भाषा

ENहिગુ
ग्रंथ पाठ

महावस्तु-अवादन · भाग 120

_______________________________पर्त् 1_______________________________
[_म्वु_1.1_] ओं नमः श्रीमहाबुद्धाय अतीतानागतप्रत्युत्पन्नेभ्यः सर्वबुद्धेभ्यः ॥
___महावस्तुये आदि ॥ चत्वारि इमानि बोधिसत्वानां बोधिसत्वचर्याणि ॥ कतमानि चत्वारि ॥ प्रकृतिचर्या प्रणिधानचर्या अनुलोमचर्या अनिवर्तनचर्या ॥ नमो अपराजितध्वजाय तथागतायार्हते सम्यक्संबुद्धाय । यस्यान्तिके ऽनेनैव भगवता शाक्यमुनिना प्रथमं कुशलमूलानि अवरोपितानि राज्ञा चक्रवर्तिभूतेन अदौ प्रकृतिचर्यायां प्रवर्तमानेन ॥ नमो ऽतीताय शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धाय । यस्यान्तिके ऽनेनैव भगवता शाक्यमुनिना प्रथमं कुशलमूलप्रणिधाणं कृतं वणिक्श्रेष्ठिभूतेनादौ प्रणिधानचर्यायां प्रवर्तमानेनाहो पुनर् अहम् अनागते ऽध्वनि बुद्धो भवेयं तथागतो ऽर्हं सम्यक्संबुद्धो यथायं भगवाञ् च्छाक्यमुनिर् ममापि शाक्यमुनिर् इति नामधेयं विस्तरेण यावत्* ममापि कपिलवस्तुनगरं भवेद् इति ॥ नमः समिताविने तथागतायार्हते सम्यक्संबुद्धाय यस्यान्तिके ऽनेनैव भगवता शाक्यमुनिनानुलोमप्रणिधानं कृतं राज्ञा चक्रवर्तिभूतेन अनुलोमचर्यायां प्रतिष्ठितेन [कतमा निवर्तनचर्या] ॥ नमो दीपंकराय तथागतायार्हते सम्यक्संबुद्धाय । येनायं भगवान् प्रथमत एवं व्याकृतः । भविष्यसि त्वं माणवकानागते ऽध्वनि अपरिमितासंख्येयाप्रमेयेहि कल्पेहि शाक्यमुनिर् नाम तथागतो ऽर्हं संयक्संबुद्ध इति । विस्तरेणोदीरयिष्यं दीपंकरवस्तुनि
[_म्वु_1.2_] मेघमाणवव्याकरनं ॥ अतः प्रभृत्य् अनिवर्तनचर्यायां दीपंकरस्य तथागतस्य तस्योत्तरेणापरिमाणेहि तथागतेहि अनुव्याकृतो बुद्धो भविष्यसीति ॥ ततः पश्चात् सर्वाभिभुवापि भगवतानुव्याकृतं ॥ भविष्यसि त्वं अभिजि भिक्षो ऽनागते ऽध्वनि शतसहस्रकल्पे शाक्यमुनिर् नाम तथागतो ऽर्हं सम्यक्संबुद्ध इत्य् एवमादि विस्तरेणोदीरयिष्यं अभिजिभिक्षुव्याकरनं ॥ नमो विपश्यिने तथागतायार्हते सम्यक्संबुद्धाय ॥ नमो क्रकुत्संदाय तथागतायार्हते सम्यक्संबुद्धाय ॥ नमः काश्यपाय तथागतायार्हते सम्यक्संबुद्धाय । येन भगवता अयम् एव भगवां च्छाक्यमुनिर् अनुव्याकृतो युवराज्ये च अभिषिक्तो । भविष्यसि त्वं ज्योतिष्पालानागते ऽध्वनि ममानन्तरम् एव शाक्यमुनिर् नाम तथागतो ऽर्हं सम्यक्संबुद्ध इति विस्तरेणोदीरयिष्यं ज्योतिष्पालस्य भिक्षोर् व्याकरणं ॥
___एवं नमो ऽतीतानागतप्रत्युत्पन्नेभ्यः संबुद्धेभ्यः ॥
_____ निदाननमस्कराणि समाप्तानि ॥
आर्यमहासांघिकानां लोकोत्तरवादिनां मध्यदेशिकानां पाठेन विनयपिटकस्य महावस्तुये आदि ॥
___चतुर्विधा उपसंपदा स्वाम-उपसंपदा एहिभिक्षुकाय उपसंपदा दशवर्गेन गणेन उपसंपदा पंचवर्गेन गणेन उपसंपदा चत् ॥ तत्र स्वामुपसंपदा नाम उपसंपन्ना
[_म्वु_1.3_] भगवन्तो ऽभ्यासे बोधीय मूले ॥ दश कुशला कर्मपथा ये हि समादाय वर्तन्ति ते बोधाय समासन्नतरा भवन्ति ॥ तत्रापि च सो प्रतिविशिष्टो ॥ तेनैवं बुद्धवैनेयतायै व सुकृतिष्व् एतासु चरितेन दीपंकरम् उपागमिय पटिपाटिया प्राणकोटीषु दृष्ट्वा दर्शनीयं समन्तप्रासादिकं प्रसादनीयं श्रावकसंघपरिवृतं तस्य स्पृहाचित्तम् उत्पाद्ये । साधु स्याद् यद्य् अहं लोकम् एव अभिभूय लोके लोकार्थचरो लोकस्यास्य हिताय जायेयं ॥ ज्ञात्वा समुदागमं संबोधौ नियतं च तस्य प्रणिधानं आत्मसमताये समासतः स्वयंभूसमताये व्याकार्षीत्* ॥ बुद्धो भविष्यसि त्वम् अनागते ऽध्वन्य् अपरिमाणे शाक्यकुले शाक्यसुतो देवमनुष्याणाम् अर्थाय ॥ सो व्याकृतो भगवता पुरुषोत्तमताये पुरुषसिंहेन अग्रपुरुषः सुपुरुषः पुरुषोत्तमचारिकाम् अचरि ॥ सो बोधिसत्वचर्यां सत्वानां हितसुखं गवेषन्तो संसरति बोधिसत्वो लोकार्थं आत्मनो ऽर्थं च । सो ऽयं किञ्चिद् एवं दानं शीलं समयं चोपवासं सेवति अमात्सर्यवन्तो लोकस्य हितं गवेषन्तो । दानं च प्रियवाद्यं च तथार्थचर्या समानसुखदुःखता संग्रहवस्तुहि जिनो चतुर्हि परिकल्पये सत्वां ॥ न तस्य अभूषि किञ्चिद् अपरित्यक्तं यं अस्ति सन्निहितं । दृष्ट्वान च याचनकं भूयो ऽस्य मनो प्रसादित्वा चक्षूणि च मान्सानि च पुत्रदारं धनं च धान्यं च आत्मा च जीवितं च भूयोभूयो परित्यक्ता ॥ एतेन उपायेन बहूनि जातीनयुतशतसहस्राणि
[_म्वु_1.4_] संसरति बोधिसत्वो सत्वानाम् अर्थं चिन्तयन्तो यथातथं कालज्ञो समयज्ञो पुद्गलपरापरज्ञताकुशलो समयम् अभिकांक्षमाणो तुषितकायं उपागमेसि । तुषितभवने भवनुदो भवो अनित्यो ति भावयन्तो सुगतो चरिमं भवम् उपागमि ॥ भगवान् भवविप्रमोक्षाये एकतिलकोलभक्षो परमकृशो दुष्करन्तपो अचरि । परमशरीरपीडो जानन्तो न एष मार्गो ति विप्रमोक्षाय नदीकालसमये नदीये नैरंजनाये स्नायित्वा अग्रपुरे गयसाह्वये निषीदे सिंहो वा असंत्रस्तो । पुरिमे यामे अनघं दिव्यं चक्षुर् योनिशो विशोधेत्वा सत्वानाम् आगतिगतिं विविधां भगवां अभिज्ञासि ॥ यामे मध्यमस्मिं पूर्वनिवासं अनुस्मरसि इतरेषां आत्मनो च पूर्वं च निवासवारं बहुप्रकारं अभिज्ञासि ॥ यामे च पश्चिमस्मिं यं ज्ञेयं पुरुषदम्यसारथिना सर्वन्तम् एकक्षणे स्वयम्भूसमतां समनुबुध्ये इति ॥
_____श्रीमहावस्तुनिदानगाथा समाप्ता ॥
भगवान् सम्यक्संबुद्धो यद् अर्थं समुदागतो तद् अर्थं अभिसंभावयित्वा स्रावस्तीयं विहरति जेतवने अनाथपिण्डदस्यारामे शास्ता देवानां च मनुष्याणां च विस्तरेण निदानं कृत्यं ॥
___अथ आयुष्मान् महामौद्गल्यायनो ऽभीक्ष्णं निरयचारिकां गच्छति ॥ तत्र सत्वां

[_म्वु_1.5_] पश्यति अष्टसु महानरकेषु प्रत्येकषोडशोत्सदेषु अनेकविधानि नैरयिकानि दुःखसहस्राणि समनुभोन्तो ॥ अहं च आयुष्मान् कोलितस्थविरो चरन्तो नरकचारिकां आद्राक्षीत् सत्वा नरकेषु अनुभवन्ता बहू दुःखा संजीवे निरये ऊर्ध्वपादा अधोशिरा वासीहि च परशूहि च क्षीयन्ता । अपरे पि परस्परं प्रदुष्टमनसंकल्पा आयसेहि नखेहि पाटेन्ति तीक्ष्णानि च असिपत्राणि हस्तेषु प्रादुर्भवन्ति येहि परस्परं गात्राणि च्छिन्दन्ति न च कालं करोन्ति यावत् सानं पापका कर्मा न परिक्षीणा ॥ कालसूत्रे महानरके अद्राक्षीत् सत्वां कालसूत्रेण सूत्रिताङ्गा निहतक्षीयन्तां परशूहि पि विपटीयन्तां करपत्रेहि विपाटीयन्तान्* ॥ तक्षितपटितो च सानं कायो पुन रुह्यति असाता वेदना वेदयन्ति न चैवं कालं करोन्ति कर्मोपस्तब्धत्वात्* ॥ संघाते पि महानरके अद्राक्षीत् सत्वसहस्राणि पर्वतेहि पीडियन्ता आदीप्तसंप्रज्वलितसज्योतिभूतेहि शोणितनद्यो च प्रसवन्ति भूयो च तानि पर्वतानि ते च संक्रमन्ति न चैवं तावत् कालं करोन्ति कर्मोपस्तब्धत्वात्* ॥ आद्राक्षीद् एकान्तरौरवे सत्वसहस्रियो ताम्रमयघनेषु आदीप्तसंप्रज्वलितसज्योतिभूतेषु धूमसमाकुलेषु प्रक्षिप्ता दुःखसहस्राणि अनुभोन्ता ॥ महारौरवे आदीप्तसंप्रज्वलिते
[_म्वु_1.6_] सज्योतिभूते अग्निस्मिं संप्रक्षिप्तानां महारावं रवन्तानां च शब्दो चक्रवाडमहाचक्रवाडेहि पर्वतेहि प्रतिहन्यते येहि चतुर्हि महाद्वीपेहि जम्बुद्वीपपूर्वविदेह-अपरगोदानीय-उत्तरकुरुषु मनुष्याणां श्रोताभासम् आगच्छति ॥ अद्राक्षीत् तपने अनेका सत्वसहस्रियो एकान्तकदुःखवेदना वेदयन्तां पार्ष्णि उपादाय यावद् अधिकृकाटिका अयोकुट्टनेहि कुट्टीयन्ता अपराणि च दुःखसहस्राणि समनुभवन्ता न चैवं ताव कालं करोन्ति कर्मोपस्तब्धत्वात्* ॥ तस्मिं महानरके आदिप्तसंप्रज्वलिते सज्योतिभूते अनेकायो सत्वसहस्रियो उपपन्ना दुःखा वेदनां वेदेन्ता ॥ तस्मिं महानरके समन्तायोजनशतिके पूर्वाय भित्तीय अर्चिसहस्राणि उत्पत्तित्वा पश्चिमाये भित्तीये प्रत्यहन्यन्ति । पश्चिमाये भित्तीये अर्चिसहस्राणि उत्पत्तित्वा पूर्वाये भित्तीये प्रत्यहन्यन्ति । दक्षिणाये उत्पत्तित्वा उत्तराये प्रत्यहन्यन्ति । उत्तराये उत्पत्तित्वा दक्षिणायं प्रत्यहन्यन्ति । भूमीये उत्पत्तित्वा तले प्रत्यहन्यन्ति । तलातो उत्पत्तित्वा भूमौ प्रत्यहन्यन्ति । तायो सत्वसहस्रियो समन्ततो परिपतन्ति न चैवं तावत् कालं करोन्ति कर्मोपस्तब्धत्वात्* । प्रतापस्मिं महानरके पर्वता प्रज्वलिता आदीप्ता सज्योतिभूता । नैरयिकेहि सत्वेहि शूलोपेतेहि तानि पर्वतानि परिचारितानि ॥ एदृशानि दुःखानि समनुभवन्ति न चैवं ताव कालं करोन्ति कर्मोपस्तब्धत्वात्* ॥ अतो महानरके मुक्ताः कुक्कुलन्ते ऽवगाहन्ति । ते च तत्र कुक्कुले दह्यमानायो जना
[_म्वु_1.7_] प्रधावन्ति न चैवं कालं करोन्ति कर्मोपस्तब्धत्वात्* ॥ कुक्कुलातो मुक्ताः कुणपं अवगाहन्ति । तत्र कृष्णेहि प्राणकेहि अयोमुखेहि खज्जन्ति न चैवं कालं करोन्ति कर्मोपस्तब्धत्वात्* ॥ कुणपातो मुक्ता नरकोत्सदा द्रुमाणि रमणीयानि च वनप्रान्तानि पश्यन्ति तेन सुखार्थिनो तानि वनप्रान्तानि धावन्ति । तत्रापि सानं कुलला च गृध्रा च काकोलूका च अयोमुखा आर्द्रवृक्षे वा वर्जयित्वा मान्सानि खादन्ति यं तेषाम् अस्थीनि अवशेषाणि भूयो पि मान्सच्छवि मान्सशोणितम् उपजायति न चैवं कालं कुर्वन्ति कर्मोपस्तब्धत्वात्* ॥ ते तेषां पक्षिणां भीता अलेने लेनसंज्ञिनो असिपत्रवनं नरककुम्भं च प्रविशन्ति ॥ तत्रापि संप्रविष्टानां वातानि उपवायन्ति यैस् तानि असिपत्रानि पतन्ति तीक्ष्णानि । तेषां सत्वानां गात्रणि प्रत्याहन्यन्ति नैवं सानं कश्चित् काये प्रदेशो यो अक्षतो भवति अन्तमसतो बालाग्रकोटिनिष्क्रममात्रो पि न चैवं कालं करोन्ति कर्मोपस्तब्धत्वात्* ॥ ते क्षता च शयाना रुधिरम्रक्षितशरीरा वैतरणीं नदीं अवगाहन्ति सत्वा कठिनां क्षारनदीं याव सानं श्लक्ष्णितानि अंगानि प्रतिविध्यन्ति न चैवं कालं करोन्ति कर्मोपस्तब्धत्वात्* ॥ ततो ऽपि सानं नरकपाला आयसेहि अङ्कुशेहि उद्धरेत्वा नदीतीरे आदीप्ताये भूमिये संप्रज्वलितसतेजोभूताये
[_म्वु_1.8_] आविद्धानां एवम् आह ॥ अहह भो पुरुषाः किम् इच्छथ ॥ ते एवम् आहन्सुः ॥ परिबुभुक्षिता स्म संपिपासिता स्म ॥ ततो सानं नरकपालाः अयोविष्कंभनेभि मुखं विष्कंभयित्वा आदीप्तसंप्रज्वलितसतेजोभूतेहि अयोषण्डं धमेन्ति मुखं स्वकं विवरयित्वा आदीप्तानि संप्रज्वलितानि सतेजोभूतानि अयोगुडानि मुखे संप्रक्षिपन्ति ॥ तं भुंजन्तां भवन्तो ॥ ताम्रलोहं च सानं विलीनकं पाययन्ति ॥ पिबन्तां भवन्तो ॥ यो सानं धममान एव ओष्ठं दहति ओष्ठं दहित्वा जिह्वां दहति जिह्वां दहित्वा तालुकं दहति तालुकं दहित्वा कण्ठं दहति कण्ठं दहित्वा अन्त्रं दहति अन्त्रं दहित्वा अन्त्रगुणम् आदाय अधोभागेन गच्छति न चैवं तावत् कालं करोन्ति कर्मोपस्तब्धत्वा ॥
___एवं स्थविरो महामौद्गल्यायनो अष्टसु महानरकेषु सत्वा दुःखसहस्राण्य् अनुभवन्ता दृष्ट्वान्ऽ; अहो कृच्छ्रं ति जेतवनम् आगत्वा चतुर्णां परिषदां विस्तरेणारोचयति ॥ एवं सत्वा अष्टसु महानरकेषु षोडशोत्सदेषु विविधानि दुःखसहस्राणि प्रत्यनुभवन्ति । तस्माज् ज्ञातव्यं प्राप्तव्यं बोद्धव्यं अभिसंबोद्धव्यं कर्तव्यं कुशलं कर्तव्यं ब्रह्मचर्यं न च वा लोके किञ्चित् पापं कर्म करणीयं ति वदेमि ॥ एवं स्थविरस्य महामौद्गल्यायनस्य श्रुत्वा बहूनि प्राणिसहस्राणि देवमनुष्याणां अद्भुतं प्राप्नुवन्ति ॥
[_म्वु_1.9_]___एवं समासतो नरकवर्णः ॥ विस्तरतो ऽप्य् उपवर्णयिष्यामि ॥
इमं लोकं पारलोकं सत्वानाम् आगतिंगतिं ।
च्युति-उपपत्तिसंसारं संबुद्धो स्वयम् अद्दसा ॥
आवज्जन्तो सफलतां कर्मणां प्राणसंश्रितां ।
यथास्थानं विपाकं च स्वयम् अवबुध्ये मुनिः ।
सो अभिज्ञाय आख्यासि नरकान् अष्ट गौतमः ।
प्रत्यक्षधर्मा भगवां सर्वधर्मेषु चक्षुमां ॥
संजीवं कालसूत्रं च संघातं द्वौ च रौरवौ ।
अथापरा महावीची तपनो च प्रतापनो ॥
इत्य् एते अष्टौ निरया आख्याता दुरतिक्रमा ।
आकीर्णा रौद्रकर्मेभिः प्रत्येकषोडशोत्सदा ॥
चतुःकला चतुर्द्वारा विभक्ता भागशो मिता ।
उद्गता योजनशतं समन्तात् शतयोजनं ॥
अयःप्राकारपरिक्षिप्ता अयसा प्रतिकुब्जिताः ।
तेषाम् अयोमयी भूमिः प्रज्वलिता तेजसायुता ॥
सदायसफालास्फारा आवसथा दुरासदा ।
रोमहर्षणरूपा च भीष्मा प्रतिभया दुःखा ॥
[_म्वु_1.10_] महद्भयंकरा सर्वे अर्चिशतसमाकुला ।
एकैको योजनशतं आदाये संप्रभासति ॥
यत्र सत्वा बहू रौद्रा महाकिल्विषकारका ।
चिरं कालं पतप्पन्ति अपि च वर्षशतानि अपि ॥
अयोमयेहि दण्डेहि स्थूलनरकपालकाः ।

हनन्ति प्रत्यमित्राणि ये भोन्ति कृतकिल्विषा ॥
तेषाम् अहं कीर्तयिष्यामि गिरा यम् अनुपूर्वशः ।
श्रोतुम् आदाय सत्कृत्य शृणोथ मम भाषतः ॥
संजीवे सत्वा निरये ऊर्धपादा अधोशिराः ।
प्रलंबयित्वा तक्ष्यन्ति वासीहि परशूहि च ॥
ततो नखेहि तीक्ष्णेहि आयसेहि स्वयंभुहि ।
अन्यमन्यं विवादेन्ति क्रुद्धा क्रोधवशानुगाः ॥
असिनो चापरा तेषां तीक्ष्णा हस्तेषु जायिथ ।
येहि च्छिन्दन्ति अन्योन्यं प्रदुष्टमनसा नराः ॥ {सेनर्त्: प्रदुष्तमनसारका}
तेषां सीदन्ति गात्राणि शीतलवात ऊहता ।
सर्वाङ्गज्वलनस् तेषां पूर्वकर्मविपाकतः ॥
एवं शास्ता यथाभूतम् अभिज्ञाय तथागतो ।
संजीवम् इति आख्यासि आवासं पापकर्मणां ॥
[_म्वु_1.11_] संजीवातो च निर्मुक्ता कुक्कुलम् अवगाहिषु ।
हन्यमाना समागम्य दीर्घमायतविस्तरं ॥
ते खु तत्र प्रधावन्ति योजनानि अनेकशो ।
दह्यमाना कुक्कुलेन वेदेन्ता बहुदुःखकं ॥
कुक्कुलातो च निर्मुक्ताः कुणपम् अवगाहिथ ।
दीर्घपदातिविस्तीर्णं ते विध्वंसितपौरुषा ॥
तम् एनं कृष्णप्राणका अग्नितीक्ष्णमुखा खरा ।
छविं भित्त्वान खादन्ति मान्सशोणितभोजनाः ॥
कुणपातो च उत्तीर्णा द्रुमा पश्यन्ति शोभना ।
हरितान् पत्रसंछन्नास् तान् आयान्ति सुखार्थिनः
तम् एनं कुलला गृध्रा काकोला च अयोमुखा ।
आर्द्रवृक्षे च वर्जित्वा खादन्ति रुधिरक्षतां ॥
यदा च खादिता भोन्ति अस्थीनि अवशेषिता ।
पुनः तेषां छविमान्सं रुधिरं चोपजायते ॥
ते भीता उत्पतित्वान अलेना लेनसंज्ञिनो ।
असिपत्रवनं घोरं हन्यमाना उपागमि ॥
[_म्वु_1.12_] ततो क्षता च आर्ता च बहुरुधिरम्रक्षिता ।
असिपत्रवना मुक्ताः यान्ति वैतरणीं नदीं ॥
तेन ताम् अवगाहन्ति तप्तां क्षारोदकां नदीं ।
तेषां च अङ्गमङ्गानि क्षतानि प्रतिविध्यत ॥
ततो ऽङ्कुशेहि विद्धित्वा आयसैः यमपौरुषाः ।
उत्क्षिपित्वा नदीतीरे भुंजावेन्ति अयोगुडां ॥
ताम्रलोहं च शुल्वं च आपायेन्ति विलीनकं ।
तम् एषाम् अन्त्रम् आदाय अधोभागेन गच्छति ॥
एतानि पापकर्मान्ता नरकां प्रतिपद्यिथ ।
अकृत्वान कुशलं कर्म वाममार्गानुसारिणः ॥
ये च पापानि कर्माणि परिवर्जन्ति योनिशः ।

एकान्तकुशलाचारा न ते गच्छन्ति दुर्गतिं ॥
तस्मा द्विरूपपर्याया कर्मा कल्याणपापका ।
पापानि परिवर्जित्वा कल्याणं आचरे शुभं ॥
कालसूत्रस्मिं नरके आर्द्रवृक्षे व वर्जिताः ।
सूत्रयित्वान तेषाङ्गा वासीहि परशूहि च ॥
ततो अयोमया पत्रा दीर्घकालसुतापिता ।
दहन्ता पीडयन्ता च गात्रेषु परिवेष्टिता ॥
[_म्वु_1.13_] दहित्वा पीडयित्वा च अयोपत्रा विघट्टिता ।
आवृंहितं छविमान्सं रुधिरं च प्रसारये ॥
ततो पार्ष्णीहि पाटेत्वा याव अधिकृकाटिकां ।
कालसूत्रस्मिं नरके बहू अपि संघट्टति ॥
भैरवे अन्धकारस्मिं वार्ता यत्र न दृश्यति ।
धूमसंघातस्मिं तस्मिं नरके ओसरन्ति च ॥
ते च तत्र प्रधावन्ति योजनानि अनेकशः ।
अन्यमन्यं आक्रमन्ता बध्रेषु परमन्त्रशः ॥
एवं शास्ता यथाभूतं अभिज्ञाय तथागतः ।
कलसूत्रं इदं वक्षे आवासं पापकर्मिणां ॥
संघातस्मिं च नरके महता पर्वता अधो ।
तेषाम् अन्तरिकं सत्वा मृगवशो प्रवेशिता ॥
ते पि शैला समागम्य सत्वानां कर्मप्रत्यया ।
पीडयन्ति बहु प्राणां अग्निस्कन्धनिभानि ऽव ॥
पीडितानां च गात्राणां बहुं स्रवति शोणितं ।
शरीरसंभ्रमे चापि पूयनद्यो प्रवर्तिथ ॥
[_म्वु_1.14_] आयसासु च द्रोणीषु अयोमुशलकोटिषु ।
सुभन्ति प्रत्यमित्राणि अपि वर्षशतं बहुं ॥
एवं शास्ता यथाभूतां अभिज्ञाय तथागतः ।
संघातम् इदम् आख्यासि आवासं पापकर्मिणां ॥
रौरवस्मिं च नरके ओरुद्धा जनता बहु ।
अग्निस्मिं प्रज्वलितस्मिं शब्दं कुर्वन्ति भैरवं ॥
यदा च अग्निर् निर्वाति अथ तूष्णीभवन्ति ते ।
पुनर् अग्निस्मिं प्रज्वलिते निर्नादन्ति महत्स्वरं ॥
द्वितीयो पि च आख्यातो रौरवो रोमहर्षणः ।
निरन्तकूलनरको गम्भीरो न समुत्तरो ॥
तत्र दण्डं गृहीत्वान स्थूलनरकपालका ।
सुभन्ति प्रत्यमित्राणि अपि वर्षशतं बहुं ॥
एवं शास्ता यथाभूतं अभिज्ञाय तथागतो ।
रौरवं इति आख्यासि आवासं पापकर्मिणां ॥
तपनस्मिं च नरके तप्तलोहो समुद्यतः ।
निःस्वनन्ते च संतप्ता अग्निस्कन्धसमा दुःखा ॥
तत्र पापसमाचारा ओरुद्धा जनता बहु ।

पच्यन्ति पापकर्मान्ता ये भोन्ति कृतकिल्विषाः ॥
[_म्वु_1.15_] तां पक्वमात्रा संखिन्ना खादेन्ति सुनखा बहु ।
प्रवृद्धकाया बलिनो मान्सशोणितभोजना ॥
यदा च खादिता भोन्ति अस्थीनि अवशेषिता ।
अथ तेषां छविमान्सं रुधिरं च उपजायति ॥
एवं शास्ता यथाभूतम् अभिज्ञाय तथागतः ।
तपनम् इदम् आख्यासि आवासं पापकर्मणां ॥
प्रतापनस्मिं नरके तीक्ष्णशूला अयोमुखा ।
महतो अग्निस्कन्धस्य पर्वतो भयभैरवः ॥
तत्र पापसमाचारा आवृता जनता बहु ।
अण्वन्ति पापकर्मान्ता मछा कठल्लगता यथा ॥
एवं शास्ता यथाभूतं अभिज्ञाय तथागतः ।
प्रतापनन् ति आख्यासि आवासं पापकर्मिणां ॥
ततो अवीची नरको एकान्तकटुको दुःखो ।
महन्तो तपोसंतप्तो अर्चिसंघगणावृतः ॥
अयोगुडा हि अग्निस्मिं यथ-र्-इव संतापिता ।
एवं अवीची नरके हेष्टा उपरि पार्श्वतो ॥
जातवेदोसमा कायाः तेषां नरकवासिनां ।
[_म्वु_1.16_] पश्यन्ति कर्मदृढतां न तस्मात् भोति नो गतिः ॥
ते च तत्र प्रधावन्ति दृष्ट्वा द्वारम् अपावृतं ।
अपि निष्क्रमणं यस्मा अस्ति मोक्षगवेषिणां ॥
येषां च पापकं कर्म अविपक्वं पुरा कृतं ।
न ते लभन्ति निर्गन्तुं निरयात् कर्मप्रत्यया ॥
एवं शास्ता यथाभूतं अभिज्ञाय तथागतः ।
अवीचिम् इति आख्यासि आवासं पापकर्मिणां ॥
संजीवं नाम ॥ कस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति । इह सपत्ना ये वा भोन्ति सापत्नका वा वैरिणः क्षेत्रवैरिका वा वस्तुवैरिका वा वप्रवैरिका वा प्रतिराजानो वा चौरा वा संग्रामगता अन्यमन्यस्मिं सापत्नानि चित्तानि उपस्थापयित्वा कालं कुर्वन्ति तस्य कर्मस्य विपाकतो तत्र सत्वा उपपद्यन्ति ॥ एवं खलु पुनः आधिपतेयमात्रम् एतं तत्रोपपत्तेः । तत्रोपपन्ना अन्येषां पि पापकानाम् अकुशलानां कर्माणां विपाकं प्रत्यनुभवन्ति ॥ कस्य कर्मस्य विपाकेन तक्षीयन्ति ॥ येहि इह जीवन्तो प्राणका तच्छिता भवन्ति वासीहि परशूहि कुठारीहि तस्य कर्मस्य विपाकेन तक्षीयन्ति ॥ कस्य कर्मस्य विपाकतो तेषां शीतको वायु उपवायति ॥
[_म्वु_1.17_] येहि इह निवापकभोजनानि दत्तानि भोन्ति शृगालमहिषाण शूकराण कुक्कुटान पोषितानि मांसार्थाय वधिष्यामि त्ति तस्य कर्मस्य विपाकतो तेषां . . . . . . . . . हस्तेषु नखा जायन्ति दण्डा वा आयसा ॥ यथा इह आयुधयानानि दत्तानि भोन्ति एवं यूयं इमेहि आयुधेहि इत्थंनामं ग्रामं वा नगरं वा निगमं वा हनध्वं मनुष्यां वा तिरच्छानगतां वा तस्य कर्मस्य विपाकतो तेषां हस्तेषु दण्डा वायसा जायन्ति असिनो च ॥ केनैष संजीवो ॥ तत्र तेषां नैरयिकानां एवं भवति संजीवं कालसूत्रभूतिकं तेनैष संजीवनिरयो ॥
___कालसूत्रं नाम ॥ सो नरको याव आयुधहस्ता याव सज्योतिभूतो ॥ तत्र तां नैरयिका निरयपाला आर्द्रवृक्षे वा वर्जेत्वा कालसूत्रवशेन तक्षन्ति अष्टांशे पि षडंशे पि चतुरंशे पि ॥ अन्येषां दानि पार्ष्णि उपादाय यावत् कृकाटिकातो यथा इक्षुगण्डिका एवं छिन्दन्ता गच्छन्ति अन्येषां पुनः कृकाटिकाद् उपादाय यावत् पार्ष्णि यथा इक्षुगण्डिका एवं छिन्दन्ता गच्छन्ति ॥ ते तथाभूता अतिमात्रं दुःखा वेदना वेदेन्ति न च पुनः कालं करोन्ति यावं न तत्पापकं कर्म क्षीणं भवति ॥
[_म्वु_1.18_] कस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ येहि इह बद्धा भवन्ति हस्तिनिगडादिभिः कर्मकारापिता वा भवन्ति एत्तकानां हस्तानि छिन्दथ पादानि छिन्दथ एत्तकानां नासा एत्तकानां स्नायुमान्सं उत्पाटेथ एत्तकानां बाहु एत्तकानां पृष्ठिमान्सं उत्पाटेथ पंचवारं वा दशवारकं वा तस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ एवं खलु पुनः आधिपतेयमात्रम् एतं तत्रोपपत्तेः ॥ तत्रोपपन्ना अन्येषां पि पापकानाम् अकुशलानां कर्मणां विपाकं प्रत्यनुभवन्ति ॥ तत्र ते नैरयिका निरयपालैस् ताड्यमाना परिभाष्यमाणाः सुभस्सू ति आहन्सु ॥ ते संभीता बहूनि प्राणसहस्राणि यथा नैवजीवानि एवन् तिष्ठन्ति ॥ अथ यमपालानां पट्टानां तप्तानां संप्रज्वलितानां सज्योतिभूतानां बहूनि पट्टसहस्राणि पुरतो वैहायसा गच्छन्ति तेषां दानि आगच्छन्तां शब्दं करोन्ति । एतानि आगच्छन्तीति ॥ तानि तेषां आगत्वा प्रत्येकं गात्राणि परिवेष्टन्ति ॥ तत्र तेषां छविं निर्दहन्ति चर्म पि मान्सं पि स्नायुं पि निर्दहन्ति यथा सर्वं पि निर्दग्धं भवति ॥ अथ तेषां आवृंहितं तच्छविमान्सलोहितं व्यवदह्यति ॥ ते तथाभूता अधिमात्रं दुःखा वेदनां वेदयन्ति न च पुनः कालं करोन्ति याव सानं तं पापकं कर्म व्यन्तीकृतं न भवति ॥ एवं खलु पुनः आधिपतेयमात्रम् एतं तत्रोपपत्तेः । तत्र्0पपन्ना अन्येषां पि पापकानाम्
[_म्वु_1.19_] अकुशलानां कर्मणां विपाकं प्रत्यनुभवन्ति ॥ कस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ येहि इह जीवन्ता प्राणा अनेकशो घाताविता भवन्ति येहि इह याचनकेहि वा पण्डकेहि वा सर्वदण्डेहि वा दुःशीलेहि वा प्रव्रजितेहि चीवराणि वा कायबन्धनानि वा परिभुंजितानि भवन्ति तस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ एवं खलु पुनः आधिपतेयमात्रम् एतं तत्रोपपत्तेः । तत्रोपपन्ना अन्येषां पि पापकानाम् अकुशलानां कर्मणां विपाकं प्रत्यनुभवन्ति ॥ अन्येषां दानि पार्ष्णि उपादाय याव कृकाटिकातो वध्री विदारेन्ति ॥ अन्येषां दानि कृकाटिकातो उपादाय याव पार्ष्णि वध्री विदारेन्ति ॥ अन्येषां दानि कृकाटिका उपादाय याव कटीयो चीरकवध्रानि करोन्ति ॥ ते तथाभूता अधिमात्रां वेदना वेदयन्ति ॥ कस्य कर्मस्य विपाकेनात्र सत्वा उपपद्यन्ति ॥ येहि इध एरकवार्षिका वा कारापिता चीरकवार्षिका कारापिता वा तस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ यो निरये अन्धकारधूमसंघो परितो सो धूमो तीक्ष्णो

[_म्वु_1.20_] कटुको भयानको छविं भित्त्वा चर्म भित्त्वा मान्सं भित्त्वा स्नायुं भित्त्वा आस्थिं भित्त्वा अस्थिमर्जं मान्साद्य् अतिनिर्याति ॥ सर्वे काया मूर्छन्ता तत्र संप्रक्षियन्ति ॥ ते तत्र अनेकानि योजनशतानि अन्वाहिण्डन्ता अन्यमन्यं आक्रमन्ता पटिसुभन्ति ॥ ते तथाभूता अधिमात्रा वेदनां वेदेन्ति न च पुनः कालं करोन्ति याव सानं तं पापकं कर्म व्यन्तीकृतं न भवति ॥ कस्य कर्मस्य विपाकतो तत्र सत्वा उपपद्यन्ति ॥ येहि इध रन्ध्रेषु वा गुत्तीषु वा कारासु वा बन्धेषु वा साहिकानां वा किंपुरुषकानां वा उन्दुरूणां वा विडालानां वा अजगराणां वा विले धूपं कृत्वा द्वारा रक्षिता भवन्ति मधुकरा वा धूमेन बाधिता भवन्ति तस्य कर्मस्य विपाकतो तत्र सत्वा उपपद्यन्ति ॥ एवं खलु पुनः विविधानां पापकानां अकुशलानां कर्माणां विपाकतो तत्र सत्वा उपपद्यन्ति ॥ एवं खलु पुनः आधिपतेयमात्रम् एतं तत्रोपपत्तेः । तत्रोपपन्नाः अन्येषां पि विस्तरः ॥ केनेदं कालसूत्रं ॥ तत्र नैरयिकान् निरयपाला आर्द्रवृक्षे वा वर्जेत्वा कालसूत्रवशेन तक्षन्ति तेनैष कालसूत्रनिरयो यथाकर्तव्यो ॥
[_म्वु_1.21_]___संघातो नाम ॥ सो नरको पर्वतान्तरिकसंस्थितो आयसो आदीप्तसंप्रज्वलितो सज्योतिभूतो अनेकानि योजनशतानि आयतो ॥ तत्र तेषां नैरयिकानां निरयपाला आयुधहस्ता उद्देशेन्ति ॥ ते दानि भीताः तं पर्वतान्तरिकं प्रविशन्ति ॥ तेषां दानि पुरतो ऽग्नि प्रादुर्भूतो । ते दानि भीताः प्रतिनिवर्तन्ति । तेषां दानि पृष्ठतो ऽग्नि प्रादुर्भवति ॥ ते दानि शैलाः परस्परं समागच्छन्ति । तेषु दानि आगच्छन्तेषु शब्दं करोन्ति एतागच्छन्ति एतागच्छन्तीति ॥ ते समागता यथा इक्षु एवं पीडयन्ति ॥ ते दानि शैला वैहायसम् अभ्युद्गच्छन्ति ॥ ते तेषां हेष्टा अनुप्रविशन्ति । यदा अनुप्रविष्टा भवन्ति बहूनि प्राणिसहस्राणि ते दानि शैला सन्निविशन्ति यथा इक्षुगण्डा एवं पीडेन्ति लोहितनदीयो प्रस्यन्दन्ति ॥ अस्थिसंकलिकाः परिवर्ज्यन्ति निर्मान्सा स्नायुसंयुक्ताः ॥ तथाभूता वेदना वेदेन्ति न च पुनः कालं करोन्ति याव सानं न तं पापकं कर्म व्यन्तीकृतं भवति ॥ कस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ येहि इह कीटकमर्दनानि वा कारापितानि भवन्ति तलमर्दनानि वा असिपत्रे वा देवानां तथैवा जीवन्तका एवं प्राणका पत्रयष्टीहि पीडिता भवन्ति लिक्षा वा यूका वा सांकुशा वा नखेहि पिच्चिता भवन्ति तस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ एवं खलु पुनः आधिपतेयमात्रम् एतं तत्रोपपत्तेः ।
[_म्वु_1.22_] तत्रोपपन्नाः अन्येषां पि पापकानाम् अकुशलानां कर्माणां विपाकं प्रत्यनुभवन्ति ॥ ता अस्थिसंकलिकायो आयसाहि द्रोणीहि आदीप्ताहि संप्रज्वलिताहि सज्योतिभूताहि आयसेहि मुशलेहि आदीप्तेहि संप्रज्वलितेहि सज्योतिभूतेहि अयोपाते यथा पंच वर्षशतानि भवन्ति ॥ ते तथाभुता एवं दुःखां तीव्रां वेदना वेदयन्ति ॥ कस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ येहि इह जीवन्तका प्राणका शक्तीहि विज्झिता भवन्ति वा गदासिहि बाध्यन्ते वा येहि संप्रज्वलितेहि सजीवानि प्राणकानि व्यापाद्य उदूखले मुशलेहि संक्लिष्टा भवन्ति तस्य कर्मस्य विपाकतो तत्र सत्वा उपपद्यन्ति ॥ केनैष संघातो ति वुच्चति ॥ तत्र नैरयिका सत्वाः संघातम् आपद्यन्ते तेनैष निरयो संघातो ति वुच्चति ॥
___. . . . . . . . . . तत्र ते नैरयिका बहूनि प्राणसहस्राणि प्रत्येकप्रत्येकं वा घरकेहि ओरुद्धा छिन्न-ईर्यापथा गच्छन्ति ॥ तेषां हस्ते अग्नि प्रज्वलति । यथा यथा अग्नि प्रज्वलति तथा तथा शब्दं करोन्ति । यथा यथा अग्निर् निर्वाति तथा तथा तुष्णीभवन्ति ॥ ते तथाभूता अधिमात्रां वेदना वेदयन्ति ॥ कस्य कर्मस्य विपाकतो तत्र सत्वा उपपद्यन्ति ॥ येहि इह अत्राणा अनभिसरणा कर्मकारापिता भवन्ति गेहदाघा
[_म्वु_1.23_] वा कृता भवन्ति वनदाघा कृता भवन्ति रन्ध्रेषु वा गुत्तीषु वा कारासु वा बन्धेषु वा साहिकानाम् वा किंपुरुषाणां वा उन्दुरूणां वा विडालानां वा अजगराणां वा विलेषु अग्निं दत्वा द्वाराणि रक्षितानि भवन्ति मधूनि वा ताम्बूलानि वा अग्निना बाधितानि भवन्ति तस्य कमस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ एवं खलु पुनः आधिपतेयमात्रम् एतं तत्रोपपत्तेः । तत्रोपपन्नाः अन्येषां पापकानाम् अकुशलानां कर्माणां विपाकं प्रत्यनुभवन्ति ॥ . . . . . . .
___महारौरवो नाम ॥ सो नरको संचितो आयसो आदीप्तो संप्रज्वलितो सज्योतिभूतो अनेकानि योजनशतानि आयतो ॥ तत्र तेषां नैरयिकानां निरयपाला मुद्गरहस्ता उद्देशेन्ति ॥ ते दानि भीता अप्य् एकत्या धावन्ति अप्य् एकत्याः पलायन्ति अप्य् एकत्या न पलायन्ति अप्य् एकत्या कुत्रापि अवसक्कन्ति अप्य् एकत्या न अवसक्कन्ति अप्य् एकत्या अनुशक्यं संज्ञापयमानाः प्रत्युद्गच्छन्ति ॥ ते दानि नरकपाला कस्य दानि यूयं अत्र संज्ञापयमाना प्रत्युद्गच्छथेति तां प्रहरन्ति यथा दधिघटिका एवं शीर्यन्ति विशीर्यन्ति ॥ ये च धावन्ति ये च न धावन्ति ते तथाभूता दुःखां खरां कदुकां वेदना वेदेन्ति ॥ कस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ येहि इह
[_म्वु_1.24_] चन्द्रमसूर्याणि आवरित्वान बन्धनानि कृतानि भवन्ति प्रवेशयित्वा ओसिरन्ति एत्थ यूयं मा चन्द्रमासूर्यं पश्यथ तस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ कस्य कर्मस्य विपाकतो तेषां सत्वानां शीर्षाणि पिच्चीयन्ति ॥ येहि इह जीवन्तकानां प्राणकानां शीर्षाणि पिच्चितानि भवन्ति अहीनां वृश्चिकानां शतघ्नीनां तस्य कर्मस्य विपाकेन तेषां शीर्षाणि पिच्चीयन्ति ॥ केन तं रौरवं ॥ तत्र ते नैरयिका रोदन्ता न शक्नोन्ति अम्बेति वा तातेति वा बान्धवान् उपेतुं ॥ तेनेदं रौरवन् ति संज्ञितं ॥
___तपनो निरयो ॥ तत्र ते नैरयिका ओरुद्धा बहूनि प्राणिसहस्राणि तिष्ठन्ति ॥ ते दानि आर्द्रवृक्षे वा वर्जेत्वा खादन्ति ॥ यदा दानि भवन्ति निर्मान्सा अस्थिसंकलिका ओरुद्धा स्नायुयुक्ता ते दानि संमूर्छित्वा सहवेदना प्रपतन्ति ॥ अथ तेषां कर्मविपाकतो शीतलको वातो उपवायति ॥ तेन तेषां छविमान्सलोहितं उपजायति ॥ अथ ते पुरतो प्रवेशेन्ति ते तथाभूता ॥ कस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ येहि इह अद्वारका घरा प्रतियत्ता भवन्ति तेषां भित्तियो लिस्तापत्तियायं (?) भवन्ति जीवन्तका प्राणका तत्रापि वा कर्तरिकाहि प्रशस्ता भवन्ति तस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ तत्र कस्य कर्मस्य विपाकेन खज्जन्ति ॥ येहि इह जीवन्तका प्राणका खादापिता भवन्ति सिंहेहि व्याघ्रेहि द्वीपिहि ऋक्षेहि

[_म्वु_1.25_] तरक्षुहि तस्य कर्मस्य विपाकेन खज्जन्ति ॥ कस्य कर्मस्य विपाकतो तेषां शीतको वातो उपवायति ॥ येहि इध निवापकभोजनानि दत्तानि भवन्ति मृगाणां महिषाणां सूकराणां कुक्कुटानां स्थूलमान्सार्थाय वधिष्यामि त्ति तस्य कर्मस्य विपाकतो तेषां शीतको वातो उपवायति ॥ केनैष तपनो ॥ नैरयिका दह्यन्ति तेनैषो तपनो नाम नरको आयसेहि शूलेहि सन्तप्तेहि समन्ततो हि अनुप्रवारितो ॥ तत्र ते नैरयिका केचि एकशूलेनायुता पच्यन्ति केचि द्विहि केचि यावद्दशहि शूलेहि आयुता पच्यन्ति ॥ यदा दानि एकं पार्श्वं पक्वं भवति विस्तीर्णम् अथ द्वितीयेन पार्श्वेन ॥ अप्य् एकत्या नैरयिका अधिमात्रत्वात् पापकानाम् अकुशलानां कर्मणां विपाकतो स्वयम् एव अनुपरिवर्तयन्ति ॥ ते तथाभूता अधिमात्रां वेदना वेदयन्ति ॥ कस्य कर्मस्य विपाकतो तत्र सत्वा उपपद्यन्ति ॥ येहि इह जीवशूलिका कारिता भवन्ति एडकायो ते तस्य कर्मस्य विपाकतो तत्र सत्वा उपपद्यन्ति ॥ एवं खलु पुनः आधिपतेयमात्रम् एतं तत्रोपपत्तेः । तत्रोपपन्नाः अन्येषां पि पापकानाम् अकुशलानां कर्मणां विपाकं प्रत्यनुभवन्ति ॥ . . . . . . .
___. . . केनैष अवीचि नाम ॥ तस्य पुरस्तिमातो कुड्डातो अर्चियो पश्चिमे कुड्डे प्रतिहन्यन्ति

[_म्वु_1.26_] पश्चिमातो कुड्डातो अर्चियो पुरस्तिमे कुड्डे प्रतिहन्यन्ति दक्षिणातो कुड्डातो अर्चियो उत्तरे कुड्डे प्रतिहन्यन्ति उत्तरातो कुड्डातो अर्चियो दक्षिणे कुड्डे प्रतिहन्यन्ति । भूमिये उत्पत्तिता अर्चियो तले प्रतिहन्यन्ति तला निपतितायो अर्चियो भूमिये प्रतिहन्यन्ति सर्वो ऽर्चीहि सो नरको प्रतिबद्धो ॥ तत्र ते नैरयिका बहूनि प्राणसहस्राणि यथा काष्ठानि एवं विचित्रं पच्यन्ति ॥ ते तथाभूता दुःखां तीव्रां खरां कटुकां वेदना वेदयन्ति न चैवं तावत् कालं करोन्ति यावत् सानं न तत्पापकं कर्म व्यन्तीकृतं भवति ॥ एवन् तं पूर्वे मनुष्यभूतेहि अभिसंस्कृतं अभिसमादियित्वा नियतं वेदनीयं ॥ एवं खलु पुन आधिपतेयमात्रम् एतन् तत्रोपपत्तेः । तत्रोपपन्ना अन्येषां पि पापकानाम् अकुशलानां कर्माणां विपाकं प्रत्यनुभवन्ति ॥ कस्य कर्मस्य विपाकेन तत्र सत्वा उपपद्यन्ति ॥ ये इह मातृघातका वा भवन्ति पितृघातका वा अर्हन्तघातका वा तथागतस्य वा दुष्टचित्ता रुधिरोत्पादका वा सर्वेषाम् अपि ईदृशानाम् अकुशलानां कर्मपथानां विपाकेन तत्र सत्वा उपपद्यन्ति ॥ एवं खलु पुनर् विविधानां पापकानाम् अकुशलानां कर्माणां विपाकेन तत्र सत्वा उपपद्यन्ति ॥ तेनैष अवीचि इति वुच्चति ॥ तत्र ते नैरयिका अवीचिं कटुकां तीव्रां खरां वेदना वेदयन्ति नो यथान्येषु नरकेषु नरकपाला भीता कर्माणि कारापेन्ति शीतको वातो उपवायति यथा अन्यत्र न एवं तत्र ॥ अत्र खलु अवीचिं महानरके दुःखां तीव्रां खरां कटुकां वेदना वेदयन्ति तेन एषो अवीची नाम महानरको ॥
[_म्वु_1.27_]_____इति श्रीमहावस्तु-अवदाने नरकपरिवर्तं नाम सूत्रं समाप्तं ॥
___आयुष्मान् महामौगल्यायनो अभीक्ष्णं तिरच्छानचारिकां गच्छति ॥ सो पश्यति तिरच्छानयोनिषु सत्वा उपपन्ना विविधा दुःखानि प्रत्यनुभवन्तो ॥ आयुष्मां कोलितो स्थविरो चरन्तो तिरच्छानचारिकां अद्राक्षीत् तिर्यग्योनीषु सत्वां परमदुःखिता शुष्कार्द्राणि तृणानि मुखुल्लोचकं परिभुजन्तां शीतोष्णानि च पानीयानि पिबन्तां न च सानं माता प्रज्ञायति न पिता न भ्राता न भगिनी न गुरु न गुरुस्थानीयो न मित्रज्ञातिसालोहितं ॥ अन्यमन्यं खादन्ति अन्यमन्यस्य शोणितं पिबन्ति अन्यमन्यं घातेन्ति अन्यमन्यं विसुभन्ति ॥ ते तमातो तमं गच्छन्ति अपायातो अपायं गच्छन्ति दुर्गतिहि दुर्गतिं गच्छन्ति विनिपातातो विनिपातं गच्छन्ति विविधान्य् अपि दुःखसहस्राणि प्रत्यनुभवन्ति कृच्छ्रेण तिर्यग्योनिषु उच्छहन्ति ॥ सो तं तिर्यग्योनिषु महन्तं आदीनवं दृष्ट्वा जेतवनं गत्वा चतुर्णां पर्षाणां विस्तरेणारोचयसि ॥ एवं ये ते सत्वा तिर्यग्योनीषु उपपन्ना विविधानि दुःखानि दुःखसहस्राणि प्रत्यनुभवन्ति कृच्छ्रेण तिर्यग्योनिषु उच्छहन्ति ॥ तस्मा ज्ञातव्यं प्राप्तव्यं
[_म्वु_1.28_] बोद्धव्यं अभिसंबोद्धव्यं कर्तव्यं ब्रह्मचर्यं न च वा लोके किञ्चित् पापं करणीयं ति वदामि ॥
___आयुष्मान् महामौद्गल्यायनो अभीक्ष्णं प्रेतचारिकां गच्छति ॥ सो पश्यति सत्वां प्रेतलोके उपपन्ना विविधानि दुःखसहस्राणि प्रत्यनुभवन्तो ॥ आयुष्मान् कोलितो स्थविरो चरन्तो प्रेतचारिकां अद्राक्षीत् प्रेतलोकस्मिं प्रेतां परमदुःखितां महाकायां सूचीमुखां सन्निरुद्धकण्ठां सततम् अभ्यवहरन्ता तृप्तिं न अधिगच्छन्तां ॥ किं पुनर् अकृतपुण्यातो येन किंचित् न लभन्ति दुर्वर्णा दुर्दर्शना दुर्गन्धा दुरुपेता अल्पेशाख्या प्रतिकूलदर्शना नग्नका अप्रतिच्छन्ना क्षुत्पिपासासमर्पिता उच्चारप्रस्रावखेटसिंहाणिकापुब्बरुधिरं संपिपासन्ति ॥ तेषां कर्मविपाकातो वातो वायति अस्ति पानीयम् ति अस्ति पानीयम् ति अस्ति कूरं अस्ति य्वागू ति ते तं घोषं श्रुत्वा नदीयो च पर्वतां च लंघयित्वा गच्छन्ति एत्थ वयं खादिष्यामः एत्थ वयं भुंजिष्यामः एत्थ वयं पिबिष्यामो ति ॥ तथा ते पूर्वं आशां कृत्वा निराशा भवन्ति ॥ तेषां नास्ति नास्तीति वातो वायति ते तं शब्दं श्रुत्वा निराशा तेनैव अवकुब्जा प्रपतन्ति ॥ प्रेती गाथां भाषाते ॥
पंचानां वर्षशतानां अयं घोषो मया श्रुतं ।
पानीयं प्रेतलोकस्मिं पश्य याव सुदुर्लभं ॥
[_म्वु_1.29_] अपरा प्रेती गाथां भाषते ॥
पञ्चानां वर्षशतानाम् अयं घोषो मया श्रुतो ।
कूरो ति लोके प्रेतस्मिं पश्य याव सुदुर्लभं ॥
अपरा प्रेती गाथां भाषे ॥
पञ्चानां वर्षशतानाम् अयं घोषो मया श्रुतं ।
य्वागू ति प्रेतलोकस्मिं पश्य याव सुदुर्लभं ॥
अपरा प्रेती गाथां भाषे ॥
नदीम् उपेन्ति तृषिता सिकता परिवर्तति ।
छायाम् उपेन्ति सन्तप्ता आतपो परिवर्तति ॥
अपरा प्रेती गाथां भाषति ॥
धिग्जीवितं आजीविषु यम् अन्तस्मिं न दामथ ।
विद्यमानेषु भोगेषु प्रदीपं न करोथ व ॥
सो तं प्रेतलोके महन्तं आदीनवं दृष्ट्वा जेतवनम् आगत्वा चतुर्णां पर्षदानाम् अनेकपर्यायेण विस्तरेणारोचयति ॥ एवं सत्वा प्रेतलोके उपपन्ना विविधानि दुःखसहस्राणि प्रत्यनुभवन्ति । तस्मात्* ज्ञातव्यं प्राप्तव्यं बोद्धव्यं अभिसंबोद्धव्यं कर्तव्यं कुशलं च कर्तव्यं ब्रह्मचर्यं न च वा लोके किंचित् पापं कर्म करणीयं ति वदेमि ॥ स्थविरस्य श्रुत्वा अनेकप्राणसहस्राणि देवमनुष्याणां अमृतं प्रापुणेन्सु ॥
[_म्वु_1.30_]___आयुष्मान् महामौगल्यायनो अभीक्ष्णं असुरचारिकां गच्छति ॥ सो पश्यति असुरपुरे असुरां प्रवृद्धमहाकाया उग्रदर्शना व्यापादबहुला असुरेषु च्यवित्वा विनिपातेन्ता ॥ आयुष्मान् कोलितो स्थविरो चरन्तो असुरचारिकाम् अद्राक्षीत् सुरेषु व्यापादेन सुदुःखितां पंच असुरगणान्* ॥ तेषाम् एवं भवति । वयं हेष्टा उपरि देवा ॥ ततः कुप्यन्ति व्यापद्यन्ति अभिष्यन्दन्ति कोपं च रोषं च अप्रत्ययं च आविष्करोन्ति ॥ ते चतुरङ्गबलकायं सन्नहित्वा हस्तिकायं अश्वकायं रथकायं पत्तिकायं सन्नहित्वा देवगुल्मानि प्रभजन्ति यद् इदं करोटपाणयो नाम यक्षा मालाधारा नाम यक्षाः सदामत्ता नाम यक्षाः । एतानि देवगुल्मानि भंजित्वा देवेहि त्रायस्त्रिंशेहि संग्रामेन्ति ॥ ते खु देवानां त्रायस्त्रिंशानां कृतपुण्यानां महेशाख्यानाम् अन्तिके चित्तानि प्रदूषयित्वा कायस्य भेदात् परं मरणात् अपायदुर्गतिविनिपातनरकेषूपपद्यन्ति ॥ सो तं असुराणां महान्तम् आदीनवं दृष्ट्वा जेतवनम् आगत्वा चतुर्णां पर्षाणां विस्तरेण-म्-आरोचयति ॥ एवं सत्वा महासमुद्रे असुरपुरे विविधानि दुःखानि प्रत्यनुभवन्ति ॥ तस्माञ् ज्ञातव्यं बोद्धव्यं प्राप्तव्यं प्रतिसंबोद्धव्यं कर्तव्यं ब्रह्मचर्यं न च किञ्चिल्लोके पापं कर्म करणीयन् ति वदामि ॥ स्थविरस्य श्रुत्वा बहूनि प्राणसहस्राणि देवमनुष्याणाम् अमृतं प्रापयन्ति ॥
___आयुष्मान् महामौद्गल्यायनो अभीक्ष्णं चतुर्महाराजिकेषु देवेषु चारिकां गच्छति ॥ तत्र पश्यति चतुर्महाराजिकदेवां कृतपुण्यां महेशाख्या दीर्घायुष्कां वर्णवन्ता सुखबहुलां

[_म्वु_1.31_] लाभी दिव्यस्यायुषः वर्णस्य सुखस्य ऐश्वर्यस्य परिवारस्य लाभिनो दिव्यानां रूपाणां शब्दानां गन्धानां रसानां प्रष्टव्यानां दिव्यानां वस्त्राणां दिव्यानां आभरणानां । अग्रतो आभरणानि आबद्धानि पृष्ठितो दृश्यन्ते पृष्ठितो आबद्धानि अग्रतो दृश्यन्ति छाया पि सानं न दृश्यति स्वयंप्रभा अन्तरीक्षचरा येनकामंगमा प्रभूतभक्षा प्रचुरान्नपाना दिव्येषु रतनामयेषु विमानेषु दिव्येहि पंचहि कामगुणेहि समर्पिता समंगीभूता क्रीडन्ता रमन्ता प्रविचारयन्ता ॥ संपत्तिं स्थविरो विपत्तिपर्यवसानं पश्यति ॥ स्वयंप्रभा ततो चातुर्महाराजिकेषु च्यवमाना नरकेषूपपद्यन्ति तिरच्छेषूपपद्यन्ते प्रेतेषु असुरेषु कायेषु उपपद्यन्ति ॥ स्थविरो दानि देवानां चातुर्महाराजिकानां तां विपरिणामदुःखतां दृष्ट्वा अहो कृच्छ्रं ति जेतवनम् आगत्वा चतुर्णां पर्षाणां विस्तरेणारोचयति ॥ एवं सत्वा कुशलस्य कर्मस्य विपाकेन चातुर्महाराजिकेषु देवेषूपपद्यन्ति ॥ ते तत्र दिव्यानि संपत्ती अनुभवित्वा ततो च्यवमाना नरकतिरिच्छप्रेतासुरेषु कायेषु उपपद्यन्ति । देवा पि अनित्याः अध्रुवाः विपरिणामधर्माणो ॥ तस्माज् ज्ञातव्यं प्राप्तव्यं बोद्धव्यं अभिसंबोद्धव्यं कर्तव्यं कुशलं च कर्तव्यं ब्रह्मचर्यं न च वा लोके किञ्चित् पापं कर्म करणीयन् ति वदामि ॥ स्थविरस्य श्रुत्वा बहूनि प्राणसहस्राणि देवमनुष्याणाम् अमृतं प्रापयन्ति ॥
___आयुष्मान् महामौद्गल्यायनो अभीक्ष्णं त्रायस्त्रिंशेषु देवेषु चारिकां गच्छति ॥ तत्र पश्यति त्रायस्त्रिंशां देवां कृतपुण्यां महेशाख्यां दीर्घायुष्कां बलवन्तां सुखबहुलां
[_म्वु_1.32_] लाभी दिव्यस्यायुषः बलस्य सुखस्य ऐश्वर्यस्य परिवारस्य दीव्यानां रूपाणां शब्दानां गन्धानां रसानां स्पर्शानां वस्त्राभरणानां कामगुणानां स्वयंप्रभा अन्तरीक्षेचरा सुखस्थायिनो येनकामंगमा प्रभूतभक्षा प्रचुरान्नपानाः दिव्येषु रतनामयेषु विमानेषु अष्टसु च महा-उद्यानेषु वैजयन्ते नन्दापुष्करिणीपारिपात्रे कोविदारे महावने पारुष्यके चित्ररथे नन्दने मिश्रकावने अपरेषु च रतनामयेषु च विमानेषु दिव्येहि पंचहि कामगुणेहि समर्पिता समङ्गीभूता क्रीडन्ता रमन्ता परिचारयन्ता । शक्रो पि देवानाम् इन्द्रो वैजयन्ते प्रासादे अशीतिहि अप्सरसहस्रेहि परिवृतः दिव्येहि पंचकामगुणेहि समर्पितो समंगीभूतो क्रीडन्तो रमन्तो प्रविचारयन्तो ॥ स्थविरो तां देवानां त्रायस्त्रिंशानां तादृशीं समृद्धिं दृष्ट्वा दिव्यां संपत्तिं दृष्ट्वा सुदर्शनं च देवनगरं दृष्ट्वा सप्तरतनामयं सुदर्शनस्य देवनगरस्य तं विधानं दृष्ट्वा सुधर्मां च देवसभां सर्ववैडूर्यमयीं योजनसाहस्रिकां दृष्ट्वा तत्र देवा त्रायस्त्रिंशाः शक्रो च देवानामिन्द्रो सन्निषण्णा सन्निपतिता देवकरणीयेषु वाह्यतो देवसभायां दृश्यन्ति देवा पि त्रायस्त्रिंशा सुधर्माये देवसभाये निषण्णाः सर्वं सुदर्शनं देवनगरं पश्यन्ति ॥ एवं स्थविरो सर्वां त्रायस्त्रिंशानां देवानां समृद्धिं दृष्ट्वा जेतवनम् आगत्वा चतुर्णां पर्षाणां विस्तरेणारोचेति ॥ एवं सत्वा कुशलस्य कर्मस्य विपाकेन देवेषु त्रायस्त्रिंशेषूपपन्ना दिव्यायो संपत्तीयो अनुभवन्ति ॥ तं पि अनित्यम् अध्रुवं विपरिणामधर्मि ॥ ततो च्यवमाना नरकतिरिच्छप्रेतेषु उपपद्यन्ति ॥ तस्माज् ज्ञातव्यं प्राप्तव्यं
[_म्वु_1.33_] बोद्धव्यं अभिसंबोद्धव्यं कर्तव्यं कुशलं कर्तव्यं ब्रह्मचर्यं न च वा लोके किंचित् पापं कर्म करणीयन् ति वदेमि ॥
___आयुष्मान् महामौद्गल्यायनो ऽभीक्ष्णं यामतुषितनिर्माणरतिपरनिर्मितवशवर्तिब्रह्मकायिका याव शुद्धावासां देवां चारिकां गच्छति ॥ सो पश्यति शुद्धावासकयिकां देवा कृतपुण्या महेशाख्यां दीर्घायुष्कां वर्णवन्तां सुखबहुलां स्वयंप्रभा अन्तरीक्षावचरा प्रीतिभक्षा सुखस्थायिनो येनकामंगमा विगतरागा देवार्हन्तो अन्तरापरिनिर्वायी अनावार्तिकधर्मा अस्मिं लोके अव्यवकीर्णा सर्वबालपृथग्जनेषु ॥ स्थविरो तान् तादृशीं समृद्धिं देवानां दृष्ट्वा जेतवनम् आगत्वा चतुर्णां पर्षाणां विस्तरेणारोचयति ॥ एवं सत्वा कुशलस्य कर्मस्य विपाकेन देवेषु देवानां संपत्तीयो ऽनुभवन्ति । तं पि अनित्यं दुःखविपरिणामधर्मं ॥
सर्वं आदीनवं लोकं सर्वं लोकं आदीपितं ।
सर्वं प्रज्वलितं लोकं सर्वलोकं प्रकम्पितं ॥
अचलं अप्रकम्पितं सपृथग्जनसेवितं । {अपृथग्जनसेवितं?}
बुद्धा धर्मं देशयन्ति उत्तमार्थस्य प्राप्तये ॥
तस्माज् ज्ञातव्यं प्राप्तव्यं बोद्धव्यं कर्तव्यं कुशलं कर्तव्यं ब्रह्मचर्यं न च वा लोके किञ्चित् पापं कर्म करणीयन् ति वदेमि ॥ स्थविरस्य श्रुत्वा अनेकानि प्राणसहस्राणि देवमनुष्याणां अमृतं प्रापयन्ति ॥
[_म्वु_1.34_]___भगवान् सम्यक्संबुद्धो यद् अर्थं समुदागतो तद् अर्थम् अभिसंभावयित्वा राजगृहे विहरति गृध्रकूटे पर्वते शास्ता देवानां च मनुष्याणां च सत्कृतो गुरुकृतो मानितो पूजितो अपचितो लाभाग्रयशोग्रप्राप्तः लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां तत्र अनुपलिप्तो पद्मम् इव जले पुण्यभागीयां सत्वां पुण्येहि निवेशेन्तो फलभागीयां सत्वां फलेहि प्रतिष्ठापयन्तो वासनाभागीयां सत्वां वासनायाम् अवस्थापयन्तो अमृतवर्षेण देवमनुष्या संविभजन्तो प्राणसहस्राणि अमृतम् अनुप्रापयन्तो अनवराग्रजातिजरामरणसंसारकान्तारनरकादिदुर्गसंसारकान्तारग्रहणदारुणातो महाप्रपातातो उद्धरित्वा क्षेमे स्थले शमे शिवे अभये निर्वाणे प्रतिष्ठापयन्तो आवर्जयित्वा अङ्गमगधां वज्जिमल्ला काशिकोशलां चेतिवत्समत्स्यां शूरसेनां कुरुपंचाला शिविदशार्णां च अश्वक-अवन्तीं ज्ञानेषु पराक्रम्य स्वयंभू दिव्येहि विहारेहि आनिंजेहि विहारेहि सान्तत्येहि विहारेहि बुद्धो बुद्धविहारेहि जिनो जिनविहारेहि जानको जानकविहारेहि सर्वज्ञो सर्वज्ञविहारेहि चेतोवशिप्राप्तो च पुनर् बुद्धो भगवन्तो येहि येहि विहारेहि आकांक्षति विहरितुं तेहि तेहि विहारेहि विहरति ॥ अथ सो आयुष्मान् महामौद्गल्यायनो काल्यस्य एव निवासयित्वा राजगृहं नगरं पिण्डाय प्रक्रमि ॥ अथ खलु आयुष्मतो महामौद्गल्यायनस्य अचिरप्रक्रान्तस्य एतद् अभूषीत्* ॥ अतिप्राग् एव खलु तावद् एतर्हिं राजगृहे नगरे पिण्डाय

[_म्वु_1.35_] चरितुं यन् नूनाहं येन शुद्धावासो देवनिकायो तेन्ऽ; उपसंक्रमेयं । चिरं मे शुद्धावासं देवनिकायं उपसंक्रान्तस्य ॥ अथ खलु आयुष्मान् महामौद्गल्यायन पदवीतिहारेण ऋद्धीये येन शुद्धावासं देवनिकायं तेन प्रक्रामि ॥ अद्राक्षुः सम्बहुला शुद्धावासकायिका देवपुत्रा आयुष्मन्तं महामौद्गल्यायनं दूरतो येवागच्छन्तं दृष्ट्वा च पुनर् येनायुष्मान् महामौद्गल्यायनो तेन प्रत्युद्गतासुः ॥ एत्थ एत्थ आर्यो महामौद्गल्यायनो । स्वागतम् आर्यमहामौद्गल्यायनस्य अनुरागम् आर्यस्य महामौद्गल्यायनस्य । चिरस्य पुनः आर्यो महामौद्गल्यायनो पर्यायम् अकार्षीत्* यद् इदं इह आगमनाय ॥ अथ खलु ते संबहुला शुद्धावासकायिका देवपुत्रा आयुष्मतो महामौद्गल्यायनस्य पादौ शिरसा वन्दित्वा एकमन्ते स्थिता ॥ तत्र अन्यतरो शुद्धावासकायिको देवपुत्रो आयुष्मन्तं महामौद्गल्यायनम् एतद् अवोचत्* ॥ आश्चर्यम् इदम् आर्य महामौद्गल्यायन अद्भुतम् इदम् आर्य महामौद्गल्यायन यावद्दुःखसमुदानीया अनुत्तरा सम्यक्संबोधिः यद् इदं कल्पानां शतसहस्रेण ॥ अथ खलु भगवन् सो शुद्धावासकायिको देवपुत्रो आयुष्मन्तं महामौद्गल्यायनं अध्यभाषि ॥ कल्पान शतसहस्रं अभियो नाम भिक्षु सरागो अभूषि सदोषो समोहो ॥ तेन खलु पुनः मौद्गल्यायन समयेन वसुमतं
[_म्वु_1.36_] नाम नगरं अभूषि ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णजनमनुष्यं च सुखितजनमनुष्यं च बहुजनमनुष्यं च प्रशान्तदण्डडमरं सुनिगृहीततस्करव्यवहारसम्पन्नं ॥ वसुमते खलु पुनर् मौद्गल्यायन महानगरे उत्तियो नाम श्रेष्ठी अभूषि कृतपुण्यो महेशाख्यो आढ्यो महाधनो महाभोगो प्रभूतस्वापतेयो प्रभूतधनधान्यकोशकोष्ठागारो प्रभूतजातरूपरजतवित्तोपकरणो प्रभूतहस्त्यश्वगवेडको प्रभूतदासीदासकर्मकरपौरुषेयो भगवतो सर्वाभिभुस्य शासने श्रद्धाप्रसन्नो बुद्धधर्मसंघमङ्गलो नन्दादीनां भिक्षूणाम् अभिप्रसन्नो ॥ अथ खलु मौद्गल्यायन नन्दो च भिक्षुः अभियो च भिक्षुः उत्तियस्य श्रेष्ठिस्य गृहम् उपसंक्रमेयुः ॥ नन्दो मौद्गल्यायन भिक्षुः तस्मिं श्रेष्ठिकुले सत्कृतो अभूषि गुरुकृतो मानितः पूजितः अपचितः न तथा अभियो भिक्षुः ॥ उत्तियस्य खलु पुनः मौद्गल्यायन श्रेष्ठिस्य धीता वसुमते महानगरे अन्यतरस्य गृहपतिमहाशालस्य भार्या अभूषि । सा मौद्गल्यायन नन्दस्य भिक्षुस्य अतीवाभिप्रसन्ना अभूषि ॥ अथ खलु महामौद्गल्यायन अभियो भिक्षुः नन्दं भिक्षुं ईर्ष्याप्रकृतेन अभूतेनाब्रह्मचर्यवादेन अनुध्वंसेति ॥ अब्रह्मचारी नन्दो भिक्षुः पापधर्मा असंयतो प्रतिच्छन्नपापकर्मान्तो । उत्तियस्य श्रेष्ठिस्य धीतुः सार्द्धं विप्रदुष्टो ॥ तं
[_म्वु_1.37_] सेवितं वसुमते महानगरे यं महाजनकायेन श्रोतव्यं श्रद्धातव्यं मन्येन्सुः ॥ अथ खलु महामौद्गल्यायन नन्दं भिक्षुं वसुमते महानगरे ब्राह्मणगृहपतिका उत्तियो च श्रेष्ठी न भूयो तथा सत्करितव्यं गुरुकर्तव्यं मानयितव्यं पूजयितव्यं मन्येन्सुः यथा पूर्वं । लभ्यं सत्पुरुषा प्रत्यागच्छन्ति अकुशलेन कर्मणा विप्रतिसारी भवन्ति ॥ अथ खलु महामौद्गल्यायन अभियस्य भिक्षुस्य एतद् अभूषि ॥ नन्दो भिक्षु वीतरागो विगतदोषो विगतमोहो अरहो महाभागो सो च मये ईर्ष्याप्रकृतेन अभूतेनाब्रह्मचर्यवादेन अनुध्वंसितो ॥ मया बहुं अपुण्यं प्रसूतं ॥ यन् नूनाहं नन्दं भिक्षुं क्षमापेयं भगवतो च सर्वाभिभुस्य अन्तिके अत्ययं देशेयं ॥ अथ खलु महामौद्गल्यायन अभियो भिक्षु नन्दं भिक्षुं क्षमापयाम् आस भगवतो च सर्वाभिभूस्य अन्तिके अत्ययं देशेति ॥ अथ खलु महामौद्गल्यायन अभियो भिक्षुः येन उत्तियो श्रेष्ठिस् तेनोपसंक्रमित्वा उत्तियं श्रेष्ठिम् एतत् अवोचत्* ॥ इच्छेयम् अहं गृहपति भगवतो सर्वाभिभूस्य सश्रावकसंघस्य अधिकारं कर्तुं देहि मे अर्थमात्रं ॥ अदासि महामौद्गल्यायन उत्तियो श्रेष्ठि अभियस्य भिक्षुस्य प्रभूतं हिरण्यं सुवर्णं तदन्ये पि गृहपतिमहाशालाः
[_म्वु_1.38_] अथ खलु महामौद्गल्यायन वसुमते महानगरे दुवे गन्धिकमहत्तरका अभियस्य भिक्षुस्य अभिप्रसन्ना अभूषि ॥ अथ खलु महामौद्गल्यायन्ऽ; अभियो भिक्षु शतसहस्रहस्तो येन ते दुवे गन्धिकमहत्तरका तेनोपसंक्रमित्वा दुवे गन्धिकमहत्तरकां एतद् अवोचत्* ॥ इच्छामि वासिष्ठाहो इमस्य शतसहस्रस्य केशरं । परिहरियाहं भगवतो सर्वाभिभूस्य सश्रावकसंघस्य अधिकारं करोमि ॥ परिहरेन्सुः महामौद्गल्यायन ते दुवे गन्धिकमहत्तरका शतसहस्रकेशरं ॥ अथ खलु महामौद्गल्यायन अभियो भिक्षुः भगवन्तं सर्वाभिभूं सश्रावकसंघं प्रभूतेन खादनीयभोजनीय-आस्वादनीयेन सन्तर्पयित्वा संप्रचारयित्वा भुक्ताविं धौतपाणिं अपनीतपात्रं विदित्वा तेन शतसहस्रकेशरेण भगवन्तं सर्वाभिभूं सश्रावकसंघं ओकिरेसि अध्योकिरेसि प्रकिरेसि ओकिरित्वा अध्योकिरित्वा अभिप्रकिरित्वा एवं चित्तं उत्पादेसि ॥ अहो पुनर् अहं पि अनागतम् अध्वानं भवेयं तथागतो अरहो सम्यक्संबुद्धो विद्याचरणसम्पन्नो सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च यथायं भगवां सर्वाभिभू एतरहेसि ॥ एवं द्वात्रिंशत्महापुरुषलक्षणेहि समन्वागतो भवेयं अशीतिहि अनुव्यंजनेहि अनुविराजितशरीरो अष्टादशावेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि विशारदो

[_म्वु_1.39_] यथायं भगवान् सर्वाभिभू एतरहेसि ॥ एवं च अनुत्तरं धर्मचक्रं प्रवर्तेयं अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सह धर्मेण एवं च समग्रं श्रावकसंघं परिहरेयं यथा अयं भगवां सर्वाभिभू एतरहेसि ॥ एवं च देवमनुष्या श्रोतव्यं श्रद्धातव्यं मन्येन्सुः यथा देवं भगवतो सर्वाभिभूस्य एतरहि ॥ एवं तीर्णो तारेयं मुक्तो मोचयेयं आश्वस्तो आश्वासेयं परिनिर्वृतो परिनिर्वापयेयं तं भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय देवानां च मनुष्याणां च ॥ अथ खलु महामौद्गल्यायन भगवां सर्वाभिभू अभियस्य भिक्षो इदम् एवरूपं प्रणिधानं विदित्वा एतद् अवोचत्* ॥ भविष्यसि त्वं अभिय अनागते ऽध्वनि शतसहस्रकल्पे शाक्यमुनि नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नो सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च यथाप्य् अहम् एतर्हि द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो अशीतिहि अनुव्यंजनेहि विराजितशरीरो अष्टादशेहि आवेणिकेहि बुद्धधर्मेहि समन्वागतो दशतथागतबलेहि बलवां चतुर्हि वैशारद्येहि सुविशारदो यथापि अहं एतरहि ॥ एवं च अनुत्तरं धर्मचक्रं प्रवर्तयिष्यसि अप्रवर्तितं श्रमणेन वा देवेन वा मारेण वा केनचिद् वा पुनर् लोके सह धर्मेण ॥ एवं च समग्रं श्रावकसंघं परिहरिष्यसि
[_म्वु_1.40_] यथाप्य् अहम् एतर्हि ॥ एवं च ते देवमनुष्या श्रोतव्यं श्रद्धातव्यं मन्येन्सुः यथापि मम एतरहि । एवं तीर्णो तारयिष्यसि मुक्तो मोचयिष्यसि आश्वस्तो आश्वासयिष्यसि परिनिर्वृतो परिनिर्वापयिष्यसि यथापि अहं एतरहिं । तं भविष्यसि बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ समनन्तरव्याकृतो च पुनः महामौद्गल्यायन अभियो भिक्षुः सर्वाभिभूना सम्यक्संबुद्धेन अनुत्तराये सम्यक्संबुद्धाय अथायं त्रिसाहस्रमहासाहस्रो लोकधातुः कंपे प्रकंपे अतीव षड्विकारं । पुरस्तिमा दिशा उन्नमति पश्चिमा दिशा ओनमति पुरस्तिमा दिशा ओनमति पश्चिमा दिशा उन्नमति दक्षिणा दिशा उन्नमति उत्तरा दिशा ओनमति दक्षिणा दिशा ओनमति उत्तरा दिशा उन्नमति मध्यातो ओनमति अन्तेषु उन्नमति मध्यातो उन्नमति अन्तेषु ओनमति ॥ भूम्या च देवा घोषम् उदीरयेन्सुः शब्दम् अनुश्रावयेन्सुः ॥ एषो ऽभियो भिक्षुः भगवता सर्वाभिभूना सम्यक्संबुद्धेन अनुत्तराये सम्यक्संबोधये व्याकृतो तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ भूम्याणां देवानां घोषं श्रुत्वा अन्तरीक्षेचरा देवा चतुर्महाराजिका देवा त्रायस्त्रिंशा देवा यामा तुषिता निर्माणरतयो परनिर्मितवशवर्तिनो देवा याव ब्रह्मकायिका देवा घोषम् उदीरयेन्सुः शब्दम् अनुश्रावयेन्सुः ॥
[_म्वु_1.41_] एवं मार्षा अभियो भिक्षु भगवता सर्वाभिभूना अनुत्तराये सम्यक्संबोधये व्याकृतो तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च अप्रमेयस्य उदारस्य च महतो अवभासस्य लोके प्रादुर्भावो अभूषि । या च ता लोके लोकान्तरिका अन्धकारा अन्धकारार्पिता तमिस्रा तमिस्रार्पिता अघा असंविदिता असंविदितपूर्वा यत्र इमे पि चन्द्रमसूर्या एवं महर्द्धिका महानुभावा आभया आभां नाभिसंभुणन्ति आलोकेन वा आलोकं अकाले अपि तेनावभासेन स्फुटा अभुन्सुः ॥ ये पि तत्र सत्वा उपपन्ना ते पि अन्यमन्यं संजल्पेषु ॥ अन्ये पि किल भो इह सत्वा उपपन्ना अन्ये पि किल भो इह सत्वा उपपन्ना अन्ये पि किल भो इह सत्वा उपपन्ना ॥ एकान्तसुखसमर्पिता च पुनः तत्क्षणं तत्मुहूर्तं सर्वे सत्वा अभुन्सुः ये पि अवीचिस्मिं महानरके उपपन्ना अतिक्रम्य येव देवानां देवानुभावं नागानां नागानुभावं यक्षाणां यक्षानुभावं ॥ ध्यामानि च अभुन्सुः मारभवनानि निस्तेजानि निरभिरम्यानि । क्रोशिकानि

[_म्वु_1.42_] पि च खण्डानि प्रपतेन्सुः द्विक्रोशिकानि पि च त्रिक्रोशिकानि पि च खण्डानि प्रपतेन्सुः योजनिकानि पि च खण्डानि प्रपतेन्सुः द्वेपंचयोजनिकानि पि च खण्डानि प्रपतेन्सुः ॥ मारो च पापीमां दुःखी दुर्मनो विप्रतिसारी अन्तःशल्यपरिदाघजातो अभूषि ॥
___अनुगीतगाथा ॥
सो तं दानं दत्वा प्रणिधेसि लोकनायको अस्य ।
देवमनुष्याचार्यो आर्यं धर्मं प्रकाशेयं ॥
धर्मोल्कां विचरेयं पराहणे धर्मभेरीं सपताकां ।
उच्छ्रेयं धर्मकेतुं आर्यं शंखं प्रपूरेयं ॥
एवं च मह्यं अस्या प्रकाशना देशना च धर्मस्य ।
एवं च बहू सत्वा आर्ये धर्मे निवेशेयं ॥
एवं च मे श्रुणेन्सुः देवमनुष्या सुभाषितं वाक्यं ।
एवं च धर्मचक्रं प्रवर्तये बहुजनहिताय ॥
कृच्छ्रापन्नैः सत्वैः जातिजरापीडितैः मरणधर्मैः ।
भवचक्षुकैः अपाया प्रज्ञास्कन्धं निवेशेयं ॥
संजीवे कालसूत्रे संघाते रौरवे अवीचिस्मिं ।
षट्सु गतीहि विकीर्णां भवसंसारात् प्रमोचेयं ॥
[_म्वु_1.43_] नरके पक्वविपक्वा अपायप्रपीडितां मरणधर्मा ।
अल्पसुखदुःखबहुलां भवसंसारात् प्रमोचेयं ॥
अर्थं चरेयं लोके देवमनुष्याणां देशिय धर्मं ।
एवं विनेय सत्वां यथा अयं लोकप्रद्योतो ॥
एवं अहं लोकम् इमं चरेयं
यथा अयं चरति असंगमानसो ।
चक्रं व वर्तेय अनन्यसादृशो
सुसत्कृतो देवमनुष्यपूजितो ॥
प्रणिधिं च ज्ञात्वा सुसमुद्गतो जिनो
सर्वेहि हेतूभि उपस्थितेहि।
अखण्ड-अच्छिद्रम् अव्रणं वियाकरे
अर्थदर्शी मतिमां ॥
बुद्धो तुवं होहिसि लोकनायको
अनागते कल्पशतसहस्रे ।
कपिलाह्वये ऋषिवदनस्मिं शाकियो
तदा अयं प्रणिधि विपाकम् एष्यति ॥
अथ सागरावलिमही प्रकम्पते च दिवि देवसंघेषु ।
व्याकरणं तस्य द्युतिमतो अभ्युद्गमि अभ्युद्गतं घोषं ॥
[_म्वु_1.44_] एष अभियो भगवता अत्यन्तसुभाषितगीतध्वजेन ।
सर्वाभिभुना मुनिना वियाकृतो होहिसि जिनो त्वं ॥
तं हितसुखाय होहिसि सब्रह्मसुरासुरस्य लोकस्य ।
हायिष्यति असुरकायं नरमरुसंघो विवर्द्धन्ति ॥
अथ खलु महामौद्गल्यायन ते दुवे गन्धिकमहत्तरका अभियस्य अनुत्तराये सम्यक्संबोधये व्याकरणं श्रुत्वा हृष्टाः तुष्टाः प्रमुदिताः प्रीतिसौमनस्यजाता एवं चित्तम् उत्पादेन्सुः ॥ यदा अभियो भिक्षुः अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भवेय तदा वयम् एतस्य अग्रश्रावका भवेयाम अग्रयुगो भद्रयुगो यथायं भवति सर्वाभिभूस्य श्रावकयुगो एको अग्रो प्रज्ञाये एको अग्रो ऋद्धीये ॥ अश्रोषीत् महामौद्गल्यायन उत्तियस्य श्रेष्ठस्य धीता अभियो भिक्षुः भगवता सर्वाभिभूना अनुत्तराये सम्यक्संबोधये व्याकृतो ॥ अथ महामौद्गल्यायन उत्तियस्य श्रेष्ठिस्य धीता तं भगवन्तं सश्रावकसंघं सत्कृत्वा गुरुकृत्वा मानयित्वा पूजयित्वा अपचायित्वा एवं प्रणिधिम् उत्पादेसि ॥ मम अभियेन भिक्षुणा ईर्ष्याप्रकृतेन अभूतो अभ्याख्यानो दिन्नो ॥ यन् मया भगवतो सर्वाभिभूस्य सश्रावकसंघस्य अधिकारं कृत्वा कुशलम् अर्जितम् अहम् एतेन कुशलमूलेन यत्र यत्र अभियो भिक्षुः उत्पद्येय तत्र तत्र नं अभूतेन अभ्याख्यानेन
[_म्वु_1.45_] अभ्याचिक्षेयं यावत् परमसंबोधिप्राप्तं ॥ सिया ति पुनर् महामौद्गल्यायन एवम् अस्य स्यात्* । अन्यो ऽसौ तेन कालेन तेन समयेन भगवतो सर्वाभिभूस्य अभियो नाम श्रावको अभूषि ॥ न एतत् एवं द्रष्टव्यं ॥ तत् कस्य हेतोः ॥ अहं महामौद्गल्यायन तेन कालेन तेन समयेन भगवतो सर्वाभिभूस्य अभियो नाम श्रावको अभूषि ॥ सिया ति पुनः महामौद्गल्यायन एवम् अस्य स्यात्* । अन्ये ते तेन कालेन तेन समयेन वसुमते महानगरे दुवे गन्धिकमहत्तरका अभुन्सुः ॥ न खल्व् एतद् एवं द्रष्टव्यं ॥ तत् कस्य हेतोः ॥ यूयं ते शारिपुत्र महामौद्गल्यायन तेन कालेन तेन समयेन दुवे गन्धिकमहत्तरका अभुन्सु ॥ तं युष्माकं मूलप्रणिधिं ॥ सिया ति पुनर् महामौद्गल्यायन एवम् अस्य स्यात्* । अन्या सा तेन कालेन तेन समयेन उत्तियस्य श्रेष्ठिस्य धीता अभूषि ॥ . . . . . . . . . . ॥ तेनैषा तीर्थिकांगना प्रणिधानेन यत्र यत्र उपपद्यामि तत्र तत्र अभूतं अभ्याख्यानं देति यावत् परमसंबोधिप्राप्तस्य ॥ सिया ति खलु पुनर् महामौद्ग्ल्यायन एवम् अस्य स्यात्* । अन्यो सो तेन कालेन तेन समयेन वसुमते महानगरे उत्तियो नाम श्रेष्ठि अभूषि ॥ न खल्व् एतद् एवं द्रष्टव्यं ॥ एषो ऽसौ महामौद्गल्यायन शुद्धावासकायिको देवपुत्रो तेन कालेन तेन समयेन वसुमते महानगरे उत्तियो नाम श्रेष्ठि अभूषि ॥ एतेषां कल्पानां शतसहस्रं स्मरति धर्मं समनुस्मरति ॥
_____इति श्रीमहावस्तु-अवदाने अभियवस्तुं सानुगीतं समाप्तं
[_म्वु_1.46_] इतो भो महामौद्गल्यायन अपरिमितासंख्येया कल्पा यं मया बोधाय प्रणिहितं ॥ अप्रमेयास् तथागता अर्हन्तः सम्यक्संबुद्धाः पूजिता नो चाहं व्याकृतो ॥ त्रीणि मौद्गल्यायन पुष्पनामकानां शतानि मया पूजितानि नो चाहं तेहि व्याकृतो ॥ अप्रमेया असंखेया कल्पा संधाविता संसरिता अप्रमेया च संबुद्धा पूजिता नो चाहं तेहि व्याकृतो ॥

___चतस्रः इह महामौद्गल्यायन बोधिसत्वचर्याः ॥ कतमाश् चतस्रः ॥ तद्यथा प्रकृतिचर्या प्रणिधानचर्या अनुलोमचर्या अनिवर्तनचर्या ॥
___कतमा च महामौद्गल्यायन प्रकृतिचर्या ॥ इह महामौद्गल्यायन बोधिसत्वप्रकृतिर् एवं ॥ भवन्ति मातृज्ञाः पितृज्ञा श्रामण्या ब्राह्मण्याः कुलज्येष्ठापचायकाः दश कुशलां कर्मपथां समादाय वर्तन्ते परेषां च देशयन्ति दानानि देथ करोथ पुण्यानीति तिष्ठन्तां च बुद्धां पूजयन्ति श्रावकांश् च नो च तावद् अनुत्तराय सम्यक्संबोधये चित्तम् उत्पादेन्ति ॥
पूजयन्ति प्रथमं तथागतां
गौरवेण महता महायशां ।
[_म्वु_1.47_] नैव ताव जनयन्ति मानसं
अग्रपुद्गलगतं नरोत्तमा ॥
पूजयन्ति वशिभूतकोटियो
पुर्वम् एव वशिपारमिं गता ।
नैव ताव जनयन्ति मानसं
ज्ञानसागरतराय नायका ॥
ते च प्रत्येकबुद्धकोटियो
पूजयन्ति परमार्थपुद्गला ।
नैव ताव जनयन्ति मानसं
सर्वधर्मविदुताय पण्डिता ॥
इयं महामौद्गल्यायन प्रकृतिचर्या ॥
___कतमा च महामौद्गल्यायन प्रणिधिचर्या ॥ इतो महामौद्गल्यायन अपरिमिता असंख्येया कल्पा यं शाक्यमुनिर् नाम तथागतो ऽर्हं सम्यक्संबुद्धो लोके उदपादि विद्याचरणसम्पन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च ॥ शाक्यमुनिस्य खलु पुनः महामौद्गल्यायन कपिलवस्तुं नाम नगरं विस्तरेण ॥ तदाहं श्रेष्ठि अभूषि ॥ य्वागूपानं कृत्वा बोधाये प्रणिहितं ॥
ते यदा विपुलपुण्यसंचया
भोन्ति भावितशरीरमानसा ।
[_म्वु_1.48_] ते उपेत्य वररूपधारिणो
बोधये उपजनेन्ति मानसं ॥
यं मया कुशलम् अर्जितं पुरा
तेन मे भवतु सर्वदर्शिता ।
मा च मे प्रणिधी अवसीदतु
यो यम् एष प्रणिधिः प्रवर्ततु ॥
यो ममं कुशलमूलसंचयो
सो महा भवतु सर्वप्राणिहि ।
यच् च कर्म अशुभं कृतं ममा
तं ममैव कटुकं फलं भवेत् ॥
एवं अहं लोकम् इमं चरेयं
यथा अयं चरति असंगमानसो ।
चक्रं प्रवर्तेय अनन्यसादृशं
सुसत्कृतं देवमनुष्यपूजितं ॥
य्वागूपानं प्रथमं अदासि लोकोत्तरस्य बुद्धस्य शाक्यमुनिनो भगवतो कल्पस्मिं इतो असंख्येये ॥ प्रथमा प्रणिधि तदा आसि ॥
___इतो महामौद्गल्यायन अपरिमिते असंख्येये कल्पे समिताविर् नाम तथागतो ऽर्हं सम्यक्संबुद्धो लोके उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः
[_म्वु_1.49_] शास्ता देवानां च मनुष्याणां च ॥ तेन खलु पुनः समयेन बोधिसत्वो राजा अभूषि चक्रवर्ती चातुर्द्वीपो विजितावी सप्तरत्नसमन्वागतो धार्मिको धर्मराजा दशकुशलकर्मपथसमादायवर्ती ॥ इमानि सप्त रत्नानि अभुन्सुः तद्यथा इदं चक्ररत्नं हस्तिरत्नम् अश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नम् एव सप्तमं पूर्णं चास्य पुत्रसहस्रं अभूषि शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानां ॥ सो इमानि चत्वारि द्वीपानि सय्यथिदं जम्बुद्वीपं पूर्वविदेहं अपरगोदानीयं उत्तरकुरुं सागरगिरिपर्यन्ताम् अखिलाम् अकण्ठकाम् अदण्डेनाशस्त्रेणानुत्पीडेनादण्डेन धर्मेणेमां पृथिवीम् अभिजित्वा अध्यावसति ॥ अथ खलु महामौद्गल्यायन राजा चक्रवर्ती समिताविस्य सम्यक्संबुद्धस्य सश्रावकसंघस्य सर्वेण प्रत्युपस्थितो अभूषि चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेहि सप्तरत्नमयं च प्रासादं कारयेसि सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फाटिकस्य मुसारगल्वस्य लोहितिकायाः चतुरशीतिहि स्तम्भसहस्रेहि एकमेकम् च स्तम्भं आबद्धहिरण्यकोटिहि निर्मितो उपार्धस्य । चतुरशीति कूटागारसहस्राणि कारयेसि चित्राणि दर्शनीयानि सप्तानां रत्नानां तद्यथा सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फाटिकस्य मुसारगल्वस्य लोहितिकाये ॥ तावल्लक्षणं च महामौद्गल्यायन प्रासादं कारयित्वा राजा चक्रवर्ती समिताविस्य
सम्यक्संबुद्धस्य निर्यातेसि एवं च प्रणिधेसि ॥ अहो पुनर् अहम् अनागतम् अध्वानं भवेयं
[_म्वु_1.50_] तथागतो ऽर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च यथापीदं भगवान् समिताविर् एतरहिं द्वात्रिंशतीहि महापुरुषलक्षणेहि समन्वागतो अशीतिहि अनुव्यंजनेहि उपशोभितशरीरो अष्टादशावेणिकेहि बुद्धधर्मेहि समन्वागतो दशहि तथागतबलेहि बलवां चतुर्हि वैशारद्येहि सुविशारदो यथायं भगवान् समितावी सम्यक्संबुद्धो एतरहिं एवञ् च तीर्णो तारयेयं आश्वस्तो आश्वासयेयं परिनिर्वृतो परिनिर्वापयेयं । तं भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय सुखाय हिताय देवानां च मनुष्याणां च ॥ एवं महामौद्गल्यायन तथागतस्य अयं प्रणिधिः ॥
एवं अहं लोकम् इमं चरेयं
यथा अयं चरति असंगमानसो ।
चक्रं प्रवर्तेय अनन्यसादृशो

भवेयम् अहं देवमनुष्यपूजितो ॥
___अथ खलु समिताविनो सम्यक्संबुद्धस्य एतद् अभूषि ॥ किं नु खलु मयि परिनिर्वृते इमेहि च श्रावकेहि परिनिर्वृतेहि इमस्मिं धर्माख्याने ऽन्तरहिते इतो केत्तकस्य नु खलु कालस्य बुद्धो भगवान् लोके उपपदिष्यति ॥ एकस्मिं कल्पे न अद्राक्षीत्* ।
[_म्वु_1.51_] द्विहि कल्पेहि न अद्राक्षीत्* । कल्पसहस्रेण बुद्धं लोके पश्यति ॥ अथ खलु महामौद्गल्यायन समिताविस्य सम्यक्संबुद्धस्य महता कारुणेन समन्वागतस्य सत्वेषु महाकारुणं ओक्रमि ॥ पंच च बुद्धकार्याणि अवश्यं कर्तव्यानि ॥ कतमानि पंच ॥ धर्मचक्रं प्रवर्तयितव्यं माता विनेतव्या पिता विनेतव्यो बौद्धवैनेयका सत्वा विनेतव्या युवराजा अभिषिंचितव्यो ॥ एषो ममात्ययेन बुद्धो लोके भविष्यति यथा एतर्हि अहं तथा एष अजितो बोधिसत्वो ममात्ययेन बुद्धो लोके भविष्यतीति अजितो नामेन मैत्रेयो गोत्रेण बन्धुमायां राजधान्यां ॥ यं नूनाहं कल्पानां शतसहस्रं तिष्ठेहं ॥ अथ खलु समितावी सम्यक्संबुद्धो भिक्षून् आमन्त्रेसि ॥ इह मह्यं रहोगतस्य एकस्य प्रतिसंलीनस्य अयम् एवरूपो चेतसो परिवितर्को उदपादि ॥ किं नु खलु मयि परिनिर्वृते इमेहि च श्रावकसंघेहि परिनिर्वृतेहि इमस्मिं धर्माख्याने अन्तर्हिते इतो केत्तकस्य नु कालस्य बुद्धो लोके उपपदिष्यति ॥ एकस्मिं कल्पे न अद्राक्षीत्* ॥ द्वीहि कल्पेहि न अद्राक्षीत् ॥ त्रीहि कल्पेहि न अद्राक्षीत् ॥ कल्पशतसहस्रेण बुद्धं लोके पश्यामि ॥ पंच मे बुद्धकार्याणि अवश्यं कर्तव्यानि यो च सो सत्वो युवराजाभिषिंचितव्यः सो दीर्घायुकेहि देवेहि उपपन्नो ॥ यं नूनाहं कल्पानां शतसहस्रं स्थातुम् इच्छाम्य् अहं इच्छथ भिक्षवो कल्पानां शतसहस्रं स्थातुं को वा मया सार्धं
[_म्वु_1.52_] स्थास्यति ॥ तत्र महामौद्गल्यायन चतुरशीतिहि भिक्षुशतसहस्रेहि सो लोको उद्गृहीतो सर्वेहि बलवशीभावप्राप्तेहि ॥ वयं भगवं स्थास्यामः वयं सुगत स्थास्यामः ॥ अथ खलु समितावी सम्यक्संबुद्धो ते च श्रावका चिरं दीर्घम् अध्वानं तिष्ठेन्सुः ॥ संवर्तकालसमये मनुष्या कालगता आभास्वरे देवनिकाये उपपद्यन्ति राजापि कालगतो आभास्वरे देवनिकाये उपपद्यति भगवान् भिक्षुसंघेन सार्धं आभास्वरं देवनिकायं गच्छति ॥ विवर्तनीयकालसमये संस्थिते लोकसन्निवेशे सत्वा आयुःक्षयाय आभास्वराद् देवनिकायतो च्यवित्वा इच्छत्वम् आगच्छन्ति ॥ बोधिसत्वो पि आभास्वराद् देवनिकाया च्यवित्वा इच्छत्वम् आगत्वा राजा भवति चक्रवर्ती चातुर्द्वीपो विजितावी याव इमानि चत्वारि महाद्वीपानि धर्मेणैव अभिनिर्जिनित्वा अध्यावसति ॥ यदा मनुष्या परिमितायुष्का भवन्ति जराव्याधिमरणा च प्रज्ञायन्ति तदा भगवान् समितावी सश्रावकसंघो जम्बुद्वीपम् आगच्छति ॥ आगत्वा सत्वानां धर्मं देशयति ॥ तथैव राजा चक्रवर्ती समिताविस्य सम्यक्संबुद्धस्य सर्वेण प्रत्युपस्थितो चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेहि ॥ सप्तरत्नमयं प्रासादं तादृशम् एव कारापयित्वा भगवतः सम्यक्संबुद्धस्य निर्यातेसि ॥ एतेन उपायेन कल्पशतसहस्रं समितावी सम्यक्संबुद्धो स्थितो सश्रावकसंघो कल्पशतसहस्रं बोधिसत्वेन उपस्थितो सर्वत्र च कल्पे सप्तरत्नमयं प्रासादं तादृशम् एव कारापयित्वा निर्यातेसि समिताविस्य
[_म्वु_1.53_] सम्यक्संबुद्धस्य ॥ अनुत्तरां सम्यक्संबोधिं प्रार्थयमानो प्रासादशतसहस्रं रत्नमयं अहं चक्रवर्ती सन्तो समिताविनो अदासि ॥ कल्पस्मिं इतो असंख्येये
सो तं दानं दत्वा प्रणिधेसि लोकनायको अस्यां ।
देवमनुष्याचार्यो आर्यं धर्मं प्रकाशेय्यं ॥
एवं च मह्यं अस्या प्रकाशना देशना च धर्मस्य ।
एवं च बहुं सत्वं आर्ये धर्मे निवेशेय्यं ॥
एवं च मे श्रुणेन्सुः देवमनुष्या सुभाषितं वाक्यं ।
एवं च धर्मचक्रं प्रवर्तये बहुजनहिताय ॥
धर्मोल्कां विचरेयं पराहणे धर्मभेरीं सपताकां।
उच्छ्रेयं धर्मकेतुम् आर्यं शंखं प्रपूरेयं ॥
कृच्छ्रापन्ने लोके जातिजरापीडिते मरणधर्मे ।
भवचक्षुके अपाया प्रज्ञास्कन्धं निवेशेयं ॥
संजीवे कालसूत्रे संघाते रौरवे अवीचिस्मिं ।
षट्सु गतीषु विकीर्णां भवसंसारात् प्रमोचेयं ॥
नरके पक्वविपक्वां अपायप्रपीडितां मरणधर्मां ।
अल्पसुखदुःखबहुलां भवसंसारात् प्रमोचेयं ॥
[_म्वु_1.54_] अर्थं चरेयं लोके देवमनुष्याणां देशिय धर्मं ।
एवं विनेय सत्वां यथा अयं लोकप्रद्योतो ॥
___द्वितीयो प्रणिधि तदासि ॥ अशीतिं चन्दनविमानानि अदासि लोकोत्तरस्य बुद्धस्य गुरुणो ॥ अहं भगवान् अस्यां इतो असंख्येये ॥ तृतीयो प्रणिधिः तदासीत्* ॥ सप्तरतनमयानां गुहानां अशीति सहस्राणि अर्को राजा अदासि पर्वतनामस्य ॥ चतुर्थी तदा प्रणिधिः आसीत्* ॥ षट् वर्षाणि चरति अनित्यसंज्ञानिमित्तकामेहि रतनेन्द्रेणानुशासितो ॥ पंचमा प्रणिधिः तदा आसीत्* ॥
_____इति श्रीमहावस्तु-अवदाने बहुबुद्धसूत्रं समाप्तं
एवं मया श्रुतमेकस्मिं समये भगवां राजगृहे विहरति स्म गृध्रकूटे पर्वते ॥ अथ खल्व् आयुष्मान् महामौद्गल्यायनो काल्यम् एव निवासयित्वा पात्रचीवरम् आदाय राजगृहं नगरं पिण्डाय प्रक्रमि ॥ अथ खल्व् आयुष्मतो महामौद्गल्यायनस्य अचिरप्रक्रान्तस्यैतत् अभवत्* ॥ अतिप्रागस् तावद् एतरहिं राजगृहं नगरं पिण्डाय चरितुं । यं नूनाहं येन शुद्धावासं देवनिकायं तेनोपसंक्रमेयं ॥ अथायुष्मान् महामौद्गल्यायनः तद्यथापि
[_म्वु_1.55_] नाम बलवान् पुरुषः संमिंजितं बाहुं प्रसारयेत् प्रसारितं च बाहुं संमिंजयेत्* एकक्षणेन पदवीतिहारेण राजगृहाद् वैहायसम् अभ्युद्गम्य शुद्धावासदेवनिकाये प्रत्यस्थात्* ॥ अद्राक्षीत् शुद्धावासकायिका देवपुत्रा आयुष्मन्तं महामौद्गल्यायनं दूरत एवागच्छन्तं ॥ दृष्ट्वा च पुनर् येनायुष्मान् महामौद्गल्यायनस् तेनोपसंक्रमित्वा आयुष्मतो महामौद्गल्यायनस्य पादौ शिरसा वन्दित्वा एकान्ते अस्थासि ॥ एकान्ते स्थित्वा च ते संबहुला शुद्धावासकायिका देवपुत्रा आयुष्मन्तं महामौद्गल्यायनं गाथाभिः अध्यभाषसि ॥
कल्पान शतसहस्रं संधावित्वान बोधिपरिपाकं ।
सुचिरसि अनन्तरतनो बुद्धो लोकस्मिं उपपन्नो ॥
___इत्थं वदित्वान ते संबहुला शुद्धावासकायिका देवपुत्रा आयुष्मतो महामौद्गल्यायनस्य पादौ शिरसा वन्दित्वा एकान्ते अस्थासि ॥ एकान्ते स्थित्वा अन्तर्हिता ॥ अथ खल्व् आयुष्मतो महामौद्गल्यायनस्यैतत् अभवत्* ॥ एवं दुर्लभा बोधिर् यत्र हि नाम कल्पानां शतसहस्रेण ॥ अथ खल्व् आयुष्मान् महामौद्गल्यायनस् तद्यथा बलवान् पुरुषः संमिञ्जितां बाहां प्रसारयेत् प्रसारितां वा बाहां संमिञ्जयेत्* एत्तकेन क्षणवीतिहारेण शुद्धावासतो देवनिकायातो अन्तर्हितः राजगृहे नगरे प्रत्यस्था ॥ अथायुष्मान्

[_म्वु_1.56_] महामौद्गल्यायनो राजगृहे नगरे पिण्डाय चरित्वा पश्चाद्भक्तो पिण्डपात्रप्रतिक्रान्तः पात्रचीवरं प्रतिशामयित्वा पादौ प्रक्षालयित्वा येन भगवांस् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकान्ते न्यषीदद् एकान्ते निषण्णश् च पुनः आयुष्मान् महामौद्गल्यायनो भगवन्तम् एतद् अवोचत्* ॥ इहाहं भगवन् काल्यस्यैव निवासयित्वा पात्रचीवरम् आदाय राजगृहं महानगरं पिण्डाय प्रक्रमि ॥ तस्य मे भगवन्* अचिरप्रक्रान्तस्यैतद् अभवत्* ॥ अत्रिप्रागस् तावत् एतरहि राजगृहे महानगरे पिण्डाय चरितुं । यं नुनाहं येन शुद्धावासं देवनिकायं तेनोपसंक्रमेयं । चिरं मे देवनिकायं शुद्धावासं उपसंक्रान्तस्य ॥ अथाहं बलवां तद्यथा पुरुषः संमिंजितां बाहां प्रसारयेय प्रसारितां वा बाहां संमिंजयेत्* एत्तकेन क्षणवीतिहारेण राजगृहाद् वैहायसम् अभ्युद्गम्य शुद्धावासे देवनिकाये प्रत्यस्थासि ॥ अद्राक्षीत्* मे भगवन् संबहुलाः शुद्धावासकायिका देवपुत्रा दूरत एव आगच्छन्तं दृष्ट्वा च पुनर् येनाहं तेनोपसंक्रमित्वा मम पादौ शिरसा वन्दित्वा एकान्ते स्थान्सु ॥ एकान्तस्थिता संबहुला ते शुद्धावासकायिका देवपुत्रा मम गाथाये अध्यभाषेरन्* ॥
कल्पान शतसहरं संधावित्वान बोधिपरिपाकं ।
सुचिरस्य् अनन्तरतनो बुद्धो लोकस्मिं उपपन्नो ॥
इत्थं वदित्वान ते संबहुलाः शुद्धावासकायिका देवपुत्रा मम पादौ शिरसा
[_म्वु_1.57_] वन्दित्वा प्रक्रामि ॥ तस्य मे भगवन्न् एतद् अभवत्* ॥ यावत् दुःखसमुदानीया अनुत्तरा संबोधिर् यत्र हि नाम कल्पानां शतसहस्रेण । यं नूनाहं येन भगवांस् तेनोपगमित्वा भगवन्तम् एतम् अर्थं परिपृच्छेयं । यथा मे भगवां व्याकरिष्यति तथा नं धारयिष्यामि ॥ इह भगवां किम् आह ॥ एवम् उक्ते भगवान् आयुष्मन्तं महामौद्गल्यायनम् एतद् अवोचत्* ॥ परीत्तकं खलु पुनर् महामौद्गल्यायन शुद्धावासकायिकानां देवपुत्राणां शतसहस्रन् ति ॥ अप्रमेयेहि महामौद्गल्यायन कल्पेहि असंख्येयेहि अप्रमेयेहि तथागतेहि अर्हन्तेहि सम्यक्संबुद्धेहि कुशलमूलान्य् अवरोपितानि आयतिसंबोधिं प्रार्थयमानेहि ॥ अभिजानामि खलु पुनर् अहं महामौद्गल्यायन त्रिंशद् बुद्धकोटियो शाक्यमुनिनामधेयानां ये मया सश्रावकसंघाः सत्कृता गुरुकृता मानिताः पूजिता अपचिता राज्ञा चक्रवर्तिभूतेन आयतिसंबोधिम् अभिप्रार्थयमानेन च मे ते बुद्धा भगवन्तो व्याकरेन्सुः ॥ भविष्यसि त्वम् अनागतम् अध्वानं तथागतो ऽर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नो सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च ॥ अभिजानाम्य् अहं खलु पुनर् महामौद्गल्यायन अष्ट बुद्धशतसहस्राणि दीपंकरनामधेयकानां ये मया सश्रावकसंघाः सत्कृता गुरुकृता मानिताः पूजिताः अपचिता चक्रवर्तिभूतेन आयुतिं संबोधिम् अभिसंप्रार्थयमानेन च मे ते बुद्धा भगवन्तो व्याकरेन्सुः ॥ यथा प्रथमे परिवर्ते तथा सर्वत्र कर्तव्यं ॥ भविष्यसि त्वम् अनागतम् अध्वानं ॥ अभिजानाम्य्
[_म्वु_1.58_] अहं महामौद्गल्यायन पंच बुद्धशतानि पद्मोत्तरनामधेयानां ॥ सर्वत्र कर्तव्यं । भविष्यसि त्वम् अनागतम् अध्वानं ॥ अभिजानाम्य् अहं महामौद्गल्यायन अष्ट बुद्धसहस्राणि प्रद्योतनामधेयानां ॥ अभिजानाम्य् अहं महामौद्गल्यायन त्रयो बुद्धकोटीयो पुष्पनामधेयानां ॥ अभिजानाम्य् अहं महामौद्गल्यायन अष्टादश बुद्धसहस्राणि मारध्वजनामधेयानां यत्र मया ब्रह्मचर्यं चीर्णं आयतिं बोधिं प्रार्थयमानेन च मे ते बुद्धा भगवन्तो व्याकरेन्सुः ॥ अभिजानाम्य् अहं महामौद्गल्यायन पंच बुद्धशतानि पद्मोत्तरनामधेयानां ये मया सश्रावकसंघाः सत्कृताः ॥ अभिजानाम्य् अहं महामौद्गल्यायन नवति बुद्धसहस्राणि काश्यपनामधेयानि ॥ अभिजानाम्य् अहं महामौद्गल्यायन पंचदश बुद्धसहस्राणि प्रतापनामधेयानि ॥ अभिजानाम्य् अहं महामौद्गल्यायन द्वौ बुद्धसहस्रौ कौण्डिण्यनामधेयौ ॥ अभिजानाम्य् अहं महामौद्गल्यायन चतुरशीति प्रत्येकबुद्धसहस्राणि ॥ अभिजानाम्य् अहं महामौद्गल्यायन समन्तगुप्तं नाम तथागतम् अर्हन्तं सम्यक्संबुद्धं ॥ अभिजानाम्य् अहं महामौद्गल्यायन बुद्धसहस्रं जम्बुध्वजनामधेयानां ॥ अभिजानाम्य् अहं महामौद्गल्यायन चतुरशीति बुद्धसहस्राणि इन्द्रध्वजनामधेयानां ॥ अभिजानाम्य् अहं महामौद्गल्यायन पंचदश बुद्धसहस्राणि आदित्यनामधेयानां ॥ अभिजानाम्य् अहं महामौद्गल्यायन द्वाषष्टि बुद्धशतानि अन्योन्यनामधेयानां ॥ अभिजानाम्य् अहं महामौद्गल्यायन चतुर्षष्टि बुद्धान
[_म्वु_1.59_] समिताविनामधेयानां ॥ सुप्रभासो नाम महामौद्गल्यायन तथागतो ऽर्हं सम्यक्संबुद्धो यत्र मैत्रेयेण बोधिसत्वेन प्रथमं कुशलमूलान्य् अवरोपितानि राज्ञा वैरोचनेन चक्रवर्तिभूतेन आयतिं संबोधिं प्रार्थयमानेन ॥ सुप्रभासे खलु पुनर् महामौद्गल्यायन तथागतभूते चतस्रः चतुरशीतिकोटिवर्षसहस्राणि मनुष्याणाम् आयुषः प्रमाणम् अभूषि अन्तरा च उच्चावचता आयुषः ॥ सुप्रभासस्य खलु पुनर् महामौद्गल्यायन तथागतस्यार्हतः सम्यक्संबुद्धस्य त्रयः सन्निपात अभूत्* ॥ प्रथमो श्रावकसन्निपातो षण्णवति कोटीयो अभूषि सर्वेषां अर्हन्तानां क्षीणाश्रवाणाम् उषितव्रतानां सम्यगाज्ञाविमुक्तानां परिक्षीणभवसंयोजनानाम् अनुप्राप्तस्वकार्थानां ॥ द्वितीयो श्रावकसन्निपातो चतुर्नवति कोटियो अभूत् सर्वेषाम् अर्हन्तानां क्षीणाश्रवाणाम् उषितव्रतानां सम्यगाज्ञाविमुक्तानां परिक्षीणभवसंयोजनानां अनुप्राप्तस्वकार्थानां ॥ तृतीयो श्रावकसन्निपातो द्वानवति कोटियो अभूषि सर्वेषाम् अर्हन्तानां क्षीणाश्रवाणाम् उषितव्रतानां सम्यगाज्ञाविमुक्तानां परिक्षीणभवसंयोजनानां अनुप्राप्तस्वकार्थानां ॥ अथ खलु महामौद्गल्यायन राज्ञो वैरोचनस्य तं भगवन्तं सुप्रभासं दृष्ट्वा उदारहर्षं उदारवेगप्रीतिप्रामोद्यं उत्पद्ये ॥ सो तं भगवन्तं सश्रावकसंघं दश वर्षसहस्राणि सत्करेसि

[_म्वु_1.60_] गुरुकरेसि मानेसि पूजेसि अपचायेसि ॥ सत्कृत्वा गुरुकृत्वा तां च समितिम् अनुगृह्णन्तो तं च श्रावकसंघम् अनुगृह्णन्तो तं च आयुःप्रमाणम् अनुगृह्त्णन्तो एवं चित्तम् उत्पादेसि ॥ अहो पुनर् अहं भवेयम् अनागते ऽध्वनि तथागतो ऽर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च यथायं भगवान् सुप्रभासो एतरहि ॥ एवं सर्वाकारसंपन्नं सर्वाकारप्रतिपूरं धर्मं देशेयं यथापीह भगवान् सुप्रभासो एतरहि ॥ एवं समग्रं श्रावकसंघं परिहरेयं यथापि भगवान् सुप्रभासो एतरहि ॥ एवं च मे देवाश् च मनुष्याश् च श्रोतव्यं श्रद्धातव्यं मन्येन्सुः यथापीदं भगवतो सुप्रभासस्य एतरहिं । तं भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ एवं चाह महामौद्गल्यायन अतो च भूयो अन्यं ॥ चतुरचत्वारिंशत्कल्पसंप्रस्थितस्य खलु पुनर् महामौद्गल्यायन मैत्रेयस्य बोधिसत्वस्य पश्चा ताये बोधये चित्तम् उत्पादितं ॥ अपराजितध्वजो नाम महामौद्गल्यायन तथागतो ऽर्हं सम्यक्संबुद्धो यो मये सश्रावकसंघो वर्षसहस्रं सत्कृतो गुरुकृतो मानितो पूजितो पचितो राज्ञा दृढधनुना चक्रवर्तिभूतेन आयतिं संबोधिं प्रार्थयमानेन महन्तेहि च पंचेहि
[_म्वु_1.61_] दुष्ययुगशतेहि अभिच्छादितो ॥ परिनिर्वृतस्य च स्तूपं कारितं योजनम् उच्चत्वेन योजनम् अभिनिवेशेन ॥ एषा च महामौद्गल्यायन प्रणिधि सततसमिता अभूषि ॥ यस्मिं समये सत्वा भवेन्सुः अलेना अत्राणा अशरणा अपरायणा उत्सदलोला उत्सददोषा उत्सदमोहा अकुशलान् धर्मा समादाय वर्तेन्सुः योभूयेन च अपायप्रतिपूरका भवेन्सु तस्मिं काले तस्मिं समये अहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येहं ॥ तं भवेयं बहुजनहिताय बहुजनसुखाय लोकानुकंपाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ दुष्करकारका महामौद्गल्यायन तथागतार्हन्तो सम्यक्संबुद्धा लोकस्यार्थं चर्यां चरन्ति ॥ इदम् अवोचद् भगवान् आत्तमनो आयुष्मान् महामौद्गल्यायनो भगवतो भाषितम् अभ्यनन्दत्* ॥
शाक्यमुनिनामकानाम् उपस्थितास् त्रिंश कोटियो जिनानां ।
अष्टशतसहस्राणि दीपंकरनामधेयानां ॥
षष्टिं च सहस्राणि प्रद्योतनामधेयानां . . . . . ।

तथ पुष्पनामकानां त्रयो कोटियो वादिसिंहानां ॥
अष्टादश सहस्राणि मारध्वजनामकानां सुगतानां ।
यत्र चरे ब्रह्मचर्यं सर्वज्ञताम् अभिलाषाय ॥
पूजयि पंच शतानि पद्मोत्तरनामकानां सुगतानां ।
[_म्वु_1.62_] कौण्डिण्यनामकानाम् अपराणि द्वि सहस्राणि ॥
अपरिमितासंख्येया प्रत्येकजिनान कोटिनयुतां च ।
पूजयि बुद्धसहस्रं जम्बुध्वजनामधेयानां ॥
चतुरशीति सहस्राणि इन्द्रध्वजनामकानां सुगतानां ।
नवतिं च सहस्राणि काश्यपसहनामधेयानां ॥
पंचदश बुद्धसहस्राणि प्रतापनामकानां सुगतानां।
पंचदश च सहस्राणि आदित्यनामधेयानां ॥
द्वाषष्टिं च शतानि सुगतानां अन्योन्यनामधेयानां ।
चतुषष्टिं च सहस्राणि समितावीनामधेयानां ॥
एते च कोलितशिरी अन्ये च दशबला अपरिमाणा ।
सर्वे अनित्यताय समिता लोकप्रद्योता ॥
यानि च बलानि कोलित तेषां महापुरुषलक्षवराणां ।
सर्वे अनित्यताय कालं न उपेन्ति संख्यां च ॥
ज्ञात्वानानित्यबलं सुदारुणं सत्कृतस्य अनन्तरं ।
वीर्यारम्भो योजितो अनित्यबलस्य विघाताय ॥
इतो मौद्गल्यायन अपरिमिते असंख्येये कल्पे रत्नो नाम सम्यक्संबुद्धो अभूषि तथागतो ऽर्हं सम्यक्संबुद्धो विद्याचरणसम्पन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च ॥ अहं तदा राजा चक्रवर्ति अभूषि ॥ ततो मयैतस्य भगवतो रतनवतो चतुरशीति कूटागारसहस्राणि कारितानि चित्राणि
[_म्वु_1.63_] दर्शनीयानि सप्तानां रत्नानां सुवर्णस्य रूप्यस्य मुक्ताया वैडूर्यस्य स्फाटिकस्य मुसारगल्वस्य लोहितिकायाः ॥ तानि मया तस्य भगवतो निर्यातेत्वा बोधाय अनुप्रणिहितं ॥ न तावत् बुद्धा भगवन्तो परिनिर्वायन्ति यावद् युवराजा अनभिषिक्तो भवति । एषो मम अनन्तरं बुद्धो लोके भविष्यति । यथैतर्हि मया मैत्रेयो व्याकृतो एषो ममानन्तरं बुद्धो भविष्यतीति ॥ सो भगवां चतुरशीतिहि श्रावकसहस्रेहि सार्धं चतुरशीतिसंवर्तविवर्तस्थितो संवर्तमाने लोके भगवाञ् चतुरशीतिहि श्रावकसहस्रेहि सार्धं आभास्वरं देवनिकायं गच्छति विवर्तमाने लोके इहागच्छति इह धर्मं देशयति । अहं भूयो राजा चक्रवर्ती भवामि । चतुरशीतिकूटागारसहस्राणि कारापयित्वा भगवतो रतनवतो निर्यातेमि ॥ इयं महामौद्गल्यायन प्रणिधिचर्या ॥
___कतमा च अनुलोमचर्या ॥ इह महामौद्गल्यायन बोधिसत्वो महासत्वो बोधाय अनुलोमताये स्थितो भवति ॥ इयं महामौद्गल्यायन . . . . .
___ . . . . . . . अविवर्तचर्या ॥ विवर्तन्ति संसरन्ति विवर्तचर्या ॥ अवैवर्तिया बोधाय भवन्ति अविवर्तचर्या ॥
_____अत्र दशभूमिको कर्तव्यो दीपंकरवस्तु च ॥
नामो ऽस्तु बुद्धानां नमो ऽर्हतां ॥ दशभूमिकस्यादि
_____वत्ते अप्रतिम धर्मदर्शनं
[_म्वु_1.64_] न एककल्पशतसंचितात्मनां ।
भूमयो दश जिनान श्रीमतां
यैर् विकुर्विषु सदा पण्डिता ॥
मानदर्पमदमोहमोचिता
सर्वशः समियमार्दवान्विता ।
गौरवं जनिय सर्वदर्शिषु
श्रूयतां जिनवरस्य शासनं ॥
निर्वृते कनकराशीसन्निभे
शाक्यनन्दिजनने तथागते ।
कंपि मेदिनि सशैलकानना
सागरांबरधरा सपर्वता ॥
कम्पितं परमरोमहर्षणं
भूमिकंपम् अनुदृश्य दारुणं ।
काश्यपो धूतगुणाग्रपारगो

चित्तम् अभ्युपगतः तदा अभूत्* ॥
किं नु अद्य धरणी सपर्वता
सागराम्बरधरा वसुन्धरा ।
कम्पते परमदारुणस्वरं
नूनं निर्वृतिं गतः तथागतः ॥
सो च दिव्यनयनस् तथागतं
देवकिन्नरवरेहि वन्दितं
[_म्वु_1.65_] दृश्य सर्वभवबन्धनान्तकं
निर्वृतं यमकशाल-अन्तरे ॥
न खलु मे समुचितं तथागतं
ऋद्धिये समनुगन्तु गौतमं ।
पद्भिर् एव वदतां वरं मुनिं
द्रष्टुम् अप्रतिमं प्रव्रजाम्य् अहं ॥
सो च मत्व त्वरमाणो सूरी
काश्यपो मथितमानसो भिक्षुः ।
भिक्षुभिः बहुभिः उत्तमो परि-
निर्वृतभुवम् अनुपूर्वम् आगमि ॥
तस्य च प्रणिधिर् आसि उत्तमा
काश्यपस्य जिनपादवन्दने ।
तौ . . . . . चरणौ महामुने
मूर्धिना उपनिपीड्य वन्दितुं ॥
संगृह्योल्कां विपुलां अथ चतस्रो
मल्लका उपगता बलवन्तः ।
वीजितां परममल्लविनीतां
दग्धडल्कां अभिप्राणमयेन्सुः ॥ {लिएस्: दग्ध-उल्कां}
तैश् चिताम् अभिमुखं उपनीता
तैः पराक्रमबलै रथशूरैः ।
[_म्वु_1.66_] निर्वृता च . . . सा समकालं
प्राप्य वारिपरिषेकम् इवोल्का ॥
संशयं विमतिमध्यम् उपेत्य
मल्ला दिव्यनयनं अनिरुद्धं ।
गौरवा नतशिरा सुविनीता
प्रश्नम्* . . . इदं परिपृच्छे ॥
को नु हेतुर् इह प्रत्ययो च को
येन्ऽ; इमा जिनसुता उपनीता ।
निर्वृतिं उपगता सहसोल्का
ब्रूहि कारणम् इहार्य यथावत्* ॥
देवता खलु प्रसन्ना काश्यपे
तस्य एष खलु ऋद्धिभावना ।
नैव ताव ज्वलनो ज्वलिष्यति

याव नागतो अग्रपारगः ॥
तस्य चैष प्रणिधिः समृध्यति
काश्यपस्य धुतधर्मधारिणः ।
तौ क्रमौ दशबलस्य श्रीमतः
वन्दितुं हि शिरसा महामुने ॥
सो च भिक्षुगणसंपुरस्कृतः
काश्यपो धुतरजो जिनात्मजः ।
प्रांजली जिनचिताम् उपागतो
गौरवा प्रणतशीर्षमानसः ॥
[_म्वु_1.67_] दृश्य तं प्रवररूपधारिणं
काष्ठसंचयगतं तथागतं ।
धिग् भवान् इति गिराम् उदीरयी
दर्शितप्रकृतिभावलक्षणां ॥
को नु सो भवम् उपेत्य प्राणको
यो न मृत्युवशम् आगमिष्यति ।
यत्र्ऽ; अयं ज्वलनकांचनोपमो
निर्वृतो शिखिर् इवेन्धनं विना ॥
कृत्व अंजलिपुटं महायशो
पादतो जिनवरस्य काश्यपो ।
मूर्धिना निपतितो महर्षिणो
पश्चिमं इदं नमस्यते मुने ॥
तौ च चक्रवरलक्षितौ क्रमौ
देवदानववरेहि वन्दितौ ।
निःसृतौ तथ विदार्य तां चितां
देवयक्षभुजगानुभावितौ ॥
तौ क्रमौ शिरसि सन्निपातिय
पाणिभिः समनुगृह्य चा मुने ।
आलपे श्रुतिधरं महर्षिणं
अन्तिकावचरः काश्यपस् तदा ॥
[_म्वु_1.68_] किं त्व् इमौ श्रुतिधर क्रमौ मुने
ध्यामताम् उपगतौ न सुप्रभौ ।
ब्रूहि कारणम् अशेषम् आह्वय
येन्ऽ; इमौ न नयनाभिनन्दिनौ ॥
एतं श्रुत्व श्रुतसंचयंधरो
काश्यपं इदम् उवाच पण्डितो ।
अश्रुवेगदुषिता व शोचतां
रोदितेहि मथिता ह्ऽ; इमौ क्रमौ ॥
तेन्ऽ; इमौ क्रमवरौ महामुनेः
रोदनेन जनताभिपीडितौ ।
नो विभान्ति मुनिनो यथा पुरा

एवम् एतद् अनुपश्य सुव्रत ॥
सो निपत्य शिरसा पुनः पुनः
तौ क्रमौ प्रवरचक्रलक्षणौ ।
करतलेहि अभिपीडयेत् मुने
शास्तु गौरवपराय बुद्धिये ॥
वन्दितौ च धुतधर्मधारिणा
तौ क्रमौ गुणधरेण शास्तुनो ।
लोकनाथचितकाष्ठ तेजसा
वायुवेगविधुतेन दीप्यति ॥
[_म्वु_1.69_] दह्यमाने जिनचन्द्रशरीरे
पंच तानि वशिभूतशतानि ।
मन्त्रयन्ति सहिता समुपेत्य
निर्वृतीसमयकाले संगीतिं ॥
निर्वृतो प्रवरलक्षणधारी
यो नु शास्तु ससुरासुरनेता ।
को गुणो इह चिरं परिवासे
वयम् अपि अद्य विजहामथ देहं ॥
सर्वथा सुपरिनिष्ठितकार्याः
प्राप्य अच्युतम् अशोकम् अनन्तं ।
सर्वभावभववीतिगता स्म
एष निर्वृतिम् उपेम इहैव ॥
एवम् उक्ते धुतधर्मविशुद्धो
काश्यपो ऽब्रवि तदा वशिभूतां ।
न खु भवद्भिः अनुपादि विमुक्ति
निर्वृती समनुगम्य इहैव ॥
तीर्थिका च बहिधानुगताश् च
क्रेयुर् अप्रतिमशासनदोषं ।
धूमकालिकम् इति श्रमणस्य
एतत् एव च तु रक्षणीयं नो ॥
लोकनाथ बहवो नरसिंहा
[_म्वु_1.70_] ये च्ऽ; अनागत महामतिशूरा ।
ते हि नो उपपदेयुर् उदग्रा
यदि न संकलिये शासनं शास्तुः ॥
तेन अप्रतिहताः सुसमग्राः
गायथा सुगतशासनम् अग्र्यं ।
यथा इदं सुपरिगीत यथार्थं
चिरतरं नरमरूषु विरोचे ॥
एवम् अस्तु इति ते वशिभूता
काश्यपस्य वचनं प्रतिपूज्य ।
चित्तम् अप्य् उपगता क्व इदानीं

देशि धर्मधरसंगणना स्यात्* ॥
रम्यकाननवने सुसमृद्धे
मागधस्य मगधाधिपतिस्य ।
पुरवरे भवतु राजगृहस्मिं
सप्तपर्ण-अभिधानगुहायां ॥
पर्वतस्य वैहायवरस्य
उत्तरस्मि तीरे वरपार्श्वे ।
विविधपादपे शिलातलभूमेः
भागे यं भवतु धर्मसमास्या ॥
ते च ऋद्धिवशिभावबलस्था
[_म्वु_1.71_] उद्गताः खगपथे जिनपुत्रा ।
तत्क्षणान्तर . . . . . प्रपलाना
मानसं सरो यथा हंसयूथो ॥
ते प्रतिष्ठिता नगाग्रवरस्य
पार्श्वे तत् वनम् उपेत्य निषण्णा ।
शासने च सुगतस्य सुगीते
देवदुन्दुभिगणानि नदेन्सुः ॥
ते च दुन्दुभिन नादं नदन्तं
श्रुत्व शासनकरा सुगतस्य ।
भूमिकम्पम् अनुदृश्य च घोरं
काश्यपं धुतरजं इदम् ऊचुः ॥
किन् तु भोः धुतधरा समकंपि
मेदिनी ससरिता ससमुद्रा ।
देवदुन्दुभिरवाश् च मनोज्ञा
दिव्यमाल्यविकिरणं च भवन्ति ॥
तान् उवाच धुतधर्मसमंगी
काश्यपो जिनसुतां वशिभूतां ।
एते सन्निपतिता मरुसंघा
श्रुत्व शासनवरं सुसमग्र्यं ॥
ते समग्रवरलक्षणधारी
गौरवात् प्रमुदिता मरुसंघाः ।
पूजां अप्रतिमकस्य करोन्ति
[_म्वु_1.72_] शासनं शृणुयु सर्वसमग्र्यं ॥
सो हि ऽनेकभवकल्पशतेहि
हितसुखाय नरदेवगणानां ।
एवम् अभ्युपगतो चिररात्रं
मोक्षयिष्ये ऽहं प्रजाः परिमुक्तः ॥
सो लभित्व परमार्थम् अशोकं
सर्वभावभवदुःखनिरोधं ।
काशिपुर्यां नरदेवहितार्थं

वर्तयिष्यि वरचक्रम् अद्भुतं ॥
पंचकेहि सह तेहि मुनीहि
मरुगणां विनयवादिनां वरो ।
सत्वकोटिनयुतानि नायको
जातिजन्ममरणात् समुद्धरे ॥
सो विमोक्षयि भवाभिनन्दिनो
तोषयं नरमरू नरसिंहो ।
मथिय सर्वपरवादि सांप्रतं
निर्वृतो तु भगवां निरपेक्षो ॥
एत श्रुत्व वचनं मनोरमं
काश्यपस्य धुतधर्मधारिणो ।
देवसंघा मुदिता नभे स्थिता
व्याहरन्ति वचनं मनोरमं ॥
साधु साधु धुतधर्मकोविदा
[_म्वु_1.73_] शास्तु शासनकरा अनन्यथा ।
भाषसे गुणम् अनन्तबुद्धिनो
जेतवने नरमरू सुतोषिता ॥
सो हि देवमनुजान उत्तमो
सो हि अग्रपुरुषो महामुनिः ।
सो हि निःशरणम् उत्तमं प्रभुः
दृष्टदर्शनो हिताय प्राणिनां ॥
तेन स्कन्धा तडिबुद्बुदोपमा
फेनपिण्डकम् इव प्रभास्वरं ।
देशिता दशबलेन जानता
यस्य्ऽ; इयं गुणकथा प्रवर्तते ॥
कृष्णसर्पशिरसन्निभास् तथा
काम अग्रपुरुषेण देशिता ।
शस्त्ररुच्छविषकुम्भसन्निभा
यस्य्ऽ; इयं गुणकथा प्रवर्तते ॥
तेन दृष्टम् अचलं परं सुखं
दृष्टिभिः परमसाधुदृष्टिभिः ।
तं अमत्सरवता प्रकाशितं
संविभागरुचिना यद् अद् भुतं ॥
उद्गते दिनकरे यथा किमि
[_म्वु_1.74_] निष्प्रभो भवति नो च भ्राजति ।
उद्गते जिनदिवाकरे तथा
निष्प्रभा परगणी असंयता ॥
ऋद्धिपादबलपारमिं गतो
ईश्वरो जिनबलेन चक्षुमां ।
लोचनं भगवतस्य पश्यथ

निर्वृतो कनकबिम्बसन्निभो ॥
धिग् भवां सरद-अभ्रसन्निभा
वालिकानगररूपसन्निभा ।
यत्र नाम कुशलान संचयो
निर्वृतो परमबुद्धिसागरो ॥
हेतुकारणशतेहि नायको
नर्दते पुरुषसिंहनर्दितं ।
भवम् अनन्यमरणं निरीक्ष्य
तस्य उक्तम् अन्तरं न विद्यते ॥
दिव्यपुष्पवरमण्डितं नभं
शोभते सुगतवर्णभाषणे ।
दिव्यचन्दनरसानुवासितं
शोभते अमृतगन्धिकं नभम् इति ॥
अथ खल्व् आयुष्मान् महामौद्गल्यायनो आयुष्मन्तं महाकाश्यपम् आमन्त्रयति ॥ व्यवस्थापय जिनपुत्र वशिभूता ये परिषायां संशयगतानि मानसानि विजानेयुर् इति ॥
[_म्वु_1.75_] अथानिरुद्धं उपालिं च स्थविरं च अलकुण्डलभट्टियं सुन्दरनन्दं च काश्यप उवाच ॥
अवलोकेथ जिनात्मजाश् चित्तानि या परिषायां ।
संशयं च परिपृच्छथ यस्य यत्र तथा भवेद् इति ॥
साधू ति ते प्रतिश्रुत्वा जिनशास्त्रविशारदाः ।
पश्यन्ति परचित्तानि करे वामलकं यथा ॥
प्रलम्बबाहुं वशिभूतं काश्यपो इदम् अब्रवीत्* ।
गृध्रकूटस्य शिखरे निर्मिणे वसुधां लघुं ॥
अष्टादश सहस्राणि परिषायां समागता ।
यथा सर्वाभिजानेया ऋद्धिं संजनया तथा ॥
विचिन्तचूतं वशिभूतं काश्यप इदम् अब्रवीत्* ।
गंगोदकमया मेघा निर्मिणे गगने लघुं ॥
विविधगन्धपुष्पाश् च उपवायन्तु सर्वतः ।
मानुषाणाम् आमगन्धा च शीघ्रम् अन्तरहापय ॥
हर्यक्षं नाम वशिभूतं काश्यप इदम् अब्रवीत्* ।
तथा उत्पादय शीघ्रं समाधिं सुगतात्मज ।
यथा गृहीणां द्रव्याणि न गच्छेयुः परां गतिं ॥
वरुणं नाम वशिभूतं काश्यपो इदम् अब्रवीत्* ।
अरतिदंशमशका मनुष्याणां निवर्तये ॥
[_म्वु_1.76_] अजकर्णं वशिभूतं कास्यपो इदम् अब्रवीत्* ।
क्षुधां पिपासां व्याधिं च मनुष्याणां निवर्तय ॥
साधू ति ते प्रतिश्रुत्वा काश्यपस्य जिनात्मजाः ।
यथाज्ञप्तानि स्थानानि यथोक्तं परिजाग्रिषु ॥
ततः काश्यपस्थविरः कात्यायनम् उवाच स ।
समुदीरय महात्मनां चरितं धर्मराजिनां ॥
एवम् उक्ते महाप्राज्ञो कात्यायनकुलोद्गतः ।
उवाच चर्या बुद्धानां काश्यपस्य अनुपृच्छतः ॥

श्रुयतां भो जिनसुता बुद्धानां सर्वदर्शिनां ।
चर्या चरणशुद्धानां यथावत् अनुपूर्वशः ॥
दश खलु भो जिनपुत्रा बोधिसत्वान भूमयो ।
. . . . . . . . . भवन्ति कतमा दश ॥
दुरारोहेति प्रथमा भूमी समुपदिश्यते ।
द्वितीया बद्धमाना नाम तृतीया पुष्पमण्डिता ॥
चतुर्थी रुचिरा नाम पंचमी चित्तविस्तरा ।
षष्टी रूपवती नाम सप्तमी दुर्जया स्मृता ॥
अष्टमा जन्मनिदेशो नवमी यौवराज्यतो ।
दशमी त्व् अभिषेकातो इति एता दश भूमयः ॥
[_म्वु_1.77_] एवम् उक्ते तु गाथाभिः काश्यपो ऽब्रवि पण्डितः ।
कात्यायनम् अतो ऽत्यर्थं वाक्यम् अप्रतिमं इदं ॥
भूमीनां परिणामानि यथावत् अनुकीर्तय ।
यथा च ते विवर्तन्ते संसरन्तो महायशा ॥
यथा चापि संवर्तन्ते सत्त्वसाराः तथा वदे ।
यथैवाध्याशया तेषां भवन्ति तां उदाहरे ॥
यथा च परिकल्पेन्ति सत्वा सत्वसमन्विता ।
यथा च देन्ति दानानि तत् सर्वम् अनुकीर्तये ॥
तथा च दृष्ट्वा संबुद्धा भाषन्तो च मनोजनं ।
संज्ञोत्पादं तथा ब्रूहि काश्यपो इदम् अब्रवीत्* ॥
इदं ते वचनं श्रुत्वा वशिभूता उपस्थिता ।
गौरवेण महासत्वा संबुद्धानां महात्मनां ॥
एवम् उक्ते कात्यायनो काश्यपम् उवाच ॥ न खलु भो जिनपुत्र शक्यं बोधिसत्वानां भूमीः प्रमातुं एत्तककल्पा वा अनन्ता भवन्ति । सर्वं संसारो बोधिसत्वानां खण्डसंज्ञया भूमिर् इति परिकल्पितं तेन भूमिर् इति स्मृता ॥ एवम् उक्ते आयुष्मान् आनन्द आयुष्मन्तं कात्यायनम् उवाच ॥ यदि भो जिनपुत्र एका भूमि अप्रमेया
[_म्वु_1.78_] कथम् इदानीं परिशेषाणां भूमीनां ग्रहणं भविष्यति इति ॥ एवम् उक्ते आयुष्मान् कात्यायनो आयुष्मन्तम् आनन्दं गाथाभिर् अध्यभाषे ॥
कल्पो यथा अपरिमितः प्रकाशितः
प्रजानता अवितथवादिना स्वयं ।
कल्पेषु च भवति बहूसु देशना
इदं नु भो पुरुषवरस्य शासनं ॥
भूमिस् तथा अपरिमिता प्रजानता
प्रकाशिता स्वयम् अनिवृत्तबुद्धिना ।
प्रवर्तते तथ परिशेषभूमिषु
सामान्यसंकेतानां निरूपणं ॥
प्रथमायां भो जिनपुत्र भूमौ वर्तमाना बोधिसत्वा पृथग्जना इति प्राप्तफला भवन्ति इति दक्षिणीयाः च लोकानां विरोचेन्ति भवन्ति चात्र
त्यागेन त्यागसम्पन्ना बोधिसत्वा महायशाः ।
लोकां च अभिरोचन्ते चन्द्रभानुर् इव अंशुमां ॥
प्रथमायां भूमौ बोधिसत्वानां वर्तमानानाम् अष्ट समुदाचारा भवन्ति ॥ कतमे अष्ट ॥ तद्यथा त्यागः करुणा अपरिखेदः अमानो सर्वशास्त्राध्ययिता विक्रमं लोकानुज्ञा धृतिर् इति ॥ भवन्ति चात्र
[_म्वु_1.79_] ते संविभागरुचयः करुणायमाना
दुःखसंहती भगवतां मधुरस्वराणां ।
वचनैः गुणैश् च परितोषम् उपेन्ति धीराः
एवं चरन्ति धरणी प्रथमाये सत्वा ॥

शास्त्राणि यानि प्रसरन्ति असारकानि
एता विचार्य जनता अनुरागबुद्धी ।
निष्क्रम्य तं तृणसमं च विचार्य लोकं
तीव्रां वेदेन्ति वेदना कुशलं चिनोन्ति ॥
एकेन कारणेन बोधिसत्वा विवर्तन्ति द्वितीयायां भूमौ ॥ कतमेन एकेन ॥ भवेषु आस्वादसंज्ञिनो भवन्ति ॥ द्विहि कारणेहि बोधिसत्वा विवर्तन्ति द्वितीयायां भूमौ ॥ कतमेहि द्विहि ॥ कामगुणेहि अभिलाषिनश् च भवन्ति कुशीदाश् च ॥ पुनस् त्रीभिर् आकारैर् बोधिसत्वा द्वितीयायां भूमौ विवर्तन्ति ॥ कतमेहि त्रीहि ॥ स्पृहालवश् च भवन्ति उत्त्रासबहुला दुर्बलाध्याशयाश् च ॥ षड्भिर् आकारैः बोधिसत्वा प्रथमायां भूमौ स्थिता द्वितीयायां भूमौ विवर्तन्ति ॥ कतमैः षड्भिः ॥ न च अनित्यसंज्ञाबहुला विहरन्ति । आघातबहुलाश् च भवन्ति । दृधवैराश् च भवन्ति । स्त्यानमिद्धबहुलाश् च भवन्ति । लोककार्यपरायणाश् च भवन्ति ॥ ये भो जिनपुत्र
[_म्वु_1.80_] बोधिसत्वा विवर्तेन्सु विवर्तन्ति विवर्तिष्यन्ति सर्वे ते इमेहि द्वादशभिर् आकारैर् विवर्तेन्सु विवर्तन्ति विवर्तिष्यन्ति नातो भूय इति ॥
___एवम् उक्ते आयुष्मान् महाकाश्यपः आयुष्मन्तं महाकात्यायनम् उवाच ॥ इमे भो जिनपुत्र बोधिसत्वा विवर्तियाश् च अविवर्तियाश् च ये प्रथमं चित्तम् उत्पादयन्ति सम्यक्संबुद्धा भवेम इति केत्तकं पुण्यं प्रसवन्त इति ॥ एवम् उक्ते आयुष्मान् कात्यायन आयुष्मन्तं महाकाष्यपम् उवाच ॥ पश्य भो जिनपुत्र यो दद्या जम्बुद्वीपं सप्तरत्नसंचयं दशबलानां अतो बहुतरकं पुण्यं प्रसवति बोधाये प्रणिधेन्तो ॥ यश् च भो जिनपुत्र चत्वारो द्वीपां दद्यात्* रत्नाचितां दशबलानां अतो बहुतरकं पुण्यं प्रसवति बोधाये प्रणिधेन्तो । यश् च भो जिनपुत्र दद्यात् त्रिसाहस्रां बहुरत्नधरां महागुणधराणां अतो बहुतरकं पुण्यं प्रसवति बोधाय प्रणिधेन्तो । यश् च भो जिनपुत्र गंगानदीवालुकासमा लोकधातुयो अनेकरत्नाचितपूर्णा लोकनाथान पूजयेत्* अतो बहुतरकं पुण्यं प्रसवति बोधाये प्रणिधेन्तो । यश् च भो जिनपुत्र सागरवालुकासमा लोकधातुयो बहुविधरत्नाचिता पूर्णा अग्रपुद्गलान पूजया दद्यात्* अतो बहुतरकं पुण्यं प्रसवति बोधाये प्रणिधेन्तो ॥
किं कारणं न ह्य् एते प्राकृतपुरुषाणां भवन्ति संकल्पाः ।
बहुजनहिताय यत्र ते जनयन्ति मनोरथां वीराः ॥
एवम् उक्ते आयुष्मान् महाकाष्यपः आयुष्मन्तं कात्यायनम् अब्रवीत्* ॥ ये पुनर् भो जिनपुत्र
[_म्वु_1.81_] बोधिसत्वा अवैवर्तिकतायै परिणामेन्ति किन् तु खलु तेषाम् उपचितकुशलपुण्यानां प्रथमा प्रणिधिर् उत्पद्यति आहोस्विद् उपचितकुशलमूलानाम् इति ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपं गाथाभिर् अध्यभाषति ॥
पूजयन्ति प्रथमं तथागतां
गौरवेण महता महायशा ।
नैव ताव जनयन्ति मानसं
अग्रपुद्गलगतं नरोत्तमा ॥
ते च प्रत्येकबुद्धकोटियो
पूजयन्ति परमार्थपुद्गलां ।
नैव ताव जनयन्ति मानसं
सर्वधर्मविदुताय पण्डिताः ॥
पूजयन्ति वशिभूतकोटियो
पूर्वम् एव वशिपारमिं गता ।
नैव ताव जनयन्ति मानसं
ज्ञानसागरतराय नायकाः ॥
ते यदा विपुलपुण्यसंचया
भोन्ति भावितशरीरमानसाः ।
ते समेत्य वररूपधारिणां
बोधये उपजनेन्ति मानसं ॥
यं मया कुशलमूलम् अर्जितं
तेन मे भवतु सर्वदर्शिता ।
[_म्वु_1.82_] मा च मे प्रणिधि तच् चिरंतरो ।
एवम् एष प्रणिधिः प्रवर्ततु ॥
यश् च मे कुशलमूलसंचयो
सो महा भवतु सर्वप्राणिभिः ।
यच् च कर्म अशुभं कृतं मया
तत् फलं कटुकं निस्तराम्य् अहम् इति ॥
एवम् उक्ते आयुष्मान् महाकाश्यपः आयुष्मन्तं महाकात्यायनम् एतद् उवाच ॥ कथं च भो जिनपुत्र बोधिसत्वा दृढविक्रमा भवन्ति ये ते अवैवर्तिका भवन्ति ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं काश्यपं गाथाभिर् अध्यभाषे ॥
येनान्तरेण परमार्थविदुर् भवामि
तं अन्तरं यदि अवीचिगतो वसामि ।
तं अभ्युपेमि न च तं प्रतिसंहरामि
सर्वज्ञताये प्रणिधिं इति निश्चयो मे ॥

जातीजरामरणशोक-उपद्रवांश् च
त्यक्तुं प्रभुः न हि विवर्तयि मानसानि ।
दुःखसंहति जगतो अर्थकरो प्रजानाम्*
इत्य् एतं विक्रमबलं पुरुषर्षभानाम् इति ॥
एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् अब्रवीत्* ॥ यं पुनर् भो जिनपुत्र अवैवर्तियो बोधिसत्वो प्रथमं चित्तम् उत्पादयति कतमेषां तदा अद्भुतानां
[_म्वु_1.83_] धर्माणां प्रादुर्भावो भवति ॥ एवम् उक्ते आयुष्मान् महाकात्यायनो आयुष्मन्तं महाकाश्यपं गाथाभिर् अध्यभाषति ॥
सनगरनिगमसरिता रणति वसुमती प्रभूतरत्नवती ।
प्रभवति यदा प्रथमतो प्रणिधानं जगत्प्रधानानां ॥
दिवसकरसदृशतेजश् चाभासो विकसते दिशः सर्वाः ।
यदा पुरुषसिंहताये आद्यप्रणिधिः समुद्भवति ॥
सुरवरगणाश् च उदग्राः परंपरान् अभिगिराम् उदीरेन्ति ।
एष नरसिंहताये प्रणिधेति अनन्तवूदग्रो ॥
अस्माभिः रक्षितव्य एष हि जगतो ऽर्थं अतितेजस्वी ।
चिनोति शुभं शुभकरो इदम् आश्चर्यं तदा भवति ॥
एवम् उक्ते आयुष्मान् काश्यप आयुष्मन्तं महाकात्यायनम् उवाच ॥ ये इमे भो जिनपुत्र अविवर्तिका बोधिसत्वा केवत्तकानि तैः प्रथमायां भूमौ स्थितैः दुष्कराणि कृतानीति ॥ एवम् उक्ते आयुष्मान् महाकात्यायन आयुष्मन्तं महाकाश्यपं श्लोकान् उवाच ॥
भार्यां प्रियां हृदिसुखांश् च सुतां शिरांसि
नेत्राणि चाभरणवाहनविस्तरांश् च ।
दत्त्वा न विश्रमम् उपेन्त्य् अथ दैन्यतां वा
[_म्वु_1.84_] सर्वज्ञताम् अभिमुखाः पुरुषर्षभास् ते ॥
आधर्षिता च वधबन्धनताडनेभ्यो
रौद्रैर् नरैर् अशुभकर्मम् अतिप्रवणैः ।
तान् एव दृष्ट्व परमार्दवमैत्रचित्ता
श्लक्ष्णाभि वाग्भिर् अनघाः समुदाचरन्ति ॥
दृष्ट्वा च याचनक मानप्रमादुपेतं
हर्षं परं प्रतिलभन्ति महामनुष्याः ।
दत्त्वा च वर्धितगुणात्तमना भवन्ति
पश्चात्तपो न तु तपन्ति तपोनिराशा इति ॥
_____इति श्रीमहावस्तु-अवदाने प्रथमा भूमिः समाप्ता
ततश् च काश्यपस्थविरः महाकात्यायनम् अब्रवीत्* ।
निर्दिष्टा प्रथमा भूमि महासत्व मनोरमा ॥
द्वितीयां संक्रमन्तानां भूमिं नरवरात्मजा ।
किं चित्तं बोधिसत्त्वानां जायते समनन्तरं ॥
के च अध्याशया सन्ति द्वितीयायां जिनात्मज ।
भूमिं तां बोधिसत्वानां यथाभूतम् उदीरयेद् इति ॥
ततः कात्यायनः स्थविरः काश्यपम् इदम् अब्रवीत्* ।
निर्देशं बोधिसत्वानां कीर्तयिष्ये मनोरमं ॥
[_म्वु_1.85_] द्वितीयां संक्रमन्तानां प्रथमतो ऽनुजायते ।
अरती बोधिसत्वानां भवेष्व् इति न संशयं ॥
बोधिसत्वानां भो जिनपुत्र द्वितीयायां भूमौ वर्तमानानां इमे अध्याशया भवन्ति । तद्यथा कल्याणाध्याशया भवन्ति स्निग्धाध्याशयाश् च भवन्ति मधुराध्याशयाश् च भवन्ति तीक्ष्णाध्याशयाश् च भवन्ति विपुलाध्याशयाश् च भवन्ति विचित्राध्याशयाश् च भवन्ति गम्भीराध्याशयाश् च भवन्ति अपर्यादिन्नाध्याशयाश् च भवन्ति अनुपहताध्याशयाश् च भवन्ति असाधारणाध्याशयाश् च भवन्ति उन्नताध्याशयाश् च भवन्ति अकृपणाध्याशयाश् च भवन्ति अनिवर्ताध्याशयाश् च भवन्ति अकृत्रिमाध्याशयाश् च भवन्ति शुद्धाध्याशयाश् च भवन्ति दृढाध्याशयाश् च भवन्ति स्वभावाध्याशयाश् च भवन्ति तृप्ताध्याशयाश् च भवन्ति पुद्गलाध्याशयाश् च भवन्ति अनन्ताध्याशयाश् च भवन्ति ॥
___कथं भो धुतधर्मधर बोधिसत्वाः कल्याणाध्याशयाः भवन्ति ॥ उच्यते ॥

बुद्धे धर्मे च संघे च न कांक्षन्ति कथंचन ।
इति अध्याशयस् तेषां कल्याण उपदिश्यते ॥
कथं भो धुतधर्मधर बोधिसत्वाः स्निग्धाध्याशया भवन्ति ॥ उच्यते ॥
अङ्गेषु छिद्यमानेषु मनस् तेषां न कुप्यते ।
एवम् अध्याशयस् तेषां स्निग्धमृदूपदिश्यते ॥
कथं च भो धुतधर्मधर बोधिसत्वाः मधुराध्याशया भवन्ति ॥ उच्यते ॥
[_म्वु_1.86_] अन्तःकुशलकर्माणि सेवन्ति पुरुषोत्तमाः ।
एवम् अध्याशया मधुरा भवन्ति धुतबुद्धिनाम् इति ॥
कथं भो धुतधर्मधर बोधिसत्वाः तीक्ष्णाध्याशया भवन्ति ॥ उच्यते ॥
बुध्यन्त्य् आशयसंयुक्ता लोके लोकोत्तरे तथा ।
एवम् अध्याशया तीक्ष्णा भवन्ति शुद्धकर्मणाम् इति ॥
कथं च भो धुतधर्मधर बोधिसत्वा विपुलाध्याशया भवन्ति ॥ उच्यते ॥
सर्वभूतान हितार्थं संचिनोन्ति शुभं बहुं ।
एवम् अध्याशया विपुला भवन्ति परमर्षिणाम् इति ॥
कथं भो धुतधर्मधर बोधिसत्वा विचित्राध्याशया भवन्ति ॥ उच्यते ॥
विचित्राणि मनोज्ञाणि देन्ति दानान्य् अमत्सराः ।
एवम् अध्याशया विचित्रा भवन्त्य् उत्तमदर्षिनाम् इति ॥
कथं च भो धुतधर्मधर बोधिसत्वा अपर्यादिन्नाध्याशया भवन्ति ॥ उच्यते ॥
अपर्यादिन्नचित्तास् ते प्रतिवेधपराक्रमाः ।
एवम् अध्याशयस् तेषाम् अपर्यादिन्न उच्यते ॥
कथं च भो धुतधर्मधर बोधिसत्वा अनुपहताध्याशया भवन्ति ॥ उच्यते ॥
न ते शक्यन्ति संहर्तुं दुष्टचित्तेन केनचित्* ।
एवम् अध्याशयस् तेषां न जातु उपहन्यते ॥
[_म्वु_1.87_] कथं च भो धुतधर्मधर बोधिसत्वा असाधारणाध्याशया भवन्ति ॥ उच्यते ॥
यं नान्यः प्रणिधिः कश्चित्* एवं सत्वस्योपजायते ।
सर्वसत्वसुखार्थाय तद् असाधारणं विदुर् इति ॥
कथं च भो धुतधर्मधर बोधिसत्वा उन्नताध्याशया भवन्ति ॥ उच्यते ॥
अपरतीर्थिकमतं श्रुत्वावज्ञा प्रतिष्ठते ।
उन्नताध्याशयास् तेन नरसिंहा भवन्ति ते ति ॥
कथं च भो धुतधर्मधर बोधिसत्वा अकृपणाध्याशया भवन्ति ॥ उच्यते ॥
न कामगुणभोगार्थं संचिन्वन्ति शुभं विदूः ।
ततश् चाकृपणास् तेषां भवन्त्य् अध्याशया सदेति ॥
कथं च भो धुतधर्मधर बोधिसत्वा अनिवर्तियाध्याशया भवन्ति ॥ उच्यते ॥
कामैः ते नावकीर्यन्ते बुद्धत्वे कृतनिश्चयाः ।
तेनानिवर्तियास् तेषाम् अध्याशया इति स्मृताः ॥
कथं च भो धुतधर्मधर बोधिसत्वा अकृत्रिमाध्याशया भवन्ति ॥ उच्यते ॥
वशि प्रत्येकबुद्धानां न स्पृहेन्ति कथंचन ।
एवं चाकृत्रिमो भवति तेषाम् अध्याशयः सदेति ॥
कथं च भो धुतधर्मधर बोधिसत्वाः शुद्धाध्याशया भवन्ति ॥ उच्यते ॥
[_म्वु_1.88_] लाभसत्कारम् उत्सृज्य परमार्थाभिकांक्षिणो ।

शुद्ध अध्याशयस् तेषाम् इत्य् एवम् उपदिश्यते ॥
कथं च भो धुतधर्मधर बोधिसत्वा दृढाध्याशया भवन्ति ॥ उच्यते ॥
न संहरन्ति वीरियं धर्मे लोकैर् अभिद्रुता ।
एवम् अध्याशयास् तेषां दृढा सन्ति महर्षिणाम् इति ॥
कथं च भो धुतधर्मधर बोधिसत्वाः स्वभावाध्याशया भवन्ति ॥ उच्यते ॥
मूर्छितास् ते न भुंजन्ति परान्नान्य् अवस्रुता ।
स्वभावाध्याशयस् तेषाम् एवम् आर्य प्रशंस्यते ति ॥
कथं च भो धुतधर्मधर बोधिसत्वाः तृप्ताध्याशया भवन्ति ॥ उच्यते ॥
नात्र प्रस्यन्दन्ति कामेषु निष्क्रम्याभिरताः सदा ।
एवम् अध्याशयो तृप्तो बोधिसत्वे प्रशंस्यते ति ॥
कथं च भो धुतधर्मधर बोधिसत्वाः पुद्गलाध्याशया भवन्ति ॥ उच्यते ॥
स्वयंभूसर्वदर्शित्वम् अभिकाङ्क्षन्ति पण्डिताः ।
पुद्गलाध्याशया भवन्ति चैवम् अप्रतिमा ध्रुवाः ॥
[_म्वु_1.89_] कथं च भो धुतधर्मधर बोधिसत्वा अनन्ताध्याशया भवन्ति ॥ उच्यते ॥
न प्रार्थयन्ति महाभोगान् अदानगुणसंपदा ।
अनन्ताध्याशयाश् चैवं भवन्ति पुरुषोत्तमा इति ॥
सर्वेहि एतेहि विंशद्भिः सर्वधर्मविशारदा ।
समन्विता सत्पुरुषा शुभैर् अध्याशयैर् वरा इति ॥
इमेहि खलु भो धुतधर्मधर बोधिसत्वा विंशद्भिर् अध्याशयैः समन्वागता भवन्तीति ॥
___एवम् उक्ते आयुष्मान् महाकाश्यप आयुष्मन्तं महाकात्यायनम् उवाच ॥ कतिहि भो जिनपुत्र आकारेहि बोधिसत्वा द्वितीयायां भूमौ वर्तमानास् तृतीयायां भूमौ विवर्तन्ति ॥ एवम् उक्ते आयुष्मान् महाकात्यायनो आयुष्मन्तं महाकाश्यपम् उवाच ॥ अष्टाविंशद्भिः भो धुतधर्मधर कारणेहि बोधिसत्वा द्वितीयायां भूमौ वर्तमानाः तृतीयायां भूमौ विवर्तन्ते ॥ कतमैर् अष्टाविंशद्भिर् आकारैः ॥ तद्यथा लाभगुरुकाश् च भवन्ति । सत्कारगुरुकाश् च भवन्ति । कीर्तिश्लोकपराश् च भवन्ति । शठाश् च भवन्ति । विषमेण च वृद्धिं कल्पयन्ति । गुरुकोपनभाषणपराश् च भवन्ति । त्रिषु रतनेषु न च चित्रिकारबहुला वितरन्ति । दक्षिणीयेषु बोधिसत्वचरितं च न पर्येषन्ति । यतश् च बोधिसत्वचरितभूमिं प्राप्नुवन्ति तां न पूजयन्ति । अतिरेकपूजाये प्राप्यं च भारं न उपादियन्ति । अप्राप्यं च भारं उपादियित्वा वितरन्ति । आकीर्णविहारेण च नार्तीयन्ति । माल्यवस्त्रालंकाराभारणानुलेपनधराश् च भवन्ति । अल्पगुणपरितुष्टाश्
[_म्वु_1.90_] च भवन्ति । अभीक्ष्णं लोकरमणीयाभिरताश् च भवन्ति । न च सर्वधातू अनित्या संकल्पयन्ति । स्वेन च वर्णरूपेण परम् अभिमन्यन्ति । न च विपरीतदर्शनत्यागं करोन्ति । न च यथोद्दिष्टं पदव्यंजनं परिपूर्णं करोन्ति । देशनामत्सरिणश् च भवन्ति । अपात्रदर्शिनश् च भवन्ति । पात्रे च न प्रतिपादयन्ति । कठिनसन्तानाश् च भवन्ति । असमीक्षकारिणश् च भवन्ति ॥ ये केचि भो धुतधर्मधर बोधिसत्वा द्वितीयायां भूमौ वर्तमाना तृतीयायां भूमौ विवर्तन्ति सर्वे ते इमेहि-र्-अष्टाविंशद्भिर् आकारैर् विवर्तन्ति ॥
___तत्र इदम् इति उच्यते ॥
इत्य् एषा द्वितीया भूमि बोधिसत्वानम् उच्यते ।
नानाकुशलकोशानां लोकार्थसुखचारिणां ॥
ये हि दोषेहि संयुक्ता विवर्तन्ति तथाविधा ।
ये चैवं परिवर्तन्ता न विवर्तन्ति पण्डिताः ॥
दुरारोहां धुरधीराः प्रतिपद्यन्ति शूरतां ।
तां च लोकानुकम्पार्थं बहुदुःखा चरन्ति ते ॥
ते ते देवमनुष्याणां पूज्याः सर्वे तथागताः ।
तथा हि विविधं दुःखं उपेन्ति ज्ञानपूर्वकं ॥
नानाधातुम् इमं लोकम् अनुवर्तन्ति पण्डिताः ।
तेन तेषां गता कीर्ति लोके समरुमानुषे इति ॥
_____इति श्रीमहावस्तु-अवदाने द्वितीयभूमिः समाप्ता ॥
[_म्वु_1.91_]___एवम् उक्ते आयुष्मान् महाकाश्यपः आयुष्मन्तं महाकात्यायनम् उवाच ॥ द्वितीया भूमितो तृतीयां भूमिः संक्रमन्तानां बोधिसत्वानां नरवरात्मज कीदृशं जायते चित्तम् इति ॥
ततः कात्यायनस्थविरः काश्यपम् इदम् अब्रवीत् ।
श्रुयतां बोधिसत्वानां सन्धिचित्तम् अनुत्तमं ॥
त्यागे प्रवर्तते चित्तं बोधिसत्वानम् आवुसो ।
तृतीयां संक्रमन्तानां द्वितीयातो जिनात्मज ॥
सुखेन्ति सर्वसत्वानां संस्थितानि नरेश्वराः ।
तं च न आत्मसुखार्थाय न अपि बोधेः कथंचन ॥

मूल पाठ: Mahāvastu-avādana · Edition: Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)) · Data entry Emmanuel Fauré · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc