महावस्तु-अवादन · भाग 4160
संज्ञाकृतमात्रम् इदं कण्ठको वहतीति वादिशार्दूलं ।
देवा प्रवरकरहृतं वहन्ति अंशुप्रवरवर्षं ॥
निष्क्रम्य नगरवरातो अवलोकयि पुरवरं पुरुषसिंहो ।
न तं पुनर् अहं प्रवेक्ष्यम् अप्राप्य जरामरणपारम् इति ॥
एवम् अभिनिष्क्रमणसंपन्ना खलु धुतधर्मधर सम्यक्संबुद्धा इति ॥ न प्रतिबलो खल्व् अहं भो धुतधर्मधर बोधिसत्वस्य गर्भावक्रान्तिम् आदौ कृत्वा यावद् अभिनिष्क्रमणतो विस्तरेण भाषितुं कल्पं कल्पावशेषं वा न च गुणा समन्ता शक्यम् अभिगन्तुं ॥
___इत्य् अपि बहुगुणसंपन्ना सम्यक्संबुद्धा इति ॥
[_म्वु_1.158_] बोधिमूलम् उपगम्य चाप्राप्तायां सर्वाकारज्ञतायां पंचचक्षुसमन्वागता भवन्ति ॥ एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच ॥ विस्तरेण भो जिनपुत्र पंच चक्षूणि परिकीर्तय अवहितश्रोता देवमनुष्यसंकुला परिषा सर्वभूतगणा इति ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच ॥ पंच इमानि भो धुतधर्मधर सम्यक्संबुद्धानां चक्षूणि भवन्ति ॥ कतमानि पंच ॥ मान्सचक्षुः दिव्यचक्षुः प्रज्ञाचक्षुः धर्मचक्षुः बुद्धचक्षुः ॥ इमानि भो धुतधर्मधर पंच चक्षूणि सम्यक्संबुद्धानां भवन्ति असाधारणानि प्रत्येकबुद्धेभ्यः अर्हन्तेभ्यः शैक्षेभ्यः सर्वबालपृथग्जनेभ्य इति ॥ तत्र भो धुतधर्मधर मान्सचक्षुस् तथागतानां ॥ याये प्रभाये समन्वागतं याये शूक्ष्मदर्शनाये समन्वागतं याये तत्त्वदर्शनाये समन्वागतं तन् मान्सचक्षु अन्यस्य सत्वस्य सत्वकाये नास्ति ॥ प्राप्ते च सर्वदर्शित्वे बोधिसत्वा यावत्तकम् अवकाशम् अवलोकयितुम् इच्छन्ति तं दर्शनं तत्र अप्रतिहतं प्रवर्तते ॥ किं कारणं ॥ विपुलकुशलसंचितत्वात्* ॥ तद्यथापि नाम ऋद्धिबलेन राजा चक्रवर्ति सार्धं चतुरंगिनीया सेनाये वैहायसं द्वीपातो द्विपं संक्रामति तथेदं पि द्रष्टव्यं ॥ सम्यक्संबुद्धानां चरिते ऋद्धिबलेन अनाकांक्षमाणानां निश्चलां वसुमतिं प्रतिक्रमन्तानां उन्नता च ओनमति ओनता च उन्नमति तथैतद् अपि द्रष्टव्यम् इत्य् एवम् आदिना
[_म्वु_1.159_] लक्षणमात्रेण सम्यक्संबुद्धानां मान्सचक्षुः निरुपदिश्यते ॥ न च कल्पेन सम्यक्संबुद्धानां मान्सचक्षुस्य शक्यं गुणपर्यन्तम् अधिगन्तुं ॥ किं कारणं ॥ नहि किंचित् सम्यक्संबुद्धानां लोकेन समं ॥ अथ खलु सर्वम् एव महर्षिणां लोकोत्तरं ॥ तथा हि सम्यक्संबुद्धानां समुदागमः सो पि लोकोत्तरो ॥ तच् च सम्यक्संबुद्धानां मान्सचक्षुषः वर्णं प्रवृत्तं स्थानं च यथान्येषां सत्वानां सत्वकाये ॥ येन चक्षुषा भौम्या देवाश् च यक्षाश् च राक्षसाश् च कामावचराश् च रूपावचराश् च देवाः विशिष्टतरं च विपुलतरं च स्फुटतरं च सम्यक्संबुद्धानां दिव्यचक्षुः ॥ तत् प्रवृत्तं मनोमयेषु रूपेषु ॥
___येनेह प्रज्ञाचक्षुषा समन्वागता चक्षुत्वपरीक्षया अष्टमकादिका पुद्गला यावद् अर्हत्पुद्गला इति अतो परिव्यक्ततरं सम्यक्संबुद्धानां प्रज्ञाचक्षुः ॥ तत्र कतमं सम्यक्सम्बुद्धानां धर्मचक्षुः ॥ स दशानां बलानां मनोविभुता ॥ तत्र कतमानि दशबलानि ॥ तद्यथा
स्थानास्थानं वेत्ति प्रथमं बलं अप्रमेयबुद्धीनां ।
सर्वत्रगामिनीं च प्रतिपदं वेत्ति बलं द्वितीयं ॥
नानाधातुकं लोकं विदन्ति ख्यातं बलं तृतीयं ।
अधिमुक्तिनानात्वं वेत्ति चतुर्थं बलं भवति ॥
परपुरुषचरितकुशलानि वेत्ति तत् पंचमं बलं च ।
[_म्वु_1.160_] कर्मबलं प्रतिजानन्ति शुभाशुभं तद् बलं षष्ठं ॥
क्लेशव्यवदानं वेत्ति सप्तमं बलं ध्यानसमापत्तिं वेत्ति ।
अष्टमं बलं पूर्वनिवासं वेत्ति बहुप्रकारं ॥
बलं नवमं भवति परिशुद्धदिव्यनयना भवन्ति ।
सर्वक्लेशविनाशं प्राप्नोन्ति दशमं बलं भवति ॥
एतानि मनोविभुबलानि यैः सर्वदर्शी दिवि भुवि च जातकीर्तिः दशबल इत्य् एवम् आख्यातो ॥ यं एतेषु दशबलेषु मनोविभुज्ञानं इदम् उच्यते धर्मचक्षुर् इति ॥ तत्र कतमं बुद्धचक्षुः ॥ अष्टादशावेणिका बुद्धधर्माः ॥ तद्यथा अतीते अंशे तथागतस्य अप्रतिहतं ज्ञानदर्शनं । अनागते अंशे अप्रतिहतं ज्ञानदर्शनं । प्रत्युत्पन्ने अंशे अप्रतिहतं ज्ञानदर्शनं । सर्वं कायकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति । सर्वं वाचाकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति । सर्वं मनोकर्म ज्ञानपूर्वंगमं ज्ञानानुपरिवर्ति । नास्ति छन्दस्य हानिः । नास्ति वीर्यस्य हानिः । नास्ति स्मृतिये हानिः । नास्ति समाधीये हानिः । नास्ति प्रज्ञाये हानिः । नस्ति विमुक्तिये हानिः । नास्ति खलितं । नास्ति रवितं । नास्ति मुषितस्मृतिता । नास्ति असमाहितं चित्तं । नास्ति अप्रतिसंख्याय उपेक्षा । नास्ति नानात्वसंज्ञा ॥ यं इमेषु अष्टादशस्वावेणिकेषु बुद्धधर्मेषु ज्ञानम् इदम् उच्यते बुद्धचक्षुर् इति ॥
[_म्वु_1.161_] एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच ॥ किं पुनर् भो जिनपुत्र भवतो एतद् अधिवचनं यादृशानां भूमीनां व्याकरणं उताहो सम्यक्संबुद्धानाम् एतद् इति ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपम् उवाच ॥ एकस्मिं समये भो धुतधर्मधर भगवां वाराणस्यां विजहार ऋषिवदने मृगदावे अष्टाविंशतीनां वशीभूतशतानां पुरस्कृतः ॥ तत्र भगवता अष्टादश बुद्धधर्मा विभक्ताः अतीते अंशे अप्रतिहतं ज्ञानदर्शनम् एव सम्यक्संबुद्धानां भवतीति दश भूमयो समुत्कीर्तये ॥ शाक्यमुनिं सम्यक्संबुद्धं आदौ कृत्वा दश भूमयो देशिता ॥ तत्रेदम् उच्यते ॥
प्रियाणि वस्तूनि ददाति चक्षुमां
चिरं प्रसन्नेन मनेन संसरन्* ।
ततो प्रियं बुध्यति ज्ञानम् उत्तमं
स्वयं महीमण्डगतो तथागतो ॥
विचित्रवस्त्राभरणैर् अलंकृताः
स्त्रियो ददाति परितुष्टमानसो ।
विचित्रम् अस्य प्रतिज्ञानम् अद्भुतं
उदीर्यते तस्य फलेन कर्मणः ॥
न शक्तिनाराच न प्रासतोमरा ।
प्रासेसि सत्वेषु भवेषु संसरन्* ।
तथास्य मार्गो ऽतृणखण्डकण्टको
[_म्वु_1.162_] अघाति ग्रामां नगरां च संसरन्* ॥
स्वकस्य दासस्य पि धर्मवादिनः
शृणोति सत्कृत्य कथां न च्छिन्दति ।
ततो स्य धर्मं ब्रुवतो महाजने
न कश्चि नो रम्यति नो च तुष्यति ॥
प्रणीतदानानि ददाति . . . . .
विनेति कांक्षाञ् च तत एव संशयं ।
ततो स्य कायात्* ज्वलनार्चिसन्निभा
प्रभा समुत्तिष्ठति शीतलप्रभा ॥
न कस्यचिद् याचनकस्य याचना
भवन्ति बन्ध्या नरदेववेशिता ।
ततो अबन्ध्या भवि तस्य देशना
तद् अद्भुतं मारबलप्रमर्दने ॥
मनोरमां काञ्चनतालपर्णियो
जिनेषु देन्ति परितुष्टमानसाः ।
ततो अनालोकिया लोकबान्धवा
सदा च लोकेषु .. एतद् अद्भुतं ॥
उपानहा रत्नमया च पादुका
ददाति नित्यं परितुष्टमानसः ।
[_म्वु_1.163_] ततः सदा चंक्रमते नरोत्तमः
असंस्पृशन्तो चतुरंगुलं महीं ॥
परेहि उक्तो परुषं पुनः पुनः
प्रभुः समानो क्षमते न ऊहते ।
ततो पियं चंक्रमतो सपर्वता
समुन्नतान्तोनमति वसुन्धरा ॥
करोति दीनान नयेन संग्रहं
पतन्तम् अभ्युद्धरते महाजनं ।
ततो स्य रत्नामयरत्नसंचया
समोनता उन्नमते वसुंधरा ॥
स्वगुणपरिकीर्तनेन च सम्यक्संबुद्धेन बुद्धानुस्मृतिर् नाम धर्मपर्यायो भाषितः ॥ तस्य पर्यवसाने आयुष्मता वागीसेन सम्यक्संबुद्धो संमुखम् अभिस्तुतो ॥
नमो ऽस्तु ते बुद्ध अनन्तदर्शन
समन्तचक्षुः शतपुण्यलक्षण ।
हितानुकम्पी परमार्थकोविद
नमामि त्वां वल्गुगिराहि गौतम ॥
तारेसि तीर्णो जनतां महामुने
न भायसि क्षेमकराग्रपुद्गल ।
[_म्वु_1.164_] यथातथं स्थानम् अभिप्रकाशयं
विनेसि सत्ये अमृते बहुं जनं ॥
शीलं महर्षिस्य अनन्तदर्शिनः
गम्भीरम् आर्यं विपुलं सुभाषितं ।
शीले विशिष्टो त्वम् अरिप्रमर्दनः
इमस्मिं लोके परतश् च सुव्रतः ॥
अखण्डम् अच्छिद्रम् अकाचम् अव्रणं
अनाश्रवन् ते चरणं महामुने ।
शुचि विशुद्धिं परमां गतो सदा
विरोचसे नगशिखरे यथानलो ॥
चित्तस्थितित्वे असि पारमिंगतो
वशी समाधिस्मि तथापि पुद्गल ।
चित्ते वशी त्वं वशितां परां गतः
वंकावकाशा विगतो विरोचसे ॥
यथेच्छकं अरणसमाधि शान्तर
. . . . . देवनरेषु अर्चित ।
निषेवसे काञ्चनदामप्रभः {सेनर्त्: निवेशसन्*}
नमो ऽस्तु ते गौतम सत्यविक्रम ॥
विरोचनो नभसि यथा महाप्रभो
शुद्धे नभे पंचदशीय चन्द्रमा ।
[_म्वु_1.165_] तथा समाधिस्मि स्थितो विरोचसे
सुवर्णम् उत्तप्तम् इवात्र पुद्गला ॥
आकांक्षमाणा विमना11 विपण्डिता {सेनर्त् विगता}
सत्वा न जानन्ति समन्त उद्यमां ।
सुखं समाधिं अरणानि सेवतो
नमो ऽस्तु ते देवमनुष्यपूजित ॥
यदा च आलोकसि नागगामि
यदा च आगत मरणाय पारं ।
मतीस्मृतीमां विमलेन चेतसा
तदा अयं भूतधरा प्रकम्पते ॥
सत्या अभिसमेतिय दर्शनं तथा
स्वयं अभिज्ञाये अनुश्रुतं पुरा ।
इमां गिरां व्याहर अग्रपुद्गल
सहस्रनेत्रो मघवां व शोभसे ॥
इदं समाप्तं व्यसनं महद्भयं
इतो न भोति अग्रे अस्य संभवो ।
तस्यावरोधनम् अधो प्रवर्तते
निर्वाति वातान स्वरो व पाकः ॥
विमुक्तिचित्तस्य विमुक्तिदर्शना
अचिन्तिया तर्कपथेन निश्रिता ।
[_म्वु_1.166_] असंकिया वीरगिरा विरोचते
या सा सुवेला मृदु सत्यसंभवा ॥
अनुद्धतां तां च गिरां प्रकाशय
त्वं . . . . . . हि जनस्य सन्निधौ ।
ते तुह्य श्रुत्वा मधुरां सुभाषितां
पिबन्ति तृष्णार्त इवाम्भसार्णवे ॥
हतेषु त्वं प्राणिषु मैत्रं चिन्तय
ऐश्वर्य-ऋद्धिं प्रतिभानम् उत्तमं ।
श्रेष्ठेषु धर्मेषु हि पारमीगतो
यथा न कोची इह लोकधातुये ॥
प्रज्ञा च ते अस्ति अनुत्तरा मुने
सर्वस्मि लोके ऽप्रतिमा अनोपमी ।
त्वम् एव श्रेष्ठो सकलस्य प्राणिनो
शिलोच्चयानां यथ मेरुपर्वतः ॥
न ते ऽस्ति तुल्यो सदृशो समानो
कुतोत्तरो गुणेषु गुणंधरस्य ।
त्वम् एव श्रेष्ठो परमार्थपुद्गलो
धर्माण निर्वाणम् इवाचलं सुखं ॥
रागं च मोहं च प्रहाय दोषं
मानं च म्रक्षं तसिणां च जालिनीं ।
[_म्वु_1.167_] विराजसे दोषविमुक्तमानसो
यथा शशी पूर्ण इव नभे शुभे ॥
यद् अत्र सत्यं तुवं मार्गसे ऋजुः
सेतुर् महा सत्पुरुषेण सेवितः ।
इमां गिरं व्याहर अग्रपुद्गल
सहस्रनेत्रो मघवां च शोभसे ॥
क्लेशैर् विमुक्तं विमलं सुशान्तं
निषेव सत्वशरणं समाधिं ।
हिताय भूतान ऽभिभुर् विराजसे
रवी यथा देवमनुष्यपूजितः ॥
अनिश्रितः त्वं इह च परत्र च
ध्यायन्तो ध्याने रमसे प्रतिष्ठितः ।
वन्दन्ति देवा बहवो समागता
नमस्कृतं प्रांजलियो महामुनिं ॥
बहुधा बहुप्रकारं चक्षुं भवते विशुद्धचक्षूणां ।
जरामरणमर्दनान बुद्धान अदान्तदमकानां ॥
लोकोत्तरा भगवतो चर्या लोकोत्तरं कुशलमूलं ।
गमनं स्थितं निषण्णं शयितं लोकोत्तरं मुनिनो ॥
यत् तत् सुगतशरीरं भवते भवस्य बन्धनक्षयकरणं ।
[_म्वु_1.168_] लोकोत्तरं तद् अपि भो इत्य् अत्र न संशयः कार्यो ॥
चीवरधरणं मुनिनो लोकोत्तरं अत्र संशयो नास्ति ।
आहाराहरणम् अथो लोकोत्तरम् एव सुगतस्य ॥
देशना नरनागानां सर्वलोकोत्तरा मता ।
यथातथं प्रवक्ष्यामि माहात्म्यं वरबुद्धिणां ॥
देशकालवशं प्राप्य परिपाकं च कर्मणः ।
सत्यं वा अभिनिर्वृतं धर्मं देशेन्ति नायकाः ॥
लोकानुवर्तनां बुद्धा अनुवर्तन्ति लौकिकीं ।
प्रज्ञप्तिम् अनुवर्तन्ति यथा लोकोत्तराम् अपि ॥
ईर्यापथां दर्शयन्ति चत्वारः पुरुषोत्तमाः ।
नो च परिश्रमस् तेषां जायते शुभकर्मिणां ॥
पादां च नाम धोवन्ति न चैषां सज्जते रजः ।
पादाः कमलपत्राभा एषा लोकानुवर्तना ॥
स्नायन्ति नाम संबुद्धा न चैषां विद्यते मलो ।
बिम्बे कनकबिम्बाभे एषा लोकानुवर्तना ॥
दन्तधोवञ् च सेवन्ति मुखं च उत्पलगन्धिकं ।
निवसनं निवासेन्ति प्रावारं च त्रिचीवरं ॥
चैलं वातानि वायित्वा विकोपेन्ति न देहकं ।
[_म्वु_1.169_] वस्त्रं पुरुषसिंहानां एषा लोकानुवर्तना ॥
छायायां च निषीदन्ति आतपश् च न बाधति ।
बुद्धानां शुभनिष्यन्दानां एषा लोकानुवर्तना ॥
औषधं प्रतिसेवन्ति व्याधि चैषां न विद्यते ।
नायकानां फलं महन्तं एषा लोकानुवर्तना ॥
प्रभूश् च कर्म वारयितुं कर्मं दर्शयन्ति च जिना ।
ऐश्वर्यं विनिगूहन्ति एषा लोकानुवर्तना ॥
करोन्ति नाम आहारं न चैषां बाधते क्षुधा ।
जनताया उपदार्थं एषा लोकानुवर्तना ॥
पिबन्ति नाम पानीयं पिपासा च न बाधते ।
तद् अद्भुतं महर्षिणां एषा लोकानुवर्तना ॥
चीवराणि निवासेन्ति सदा च प्रावृतो जिनः ।
यथारूपो भवे देवो एषा लोकानुवर्तना ॥
केशां च ओरूपयन्ति न चैषां छिन्दते क्षुरः ।
केशां नीलाञ्जननिभां एषा लोकानुवर्तना ॥
जरां च उपदेशेन्ति न चैषां विद्यते जरा ।
जिना जिनगुणोपेता एषा लोकानुवर्तना ॥
कल्पकोटीम् असंख्येयां पुण्येषु पारमिंगता ।
आरब्धम् उपदेशेन्ति एषा लोकानुवर्तना ॥
[_म्वु_1.170_] न च मैथुनसम्भूतं सुगतस्य समुच्छ्रितं ।
मातापितृञ् च देशेन्ति एषा लोकानुवर्तना ॥
दीपंकरम् उपादाय वीतरागस् तथागतः ।
राहुलं पुत्रं दर्शेति एषा लोकानुवर्तना ॥
कल्पकोटीम् असंख्येयां प्रज्ञापारमितां गता ।
बालभावं च दर्शेन्ति एषा लोकानुवर्तना ॥
असन्मन्त्रा विभाषित्वा अस्मिं लोके सदेवके ।
पुनः पर्येषन्ति तीर्थे एषा लोकानुवर्तना ॥
बोध्यित्वा-म्-अतुलां बोधिं सर्वसत्वान कारणा ।
अल्पोत्सुकत्वं प्रदेशेन्ति एषा लोकानुवर्तना ॥
परमगुणसंपन्ना वचनसंपन्नाश् च सर्वे सम्यक्संबुद्धा ॥ षष्टिभिः गुणैः सम्यक्संबुद्धानां वाचा समन्वागता भवति ॥ कतमेहि षष्टिभिः ॥
गीतरवमधुरवादी नरवरवचना विनिश्चरति वाचा ।
वीणारववेणुरवा हंसरवरुता सुगतवाचा ॥
जीमूतरसितमधुरा परभृतरथनेमितुल्यनिर्घोषा ।
सागरनर्दितसारसप्रभावा वरबुद्धिनो वाचा ॥
किन्नरकलविंकरुता मेघवरस्वररवा वरगजरुता ।
[_म्वु_1.171_] ऋषभमृगराजरसिता वाचा वरलक्षणधराणां ॥
दुन्दुभिरवगम्भीरा वनदेव-अनिलविधूतस्वरप्रपाता ।
भूमीविक्षोभनरवा गिरा नरमरुप्रधानानां ॥
पंचांगिकतुल्यरवा प्रलुलितकलहंसबर्हिणनिवाता ।
बिम्बोष्ठसुतनुजिह्वा जिनवदना निश्चरति वाचा ॥
गन्धर्वगीतमधुरा जलधाराणां निपाततुल्यरवा ।
अविस्तरपिण्डितरवा गिरा गुणवरप्राधानानां ॥
वरकिंकणीकसलीलसुसंचिता हेमजालतुल्यरवा ।
आभरणघट्टितरवा भुवि दिवि च गिरा प्रधानानां ॥
नातिद्रुता अनमन्ती अनुपच्छिन्ना विवर्तते मधुरा ।
गलितपदसंचयवती वाचा वरलक्षणधराणां ॥
सर्वाम् एव अनुचरति परिषां यदि लोकधातुनयुतानि ।
विज्ञापयते सर्वां परिषां सुमधुरा वाचा दशबलानां ॥
शकयावनचीणरमठपह्लवदरदेषु दस्युपरिषायां ।
एकविधम् उच्यमाना सर्वविषयचारिणी भवति ॥
परिषां न अतिक्रमते निश्चरमाणा गिरा नरवराणां ।
[_म्वु_1.172_] न वर्धते न च हायति गिरा स्थितलया दशबलानां ॥
न च भिद्यते न नुद्यति न च उपतप्यते . . . . . . . . . ।
न च विखलखलखलायति अभिस्वररुता सुगतवाचा ॥
न च सा अपशब्दवती शब्दभ्रष्टा अशेषं अनुयुक्तशब्दा ।
शब्देषु कुशलाकुशलां सर्वां जनतां प्रहर्षयति ॥
वदना सुविमलदशना निश्चरति गिरा यदा गुणधराणां ।
माद्यन्ति शकुनसंघा गगनतलगता वनगताश् च ॥
यो यस्य स्वर अभिमतः सा तं पूरयति तस्य संकल्पं ।
सुगतवचनप्रभूता वाचा परिषदि विचरमाणा ॥
वरवासनसहितघोषा गिरिनदिनिर्घोषसन्निभा शुद्धा ।
उत्क्रोशकुरररुतनया प्रभवति वाचा वररुतानां ॥
शकुन्तजीवंजीवक जिनवाचा कनकतालपत्ररवा ।
पटुपटहप्रवदमृदंगचाटुस्वरतुल्यनिर्ग् होषा ॥
आज्ञेया विज्ञेया गम्भीरभीष्मरूपा कर्णसुखा ।
हृदयंगमा च नित्यं वाचा वरपारमिगतानां ॥
वल्लकीश्रवणीया च प्रेमणिया च गिरा गुणधारीणां ।
विपुलशुभसंचयानां सर्वेषां अनन्तयशसानाम् इति ॥
[_म्वु_1.173_] यथाभूतं देशिता वाचा ॥ सम्यक्संबुद्धा एवं धर्मं देशयन्ति ॥ नाहं भिक्षवो ये धर्मा अनित्यास् ते नित्यतो देशयामि । नापि ये धर्मा नित्या ते अनित्यतो देशयामि । नापि ये धर्मा दुःखाः ते सुखातो देशयामि । नापि ये धर्मा सुखा ते दुःखातो देशयामि । नापि ये धर्मा अनात्मीया ते आत्मतो देशयामि । नापि ये धर्मा आत्मीयास् ते अनात्मतो देशयामि । नापि ये धर्मा अशुभाः ते शुभतो देशयामि । नापि ये धर्माः शुभास् ते अशुभातो देशयामि । नापि ये धर्मा रूपिणस् ते अरूपिणो देशयामि । नापि ये धर्माः कुशलास् ते अकुशलाः ते देशयामि । नापि ये धर्मा अकुशलास् ते कुशलातो देशयामि । नापि ये धर्मा अनाश्रवाः ते साश्रवा ति देशयामि । नापि ये धर्माः साश्रवाः ते अनास्रवा ति देशयामि । नापि ये धर्माः व्याकृतास् ते अव्याकृता इति देशयामि । नापि ये धर्मा अव्याकृतास् ते व्याकृता इति देशयामि । नापि ये धर्मा हीनास् ते प्रणीता इति देशयामि । नापि ये धर्मा प्रणीतास् ते हीना इति देशयामि । नापि ये धर्माः गृहाश्रितास् ते नैष्क्रम्याश्रिता इति देशयामि । नापि ये धर्मा नैष्क्रम्याश्रितास् ते गेहाश्रिता इति देशयामि ॥ अथ खलु भो धुतधमधर सम्यक्संबुद्धाः सत्यवादि कालवादि भूतवादि अर्थवादि तथावादि अनन्यथावादि अवितथवादि धर्मवादि विनयवादि इति ॥
[_म्वु_1.174_]___भूतपूर्वं भो धुतधर्मधर तुषितभवनकायिको देवपुत्रो शिखरधरो नाम बोधिसत्वः सम्यक्संबुद्धं ऋषिवदनगतं वाराणस्यां वनवरे वरचक्रप्रवर्तनदिवसे भगवन्तं संमुखाभिर् अध्यभाषे सगौरवः सप्रतीसः प्रह्वः कृतांजलिपुटः ॥
साधु ते साधुरूपस्य वाचा न प्रतिहन्यते ।
साधु अर्थान्विता साध्या वाचा तव मनोरमा ॥
साधु सुस्वरसंयोगा वर्णसन्धिगुणान्विता ।
साधु सत्यानि चत्वारि प्रवदसे महामुने ॥
साधु ते देवगन्धर्वा पिबन्ति मधुरां गिरां ।
साध्व् इहाप्रतिमं चक्रं प्रवर्तसि अनुवर्तिकं ॥
तुभ्यं लोके समो नास्ति रूपे वर्णे कुले बले ।
ईर्यापथे च वीर्ये च ध्याने ज्ञाने शमे दमे ॥
अद्य हृष्टा दश वीर कोट्यो ते प्रथमे फले ।
विनीता देवपुत्राणां शासने प्रथमे मुने ॥
त्रिंश कोट्यो प्रभो वीर विनेसि प्रथमे फले ।
द्वितीये शासने नर देवपुत्राण एव च ॥ {सेनर्त् ऐव च}
पञ्चाश कोटीयो भूयो शासने तृतीये मुने ।
विनीता देवपुत्राणां अपायेहि विमोचिता ॥
[_म्वु_1.175_] अशीति कोटीयो भूयो श्रोतापत्तिफले विभू ।
चतुर्थे शासने दमेत्वा दुर्गतीहि विमोक्षिताः ॥
तस्मात् ते सदृशो नास्ति मैत्राय पुरुषोत्तम ।
करुणाये कारुणको भूतो भूयो नरर्षभ ॥
हृष्टा पुरुषशार्दूला उत्पन्ना लोकसुन्दरा ।
हिताय सर्वसत्वानां विचरन्ति महामुने ॥
अतिचिरस्य राजसुत उत्पन्नो सि नरर्षभ ।
प्रणेता विप्रनष्टानां आर्त्तानां नयनन्दनं ॥
मा च कदाचिद् भूतगुरु नाथो अन्तरहायतु ।
अपर्यन्तं तव स्थानं भवति लोकबान्धव ॥
अपाया तनुकीभूता स्वयम्भू तव तेजसा ।
अनोकाशा कृता स्वर्गा त्वां प्राप्य पुरुषोत्तम ॥
यस्य मिथ्यात्वनियतो राशिः पुरुषपुद्गल ।
एष वानियतं राशिं त्वां प्राप्य पूरयिष्यते ॥
यस्याप्य् अनियतो राशिः त्वां प्राप्य सुरवन्दित ।
पूरयिष्यति सो राशिं सम्यक्तेजकुलोदित ॥
अद्भुतानां च धर्माणां विशुद्धिः उपलभ्यते ।
त्वां प्राप्य पुरुषादित्य तमोन्तकरम् अच्युतं ॥
[_म्वु_1.176_] तस्य ते भाषमाणस्य भूतां धर्मां जिनर्षभ ।
अभिनन्दन्ति वाक्यन् ते सेन्द्रा लोका महामुने ॥
इति स्तुवन्ति देवगणा वरदं प्रीतिमानसा ।
अनन्तगुणसंपन्नं संस्तवार्हं नरोत्तमम् इति ॥
उपचारविधिसंपन्ना भो धुतधमधर सम्यक्संबुद्धा कालज्ञानसमर्थका विशुद्धनेत्रा अनुच्चावचदर्शना पूर्वान्तनयसंपन्ना उच्छ्रापितधर्मध्वजा निष्प्रतिमानध्वजा कलहरणनिशातका प्रवचनविदुषो अनवसानज्ञानाः समये च आवुसादयन्तो अनयनानां प्रवर्तकाः अपमार्गककुत्सका इति ॥ तत्रेदम् उच्यते ॥
सर्वाकारगुणोपेता सर्वे सर्वार्थनिश्चिता ।
प्रनेतारो विनेतारो बुद्धा बुधजनार्चिताः ॥
असंकीर्णेन ज्ञानेन विशुद्धेन मनेन च ।
त्रिषु लोकेषु भ्राजन्ते पूर्णचन्द्र इव नभे ॥
चरणेन मनोज्ञेन सतां कान्तेन नायकाः ।
नदन्ति च महानादं सम्यक्कुशलसंभवाः ॥
शासन्ति जनतां वीरा उपचारेषु निश्चिताः ।
विवादं परसत्वानां मथन्ति तत्त्वदर्शिनः ॥
लोके जाता नरश्रेष्ठा न च लोकेन लिप्यथ ।
प्रज्ञप्तिसमतिक्रान्ता गम्भीरविषया विभूः ॥
[_म्वु_1.177_] गुरुं धुरं समारोप्य न विषीदन्ति पण्डिता ।
यथावादीतथाकारी अनुपक्रुष्टचारणा ॥
दृष्टिविषं तं घोरं च दग्ध्वा ज्ञानाग्निना प्रभूः ।
अनुत्त्रासितासन्त्रस्ता परं प्रदन्ति प्राणिनां ॥
कान्तारं समतिक्रम्य क्षेमं प्राप्य नरर्षभाः ।
आह्वायन्ति जनधीरा इहैव निर्भयं इदं ॥
जरामरणरोगाणां उत्पत्ति नेह विद्यते ।
इह आयासशोकानां प्रवृत्तिर् नोपलभ्यते ॥
ते तस्य वचनं श्रुत्वा मधुरं देवमानुषा ।
अनुशास्तिं तथा कृत्वा प्रतिपद्यन्ति तत्सुखं ॥
तेनास्ति कीर्तिविस्तीर्णाः त्रिषु लोकेषु चोत्तमाः ।
चरन्ति अर्चिता सद्भि न चैव प्रशमन्ति ते इति ॥
परोपहारांश् च भो धुतधर्मधर उपहरन्ति सम्यकस्ंबुद्धाः सत्वानाम् अनुग्रहार्थं ॥ तद्यथा कलिंगराज्ञः कुसुमाये देव्या परोपहारं भगवां ध्रुवस्य श्रेष्ठिनो वचनोपहारं भगवां वृत्तवां ॥
तथैव च राजगृहे पुरोत्तमे
परोपहारं भगवां प्रवृत्तवां ।
[_म्वु_1.178_] समुत्कर्षेसि स्वविधानकोविदो
उपालिनो तं वचनोपहारं ॥
तथा परं मेरुतटे समागतां
स वादिसिंहो वशिनां वशी वशी ।
परोपहारं भगवां स भिक्षु-
संघस्य तं इदम् अवचा महामुनिर् इति ॥
एतां सर्वां प्रवक्ष्यामि उपहारां मनोरमां ।
तस्य सत्वप्रधानस्य शृणु विक्रीडितं शुभं ॥
उत्पन्ने पुरुषश्रेष्ठे धर्मचक्रे प्रवर्तिते ।
कलिंगराजा कारयति राज्यं स्फीतम् अकण्टकं ॥
नामेन अभयो नाम तस्येदं दर्शनं अभूत्* ।
शुभाशुभानां कर्माणां फलं नास्तीति निश्चयः ॥
परलोको तथा नास्ति दानफलं क्वचिद् यत्र ।
वीतरागो वीतदोषो वीतमोहो न विद्यते ॥
सो तं च दर्शनं प्राप्य जनतां सन्निपातयेत्* ।
स्वकां दृष्टिं समाख्याति पश्चाच् च न निवर्तते ॥
यदि मह्यं पिता ब्रुयात् प्रत्यक्षं मम अग्रतः ।
स्वयम् उपगम्य एवन् तच् छ्रद्दधे तदा तथा ॥
सर्वदा स तदा आसि शीलवां मैत्रमानसो ।
[_म्वु_1.179_] यदि तस्य फलम् अस्ति तस्य देवपुरं गतिः ॥
देवभूतो मम ज्ञात्वा इमां दृष्टिं विमोचयेत्* ।
इत्य् उक्त्वास्ति परलोको दृष्टिं मुञ्चाहि पापकां ॥
यस्य च परलोकस्य प्रवृत्तिर् नोपलभ्यते ।
तस्मात् पिता ममागत्वा संप्रहर्षयतु मानसं ॥
ततो लोकानुकम्पार्थं कारुणो महद्विशारदः ।
कलिंगराजस्य रूपं निर्मणति स्वयं मुनिः ॥
प्रासादवरं आरुह्य अन्तःपुरगतो तथा ।
अन्तःपुरस्य दर्शेति यत् तं प्रकृतिदर्शनं ॥
ततो स निर्मितो राजा अन्तरीक्षगतस्थितः ।
राजानम् अभयं धीरो उवाच पुरुषोत्तमः ॥
परित्यज्य स्वकार्याणि परकार्येषु व्यापृतः ।
मिथ्यादर्शनसंयुक्तं अराज्यं राज्यसंज्ञितं ॥
अद्य भवे गती तुभ्यं नरको दारुणो महत्* ।
ये च ते दर्शयिष्यन्ति तेषाम् अपि च सा गति ॥
अन्यान्* हि विहतो हन्ति नष्टो नाशयते परां ।
अन्धीकरोति अन्या पि स्वयम् अन्धव्यपत्रपो ॥
सुमुष्टो मुषसे अन्या मृतो च मारसे परां ।
सुखितान् अपि सत्वा त्वं दुःखापयसि दुर्मते ॥
निमग्नो कामपंकस्मिं गृद्धु काम् एषु मूर्च्छितः ।
[_म्वु_1.180_] परलोकं द्रष्टुकामो धर्माणां नयनं नृपः ॥
अस्थानम् एतं भूमिपति यस् त्वं कामपरायणः ।
असमर्थो तहिं गन्तुं परलोकम् इमं प्रभो ॥
आस्वादं पि तु कामेषु बुद्ध्वा दोषान् तथैव च ।
कामे निःसरणज्ञस्य ते वै जाने परंपरां ॥
एतच् छ्रुत्वा नरश्रेष्ठो अभयो कम्पितो भयात्* ।
प्रह्वो इदम् उवाच तं अन्तरीक्षे सुदर्शनं ॥
श्रद्दधामि तं ते देव एवम् एतं नान्यथा ।
प्रसीद भव मे नाथ अभयं परिमोचय ॥
तद्वसान्तःपुरामात्यः शास्ता मे अप्रतिपुद्गलः ।
विनयवशी तवास्मि तथान्या जनता बहु ॥
परोपहार इति एषस् तेन परमबुद्धिना ।
वृत्तो अनुग्रहार्थाय सत्वानां वरबुद्धिना ॥
देवी कुसुम्भराजस्य कुसुमा इति विश्रुता ।
इष्टा कुसुम्भराजस्य स्त्रीसहस्राणम् उत्तमा ॥
तस्य माता पिता चैव जीर्णा दण्डपरायणा ।
धीतरम् एवम् आहन्सु कुसुमे पुत्रि हे शृणु ॥
वयं जीर्णा तुवं बाला कामप्रलुलिता असि ।
[_म्वु_1.181_] इच्छेम प्रतिसृज्यन्तौ इच्छेम मरणम् आत्मनः ॥
एतच् च वचनं श्रुत्वा कुसुमा लभते मतं ।
अवर्णो यं मम अस्या यद्य् अम्बातातो प्रघात्यते ॥
दास्यामि विषसंयुक्तं भक्तम् एषां सुदारुणं ।
भुक्त्वा येन उभाव् एतौ मरिष्यन्ति न संशयः ॥
यदास्या निश्चिता बुद्धि मातापितृषु दारुणा ।
ततो उत्पादये शास्ता कारुण्यं कुसुमां प्रति ॥
ततः कुसुमाये शास्ता मातरं पितरं तथा ।
अपनामयति संबुद्धो अन्यौ स्थापेति निर्मितौ ॥
कुसुमा विषसंयुक्तं तं भोजनम् आपद्यति ।
निर्मितान् आह भुंजन्तु अम्बा तातो च भोजनं ॥
अविकम्पमाना भुंजन्ति भोजनं जिननिर्मिताः ।
न चैषां बाधते किंचित् कायं निर्मितका हि ते ॥
द्वितीयं दिवसं चैव तृतीयं चतुर्थं पंचमं ।
विषसंयुक्तं भुक्त्वान सुधां व यापेन्ति निर्मितौ ॥
ततः कृतांजली भूत्वा कुसुमा निर्मितां ब्रवीत्* ।
आत्मानं मे निवेदयथ अनुग्राह्या यदि अहं ॥
तां याचमानां प्राञ्जलिकां कुसुमां निर्मिता ब्रवीत्* ।
[_म्वु_1.182_] या तवापत्ति जानाथ तथा च अनुतिष्ठथ ॥
बुद्धः पुरुषशार्दूलः द्वात्रिंशवरलक्षणः ।
उत्पन्नः कुलसंपन्नः सर्वविद्यागुणान्वितः ॥
तस्य सर्वं गुणाभूतं अतीतानागतस्थितं ।
विदितं वादिसिंहस्य अत्र विजह संशयं ॥
प्रासादवरम् आरुह्य सस्त्र्यागारो स पार्थिवः ।
याचेद् दर्शनम् इच्छाम वयं सर्वार्थदर्शिनः ॥
तं सर्वगुणसंपन्नं वन्दित्वा शरणं व्रजे ।
ततो अस्माकं यं तत्रैव पृच्छसि वक्ष्यते जिनो ॥
साधू ति प्रतिश्रुत्वान निर्मितां प्रति सो तदा ।
राजा सान्तःपुरो शीघ्रं प्रासादम् अभिरूढवां ॥
सत्वरं स प्रह्वो राजा सस्त्र्यागारो कृतांजलिः ।
इमां व्याहरते राजा वाचां कुसुमया सह ॥
ये सर्वगुणसंपन्ना लोकानाम् अनुकम्पका ।
गृहीता अत्यन्तं तेषां साञ्जली सौमनस्यका ॥
ततो अमन्त्रये शास्ता श्रावकां शासने रतां ।
चारुवर्णं सिंहहनुं दृढबाहुं अनिन्दितं ॥
कीर्तिमन्तं महानागं च चातुरन्तं महाबलं ।
नीलकेशं च बुद्धं च शान्तं सास्त्रविशारदं ॥
तथा शारसम् अतुल्यं गुप्तकामम् अनिन्दितं ।
[_म्वु_1.183_] सिंहनन्दिं विशालाक्षं लक्षणेयम् अनुत्तमं ॥
एष भिक्षवो गच्छामि शास्तारम् अनुबन्धथ ।
कुसुमां प्रमुखां कृत्वा विनेष्यामि बहुं जनं ॥
साधू ति ते प्रतिश्रुत्वा वशीभूता स्वयंभुवः ।
परिवारयित्वा संबुद्धं इदं वचनम् आहु ते ॥
अस्माकं पि पादो वीरा विहंगमध्यम् अक्रमः ।
अनुयास्याम संबुद्धं यत्र गच्छति चक्षुमां ॥
निमेषान्तरेण संप्राप्तो भगवां शिष्यसंवृतः ।
नगरं कुसुमायास् तु अनुकम्पाय प्राणिनां ॥
आकारं वज्रपाणिस्य नायको अभिनिर्मिणे ।
देवसंघं च मनसा ध्याये ध्यानविशारदः ॥
प्रभामण्डलम् उत्सृजे योजनानि चतुर्दश ।
देवता च अभिवादेन्ति यात्रां परमबुद्धिनः ॥
ततो च कुसुमा देवी प्रह्वी सुगतम् अब्रवीत्* ।
एषा ते प्राञ्जली नाथ पादां इच्छामि वन्दितं ॥
ततः प्रतिष्ठितो शास्ता प्रासादवरमूर्धनि ।
प्रभया च दिशा सर्वा अभिभूय यशस्करः ॥
ततो च कुसुमा देवी सह राज्ञा जिनक्रमां ।
वन्दते परिवारो च देविये नरपुङ्गवं ॥
शरणं त्वां नरश्रेष्ठ गच्छाम सुरवन्दित ।
मातरं पितरं हत्वा कीदृशं लभते फलं ॥
[_म्वु_1.184_] शृणोहि कुसुमे सत्यं मातापितृवधे फलं ।
अनन्तरं महावीचिं नरकं उपपद्यते ॥
ततो बुद्धानुभावेन शास्ता वदथकोविदः ।
कुसुमाया महावीचिं उपदर्शेति नायकः ॥
ततो च कुसुमा देवी निरयं त्रस्य दारुणं ।
अश्रुवेगं प्रमुञ्चन्ती इदं वचनम् अब्रवीत्* ॥
मातापितृभ्यां कारुणिका दुष्टचित्तस्य किदृशं ।
परलोके फलं भवति यत् सत्यं तद् उदीरय ॥
दुष्टचित्तस्य कुसुमे तं चित्तं स्याद् अमुञ्चियं ।
तद् एव परलोकस्मिं फलं सद्यं च हिंसया ॥
ततो च प्रतिनिःसृजति कुसुमा दारुणं मनं ।
पुरतो धर्मराजस्य प्रीतिसुखसमर्पिता ॥
ततो कामान आस्वादं भाषते सर्वकोविदः ।
आदीनवं च कामानां भाषते पुरुषोत्तमः ॥
ततो कामानां निःसरणं भाषते चिन्त्यविक्रमः ।
गुणान् वदति निर्वाणे अद्भुतां भूतदर्शिमान् ॥
कुसुमां प्रमुखां कृत्वा कोटीयो द्वादश मुनिः ।
मानुषाणां विनयति उपहारो अयं इति ॥
ध्रुवो नाम अभूच् छ्रेष्ठी नगरे काशिवर्धने ।
तस्येदं दर्शनं पापं मातापितृसमागमे ॥
यो मातरं च पितरं च जीर्णकं गतयौवनं ।
[_म्वु_1.185_] ज्ञातिपक्षं समानेत्वा भक्ष्यभोज्येन तर्पयेत्* ॥
अग्निस्कन्धे च ज्वलिते दाहयेय पितॄन् उभौ ।
उपहारो विधातव्यो तस्य पुण्यम् अनन्तकं ॥
राक्षसीनां सहस्राणि नायको अभिनिर्मिणि ।
प्रासादवरसुप्तस्य ध्रुवस्य पुरतः स्थिता ॥
दण्डहस्ता कशाहस्ता शक्तिहस्ता तथैव च ।
कुठारहस्ता असिहस्ता उल्काहस्ता तथैव च ॥
अथ तोमरहस्ता च नाराचशतपाणियो ।
कुन्तमुद्गरहस्ताश् च श्रेष्ठिस्य पुरतः स्थिताः ॥
धिक्कृतां धिक्कृतां दृष्टिं प्राप्तो ऽसि पुरुषाधमा ।
धिक्कृतं मिथ्यात्वम् आसाद्य न श्रद्दधितुम् अर्हसि ।
ये ते दुष्करकर्तारः ये ते पूर्वोपकारिणः ।
मैत्रचित्ता आपन्नेषु तेषु त्वं वधम् इच्छसि ॥
येषां न शक्यं प्रतिकर्तुं अपत्येन कथंचन ।
सर्वरत्नं पि ददता तेषां त्वं वधम् इच्छसि ॥
जीवितात् ते मृतं श्रेयो न च दर्शनम् ईदृशं ।
यः त्वं सुपुरुषाचीर्णं दर्शनं प्रतिबाधसे ॥
अद्य ते जीवितं नास्ति सभार्यस्य सबन्धुनः ।
सभृत्यस्य सपुत्रस्य प्रेत्य च निरयं गतिः ॥
इमंहि नाम एवं वा मारिष भद्रम् अस्तु वः ।
मिथ्यादर्शनसम्पन्नं मूड्ःआपण्डितमानसं ॥
[_म्वु_1.186_] परां अन्यां पि जनतां ग्राहेन्तं पापदर्शनं ।
ध्रुवं श्रेष्ठिं विनाशेम आर्यदर्शनकुत्सकं ॥
एतन् तु वचनं श्रुत्वा ध्रुवो उद्विग्नमानसः ।
सस्विन्नगात्रो प्रह्वश् च बभूव त्रस्तमानसः ॥
भ्रान्तचित्तो दिशोवेक्षी त्रस्तो भवति मानसः ।
कृताञ्जलिपुटो भूत्वा इदं वचनम् अब्रवीत्* ॥
रक्षोगणो प्रसीदंतु परिवारस्य मह्य च ।
युष्मे गतिश् च लेनश् च मम शरणम् एव च ॥
आज्ञापयथ किं कृत्वा मह्याद्य अभयं भवे ।
मम सबन्धुवर्गस्य न चागच्छेय दुर्गतिं ॥
ते च ब्रवीन्सु भूतगणा ध्रुवं श्रेष्ठिं नभे स्थिता ।
मा अस्माकं शरणं गच्छ तम् एव शरणं व्रज ॥
हितैषिणं सर्वभूतानां बुद्धं धुतजनार्चितं ।
सर्वलोकोत्तरं वादिं शाक्यसिंहं मनोरमं ॥
कहिन् नु सो . . . . . . . भगवां भूतवन्दितो ।
वयं पि तं नरश्रेष्ठं गच्छेम शरणं मुनिं ॥
एषो सर्वगुणोपेतः पुरे रतनखोलके ।
नानाकुसुमसंच्छन्ने उद्याने गन्धमादने ॥
वशीभूतसहस्राणां नवतीहि पुरस्कृतो ।
विहारकुशलो धीरो तत्र विहरते मुनिः ॥
[_म्वु_1.187_] तं त्वं शरणं गच्छाहि सर्वेहि ज्ञातिभिः सह ।
तं च पश्य नरादित्यं तां च दृष्टिं परित्यज ॥
यं च सो देशते धर्मं दृष्टान्तविहितं शुभं ।
तं च प्रज्ञाय पश्याहि एवन् ते जीवितं भवेत्* ॥
अगत्वा च तुवं श्रेष्ठि न ध्रुवं प्रतिपत्स्यसे ।
इदन् ते मरणं सद्यं तं श्रद्धानो समाचर ॥
ततः श्रेष्ठि सबन्धुजनो भूत्वा सुदीनमानसो ।
मूर्धिना पतितो भूमौ यतो सो पुरुषोत्तमः ॥
सर्वाकारगुणोपेतो महाकारुणिको मुनि ।
सबन्धुपक्षो शरणं उपेमि त्वा महायशा ॥
भीतस्य भयान्तकर अभयं दातुम् अर्हसि ।
सपक्षो भो महासत्व अहं भयपरायणो ॥
इच्छामि चरणं शास्तुः वन्दितुं वादिनां वर ।
द्रष्टुम् इच्छामि सत्पुरुषं अनुग्राह्या यदि वयं ॥
ततो अभ्युद्गतो शास्ता वशीभूतपुरस्कृतः ।
निमेषान्तरेण संप्राप्तो सत्वानुकम्पाय नायकः ॥
तं दृष्ट्वा गगणे स्थितं दान्तं क्षान्तं पुरस्कृतं ।
[_म्वु_1.188_] सौमनस्यं समुत्पन्नं श्रेष्ठिस्य सह बन्धुभिः ॥
शरणं वादिशार्दूलं श्रेष्ठी तत्र उपागतः ।
सुजातदर्शनत्वं च श्रेष्ठी पर्यधिगच्छसि ॥
तस्यात्ययं नरश्रेष्ठो परिगृह्य तथागतो ।
सत्यवादी उदीरेति सत्यानि चतुरा मुनिः ॥
शुभाशुभानां कर्माणां फलं विस्तरशो विभुः ।
प्रकाशये नरादित्यो सिंहो वा नदते वने ॥
सिंहनादं इमं श्रुत्वा श्रेष्ठि परिजनैः सह ।
प्राप्नोति मधुरं सत्यं फलं प्रथमके क्षणे ॥
यत् तस्य परिकर्म तत् कृतं पन महर्षिणा ।
तम् आहुर् उपहारो ति सर्वधर्मविशारदाः ॥
तरुर् नाम अभू राजा द्वीपे कस्मिं चि सागरे ।
तस्य दर्शनम् उत्पन्नं पापकं बालिशप्रियं ॥
यो ब्राह्मणं वा श्रमणं वा अन्यं वापि वनीयकं ।
आमन्त्रेत्वा न भोजयते तम् आहुः श्रेष्ठलक्षणं ॥
महाजनं निमन्त्रेत्वा बहुं च शूद्रब्राह्मणां ।
यो बुभुक्षायम् आनेति कृत्वा कारानिबन्धनं ॥
[_म्वु_1.189_] उत्तरागमने कुलवा महेशाख्यो महायशाः ।
प्रभूतवस्त्राभरणो तत्र सो चोपपद्यते ॥
ग्राहेति जनतां राजा एवं पापेन चेतसा ।
ते तस्य वचनं श्रुत्वा श्रद्दधाति महाजनः ॥
एतं दर्शनं विज्ञाय देवगन्धर्ववन्दितः ।
पंच भिक्षुसहस्राणि क्षणेन निर्मिणे मुनिः ॥
ते तं द्वीपम् उपागम्य तरुर् यत्र जनाधिपः ।
राज्यं पालयते तत्र चंक्रमिषु वशीगणा ॥
ते तु नराधिपो दृष्ट्वा निर्मिता भिक्षुवर्णिता ।
वाहनतो तरित्वान वन्दित्वा पादम् अब्रवीत्* ॥
निमन्त्रयामि ऋषयो प्रीतो भक्तेन तत्त्वतः ।
अधिवासेन्सु मे ऋषयो अनुग्राह्या यदि वयं ॥
अधिवासितं विदित्वा ततो निर्धावते पुनः ।
पादां वन्दित्वा ऋषीणां गतो राजकुलं स्वकं ॥
रात्रिं प्रभातां विज्ञाय राजपुरुषम् अब्रवीत्* ।
गच्छ त्वं ऋषयोपगम्य सिद्धेन त्वं निमन्त्रय ॥
ते च प्रवेशिता राज्ञा ऋषि वेशम् अत्यद्भुतं ।
शरण्यं गुणसंपन्नं दृढार्गलसुयन्त्रितं ॥
सप्ताहे समतिक्रान्ते राजा तां प्रत्यवेक्षते ।
[_म्वु_1.190_] अदीनमुखवर्णाश् च ध्यायन्ते भिक्षुवर्णिता ॥
सो भूयः परिवर्जेत्वा निर्मिता मनुजाधिपः ।
द्वितीयं समतिक्रम्य द्वितीये प्रत्यवेक्षते ॥
तृतीये च चतुर्थे च पंचमे षष्ठसप्तमे ।
नवमे दशमे सप्ताहे इदं वचनम् अब्रवीत्* ॥
देवा च नागा गन्धर्वा यक्षा च गुह्यकासुरा ।
आगता ऋषिरूपेण मम संवेगकारणात्* ॥
निवेदयथ आत्मानम् अनुग्राह्या यदि वयं ।
अथास्माकम् अनुग्राह्यो आत्मानं परिवेदये ॥
अनुग्राह्यो ऽसि भूमिपते इदं वचनम् उवाच ते ।
यद् वयं वचनं ब्रूम तथा तम् अनुतिष्ठत ॥
एषो काशीपुरे शास्ता वाराणस्यां वने शुभे ।
पारगः सर्वधर्माणां सर्वसंशयसूदनः ॥
प्रासादवरम् आरुह्य याचे प्रह्वः सबान्धवः ।
इच्छाम पुरुषश्रेष्ठं द्रष्टुम् अप्रतिपुद्गलं ॥
स एतत् वचनं श्रुत्वा तथेति उदपादयि ।
अथ वैहायसं शास्ता तं द्वीपम् उपसंक्रमीत्* ॥
वशीभूताश् च चत्वारो कुंजरो करभोगजः ।
[_म्वु_1.191_] वारणो ऽथ महाध्यायी मनापो ऽथ समागता ॥
ते पश्यितून संबुद्धं विरोचन्तं शशिप्रभं ।
तथा स्तुवन्ति प्रांजलियो भूतधर्मगुरुं गुरु ॥
प्रसन्नचित्ता सुमना सर्वाकारगुणान्विता ।
नाथ मरुमनुष्याणां नमस् ते नरलम्बक ॥
को नाम त्वं महासत्व महातेजा महाद्युते ।
महाबुद्धि महाबाहु यथातथम् उदीरय ॥
राजवंशसमुत्पन्नो धर्मराज्यप्रतिष्ठितः ।
शरणं सर्वभूतानां अहं बुद्ध इति विदुः ॥
अहं मरुमनुष्याणां नाथो नेता चिकित्सकः ।
अहं संशयान्तकरः संबुद्धो देववन्दितः ॥
एतत् श्रुत्वा तरु राजा संबुद्धम् इदम् अब्रवीत्* ।
नमस् ते वादिशार्दूल सर्वसंशयसूदन ॥
प्रासादवरम् आरुह्य सबन्धुपक्षो सज्जना ।
सराष्ट्रो शरणं गच्छामि तस्य नो शरणं भव ॥
स्वकं च दर्शनं राजा समाख्याति महर्षिणः ।
तच् छ्रुत्वा नरशार्दूलो राजानम् इदम् अब्रवीत्* ॥
न ते लाभा भूमिपते यस् त्वं दुर्गतिगामिनं ।
[_म्वु_1.192_] पापं श्रद्दधसे मार्गन्तां दृष्टिं प्रतिनिःसृज ॥
तां दृष्टिं प्रतिनिःसृज्य राजा वचनम् अब्रवीत्* ।
धर्मम् आख्याहि मां धीर यत्र दुःखं निरुध्यते ॥
तस्य च धर्मसंयुक्तं भावये पुरुषोत्तमः ।
कुशलं सर्वसत्वानां बुद्धधर्मविशारदः ॥
सो तं धर्मं विजानित्वा राजा परिजनैः सह ।
त्रीणि संयोजनां त्यक्त्वा प्राप्तवां प्रथमं फलं ॥
असंख्येया च जनता प्राप्तवान् प्रथमं फलं ।
पश्य सत्पुरुषा राजं मैत्रिया बलम् उत्तमं ॥
ये तत्र निर्मिता भिक्षूः न चैते भिक्षुणो मता ।
उपहारं वदन्त्य् एतं जिना शास्त्रविशारदाः ॥
अस्थानम् एव जिनपुत्र यदा स्थूलाहि भूमिहि ।
तत् पुरे अधिगच्छेयुः सर्वज्ञत्वं तथागताः ॥
कालं व नातिनामेन्ति परिपूर्णाहि भूमिहि ।
दर्शेन्सु वादिशार्दूला इत्य् एवं पुरुषोत्तमा ॥
वाराणसीं वनं गत्वा बुद्धधर्मपुरस्कृतो ।
विस्तरेण प्रकाशयति नायको भूमयो दश ॥
नयानयज्ञाः संबुद्धाः सर्वपरमतं विदुः ।
अध्याशयं परीक्षन्ति जातका सर्वप्राणिनां ॥
मधुरेण सुगीतेन नयेन गुणदर्शिनः ।
[_म्वु_1.193_] सुविनीता बहु जनता संबुद्धेन प्रजानता ॥
न जायन्ति न जीर्यन्ति न मृयन्ति कथंचन ।
परमं मित्रम् आसाद्य विनीता वरबुद्धिना ॥
गम्भीरचरितं धीरा प्रजानन्ति परस्परं ।
अनन्तप्रतिभानं च सर्वे सर्वाङ्गशोभना इति ॥
_____इति श्रीमहावस्तु-अवदाने अभिषेकवती नाम दशमा भूमिः समाप्ता ॥
शिखरे गृद्धकूटस्मिं पञ्चानां वशीभूतशतानां समवाये दशभूमिकं नाम उपदेशमुखं भाषितं ॥ समाप्तं दशभूमिकं ॥ ये सत्वा बुद्धत्वाय प्रणिधेन्ति तेहि उद्देशितव्यं दशभूमिकं बोधिसत्वानां च दृष्टसत्यानां श्रद्दधानानां दातव्यं नान्येषां एते ह्य् अत्र श्रद्दधाना अन्ये विचिकित्सेयुः ॥
___समाप्ता आदिभूमि यावद् दशमा दशभूमयः महावस्तुपरिसरं ॥
दीपंकरवस्तुस्यादिः ॥ इतो महामौद्गल्यायन अपरिमिते असंख्येये कल्पे राजा अर्चिमां नाम अभूषि चक्रवर्ती कृतपुण्यो महेशाख्यो सप्तरत्नसमन्वागतो चातुर्द्वीपो विजितावी अनुरक्तपौरजानपदो धार्मिको धर्मराजा दश कुशला कर्मपथा समादायवर्ती ॥ तस्य सप्त रतनानि अभूत्* । तद्यथा चक्ररत्नं हस्तिरतनं अश्वरत्नं मणिरतनं स्त्रीरतनं गृहपतिरत्नं परिणायकरतनं एवं सप्तरत्नं ॥ पूर्णं चास्य पुत्रसहस्रं अभूषि शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानां ॥ सो इमां चत्वारि महाद्वीपां सागरगिरिपर्यन्तां अखिलां अकण्टकां अदण्डेणाशास्त्रेणानुत्पीडेन धर्मेणेमां अभिनिर्जिणित्वा अध्यावसि ॥ अर्चिमतो खलु पुनः महामौद्गल्यायन
[_म्वु_1.194_] राज्ञो दीपवती नाम राजधानी अभूषि द्वादश योजनानि आयामेन पुरस्तिमेन च पश्चिमेन च सप्त योजनानि विस्तारेण दक्षिणेन च उत्तरेण च सप्तहि प्राकारेहि परिक्षिप्ता अभूषि सौवर्णेहि सुवर्णप्रच्छन्नेहि ॥ दीपवती खलु पुनर् महामौद्गल्यायन राजधानी सप्तहि तालपंक्तिहि परिक्षिप्ता अभूषि चित्राहि दर्शनीयाहि सप्ताणां रत्नानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकायाः ॥ सौवर्णस्य तालस्कन्धस्य रूप्यमयं पत्रं च फलं च अभूषि । रूप्यमयस्य तालस्कन्धस्य मुक्ताया पत्रा च फला च अभूषि । मुक्तामयस्य तालस्कन्धस्य वैडूर्यमया पत्रा च फला च अभूषि । वैडूर्यमयस्य तालस्कन्धस्य स्फटिकस्य पत्रा च फला च अभूषि । स्फटिकमयस्य तालस्कन्धस्य मुसारगल्वमया पत्रा च फला च अभूषि । मुसारगल्वमयस्य तालस्कन्धस्य लोहितिकामया पत्रा च फला च अभूषि । लोहितिकामयस्य तालस्कन्धस्य मुक्तामया पत्रा च फला च अभूषि ॥ तेषां खलु पुनः महामौद्गल्यायन तालानां वातेरितानां वातसंघट्टितानां घोषो निश्चरति वल्गु मनोज्ञः आसेचनको अप्रतिकूलो श्रवणाय ॥ तद्यथा अपि नाम पंचाङ्गिकस्य तूर्यस्य कुशलेहि वादकेहि सम्यक्सुप्रवादितस्य घोषो निश्चरति वल्गु मनोज्ञो आसेचनकः अप्रतिकूलो श्रवणाय ॥ एवम् एव . . . . . . . . . भो महामौद्गल्यायन तेन कालेन तेन समयेन दीपवतीये राजधानीये मनुष्या अभूषि शुण्डापेया ते तेन तालपत्रनिर्घोषेण पंचहि कामगुणेहि समर्पिता समङ्गीभूता क्रीडेन्सु रमेन्सु प्रविचारेन्सु ॥
___दीपवती खलु पुनर् महामौद्गल्यायन राजधानी सप्तहि वेदिकाजालेहि परिक्षिप्ता अभूषि चित्राहि दर्शणीयाहि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकाया ॥ सौवर्णस्य पादकस्य रूप्यमयी सूचिका
[_म्वु_1.195_] आलम्बनमधिष्ठानकं चाभूषि । रूप्यमयस्य पादकस्य मुक्तामया सूचिका आलम्बनम् अधिष्ठानकं च अभूषि । मुक्तामयस्य वैडूर्यमयी वैडूर्यमयस्य स्फटिकमयी स्फटिकमयस्य मुसारगल्वमयी मुसारगल्वमयस्य लोहितिकामयी । लोहितिकामयस्य पादकस्य सौवर्णिका सूचिका आलम्बनम् अधिष्ठानकं च अभूषि ॥ ते च खलु पुनर् महामौद्गल्यायन वेदिकाजाला द्विहि हेमजालेहि प्रतिच्छन्ना अभूषि सुवर्णमयेन च हेमजालेन रूप्यमयेन च ॥ सौवर्णस्य हेमजालस्य रूप्यमयीयो किंकिणीयो अभूषि । रूप्यमयस्य हेमजालस्य सौवर्णिका किंकिणिका अभूषि ॥ दीपवतीयं खलु पुनः राजधानीयं समन्ततो त्रीणि त्रीणि द्वाराणि अभूषि चित्राणि दर्शनीयानि सप्तानां रत्नानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकायाः ॥ तेषां खलु पुनर् महामौद्गल्यायन द्वाराणां द्विन्नां वर्णानां व्यामोत्संगा अभूषि सुवर्णस्य च रूप्यस्य च । द्विन्नां वर्नानां तुला अभून्सुः सुवर्णस्य च रूप्यस्य च । द्विन्नां वर्णानां अनुवर्गा अभून्सुः सुवर्णस्य च रूप्यस्य च । द्विन्नां वर्णानां फटिकफलकानि अभून्सुः सुवर्णस्य च रूप्यस्य च । द्विन्नां वर्णानां फलकस्तारा अभून्सुः सुवर्णस्य च रूप्यस्य च । चतुर्णां वर्णानां पटिमोदका अभून्सुः सुवर्णस्य च रूप्यस्य मुक्ताया वैडूर्यस्य ॥ तेषां खलु पुनर् महामौद्गल्यायन द्वाराणां द्विन्नां वर्णानां एलूका अभून्सुः सुवर्णस्य रूप्यस्य च ॥ तेषां खलु पुनर् महामौद्गल्यायन द्वाराणां चतुर्णां वर्णानां इन्द्रकीलका अभून्सु सुवर्णस्य च रूप्यस्य च मुक्ताया वैडूर्यस्य च । द्विन्नां वर्णानां कपाटानि अभून्सुः सुवर्णस्य च रूप्यस्य च । द्विन्नां वर्णानां अर्गलपाशा अभून्सुः सुवर्णस्य च रूप्यस्य
[_म्वु_1.196_] च ॥ तेषां खलु पुनर् महामौद्गल्यायन द्वाराणां पुरतो इषिकानि मापितानि अभून्सुः त्रिपौरुषनैखान्यानि त्रिपौरुषपरिगोह्यानि द्वादशपौरुषा उद्वेधेन चित्राणि दर्शनीयानि सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकायाः ॥ ते खलु पुनर् महामौद्गल्यायन द्वारा द्विहि द्विहि हेमजालेहि प्रतिच्छन्ना अभून्सुः सौवर्णिकेन हेमजालेन रूप्यमयेन हेमजालेन ॥ सुवर्णस्य हेमजालस्य रूप्यमयीयो किंकिणीयो अभून्सुः रूप्यमयस्य हेमजालस्य सौवर्णिका किंकिणीयो अभून्सुः ॥ तेषां खलु पुनर् महामौद्गल्यायन हेमजालानां वातेरितानां वातसंघट्टितानां घोषो निश्चरति वल्गु मनोज्ञः आसेचनको अप्रतिकूलो श्रवणाय । . . . . . . . . . . एवम् एव महामौद्गल्यायन तेषां हेमजालानां वातेरितानां वातसंघट्टितानां घोषो निश्चरति वल्गु मनोज्ञः आसेचनको अप्रतिकूलो श्रवणाय ॥ दीपवती खलु पुनर् भो महामौद्गल्यायन राजधानी अशून्या अभूषि इमेहि एवंरूपेहि शब्देहि सय्यथापि हस्तिशब्देहि रथशब्देहि पत्तिशब्देहि भेरीशब्देहि मृदङ्गशब्देहि पणवशब्देहि शंखशब्देहि वेणुशब्देहि वीणाशाब्देहि गीतशब्देहि वादित्रशब्देहि अश्नुथ खादथ पिबथ देथ दानानि करोथ पुण्यानि धर्मे चरथ श्रमणब्राह्मणेषु भद्रम् अस्तु वः ति शब्देहि ॥ दीपवतीयं खलु पुनः राजधानीयं मध्ये वल्गुया नाम यष्टि अभूषि चित्रा दर्शनीया सप्तानां वर्णानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फटिकस्य मुसारगल्वस्य लोहितिकाया द्वादशयोजनानि उद्वेधेन चत्वारि योजनानि अभिनिवेशेन ॥
___अर्चिमतो खलु पुनः महामौद्गल्यायन राज्ञः सुदीपा नाम अग्रमहिषी अभूषि प्रासादिका दर्शनीया अक्षुद्रावकाशा परमाये शुभाये वर्णपुष्कलताये समन्वागता ॥
___द्वादशेहि महामौद्गल्यायन वर्षेहि दीपंकरः बोधिसत्वो तुषितभवनातो च्यविष्यति
[_म्वु_1.197_] शुद्धावासा देवा प्रत्येकबुद्धानाम् आरोचयन्ति ॥ बोधिसत्वो च्यविष्यति रिंचथ बुद्धक्षेत्रं ॥
तुषितभवनाद् अतियशो च्यविष्यति अनन्तज्ञातदर्शावी ।
रिंचथ बुद्धक्षेत्रं . . . . वरलक्षणधरस्य ॥
ते श्रुत्व बुद्धशब्दं प्रत्येकजिनाः महेश्वरवराणां ।
निर्वांसु मुक्तचित्ता स्वयंभुनो चित्तवशवर्ती ॥
द्वादशेहि महामौद्गल्यायन वर्शेहि दीपंकरो बोधिसत्वो तुषितभवनातो च्यविष्यति शुद्धावासा देवा ब्राह्मणवेषं निर्मिणित्वा मन्त्रांश् च वेदांश् च द्वात्रिंशच् च महापुरुषलक्षणानि ब्राह्मनानां वाचेन्ति यथा बोधिसत्वे इहागते व्याकरेन्सुः ॥
___अथ खलु महामौद्गल्यायन बोधिसत्वो च्यवनकाले तुषितभवनातो चत्वारि महाविलोकितानि विलोकयति । तद्यथा कालविलोकितं देशविलोकितं द्वीपविलोकितं कुलविलोकितं ॥ द्विहि कुलेहि महामौद्गल्यायन बोधिसत्वा जायन्ति क्षत्रियकुले ब्राह्मणकुले वा ॥ यस्मिं कुले महामौद्गल्यायन बोधिसत्वा जायन्ति तं कुलं षष्टीहि अङ्गेहि समन्वागतं भवति ॥ कतमेहि षष्टीहि अङ्गेहि समन्वागतं भवति ॥ अभिज्ञातं च महामौद्गल्यायन तं कुलं भवति । परिज्ञातं च तं कुलं भवति । अक्षुद्रावकाशं च तं कुलं भवति । जातिसम्पन्नं च भवति । गोत्रसम्पन्नं च पूर्वपुरुषयुगसम्पन्नं च । अभिज्ञातपूर्वयुगसम्पन्नं च । महेशाख्यपूर्वयुगसम्पन्नं च । बहुस्त्रीकं च । बहुपुरुषं च । अलोलं च । अलुब्धं च । अभीतं च । अदीनं च । प्रज्ञावन्तं च । शीलवन्तं च । स्वापतेयम् अप्रेक्षमाणं च । तं कुलं भोगां च भुंजति । दृढमित्रं च तं कुलं भवति । कृतज्ञं च । विधिज्ञं च । अच्छन्दगामि च । अदोषगामि
[_म्वु_1.198_] च । अमोहगामि च । अभयगामि च । अवद्यभीरु च । स्थूलभिक्षं च । पुरुषकारमतिं च । दृढविक्रमणं च । चेतियपूजकं च । देवपूजकं च । पूर्वपितृपूजकं च । क्रियाधिमुक्तं च । त्यागाधिमुक्तं च । व्रताधिमुक्तं च । लब्धपूर्वापरं च । अभिदेवघोषघुष्टं च । कुलज्येष्ठं च । कुलश्रेष्ठं च । कुलप्रवरं च । कुलवशिप्राप्तं च । महेशाख्यं च । महापरिवारं च । अश्रमपरिवारं च । अनुरक्तपरिवारं च । अभेद्यपरिवरञ् च । मातृज्ञं च । पितृज्नं च । श्रामण्यं च । ब्राह्मण्यं च । कुलज्येष्ठापचायकं च । प्रभूतधनधान्यं च । प्रभूतकोशकोष्ठागारं च । प्रभूतहस्त्यश्वगवेडकं च । प्रभूतदासीदासकर्मकरपौरुषेयं च । दुष्प्रधर्षं च तत् कुलं भवति परेहि प्रत्यर्थकेहि प्रत्यमित्रेहि ॥ यस्मिं कुले महामौद्गल्यायन बोधिसत्वा जायन्ति तत् कुलं इमेहि षष्टीहि अंगेहि समन्वागतं भवति ॥ ये ते सत्वा कुलसंपन्ना भवन्ति एवंरूपा सत्वा महाकरुणां प्रतिलभन्ति ॥
___अथ महामौद्गल्यायन बोधिसत्वो च्यवनकाले महासंविधानं करोति ॥ देवपुत्रसहस्राणि देवपुत्रेण उक्ता ॥ षोडशहि महाजनपदेहि मध्यदेशेहि उपपद्यथ क्षत्रियमहाशालेषु च कुलेषु गृहपतिमहाशालेषु कुलेषु च राजकुलेषु च राजामात्यकुलेषु च । युष्मेहि विनीतेहि महाजनकायो विनयं आगमिष्यति ॥
___बोधिसत्वो च्यवनकाले अवलोकयति कहिम् उपपद्यामि ॥ अयं अर्चिमो राजा कतपुण्यो महेशाख्यो च चक्रवर्ती चतुर्द्वीपाधिपतिः एषो मम पिता योग्यो ॥ मातरम्
[_म्वु_1.199_] अन्वेषति या प्रासादिका भवेय कुलीना च शुचिगात्रा च मन्दरागा च अल्पायुष्का च यस्या शेषा ससप्तरात्रा दश मासा आयुष्प्रंआणतो अवशिष्टा भवेन्सुः ॥
सर्वेषां बोधिसत्वानां जनेत्वा पुरुषोत्तमां ।
चरमे सप्तमे दिवसे माता जहति जीवितं ॥
अत्र किं कारणं भवति यदि सर्वज्ञमातरो ।
जनेत्वा पुरुषश्रेष्ठं शीघ्रं जहन्ति जीवितं ॥
वसन्तो तुषिते काये बोधिसत्वो महास्मृतिं ।
लभते शुभकर्मेण परीक्षन्तो जनेत्रियं ॥
यस्येह परिशेषं स्या नारीये जीवितं भवेत्* ।
दिवसानि सप्त मासा च दश तस्या उरम् ओतरेत्* ॥
किं कारणं अयुक्तं हि अस्मद्विधम् अनुत्तरं ।
धारेत्वा उत्तरे काले मैथुनं परिसेवितुं ॥
अथापि प्रतिसेवेयुः कामां सुगतमातरि ।
न पिता देवसंघानां भिन्नवृत्तो ति वक्ष्यते ॥
भगवां च नाम कामानां दोषां सततं भाषति ।
अथ च लोकनाथस्य माता कामां निषेवति ॥
ये च नृपतिनां वेश्मस्थानि रत्नकरण्डका ।
रतनं पुरुषश्रेष्ठा भाजनं जिनमातर इति ॥
समन्वेषन्तो महामौद्गल्यायन बोधिसत्वो अद्राक्षीत्* ॥ दीपवतीये राजधानीये
[_म्वु_1.200_] राज्ञो अर्चिमस्य सुदीपा देवी प्रासादिका च कुलीना शुचिगात्रा च मन्दरागा च अल्पायुष्का च ससप्तरात्राणि चास्या दश मासानि आयुष्प्रमाणतो अवशिष्टा ॥
पश्यति विलोकयन्तो लोकं अथ अर्चिमस्य ओरोधे ।
नारीं अमरवधुनिभां विद्युल्लतानिभां इव सुदीपां ॥
सो तां निशाम्य जननीं आमन्त्रयते अमरां च्यविष्यामि ।
अन्तिमम् उपेष्यि वासं गर्भे मरुमानुषसुखार्थं ॥
तं अवच देवसंघो कृतांजलिपुटो वराभरणधारी ।
ऋध्यतु उत्तमपुद्गल तव प्रणिधि अहीनगुणरूप ॥
वयं अपि लोकहिताय मनोरमाम् ओशिरित्व कामरतिं ।
पूजार्थं तव अतिदेव मनुष्यलोके वसिष्यामो ॥
ते विमलरुचिरवर्णं मन्दारवपुष्पवर्षम् आकाशे ।
प्रवर्षिन्सु उदग्रचित्ताः शुचिं सुमधुराहि वाचाहि ॥
यम् अमरवसना प्रशमनमनोरमा शोकदुःखविनिमिश्रा।
न नन्दसि न च निषेवसि कामान् इदम् अद्भुतं तुभ्यं ॥
यं पि अभिभूय मरुगणं जम्बूनदपर्वतोपमप्रकाशो ।
उद्योतयसि दश दिशां सुरर्षभ इदं आश्चर्यं ॥
अभिभवसि देवसंघां समहेश्वरदानवां समारगणां ।
तारागणां खगचरां अमितमति इदं पि आश्चर्यं ॥
किं चापि विप्रयोगं त्वया न इच्छाम भूतसंघगुरु ।
[_म्वु_1.201_] अपि तु अरविन्दनयना भविष्यसि गतिर् नरमरूणां ॥
अथ च्यवनकालसमये विशुद्धशतपत्रपद्मनयनस्य ।
आनन्दितो मरुगणः घोषेति दिशाहि सर्वाहि ॥
एषा च वर्तति कथा तुषितपुरे सा च अप्रतिमा सुदीपा ।
राज्ञो ऽर्चिमस्य महिषी राजानम् उपेत्य इदम् आह ॥
सा हरिणवत्सनयना विशुद्धगन्धर्ववधुनिभा श्यामा ।
सहितम् इदं अर्चिमस्य सुमधुरम् इदम् अब्रवि सुदीपा ॥
आभरणस्तम्भितभुजा प्रवरवसनधारिणी सखीहि सह ।
त्वया विना राजर्षभ रजनीम् इमां क्षपयितुं छन्दो ॥
शतरश्मिस्य नरवरा प्रासादवरस्य उत्तमां भूमिं ।
शयनवरम् आरुहे यत्र कुमुदवसनसन्निभं विमलं ॥
तेन वचनेन तुष्टो देवीये अर्चिमां मनापेन ।
आमन्त्रयति नरवरो परिवारम् उदग्रसंकल्पो ॥
प्रतिवेदयन्तु मे लघु शतरश्मिं प्रवरकुसुमसंच्छन्नं ।
मुक्तकुसुमावकीर्णं करोथ दिवि देवभुवनं वा ॥
ओसक्तपट्टदामं शतरश्मिं शोभतां चपलम् एव ।
वरहेमजालच्छन्नं सुमेरुवरशृंगसंकाशं ॥
चतुरंगिनी च सेना सशूलनाराचतोमरविचित्रा ।
परिवारयतां चपलं शतरश्मिमनोज्ञसंघातं ॥
ओसृष्टा येवाज्ञा नरपतिना सज्जं एव च सर्व ।
कृत्वा तत्र स्वकुलं राजानम् उपेत्य इदम् आहु ॥
[_म्वु_1.202_] वर्षसहस्रम् अनूनं आयुः परिपालेतु महीपालो ।
सज्जं ति विमानवरं शोभति तव हर्षसंजननं ॥
अथ सा अमरवधुनिभा देवी उत्थाय आसनवरातो ।
अब्रवीत्* महीपतिवरं आदित्ये अस्तमितमात्रे ॥
एषा समादियामि प्राणिषु अविहिंसं ब्रह्मचरियं च ।
विरमामि चाप्य् अदिन्नान् मद्याद् अनिबद्धवचनाच् च ॥
अखिलवचनाच् च नरवर प्रतिविरमामि तथैवं पैशून्यात्* ।
परुषवचनाच् च नरपति विरमामि अयं मम च्छन्दो ॥
परकामेषु च ईर्ष्यां न संजनेष्यं नापि अभिद्रोहं ।
भूतेषु उपजनेष्यं विपरीतमतिं च विजहामि ॥
एकादशप्रकारं शीलं सेवाम्य् अहं पृथिवीपाल ।
रजनीम् इमाम् अनूनाम् एवं मम जायते छन्दः ॥
अपि च क्खु भूमिपाला कामवितर्को मा मां प्रतिकांक्षि ।
प्रेषय मा ते अपुण्यं भवेय मम ब्रह्मचारिणिये ॥
सर्वे तव संकल्पां परिपुरेमीति पार्थिवो अवचि ।
अभिरम भवनवरगता अहं च राज्यं च ते वश्यं ॥
सा स्त्रीसहस्रम् अग्र्यं अनुरक्तं गृह्य तं विमानवरं ।
अभिरुह्य अभिनिषीदे मनापपरिपूर्णसंकल्पा ॥
सा कञ्चिद् एव कालं तस्मिं हिमकुमुदपुण्डरीकनिभे ।
शयने प्रसमदमरता तुष्णींभावेन क्षेपयति ॥
[_म्वु_1.203_] सा दानि दक्षिणेन पार्श्वेन परिन्यासे शरीरवरं ।
कुसुमलता व द्रुमवरं शयनं परिवेल्लियाशायिता ॥
अथ तां निशाम्य शयनोपगतां देवीं दिवि प्रमदारूपनिभां ।
तुषितालया च्यविय देवगणाः प्रासादमूर्ध्नि प्रतिस्थिहिंसु ॥
ते मूर्धना अभिनता सर्वे हृष्टा कृतांजलिपुटाः अमरा ।
वन्दन्ति तां विपुलपुण्यधरां देवीं जिनस्य जननीं शयने ॥
अथ कौतूहलपरं संजनिया बहुदेवकन्या शुचिमाल्यधरा ।
जिनमातुर् उपगता द्रष्टुमना प्रासादमूर्ध्नि प्रतिष्ठिहिंसु ॥
उपसंक्रमित्वा शयनोपगतां देवीं निशाम्य वरविद्युनिभां ।
प्रीतिसुखं विपुलं संजनिया अथ संप्रवर्षि दिविजं कुसुमं ॥
मानुष्यकं पि किल एदृशकं रूपं सुजातम् इदम् आश्चर्यं ।
कंचित् कालं स्थिहिय-म्-अन्तरतो नायं समा मरुवधूहि भवे ॥
लीलां निशामयथ हे सखिका प्रमदाय्ऽ; इमस्य यथ ओपयिकां ।
शयने विरोचति मनं हरति विभ्राजते कनकमरीचिर् इव ॥
अयन् तं धरेष्यति महापुरुषं अत्यन्तदानदमशीलरतं ।
सर्वाश्रवान्तकरणं विरजं किं हायते तव नरेन्द्रवधू ॥
चापोदरे करतलप्रतिमे वररोमराजिविचित्रे रुचिरे ।
इह सो भविष्यति अनन्तमतिः सततं अलिप्त अशुभेन शुचि ॥
बहुदीर्घरात्रनिचितं कुशलं प्रमदाय्ऽ; इमस्य विपुलं परमं ।
[_म्वु_1.204_] या तं धरेष्यति अनन्तगुणं चिररात्रसन्निचितपुण्यबलं
अनुरूपा त्वं च प्रमदा प्रवरा माता स चैष पुरुषप्रवरो ।
पुत्रो प्रहीनवनथो विरजो किं हायते तव नरेन्दवधू ॥
अथ राक्षसा विविधरूपधरा आणत्ता दिवि परितो चपलं ।
तिष्ठन्तु भो प्रवरशस्त्रधराः सर्वदिशा कुरुथ असंवरणा ॥
तेषाम् अनन्तर द्विजिह्वगणा आरक्षहेतु दिशतासु स्थिताः ।
वातं पि येष चलितं श्रुणिय क्रोधं समुत्पतति अग्निसमो ॥
तेषाम् अनन्तरगतास् थपिता यक्षाः प्रदीप्तशिखरा विकृता ।
ये दुष्टचित्ता विनिवारयाथ मा च वधं कुरुथ कस्य चापि ॥
तेषाम् अनन्तरस्थिता बलवां गन्धर्वसंघो शुभरूपधराः ।
आरक्षहेतु शुभचापधरा वरलक्षणा विपुलबुद्धिमतो ॥
चत्वारि लोकपतिनो स्थपिता गगने स्वयंपरिवारेण सह ।
अद्य च्यविष्यति किल भगवां लोकस्य अर्थसुखवृद्धिकरो ॥
त्रिदशेहि सार्धं त्रिदशप्रवरो स्थितु अन्तरीक्षे वरचक्रधरो ।
अचिरं च्यविष्यति च्युतिं चरमां आकांक्षमाण सुखं अप्रतिमं ॥
देवीय मूले बहु देवगणा कृत्वा दशांगुलिं नताभिमुखा ।
समुदीरयन्ति वचनं मधुरं उल्लोकयन्ति तुषितेषु जिनं ॥
व्यवदानसन्निचितपुण्यबला समयो खु अन्तिमम् उपेतु भवं ।
सज्जा ताव भवति ते जननी अनुकम्प दानि दुःखितां जनतां ॥
[_म्वु_1.205_] एषो च्यवामि इति मुंचि गिरां शुभं वचनं उदीरयि . . . . . . ।
अथ सुपिनं जननि जिनस्य तस्मिं क्षणे पश्यते वरविपाकफलं ॥
हिमरजतनिभो से षड्विषाणो सुचरणचारुभुजो सुरक्तशीर्षो ।
उदरम् उपगतो गजप्रधानो ललितगतिः अनवद्यगात्रसन्धिः ॥
न खलु पुनर् महामौद्गल्यायन बोधिसत्वा कालपक्षे मातुः कुक्षिम् अवक्रामन्ति । अथ पूर्णायां पूर्नमास्यां पुष्यनक्षत्रयोगयुक्तायां बोधिसत्वा मातुः कुक्षिम् अवक्रामन्ति ॥ उपोषधिकायां आरोहसम्पन्नायां परिणाहसम्पन्नायां व्यक्तायां अग्रयौवनमण्डप्राप्तायां विनीतायां बहुश्रुतायां स्मृतायां सम्प्रजानायां सर्वाकारप्रदक्षिणचित्तायां सर्वाकारप्रतिरूपायां प्रमदोत्तमायां बोधिसत्वा मातुः कुक्षिम् अवक्रामन्ति ॥ बोधिसत्वेन महामौद्गल्यायन तुषितभवनगतेन च्यवनकाले प्रभा ओसृष्टा याये प्रभाये सर्वं बुद्धक्षेत्रं ओभासितं ॥
___देवपुत्रो देवपुत्रं पृच्छति ॥
किं कारणं सुरवरेण प्रभा प्रमुक्ता
चन्द्रांशुशीतलतरा कनकावदाता ।
येनासुरेश्वरगणा मनुजेश्वराश् च
प्रह्लादिता च नरका ज्वलनार्चिकल्पा ॥
सो दानि आह ॥
ये तत्र तत्र जनतां प्रतिपालयन्ति
संसारपंजरगतां मदनाभिभूतां ।
तेषां विमोक्षकरणेन महायशेन
आमन्त्रणार्थं अनघेन प्रभा प्रमुक्ता ॥
[_म्वु_1.206_] बोधिसत्वो आह ॥
मुंचथ अमरा पुराणि न किल प्रामोद्यस्य अयं कालः ।
जरामरणपुरं भेत्तुं कालो ज्ञानप्रहारेण ॥
बोधिसत्वो स्मृतो संप्रजानो प्रदक्षिणचित्तो मातुः कुक्षिम् अवक्रान्तो इति ॥
सो नदिय सिंहनादं नरसिंहो च्यवनकालसमयस्मिं ।
अन्तरहितो क्षणेन नरेन्द्रभवने समुत्पद्ये ॥
यो सो तुषितं कायं ओभासेति शुभेन वर्णेन ।
देवपुराच् च्यवमानो अनतिवरो लोकप्रद्योतः ॥
सब्रह्मकं च लोकं सश्रमणब्राह्मणा प्रजा सर्वा ।
वर्णेन्ऽ; ओभासेति अनतिवरः लोकप्रद्योतो ॥
आश्चर्यम् अद्भुतम् इदं पश्यथ यावत्* महर्द्धिकः शास्ता।
स्मृतिमां सुसंप्रजानो मातुः कुक्षिस्मिं ओक्रान्तो ॥
यावच् च नरवरप्रवर उत्तमलक्षणसमंगि अस्थासि ।
माताये कुक्षिस्मिं स्मृतिमतिमां संप्रजानो च ॥
समनन्तरौक्रान्ते च महामौद्गल्यायन बोधिसत्वे महासत्वे मातुः कुक्षिस्मिं इयं महापृथिवी अतीव षड्विकारं कम्पे संकम्पे प्रकम्पे संहर्षणीयं च कम्पे दर्शनीयं च हर्षनीयं च मोदनीयं च प्रेमनीयं च प्रह्लादनीयं च निर्वर्णनीयं उल्लोकनीयं च
[_म्वु_1.207_] आसेचनकं च अप्रतिकूलं च प्रासादिकं च प्रसरणीयं च निरुद्वेगं च निरुत्त्रासं च ॥ कम्पमाना च पुनर् न कंचित् सत्वं व्याबाधति यम् इदं जंगमं स्थावरं वा ॥
ततो अयं सागरमेरुमण्डला
प्रकम्पिता षड्विधम् आसि मेदिनी ।
कृतो च लोको विमलो मनोरमो
महान्धाकारापनुदस्य तेजसा ॥
सो ऽयं महानुभावो स्मृतिंआं तुषितभवनाच् च्यवित्वान ।
पाण्डरवराहकनिभो भवित्व गजरूपी षड्डन्तो ॥
वीरासने शयन्तिये पोषधिकाये विशुद्धवसनाये । {सेनर्त्: वीरशयने}
स्मृतो संप्रजानो कुशलो मातुः कुक्षिस्मिं ओक्रान्तः ॥
सा च रजनीप्रभाते आख्यासि भर्तुनो मनापस्य ।
राजवर पाण्डरो मे गजराजा कुक्षिम् ओक्रान्तो ॥
तं शृणुय भर्तु राजा वैपंचनिकां समागतां अवचि ।
सुपिनस्मिं अस्या सर्वे भणाथ भूतं फलविपाकं ॥
ते तत्रापि अवचिंसु निमित्तिका पृच्छिता स्वयं राज्ञा ।
द्वात्रिंशल्लक्षणधरो कुक्षिं देवीय ओक्रान्तो ॥ {सेनर्त्: -लक्षधरो}
हृष्टो भवासि नरवर यस्य तव कुलस्मिं प्रत्युत्पन्नो ।
पृथिवीधर वरगर्भो अनुपमसत्वो महासत्वो ॥
यथ मय पौराणानाम् आचार्याणां स्वयं समुपाहृतं ।
[_म्वु_1.208_] द्वे ऽस्य गतयो अनन्या भवन्ति नरवीरशार्दूल ॥
यदि आसिष्यति अगारे महीपति होति सरतनो महर्द्धिको ।
नित्यानुबद्धविजयो राजशतसहस्रपरिवारो ॥
अथ खलु प्रव्रजिष्यति चातुर्द्वीपां महीं विजहियान ।
होहिति अनन्यनेयो बुद्धो तेना नरमरूणां ॥
यावत्तका नागराजानो नागाधिपतयो ते सर्वे बोधिसत्वस्य रक्षावरणगुप्तीये औत्सुक्यम् आपद्येन्सुः ॥ बोधिसत्वे खलु पुनर् महामौद्गल्यायन मातुः कुक्षिगते यावन्तो सुवर्णराजानो सुवर्णाधिपतयो ते सर्वे बोधिसत्वस्य रक्षावरणगुप्तीये औत्सुक्यम् आपद्येन्सुः ॥ चत्वारो पि महाराजानो बोधिसत्वस्य रक्षावरणगुप्तीये औत्सुक्यम् आपद्येन्सुः ॥
चतुरो पि लोकपाला रक्षाम् अकरिन्सु लोकनाथस्य ।
मा कोची अहितैषी नमुचिबलनुदं विहिंसेय ॥
शक्रो देवानाम् इन्द्रो सुयामो पि देवपुत्रो संतुषितो पि देवपुत्रो सुनिर्मितो पि देवपुत्रो वशवर्ती पि देवपुत्रो महाब्रह्मा पि शुद्धावासो पि देवपुत्रो बोधिसत्वस्य मातुः कुक्षिगतस्य रक्षावरणगुप्तीये औत्सुक्यम् आपद्येन्सुः ॥
सहस्राणि देवानाम् अर्चिमपुरम् उपगतानि तुष्टानि ।
आरक्षार्थं . . . . . वरबुद्धिनो अमरपुरम् इव ॥
मनोरमं दीपवतीपुरम् उत्तमं कृतम् अनुविशन्तेहि ।
मनोमयविक्रमगतेहि अमरगणेहि अभिविरोचति ॥
[_म्वु_1.209_] देवीं परिवारेत्वा महेश्वरगणानां किल सहस्राणि ।
अष्टौ गगणतलगता आकाशगता अभिनिषण्णा ॥
तेषां दानिं पृष्ठतो इन्द्रसहस्राणि विमलशिखराणि ।
सुबहूनि बहुगुणस्य आरक्षार्थं निषण्णानि ॥
तेषां दानिं पृष्ठतो देवेन्द्राणां सहस्रनयुतानि ।
कामावचरा देवा निषण्णा गगने निरालम्बे ॥
तेषां देवगणानां पृष्ठतो असुरा असुराणां च द्विजिह्वगणा ॥
यक्षाश् च विकृतरूपा राक्षससंघाश् च सन्निषाण्णा ॥
एताये विधिये गगणं अमरशतसहस्रसंकुलं श्रीमं ।
अत्यन्तसुपरिशुद्धं कुशलम् उपचितं हि विरजेन ॥
महाब्रह्मा आह
स्वप्नान्तरे या प्रमदा ददर्श
सूर्यं नभा कुक्षिम् अनुप्रविष्टं ।
प्रसूयते सा वरलक्षनांगं
सो भवति राजा बलचक्रवर्ति ॥
मूल पाठ: Mahāvastu-avādana · Edition: Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)) · Data entry Emmanuel Fauré · GRETIL (Göttingen) · CC BY-NC-SA 4.0