष्ठन्ति प्रवेष्टुम् इच्छन्ति ॥
प्रतिपूर्णविमलनयना मधुरस्वरमत्तवारणविचारी ।
भवन्ति मम तेषु संका न ते मनुष्या मरुसुतास् ते ॥
परिकंक्रमतां तेषां धरणिरजः क्रमवरा न संकिरति ।
न च तेषु सन्धिशब्दश् चंक्रमता श्रुय्यति कदाचित्* ॥
गम्भीरमधुरचेष्टा आर्यकारा प्रशान्तदृष्टिपथा ।
विपुलां जनेन्ति प्रीतिं जनस्य समुदीक्षमाणस्य ॥
निःसंशयं नरवरा पुत्रवरं उपगता तवं द्रष्टुं ।
देवगणपुरुषप्रदेवं अभिवाद्य नन्दितुं नरसिंहं ॥
एतं श्रुत्वा वचनं प्रतिहाररक्षं नराधिपोवाच ।
मयि भो कृताभ्यनुज्ञा प्रविशन्तु निवेशनम् उदारं ॥
अमरप्रवरगणस् ते गगनसमनिभा विशुद्धाकर्मान्ता ।
प्रविशेन्सुः पार्थिवकुलम् अहीनकुलवंशमुख्यस्य ॥
शुद्धोदनो पि राजा महेश्वरां दूरतो निशामेत्वा ।
[_म्वु_1.152_] प्रत्युत्थित आसनातो सपरिजनो गौरवबलेन ॥
अभिवादते नरपतिः स्वागतम् अनुरागतं च सर्वेषां ।
प्रीता स्म दर्शनेन प्रशमदमबलेन च भवतां ॥
संविद्यन्ते इमानि वरासनानि वररूपविकृतानि ।
आस्तां ताव भवन्तो अस्माकम् अनुग्रहार्थाय ॥
अथ तेष्व् आसनवरेषु कनकरजतवर्णचित्रपादेषु ।
विगतमदमानदर्पाः ते तत्र सुखं निषीदेन्सुः ॥
ते कंचिद् एव कालं निषण्णमात्रा नराधिपम् उवाच ।
शृण्वतु भवां प्रयोजनं यं अस्माकम् इह गमनाय ॥

सर्वानवद्यगात्रो पुत्रस् तवं अनुजातो . . . . . . ।
लक्षणपारमिप्राप्तो . . . . . . . . . . . . . . . . ॥
वयम् अपि लक्षणकुशला दोषगुणां लक्षणैर् विजानाम ।
यदि न गुरु तव सुतन् ते पश्येम महापुरुषरूपं ॥
सो वदति एथ पश्यथ सुव्यपदेशक्षेमं मम पुत्रं ।
मरुमनुजकीर्तियशसं लक्षणगुणपारमिप्राप्तं ॥
अथ मृदुककाचलिन्दिकप्रवेणिशयितं च कनकवर्णाभं ।
उपनयति पार्थिववरो नरमरुपरिवन्दितं सुगतं ॥
आलोकयित्व दूरा महेश्वराः क्रमवरान् नरवरस्य ।
[_म्वु_1.153_] मूर्ध्ना विगलितमकुटा धरणिवरतले प्रणिपतेन्सुः ॥
गोक्षीरविमलचन्द्रं महीतले मूर्ध्नं प्रतिष्ठापेत्वा ।
दशबलम् अभिनन्दन्ताः स्थिता सुचिरकालम् अभिकांक्षितं इति ॥
जाता खलु भो धुतधर्मधर बोधिसत्वाः सर्वाणि मानुष्यकानि शिल्पानि अनाचार्यका प्य् अनुतिष्ठन्ति ॥
___न खलु भो धुतधर्मधर बोधिसत्वाः तुषितभवनात् प्रभृति कामां प्रतिसेवन्ति ॥ भो जिनपुत्र को हेतुः कः प्रत्ययः यं अप्रहीणेहि क्लेशेहि बोधिसत्वाः कामां न प्रतिसेवन्ति राहुलश् च कथम् उत्पन्न इति ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच ॥ परिपिण्डत्वात् कुशलस्य बोधिसत्वा कामां न प्रतिसेवन्ति कल्याणाध्याशयत्वात्* अग्राध्याशयत्वात् प्रणीताध्याशयत्वाच् च बोधिसत्वा कामां न प्रतिसेवन्ति । अकामकामित्वात्* ज्ञानध्वजत्वात्* अतत्परायणत्वात् स्पृहानुपस्थितत्वात् बोधिसत्वाः कामां न प्रतिसेवन्ति । आर्यत्वात्* अनीचत्वात् कुशलपरिभावितत्वाच् च बोधिसत्वाः कामान् न प्रतिसेवन्ते परमपुरुषसंभावितत्वाच् च लोकस्य सम्यक्संबुद्धो भविष्यतीति ॥ अथ राहुलस् तुषितकायाच् च्यवित्वा मातुः यशोधरायाः क्षत्रियकन्यायाः कुक्षिम् अवतीर्ण इति ॥ एवम् अनुश्रुयते भो धुतधर्मधर ॥ राजानश् चक्रवर्तिनः औपपादुका बभूवु ॥ तद्यथा कुसुमचूडः हेमवर्णः गान्धर्वः सुमालः रत्नदण्डः सुविमानः
[_म्वु_1.154_] आर्जवः मान्धाता सुनयः सुवस्त्रः बहुपक्षः तोरग्रीवः मणिविरजः पवनः मरुदेवः सुप्रियः त्यागवां शुद्धवंशः दुरारोह इति इत्य् एवम् आदयश् चक्रवर्तिगणाः औपपादुका आसन् न तथा राहुलभद्र इति ॥
___कथं भो धुतधर्मधर बोधिसत्वा अभिनिष्क्रमणसंपन्ना भवन्ति ॥ भूतपूर्वं भो जिनपुत्र बोधिसत्वो अभिनिष्क्रान्तः ॥ राजकुलगतश् छन्दकं गाथयाध्यभाषते ॥
क्षिप्रं छन्दक कण्ठकम् उपनीत्वा मा चिरं विलम्बाहि ।
संग्रामम् अहं दुर्जयं जयिष्ये अद्य भव वूदग्रो ॥
सो वाष्पपूर्णवदनो परिनिःश्वसन्तो
छन्दकः सशोकरवितानि समुत्थितानि ।
वाष्पाणि मुञ्चति इमानि प्रबोधनार्थं
सुप्तस्य पार्थिवजनस्य . . . . . . ॥
किं दानि आविगलिता वरकोशभारा
वाष्पौघसंस्तरगता मदनाभिभूता ।
लालस्यसोकपरिदेवितकाल एव
सुप्ता इदानि यद जाग्रणदेशकालः ॥
देवी पि नाम सुचिरं प्रतिजागरित्वा
सौदामनीप्रतिमरूपनिभा शयाना ।
निर्याणकालसमये नरलम्बकस्य
वरसुरपुरे सुरवधूप्रतिमा सलीला ॥
[_म्वु_1.155_] सा दानि तस्य महिषी मनुजेश्वरस्य
माता सवत्सलविशालसुचारुनेत्रा ।
संपश्यमान करुणं प्रियविप्रयोगं
निद्राभिभूत न विजानति आलपन्तं ॥
सा दानि कुञ्जरवराश्वसमाप्तयोधा
नाराचप्रासशरशक्तिविचित्रवर्मा ।
सेना कहिं वसति कं वा गुणं करोति
या शाक्यपुङ्गवं न बुध्यति निष्क्रमन्तं ॥
कं बोधयामि मम को नु भवे सहायो
किं वा करोमि दिवसे अपि विप्रनष्टे ।

हा हेमकाञ्चननिभेन किल विहीनो
राजा जहिष्यति सबन्धुजनो शरीरं ॥
तं देवसंघ अवची मधुरप्रलापी
किं छन्दका लपसि किं ति विहन्यितेन ।
नैतस्य मारकपुत्राण्य् अपि उद्यतानि
विघ्नं समर्थ जनयेयु कुतो पुनस् त्वं ॥
भेरिमृदङ्ग यदि शंखसहस्रशब्दं
कुर्यात् कोचित् कपिलवस्तुनि बोधनार्थ ।
नैतद् विबुद्धि अमरेश्वर-म्-आदिकेहि
तं सोपितं पुरवरं हि समृद्धवारं ॥
पश्यासि ताव गगने मणिरत्नचूडा
[_म्वु_1.156_] देवा दिवि गुरुकृतस्य वसानुवर्ती ।
प्रह्वा कृतांजलपुटा प्रणिपत्य मूर्ध्ना
त्वं बन्धु त्वं च शरणं ति नमस्यमाना ॥
तत् साधु कण्ठकम् उपानय नायकस्य
गोक्षीरहेमवपुषं सहजं तुरंगं ।
न ह्य् अस्ति सो भुवि दिवि नरलम्बकस्य
यो विघ्नं कुर्या उपनेहि तुरंगश्रेष्ठं ॥
सो तं प्रफुल्लकुमुदाकरकुन्दगौरं
संपूर्णचन्द्रवपुषं सहजं तुरंगं ।
तस्य महागुणधरस्य वचाभितुन्नो
सुश्रूषकारि उपनामयते रुदन्तो ॥
एषो ति नाथ वरलक्षणभूषिताङ्गो
सज्जः सुद्योतचरणो ललिताग्रगामी ।
यं दानि ते ऽध्यवसितं वररूपधारि
तन् ते समृध्यतु विशालभुजान्तरांशा ॥
शत्रुश् च ते ऽग्रबल दुर्बलभग्नशूको
शीघ्रं तपेतु तव तेजवराभिभूतः ।
आसा च ते नरलम्बक महार्थयुक्ता
संपूर्यतां कनकपर्वतसन्निकाशा ॥
ये तुभ्य विघ्रकरा ते तु अपक्रमन्तु
[_म्वु_1.157_] श्रेयावहा तु ति बलं विपुलं लभन्तु ।
यं च व्रतं समुपगच्छसि तस्य पारं
गच्छासि मत्तवरवारणखेलगामि ॥
मणिकुट्टिमा च वसुधा राजकुले कण्ठकस्य पादेहि ।
समनिहता रसति मधुरं निशां स्फुरति अद्भुतं शब्दं ॥
चतुरश् च लोकपाला विगलितमकुटा प्रलम्बवरमालाः ।
कण्ठकपादेषु करां न्यसन्ति रक्तोत्पलसकाशां ॥
अग्रतो वज्रवरधरो त्रिदशगुरू आबद्धमणीचूडो ।
इन्द्रो सहस्रनयनो गच्छति पुरतो नरवरस्य ॥

मूल पाठ: Mahāvastu-avādana · Edition: Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)) · Data entry Emmanuel Fauré · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc