भाषा

ENहिગુ
ग्रंथ पाठ

महावस्तु-अवादन · भाग 181200

स्थामेन लोके समो नास्ति सैन्यं ॥
एषो समुद्रं जलधरं वारिपूर्णं
असुरनिकेतं उदधिं समन्ततेजं ।
शोषेय सर्वं दृढव्रतो अप्रमत्तो
एषो हि सर्वम् अभिभवे मारसैन्यं ॥
ब्रह्मं च शक्रं अभिभवे गुह्यकां च
नागासुरा च मनुजा महोरगा ।
विदग्धस्थूणां यथ सुवर्णबिम्बं
पीडे नारायणं जिन घनशरीरो ॥
एषो ग्रहेत्वा गिरिवरं चक्रवाडं
पाणितलेन समरजं करेय ।
न एष शक्यो उपगतो बोधिमूले
चालेतुं वीरो दृढव्रतो अप्रमत्तो ॥
चन्द्रं पतेया नभतो मेदिनीये
इयं च भूमी स्थिहि नभे आत्मनेन ।
प्रतिस्रोतं सर्वा नदीयो वहेन्सुः
न चैव शक्यो दृढव्रतो चालनाय ॥
[_म्वु_2.330_] यथा गजेन्द्रः सुबलवां षष्टिहायनः
षड्डन्तनागो समुच्छ्रितकायो ।
पादेन भिन्दे अविमनो आमभाण्डं
तथैव सर्वां करिष्यति मारसैन्यां ॥
मारो ह्य् अवाच स दुःखितो सार्थवाहं
त्रसेसि किं मा यथ बालबुद्धि ।
सन्नद्ध सेना कवचितवर्मिता च
करिष्यिमस्य दृढव्रतस्यान्तरायं ॥
वर्षा सहस्रा मया यो पोषितो हि
उच्चतीह अयं मम ज्येष्ठपुत्रो ।
सौ गौतमस्य अभूर् इह अनुयात्रो
अवसादयिष्यन्तो समारसैन्यं ॥
उदुम्बरस्य यथ पुष्प जातं
वर्णोपपेतं सुरुचिरं मंजुगन्धं ।
तथैते बुद्धा हतरजा निःकिलेशा
कल्पान कोटीनयुतेहि भोन्ति ॥
अश्रद्दधन्तं पितरं विपन्नशीलं
ग्राहेय शुद्धां करुणां जनेत्वा ।
पुत्राण एवं प्रकृति तस्य भोति
अनुकम्पको स्मि न अहं अमित्रो ॥
सुमेरुमूर्ध्ना यदि नरो आरुहित्वा
[_म्वु_2.331_] आत्मानं मुंचेय महीतलस्मिं ।
लभेय सौख्यं शरीरे पतित्वा

न बोधिसत्वे अहितानि कृत्वा ॥
अंगारकर्षू परमा प्रपूरा
तत्र पतित्वा नरो बालबुद्धिः ।
लभेय सौख्यं शरीरे पतित्वा
न बोधिसत्वे अहितानि कृत्वा ॥
असिं गृहीत्वा सुलिखितं तैलधौतं
मुखे करित्वा स्वके ओहरेय ।
लभेय सौख्यं सिय ततो स्वस्तिभावो
न बोधिसत्वे परुषाणि कृत्वा ॥
क्षुरेहि मार्गं यथ आक्रमन्तो
वर्षसहस्रं अथ वर्षकोटि ।
लभेय सौख्यं सिय ततो स्वस्तिभावो
न बोधिसत्वे परुषाणि कृत्वा ॥
विलीनलोहं पिबन्तो अल्पबुद्धिः
लभेय सौख्यं उदरे सुदीप्ते ।
संछिन्न अन्त्रे यकृद्वृक्कफुष्फसे च
न बोधिसत्वे परुषाणि कृत्वा ॥
अयोगुडां पि गिलन्तो ज्वलन्तां
लभेय सौख्यं उदरे प्रदीप्ते ।
संछिन्ने यकृवृक्कफुष्फसे च
[_म्वु_2.332_] न बोधिसत्वे परुषाणि कृत्वा ॥
शैलो महन्तो यथ चक्रवाडो
क्षिप्तो नभातो पतितो न्रस्य मूर्ध्ने ।
जनेय सौख्यं सिय ततो स्वस्तिभावो
न बोधिसत्वे परुषाणि फृत्वा ॥
अंगारकर्षू इषु-असितोमरा च
क्षिप्ता नभातो पतिता आत्मभावे ।
जनेय सौख्यं सिय ततो स्वस्तिभावो
न बोधिसत्वे परुषाणि कृत्वा ॥
शक्यं सहस्रा अयं लोकधातुः
कल्पान कोटी धरितुं करेण ।
चित्तां च ज्ञातुं विविधा नराणां
न संस्तरातो मुनिचालनाये ॥
शक्यं समुद्रे जनधरे वारिपूर्णे
मध्योदके ज्वालितुम् अग्निस्कन्धं ।
सुमेरुमात्रो प्रभंकरो धूमकेतुः
न संस्तरातो मुनिचालनाये ॥
शीलेनुपेतो असदृशो क्षान्तिये च
तपे व्रते च पुरा पारप्राप्तः ।
स केशरिर् वा मृगपति जातवेगो

नादं नदन्तो जिनो मारसैन्ये ॥
[_म्वु_2.333_] यथा महन्ते प्रपतितो पीह कूपे
जात्यन्धसत्वो यथ स्पन्दमानो ।
अक्षी संप्राप्तो दिशम् अप्रजानो
तथा तव भेष्यति मार सैन्यं ॥
पश्याहि त्वं तात ते देवपुत्रां
रूपेणुपेता कृतपुण्यकर्मां ।
चूर्णां गृहेत्वा वरचन्दनस्य
उदग्रचित्ता अभिकिरे बोधिसत्वं ॥
सर्वा सहस्रा स्फुट देवताहि
विमान सर्वां विजहिय आगताहि ।
नभे स्थिहित्वा अवकिरि पुष्पचूर्णैः
बोधिसत्वं प्रमुदिता ओकिरन्ति ॥
मा पापचित्तं जनय विशालबुद्धे
दुरासदा हि महासार्थवाहा ।
दुर्गतिषु प्रपतिषु पांसुकूले
अपेय तातो दुःखी कृच्छ्रप्राप्तः ॥
ये अत्र प्रेम्नं जनयिषु गौरवं च
ये सत्व एतं शरणं उपेन्ति ।
अपायभूमी विजहिय नचिरेण
सर्वे स्पृशन्ति अजरं अशोकं ॥
जनीसुतो पितं अवच विशालबुद्धि
विचित्रां पुष्पां गृहिय मनोज्ञां ।
अभ्योकिरित्व जगसत्वसारं
[_म्वु_2.334_] सर्वान्ते सेनां करेय भस्म ॥
निधानं लब्ध्वा यथ अन्धसत्वा
अपश्यमाने न भवेय दोषो ।
तथा व लब्ध्वा महादक्षिणेयं
प्रमादबन्धु जनयसि अप्रसादं ॥
हिरण्यधारं यथ अक्षमात्रं
प्रवर्षमाणो गृहे बालबुद्धिः ।
उत्क्रोशमानो व्रजेय च्यविष्यं
तथैव तातो न सहं महर्षिं ॥
विमानं लब्ध्वा यथ चन्दनस्य
मनोज्ञगन्धं शुभदर्शनीयं ।
ततो निष्क्रमित्वा प्रपते इह कूपे
तथैव तातो असहं महर्षिं ॥
मणिविमाने रुचिरे प्रभास्वरे
सिंहासनातो यथ उत्थिहित्वा ।
अंगारकर्षूं प्रपते निष्क्रमित्वा

तथैव तातो असहं महर्षिं ॥
प्रासादं लब्ध्वा यथ कांचनस्य
जाम्बूनदस्य शुभदर्शनीयं ।
ततो व्रजित्वा प्रपतो अर्णवस्मिं
तथैव तातो असहं महर्षिं ॥
सुवर्णनिष्कां यथ ओशिरित्वा
[_म्वु_2.335_] ग्रीवाय ताम्रं धरयेय लोके ।
तथैव लब्ध्वा मुनिं दक्षिणेयं
प्रमादबन्धु जनयसि अप्रसादं ॥
अमृतस्य पात्रं यथ ओशिरित्वा
विषस्य पात्रं पिबेद् बालबुद्धिः ।
तथैव लब्ध्वाब् महदक्षिणेयं
प्रमादप्राप्तो जनयसि अप्रसादं ॥
यथा लभित्वा शुभनीलनेत्रा
उत्पाटयेय (स्वयं) बालबुद्धिः ।
तथैव लब्ध्वा मुनिं दक्षिणेयं
प्रमादबन्धु जनयसि अप्रसादं ॥
अहो स्मृतिं हि अपचिनोहि मार
दिव्यं ग्रहेत्वा वरमुक्तिहारं ।
ओभासयन्तं दिशता प्रभाय
मा अप्रसादं जनयाहि तात ॥
यथा च एषो इह लोकधातुं
ओभासि सर्वां शुभरूपधारी ।
भिन्दित्व मेरुं महचक्रवाडं
समुद्रमध्ये यथ शैलराजा ॥
यथा च एषो स्थितो वृक्षमूले
सुमेरुमूर्ध्ने अभिभवि देवपुत्रा ।
नात्र प्रदेशे स्थितो कामसेवी
मा अप्रसादं जने कृष्णबन्धु ॥
न अस्ति सत्वो त्रिभवस्मि तात
[_म्वु_2.336_] यो एवरूपो भवे पुण्यवन्तो ।
अदृश्यमानो यथ रस्मिराजो
तथा निषण्णो मुनि बोधिमूले ॥
यथा निषण्णो जिनो क्रकुच्छन्दो
प्रभासमानो दिश वृक्षमूले ।
तथास्य कायो स्फुटो लक्षणेहि
मा अत्र तात जने अप्रसादं ॥
कोनाकनामो यथ लोकनाथो
विशुद्धचक्षुस् तिमिरस्य घाती ।
प्रभासमानो दिशतां शिरीये

सो पि निषण्णो इह वृक्षमूले ॥
यस्यैव नामं अभु काश्यपो ति
समन्तवक्षुर् वरदक्षिणीयो ।
सो पि निषण्णो इह वृक्षमूले
बुध्यसि वीरो वर-अग्रबोधिं ॥
ये भद्रकल्पे अभु लोकनाथाः
संबोधिप्राप्ता मुनि देवदेवा ।
पूर्वे निषण्णा इह वृक्षमूले
बुध्यन्सु वीरा शिव-अग्रबोधिं ॥
[बुद्ध]सहस्रचत्वारि जिना हि पूर्वं
इह निषण्ण द्रुमवरपादपेन्द्रे ।
अनागता हितकर लोकनाथा
प्राप्स्यन्ति ते पि वर-अग्रबोधिं ॥
[_म्वु_2.337_] भाषित्व गाथाम् इमम् एवरूपां
महास्मृतीति वरनामधेयो ।
मुक्तिहारं क्षिपे गौतमस्य
उदग्रचित्तो वरवेगजातो ॥
विद्युप्रतिष्ठो परो मारपुत्रो
दिव्यं ग्रहेत्वा शुभकल्पदुष्यं ।
सो बोधिसत्वं मुनि प्रेक्षमाणो
उदग्रचित्तो स्तवे बोधिमण्डे ॥
मनोज्ञघोषं रुतं सत्वसारो
. . . . . . . . . . . . . . . . . . ।
न कश्चिद् अस्ति समो सर्वलोके
तथासि पूर्वचरितो महर्षि ॥
त्याग्यासि पूर्वे चरं कल्पनन्तां
त्यक्ता विशिष्टा तव राजधानी ।
हस्तिगणा अश्व बहु पुण्ययानं
तेन प्रभासि दिश सत्वसार ॥
त्यजित्व भार्या तथ चात्ममांसं
पुत्रा च धीता नयनात्ममांसं ।
त्यजित्व पूर्वं प्रिय-उत्तमांगं
तेन प्रभासि दिशतां समन्ता ॥
त्यजित्व दिव्या रतनानि शुद्धा
नाना विमाना स्फुटरत्नचित्ता ।
नक्षत्र-आभा नभे विद्युताभा
[_म्वु_2.338_] सर्वो विभासि पुरतो जनस्य ॥
भाषित्व गाथाम् इम एवरूपां
विद्युप्रतिष्ठो परो मारपुत्रो ।
वस्त्राण कोटीनयुतां सहस्रां

क्षिपे नरेन्द्रे वरवेगजातो ॥
कल्याणमित्रा पि तं धारयेन्सुः
मा अप्रसादं जनये बहुबुद्धेः ।
न शक्य एषो विमलप्रभो महात्मा
चालेतुं भूयो मुनिम् आसनातो ॥
असद्दधानो वचनं दुर्बुद्धिः
ईर्ष्यां च क्रोधं जने कृष्णबन्धु ।
सो दुष्टचित्तो अबुधो च जातो
भूयस्य मात्रं जने अप्रसादं ॥
माराण कोटीशत सन्नहित्वा
सन्नह्य मारो बहुमारसैन्यं ।
बोधाय विघ्नं तद कर्तुकामो
स पापचित्तं जने हीनबुद्धिः ॥
यक्षाण कोटीनयुता सहस्रा
नागासुरा मनुजमहोरगा च ।
गन्धर्वपुत्रा बलस्थामप्राप्ता
उपसंक्रमेन्सुः यतो पादपेन्द्रं ॥
शिलां ग्रहेत्वा महघोररूपां
[_म्वु_2.339_] सन्नद्धवर्मी अतिघोरप्रेक्षी ।
विद्यून् क्षिपेसि असनिं प्रवर्षे
उपसंक्रमन्तो वरपादपेन्द्रं ॥
शक्तिं ग्रहेत्वा इषुतोमरां च
असिं ग्रहेत्वा क्षुरतीक्ष्णधारां ।
मालाविलम्बी किलिकिलायमाना
उपक्रमेन्सुः सिंहपादपेन्द्रं ॥
सिंहाश् च व्याघ्रा तुरगा गजाश् च
उष्ट्रा गवा गर्दभाश् चान्यरूपा ।
आशीविषप्रगृहीतशिरांसि
उपसंक्रमेन्सुः यतो बोधिसत्वो ॥
अन्ये ग्रहेत्वा महदग्निस्कन्धां
प्रदीप्तशीर्षा विकृतस्वभावा ।
क्षुरप्रचारी च विभग्ननासा
मारस्य सैन्या स्थित बोधिमूले ॥
रथसहस्राणि च बोधिमण्डे
ध्वजपताका च सनन्दिघोषा ।
जालाविचित्रा शुभवादिता हि
ध्वजाग्रमूर्धे च सनन्दिघोषा ॥
समन्त त्रिंश स्फुट योजनानि
[यक्षसहस्रेहि महभैरवेहि ।]
चतुर्दिशं चोपरि च नभातो

[_म्वु_2.340_] ते यक्षसंघा परमसुघोररूपा ॥
असिं ग्रहेत्वा निशितां सुतीक्ष्णां
युगप्रमाणोपगतो कृष्णबन्धु ।
सो बोधिसत्वं अवच प्रदुष्टचित्तो
उत्थाहि शीघ्रं अतो आसनातो ॥
समन्तात् त्रिंश स्फुट योजनानि
यक्षसहस्रेहि महभैरवेहि ।
न शक्यं भिक्षु प्रव्रजितुं कहिंचित्*
तवाद्य च्छेत्स्यं यथ वेणुखण्डं ॥
ततो प्रमुंचे गिरां बोधिसत्वो
अष्टांगुपेतां मधुरां सुघोषां ।
सर्वे ते सत्वा सियु मारभूता
न च समर्था मम रोमम् इंजितुं ॥
एको सि भिक्षु स्थितो वृक्षमूले
सेना च नास्ति तवैवरूपा ।
कस्य बलेन न सिया समर्थं
तं मारसैन्यं तव रोमम् इंजितुं ॥
दाने च शीले च क्षान्तिये च
वीर्ये ध्याने बहुकल्पकोट्यो ।
प्रज्ञाये श्रेष्ठाय भवे अप्रमेये
न मह्यम् अस्ति समो सर्वलोके ॥
मैत्र्याविहारी करुणाविहारी
[_म्वु_2.341_] सत्वान अर्थे चरितो बोधिचर्यां ।
बुद्धित्व बोधिं लभे बुद्धज्ञानं
सत्वां प्रमोक्ष्याम्य् अहं कृष्णबन्धु ॥
अच्छिद्रशीलो पुरिमे भवेसु
कल्पान कोटीनयुता अनन्ता ।
समाहितो वज्रसमो अभेद्यो
सो अद्य प्राप्स्यं वर-अग्रबोधिं ॥
यावन्ति सेना तव कृष्णबन्धु
सर्वे भवेन्सु वसि ईश्वरत्वे ।
ते चक्रवाडसम आयुधेहि
न च समर्था मम रोमम् इंजितुं ॥
शून्या निमित्ता प्रणिधी विभाविता
न सत्वसंज्ञा . . . . . . . . ।
न मारसंज्ञा न विहिंससंज्ञा
एवं स्थितस्य अबलो सि पाप ॥
न रूपसंज्ञा न पि शब्दसंज्ञा
नापि रससंज्ञा न च गन्धसंज्ञा ।
न प्रष्टव्यसंज्ञा . . . . . . .

एवं स्थितस्य असमर्थो सि मार ॥
न स्कन्धसंज्ञा न मे धातुसंज्ञा
अध्यात्मसंज्ञा च विभाविता मे ।
यथान्तरीक्षं हि अभावभूतं
एवंस्वभावा हि च सर्वधर्माः ॥
[_म्वु_2.342_] जालेहि चित्रेण हि दक्षिणेन
पराहने वसुमतिं बोधिसत्वो ।
सा षड्विकारं चलिता लोकधातु
शब्दं च आसी तद भीष्मरूपं ॥
कंसस्य पात्रीं यथ मंजुघोषां
पराहनेय पुरुषो ग्रहेत्वा ।
एवं तथैव रणे लोकधातु
यदा हने वसुमतिं बोधिसत्वो ॥
त्रस्ता अभूषि तद मारसेना
भीता पलाये च बहुयोजनानि ।
चतुर्दिशं नैव च प्रेक्षमाणा
पश्यन्ति बुद्धं यथ रस्मिराजं ॥
अन्ये रथेहि पते मेदिनीयं
गर्जन्त मेघा यथ अन्तरीक्षे ।
यथ हस्तिनागा च महार्णवस्मिं
तथैव सर्वा हत मारसैन्याः ॥
दिव्यां च पुष्पां प्रकिरेन्सु देवा
चूर्णं प्रवर्षेन्सु च चन्दनस्य ।
मन्दारवा ओकिरे बोधिसत्वं
समन्ता त्रिंश स्फुट योजनानि ॥
देवसहस्रा नभे अम्बराणि
भ्रामेन्सु अन्ये क्षिपं मुक्तिहारं ।
[_म्वु_2.343_] गाथाभि गीतेहि अपरे स्तवेन्सुः
प्रध्याये तूष्णीं दुःखि कृष्णबन्धुः ॥
सप्ताहपूरं दुःखि मारसैन्यं
द्रुमस्य मूले अभु कृच्छ्रप्राप्तं ।
जात्यन्धभूतं दिशम् अप्रजानं
बुद्धश् च शोभे यथ रस्मिराजो ॥
परस्परं रथशत भज्यमाना
पश्यितु हतां महिं प्रकम्पमानां ।
ते निर्मिणित्वा विकृतात्मभावां
उपसंक्रमेन्सुः वरपादपेन्द्रं ।
न ते पुराणां प्रतिलभेन्सु रूपां
सर्वे अभून्सुः भयभीतरूपा ॥
यथैव तले यो विहगो निबद्धो

तथा कृष्णबन्धुः धरणीतलस्मिं ।
सप्ताहपूरं सबलो ससैन्यो
समोहजातो न प्रभोति गन्तुं ॥
रूपधातो उपगता देवपुत्राः
सर्वे समग्रा प्रमुदितवेगजाता ।
अक्षप्रमाणां अवकिरे चूर्णधारां
दिव्यां विशिष्टां वरचन्दनस्य ॥
ध्वजान कोटीनयुता सहस्रा
उच्छ्रापयेन्सुः नभे देवपुत्राः ।
[_म्वु_2.344_] पताकपट्टैः स्फुट बुद्धक्षेत्रं
यदा हने वसुमतिं बोधिसत्वो ॥
दिव्या च वाद्या प्रपद्यि अन्तरीक्षे
संगीति दिव्या अभु देवतानां ।
पुष्पां प्रवर्षे नभि देवपुत्रा
यदा हने वसुमतिं बोधिसत्वो ॥
यावन्ति वृक्षा अभु मेदिनीये
सर्वे अभू कुसुमानन्तगन्धाः ।
शून्या निमित्ता प्रणिधि विभाविता
एवंस्वभावं वदते स शब्दं ॥
दिव्ये विमाने स्थिते मेघम् ऊर्ध्वे
नागे विमाने तथ सागरस्मिं ।
मनोज्ञघोषा असुरपुरेषु शब्दाः
यदा हने वसुमतिं बोधिसत्वो ॥
यं कालं रस्मिं अवसृजति बोधिसत्वः
पाणितलातो कुशलचित्रातो ।
तदा स्थपेत्व नरकान्तिरिच्छां
यमस्य लोका प्रपति सर्वलोके ॥
विह्वलजातां वसुमतिं अद्दशेन्सुः
माराण कोटि प्रपतति मेदिनीये ।
संबोधिप्राप्तं मुनिम् अद्दशेन्सुः
चन्द्रसहस्रं यथ अन्तरीक्षे ॥
[_म्वु_2.345_] परस्परस्य तद उत्थहित्वा
भूयस्या मात्रया तत मेदिनीयं ।
नभातो क्षिप्ता यथ चित्रपट्टा
तथैव सा तद अभु मारसेना ॥
असन्त्रसन्तो वरबोधिसत्वो
विगतभयो अतुलियो पुण्यक्षेत्रो ।
पूर्वञ् चरित्वा वरधर्मश्रेष्ठं
प्रभासि लोके यथ रस्मिराजः ॥
इदं च दुःखं अयं च समुदयः

तथा निरोधो अथ मार्गश्रेष्ठो ।
इमस्मिं सन्ते प्रादुर्भोति
इमस्मिं नष्टे इदम् अस्तम् एति ॥
अविद्या हेतु भवसंस्कृतस्य
तं प्रत्ययं भवति जाननाय ।
विज्ञानहेतु भवे नामरूपं
प्रत्ययं च तं भवति षडिन्द्रियस्य ॥
षडिन्द्रियं भवति तथ स्पर्शजातं
स्पर्शो च हेतु भवे वेदनानां ।
संवेदयन्तो जायति तृष्णालु
तृष्णाप्रत्ययं भवति उपादानं ॥
उपादानहेतुं भवं संस्मरन्ति
जातीजरामरणं तथैव व्याधिः ।
[_म्वु_2.346_] शोका च भोन्ति परिदेवितानि
आयासा भोन्ति दुःखदौर्मनस्यं ॥
प्रतीत्यधर्मं प्रविचितो बोधिसत्वः
निरोधस् तेषाम् अविकलि सर्वज्ञाने ।
तेषां च एवं प्रकृतिं पश्यमानो
अतुल्यं प्राप्तो वरम् अग्रबोधिं ॥
यदा च प्राप्तो वरम् अग्रबोधिं
विशुद्धचक्षुं जिनो अप्रमेयं ।
प्रवृत्तज्ञानो दिशता अप्रसंगो
त्रैलोक्ये शब्दो व्रजि परंपराय ॥
पराहता दुन्दुभि अप्रमेया
शब्दो अभूषि तद अप्रमेयो ।
अशोकप्राप्ता नरनारिसंघा
देवा च नागा मनुजा महोरगाः ॥
आवासशुद्धा उपगता देवपुत्राः
कोटीसहस्रा नयुता अनन्ता ।
ते अंजलिं दशनखं प्रग्रहेत्वा
अभिस्तवे दशबलं पारप्राप्तं ॥
समुद्रमध्ये यथ शैलराजा
सुमेरुमूर्ध्ने यथ वैजयन्तो ।
सूर्यसहस्रं यथ अन्तरीक्षे
एवं प्रभासि जिनो बोधिमूले ॥
यस्यार्थं दानं पुरिमभवेषु दिन्नं
[_म्वु_2.347_] यस्यापि शीलम् अशवलं रक्षितं पूर्वे ।
यस्यार्थं प्रज्ञा परमा निषेविता
सा ते नरेन्द्रवर प्राप्त बोधिः ॥
चक्षुष्मन्तो तिमिरस्य हन्ता

विनाशधर्मनिधनं सत्वसारः ।
स्वयंभूप्राप्तः नरवरसार्थवाहः
न कश्चित् ते समसमो सर्वलोके ॥
ओभासिता ते सर्वलोकधातु
घना विमुक्तेन यथ चन्द्रमेण ।
यथ दिव्य आभा प्रतपति देवनानां
नागासुराणां च महोरगाणां ॥
सुमेरु शक्यो तुलयितुं शैलराजा
परागकृत्वा शत एत्तकानि ।
भागा च कृत्वा समा सर्षपेण
न बुद्धवर्णं क्षपितुं जिनानां ॥
महासमुद्रो यथ वारिपूर्णो
करेण गृह्य गणयितुं शक्यो विन्दू ।
कोटीसहस्रा नयुता शतानि
न शक्यं वर्णं भाषितुं जिनानां ॥
शक्यं भवाग्रां ज्ञातुं त्रिसहस्रां
इह सर्वभूमिवृक्षवाततेजः ।
[_म्वु_2.348_] तृणलता-औषधिवीर्यसंख्यां
न बुद्धवर्णो क्षपयितुं शक्य सर्वं ॥
भिन्दित्व वारां शतं वा सहस्रं
शक्यन्तरीक्षं गणयितुं नभाग्रं ।
चतुर्दिशानां शत एत्तकानि
न बुद्धवर्णो क्षपयितुं शक्य सर्वं ॥
या सत्वधातु गणयितुं शक्यं सर्वा
रोमां च तेषां पि च केशा मूर्ध्नि ।
तेषां पि काया पुरिमा अतीता
न शक्यं वर्णं क्षपयितुं जिनानां ॥
ये सत्व श्रुत्वा गुणम् एवरूपं
प्रसन्नचित्ता स्मरे लोकनाथं ।
तेषां सुलाभा विजहिय दुर्गतीयो
बोधी च तेषां मता नचिरेण ॥
पुनर् अपरं भिक्षू तथागतो अनुत्तरां सम्यक्संबोधिम् अभिसंबोधित्वा सप्ताहपूरं एकपर्यंकेनातिनामेसि ॥ अथ खलु भूम्यवचरा देवा अन्तरीक्षेचरा देवा चतुर्महाराजिका च देवा त्रायस्त्रिंशा च देवा यामा च देवा तुषिता च देवा निर्माणरती च देवा परनिर्मितवशवर्ती च देवा महाब्रह्मा च ब्रह्मकायिका च ब्रह्मपुरोहिता च ब्रह्मपारिषद्या च आभा च परीत्ताभा चाप्रमाणाभा च आभास्वरा च शुभा
[_म्वु_2.349_] चाप्रमाणशुभा च शुभकृत्स्ना च वृहत्फला च अवृहा च अतपा च सुदृशा च याव अकनिष्ठा च देवा सप्ताहपूरं तथागतं बोधिमण्डवरगतं सत्करोन्ति गुरुकरोन्ति मानयन्ति पूजयन्ति सर्वावती च त्रिसाहस्रमहासाहस्रा लोकधातुः सप्ताहपूरं एकालंकारा अभूषि ॥ अथ खलु भगवां ताये वेलाये इमां गाथाम् अभाषि ॥
सप्ताहपूरं संबुद्धो बोधिं बुद्धित्व उत्तमां ।
आसनातो न उत्थेसि सर्वलोकस्य चेतियो ॥
देवकोटीसहस्राणि गगणस्मिं समागता ।
पुष्पवर्षं प्रवर्षेन्सु सप्तरात्रम् अनूनकं ॥
उत्पलां पदुमां चम्पां पुण्डरीकां मनोरमां ।
सहस्रपत्रां रुचिरां तत्र देवा प्रवर्षिषु ॥
मारश् च दुर्मनो आसि काण्डेन लोखते महीं ।

जितो स्मि देवदेवेन शाक्यसिंहेन तापिना ॥
त्रायस्त्रिंशा च यामा च तुषिता ये च निर्मिता ।
परनिर्मिता ये देवा कामधातुप्रतिष्ठिताः ॥
लोहितं चन्दनं दिव्यं अगुरुं अथ चम्पकं ।
दिव्या च पुष्पवर्षाणि अन्तरीक्षेण ओकिरि ।
अक्षमात्राहि धाराहि बुद्धक्षेत्रं फली इमं ॥
ब्रह्मकोटिसहस्राणि गगणस्मिं समागताः ।
वर्षन्ति सुखुमं चूर्णं दिव्यं लोहितचन्दनं ॥
भूम्या देवा उपादाय शुद्धावासाः स्वयंप्रभाः ।
एवं परंपरा आसि देवताहि परिस्फुटा ॥
छत्रध्वजपताकाहि अन्तरीक्षं परिस्फुटं ।
[_म्वु_2.350_] करोन्ति पूजनां श्रेष्ठां संबुद्धस्य शिरीमतो ॥
आभा च विपुला मुक्ता बुद्धक्षेत्रं परिस्फुटं ।
भवाग्रा लोकधातूयो ग्निसवर्णा भवेसि च ॥
प्रशान्ता निरया आसि बुद्धक्षेत्रस्मि सर्वशो ।
शीतीभूता च अंगारा सत्वा च सुखिता अभू ॥
येषां नैरयिकं दुःखं परिक्षीणं तद् अन्तरं ।
निरयेषु च सत्वा ते देवेषु उपपद्यिषु ॥
संजीवकालसूत्रेषु तपने च प्रतापने ।
प्रशान्तो रौरवे अग्निः लोकनाथस्य रश्मिभिः ॥
अवीच्यां अथ संघाते प्रत्येकनिरयेषु च ।
प्रशान्तो सर्वशो अग्निः लोकनाथस्य रस्मिभिः ॥
यावन्ता लोकधातूषु प्रत्येकनिरया अभू ।
प्रशान्तो सर्वशो अग्निः लोकनाथस्य रस्मिभिः ॥
ये च तिरिच्छानयोनीयं मान्सरूधिरभोजना ।
मैत्राय स्फुटा बुद्धेन न हिंसन्ति परस्परं ॥
छत्रध्वजपताकेहि बोधिवृक्षो अलंकृतः ।
कूटागारेहि संछन्नो देवपुत्रेहि निर्मिता ॥
खाणू च कण्टकथला च शर्करा सिकता पि च ।
समन्ता बोधिमण्डातो हेष्टा भूमौ प्रतिष्ठिताः ॥
रत्नामयीये भूमीये बोधिमण्डं परिस्फुटं ।
या इह बुद्धक्षेत्रस्य देवपुत्रेहि निर्मिता ॥
[_म्वु_2.351_] देवपुत्रसहस्राणि धरणियं प्रतिष्ठिता ।
धूपनेत्रां गृहेत्वान पूजेन्ति लोकनायकं ॥
हेठा च धरणी सर्वा पदुमेहि परिस्फुटा ।
जाम्बूनदसुवर्णस्य बुद्धतेजेन उद्गताः ॥
ये चापि व्याधिता सत्वा दुःखिता अपरायणाः ।
अरोगा सुखिता भूता बुद्धरस्मिपरिस्फुटाः ॥
जात्यन्धा रूपां पश्येन्सुः लब्ध्वा चक्षुं विशारदं ।
परस्परं चालपेन्सु बोधिप्राप्तस्य तायिनो ॥

रागाश् चाप्य् अपि च दोषा मोहाश् च तनुनो कृताः ।
यं कालं शाक्यसिंहेन प्राप्ता बोधि महर्षिणा ॥
प्रासादा सविमाना च कुटागारमनोरमाः ।
सर्वे ततोमुखा आसि बोधिसत्वस्य तायिनः ॥
यावन्ति बुद्धक्षेत्रस्मिं नरनारी च किंनराः ।
सर्वे ततोमुखा आसि बोधिसत्वस्य तायिनः ॥
देवता देवपुत्रा च देवकन्या च शोभनाः ।
सर्वे ततोमुखा आसि येन बोधि महर्षिणो ॥
नागा चाप्य् अथ गन्धर्वा यक्षा कुम्भाण्डराक्षसाः ।
सर्वे ततोमुखा आसि येन बोधि महर्षिणः ॥
दारिका दारका चैव शय्यासनावशायिताः ।
ततोमुखा संस्थिहेन्सु येन बोधि महर्षिणो ॥
ये चाप्य् आभरणा दिव्या विशिष्टा रतनामयाः ।
[_म्वु_2.352_] आबद्धा आसि देवानं सर्वे ततोमुखा अभू ॥
नागानां अथ यक्षाणां पिशाचराक्षसान च ।
तेषां चाभरणा सर्वे येन बोधि ततो गताः ॥
देवानाम् अथ नागानां यक्षाणां राक्षसान च ।
ततोमुखा विमानाभू येन बोधि महर्षिणो ॥
नुपूरा वलया चैव अथ वा परिहारकाः ।
बोधिप्राप्तस्य बुद्धस्य येन विलम्बिताम्बरं ॥
जनान हारा च कण्ठे निष्कानि शोभनानि च ।
आबद्धका मनुष्याणां येन बोधि निरिंगिता ॥
मुक्तिहाराश् च आबद्धा विचित्रा मणिकुण्डला ।
कटका च मुद्रिका च येन बोधि निरिंगिता ॥
यावन्ति बुद्धक्षेत्रस्मिं सत्यधातू अचिन्तिया ।
जानन्ता वा अजानन्ता येन्ह बोधि निरिंगिता ॥
वाता च शीतला वाये मनोज्ञगन्धा मनोरमाः ।
समन्तबुद्धक्षेत्रस्मिं बोधिप्राप्तस्य तायिनो ॥
यावन्ति बुद्धक्षेत्रस्मिं देवा नागा च मानुषा ।
असुरा च किन्नरा यक्षा सर्वे पश्यन्ति नायकं ॥
धूपनेत्रां ग्रहेत्वान सर्वे तेन सुखस्थिता ।
पूजयन्ति लोकप्रद्योतं बोधिमण्डे प्रतिष्ठितं ॥
अंजलीहि नमस्यन्ति गाथाभिर् अस्तवेन्सु ते ।
[_म्वु_2.353_] पूजां करोन्ति बुद्धस्य बोधिमण्डे प्रतिष्ठिता ॥
सर्वे आसन्नं पश्यन्ति लोकनाथं प्रभंकरं ।
न कश्चिद् दूरे संजाने व्याममात्रे यथा स्थितं ॥
न कश्चित् पृष्ठतो बुद्धं लोकधातूय पश्यति ।
सर्वा दिशा हि बुद्धस्य संमुखां पश्यति दृशां ॥
वामदक्षिणपार्श्वेहि न कश्चिल् लोकनायकं ।
संजानति महावीरं सर्वे पश्यन्ति नायकं ॥

धूपितं बुद्धक्षेत्रस्मिं धूपनं च तद् अनन्तरं ।
समन्ता बुद्धक्षेत्राणां गन्धेन कोटियो स्फुटा ॥
न शक्यं गणनां कर्तुं एत्तिया सत्वकोटियो ।
पश्यित्वा शिरिं बुद्धस्य संबोधिम् अभिप्रस्थिताः ॥
तृणा च अथ काष्ठा च औषधीयो वनस्पती ।
सर्वे ततोमुखा आसि येन बोधि महर्षिणो ॥
को अयं ईदृशान् धर्मा लोकनाथेन दर्शितां ।
श्रुणित्वा न सिया तुष्टो अन्यत्र मारपक्षिकात्* ॥
न शक्यं सर्वं ख्यापेतुं वाचया ऋद्धि भाषतः ।
या शिरि आसि बुद्धस्य बोधिप्राप्तस्य तायिनः ॥
येहि च दृष्टो संबुद्धो बोधिमण्डे प्रतिष्ठितः ।
पूजितश् च महावीरो ते श्रुत्वा तुष्ट पण्डिताः ॥
शीलस्कन्धे च अच्छिद्रे ये भिक्षू सुप्रतिष्ठिताः ।
ते श्रुणित्वा इदं सूत्रं हर्षं काहिन्ति भद्रकं ॥
[_म्वु_2.354_] क्षान्तिसौरभ्यसंपन्ना अलीनकायमानसाः ।
अर्थिका बुद्धज्ञानेन तेषां तुष्टिर् भविष्यति ॥
येहि आश्वासिता सत्वा मोचिष्यि उपपद्यतां ।
बुद्धित्व उत्तमां बोधिं तेषां तुष्टिर् भविष्यति ॥
येहि पुरिमका बुद्धा सत्कृता द्विजसत्तमा ।
इदं च सूत्रं श्रुत्वान तुष्टा भेष्यन्ति महर्षिणः ॥
येहि ते कृपणा सत्वा अन्नपानेन तर्पिताः ।
ते इदं सूत्रं श्रुत्वान बुद्धे काहिन्ति गौरवं ॥
येहि ते अधना सत्वाः धनेहि प्रतिच्छादिताः ।
ते इदं सूत्रं श्रुत्वान बुद्धे काहिन्ति गौरवं ॥
येहि च पूर्वं बुद्धानां चेतिया मापिता शुभाः ।
बुद्धित्वा वरप्रसादा ते खु भेष्यन्ति प्रीणिताः ॥
येहि पुलुवं सद्धर्मो लोकनाथस्य धारितो ।
त्यजित्वा लाभसत्कारं ते खु भेष्यन्ति प्रीणिता ॥
ये ते असंस्कृतायुश् च दण्डकर्मेहि वर्जिताः ।
ओरसा लोकनाथस्य ते हि करिष्यन्ति पूजनां ॥
ये ते मैत्रेयं संबुद्धं पश्यित्वा द्विपदोत्तमं ।
काहिन्ति विपुलां पूजां तेषां हर्षो भविष्यति ॥
ये ते सिंहं महानागं पश्यित्वा लोकचेतियं ।
काहिन्ति विपुलां पूजां तेषां हर्षो भविष्यति ॥
केतुस्य लोकनाथस्य ये हि करिष्यन्ति पूजनां ।
[_म्वु_2.355_] अर्थिका बुद्धज्ञानेन तेषां हर्षो भविष्यति ॥
प्रद्योतस्य च बुद्धस्य ये करिष्यन्ति पूजनां ।
अर्थिका बुद्धज्ञानेन तेषां हर्षो भविष्यति ॥
ज्योतिन्धरं च ये बुद्धं पश्यित्वा अपराजितं ।
पूजां महतीं काहिन्ति तेषां हर्षो भविष्यति ॥

सुनेत्रं लोकप्रद्योतं ये दृष्ट्वा सत्करिष्यन्ति ।
अप्रमाणाय पूजाय तेषां हर्षो भविष्यति ॥
द्वौ बुद्धौ कुसुमनामानौ लोकनाथौ तथागतौ ।
ये दृष्ट्वा सत्करिष्यन्ति तेषां हर्षो भविष्यति ॥
मरुं च द्विपदश्रेष्ठं संबुद्धं वदतां वरं ।
ये दृष्ट्वा सत्करिष्यन्ति तेषां हर्षो भविष्यति ॥
पुष्पं च अग्रसंबुद्धं पश्यित्वा द्विपदोत्तमं ।
ये काहिन्ति परमां पूजां तेषां हर्षो भविष्यति ॥
ये गृद्धा लाभसत्कारे जिह्मविज्ञाननिश्रिता ।
अल्पेछं तं श्रुणित्वान तेषां त्रासो भविष्यति ॥
ये च संगणिकारामा गणवासे प्रतिष्ठिता ।
विवेकं श्रुत्वा बुद्धस्य न तेषां दौर्मनस्यता ॥
एवं दुःशीला श्रुत्वानैवं बुद्धेन भाषितं ।
नता लोकप्रदीपस्मिं तीव्रं काहिन्ति गौरवं ॥
ये ते व्याकृता बुद्धेन बोधिसत्वा अनागता ।
सूरता सुखसंवासा तेषां तुष्टिर् भविष्यति ॥
[_म्वु_2.356_] येषां विवर्तना नास्ति बुद्धज्ञानातो सर्वशः ।
ते इमं सूत्रं श्रुत्वान भेष्यन्ति सुखिता नराः ॥
येहि पुरिमा बुद्धा सत्वसारा
गुरुकृता सत्कृता पूजिता नरेन्द्रा ।
प्रणतमनाः शिष्ट बुद्धज्ञाने
नरवरवर्ण श्रुणित्व तुष्टा भोन्ति ॥
ये च अविकलाः समन्तशुद्धा
वरगुणकोटीशतोपपन्ना ।
ये च धरसि धर्म लुज्यमानं
मुदितमना सुगतस्य शासनस्मिं ॥
ये च अचपला ō आनुबद्धा
अमुखरा नो च अभू विकीर्णवाचा ।
. . . . . . . . . न मानुपेता
जिनवरवर्ण श्रुणित्व तुष्टा भोन्ति ॥
येषां अपरित्यक्त बुद्धज्ञानं
एवं विरजा च अतुल्यनन्तबोधि ।
ये च चरन्ति व्रतम् अप्रमत्ता
जिनवरवर्ण श्रुणित्व तुष्टा भोन्ति ॥
चतुर्हि भिक्षू धर्मेहि समन्वागतः तथागतो पूर्वे बोधिसत्वचारिकां चरन्तो सर्वलोक-अभ्युद्गतताम् अनुप्राप्तः ॥ कतमेहि चतुर्हि ॥ अच्छिद्रेण शीलस्कन्धेन . . . . .
[_म्वु_2.357_] . . . . . सर्वसत्वहितचित्तताय सर्वसत्व-ओहितचित्तताय ॥ इमेहि भिक्षूः चतुर्हि धर्मेहि समन्वागतः तथागतो पूर्वे बोधिसत्वचारिकां चरमाण इमं एवरूपं सर्वज्ञानम् अनुप्राप्तः ॥
___अथ खलु भगवान् ताये वेलाये इमां गाथाम् अभाषि ॥
शीलस्कन्धो धनं श्रेष्ठं लोकनाथस्य शासने ।
न सुवर्णं न च रूप्यं धनं भिक्षुस्य वर्णितं ॥
शीलं व पूजेतु शास्तु शासने सुप्रतिष्ठितो ।

दुःशीलो छम्भितो दूरं न सो बुद्धस्य श्रावको ॥
शीलं रक्षित्वा अच्छिद्रं पश्यन्ति द्विपदोत्तमा ।
लोकनाथा महावीरा द्वात्रिंशवरलक्षणाः ॥
मैत्राया शीलस्कन्धेन अरण्यवासे च उत्सुकः ।
सूरतः सुखसंवासो एतं श्रामण्यकं धनं ॥
अल्पेछो अल्पसन्तुष्टो सूरतो सुसमाहितः ।
हिरी-ओत्तप्पसंपन्नो एतं श्रामण्यकं धनं ॥
साधुशीला भिक्षू हि सर्वे तृष्णा छित्त्वान जालिनीं ।
सप्त बोध्यंगान् भावेन्ति एतं श्रामण्यकं धनं ॥
शून्यतां शान्तां भावेति भवा च विरतो मुनिः ।
बहुदुःखा असारा च एतं श्रामण्यकं धनं ॥
सो सो महाधनो भवति यो एवं प्रतिपद्यति ।
प्रतिपत्तीय संपन्नो स खु भिक्षु महाधनो ॥
[_म्वु_2.358_] शीलसंपन्नो यो भिक्षुः स आढ्यो ति प्रवुच्चति ।
न हि मुक्ताप्रवाडेहि भिक्षु भोति महाधनो ॥
शीलवां सुखसंवासो भिक्षु भोतु अहिंसको ।
न हि चीवरलाभेन व्रजते भिक्षु स्वर्गतिं ॥
शीलं शुचि निषेवित्वा वर्जति सर्व-अक्षणां ।
न ज्ञातिलाभं एषन्तं शास्ता भिक्षुं प्रशंसति ॥
शीले आभोगं कृत्वान स्वर्गो भोति न दुल्लभो ।
प्रियो मनापः सर्वेषां यत्र यत्रोपपद्यति ॥
शीलं रक्षेथ मेधावी प्रार्थयन्तो त्रयो सुखां ।
प्रशंसां चित्तलाभं च प्रेत्य स्वर्गे च मोदनं ॥
शीलं प्रावरणं श्रेष्ठं अलंकारं प्रभास्वरं ।
शीलेन शोभितो भिक्षुः ददन्तो न विहन्यति ॥
शीलेन परिशुद्धेन कायो भोति प्रभास्वरो ।
न चास्य जायते दाघो मरणे प्रत्युपस्थिते ॥
शीलेन परिशुद्धेन फलप्राप्तिर् न दुल्लभा ।
किम् अंग पुनः स्वर्गति लोकनाथं च पश्यति ॥
शीलेन शोभितो भिक्षुः परिशुद्धेन मार्दवो ।
न हि उच्चेन भाषेण भिक्षु भोति प्रशंसितो ॥
शीलवां च असन्त्रस्तो न सो भायति कदा च न ।
न कदाचिद् युतागसं गच्छति भूतदुर्गतिं ॥
[_म्वु_2.359_] शीलवां भोति अल्पार्थो अल्पकृत्यो गुणे रतो ।
समाधिं लभते क्षिप्रं स चापि प्रसादं गच्छति ॥
शीलस्कन्धेन गुप्तेन भिक्षु भोति विशारदो ।
न तस्य हन्यते चक्षुं पश्यित्वा जिनश्रावकां ॥
शीलं च भिक्षु शोधित्वा निवासं पुरिमं स्मरे ।
कल्पकोटीसहस्राणि संप्रजानप्रतिस्मृतो ॥
शीलस्य च स निष्यन्दो यं निरीक्षीय गच्छति ।

ब्रह्मलोकं महावीरो सर्वलोकस्य चेतियो ॥
शीलेन परिशुद्धेन दिव्यं चक्षु विशुध्यति ।
न तस्यागमनं भोति बुद्धक्षेत्रेषु सर्वशो ॥
शीलेन सुसमाप्तेन अप्रमेयतथागतः ।
च्युतोपपादं जानाति सर्वसत्वान नायको ॥
शीलवां विचरे लोके अप्रमत्तो प्रधानवां ।
न तस्य दुल्लभो भोति बुद्धघोषो मनोरमो ॥
शीलवां प्रियो सत्वानां भवति सर्वत्र पूजितो ।
सत्कृतो मानितश् चापि शुद्धचित्तो अनंगणो ॥
शीलेन परिशुद्धेन च्यवन्तं पश्यते नरः ।
विमानं रुचिरं श्रेष्ठं अप्सरोगणसेवितं ॥
शीलेन परिशुद्धेन च्यवन्तं पश्यते नरः ।
सुमेरुमूर्ध्ने रुचिरे त्रायस्त्रिशानमालये ॥
शीलेन परिशुद्धेन यामां पश्यति देवतां ।
तं चैव नगरं दिव्यं अप्सराहि परिस्फुटं ॥
[_म्वु_2.360_] शीलेन परिशुद्धेन तुषितां पश्यति देवतां ।
विमानां पश्यति तेषां विचित्रां रतनामयां ॥
शीलेन परिशुद्धेन निर्माणरतीं पश्यति ।
सुनिर्मितां देवपुत्रां पश्यति च स्वलंकृतां ॥
शीलेन परिशुद्धेन देवां पश्यति शोभनां ।
परनिर्मितवशवर्ती विमानेषु प्रतिष्ठिता ॥
शीलेन परिशुद्धेन पश्यते मारमालयं ।
मणिवितानसंछन्नं अप्सरोगणसेवितं ॥
शीले आभोगं कृत्वान ब्रह्मां पश्यति देवतां ।
जांबूनदविमानं च मणीहि प्रतिमण्डितं ॥
शीलवां पश्यते भिक्षु देवां च ब्रह्मकायिकां ।
ब्रह्मपुरोहितां देवां विमानेहि प्रतिष्ठितां ॥
शीलवां पश्यते भिक्षुर् विमानेषु प्रतिष्ठितां ।
ब्रह्मपार्षद्यां च देवां महाब्रह्मां च देवतां ॥
शीलस्कन्धेन सम्पन्नो आभां पश्यति देवतां ।
विशिष्टां पश्यते तेषां विमानां रतनामयां ॥
शीलवां पश्यते भिक्षुः शुभां देवा महर्द्धिकां ।
पश्यते शुभकृत्स्ना पि अप्रमाणाभां पश्यति ॥
शीलं विशुद्धं रक्षित्वा परीत्तशुभां पश्यति ।
देवपुत्रसहस्राणि रूपधातुप्रतिष्ठितां ॥
शीलेन परिशुद्धेन पश्यति च बृहत्फलां ।
तथा अवृहां अतपां पश्ये सुदृशां च सुदर्शना ।
[_म्वु_2.361_] शीलेन परिशुद्धेन शुद्धावासां पि पश्यति ॥
ये तत्र परिनिर्वायि वारिसिक्तो यथानलो ।
ते पि भिक्षू पश्यन्ति शीलं रक्षित्व शोभनं ॥

शीले अशवलः सदा अभूषि
पुरिमभवेषु विशिष्टलक्षमाणः ।
तेन दशबलं उपेति शास्तं
तस्य विरोचति काये लक्षणेहि ॥
शीले सदा समाधौ अप्रमत्तश् च
चरति जिनः पुरिमा अनन्तकल्पां ।
तेन भवति लोकधर्मस्वामी
गगणगतो यथा सूर्यो रस्मिराजो ॥
एवं शीलं परिशुद्धम् आचरित्वा
अपरिमितं तथा अनन्तकल्पं ।
सुगतो लंकृतः शोभते लक्षणेहि
मुखातो वाति गन्धं चन्दनस्य ॥
इमां गुणां सततं विपश्यमाना
जिनवरवर्णितं शीलं रक्षमाणाः ।
विहरथ पवने उदग्रचित्ता
मुनिवर पूजित येहि ते प्रणीता ॥
दृष्ट पुरिम बुद्ध सार्थवाहा
हतरजा सत्कृत पूजिता स्वयंभू ।
[_म्वु_2.362_] छन्दो जनितो बोधिये वराये
इमे गुणाः श्रुत्वा उदग्रा बोधिसत्वाः ॥
पुनर् अपरं भिक्षवो शीलपरिशुद्धः तथागतः समाधिपरिशुद्धः प्रज्ञापरिशुद्धः विमुक्तिपरिशुद्धः विमुक्तिज्ञानपरिशुद्धः क्षान्तिपरिशुद्धो भिक्षवः तथागतो सौरभ्यपरिशुद्धो पि भिक्षवः तथागतो मैत्रापरिशुद्धो भिक्षवः तथागतो करुणामुदितापरिशुद्धो पि भिक्षवो तथागतो ॥ एवं परिशुद्धस्य भिक्षो तथागतस्य यः सत्कारं कुर्यात् पुष्पमाल्यगन्धध्वजपताकाहि वाद्य-अनुलेपनेहि न तस्य पुण्यस्य शक्यं पर्यन्तम् अधिगन्तुं । नापि सो पुण्यस्कन्धं अन्तरेण शक्यं क्षपणाय अन्यत्र त्रीहि यानेहि अन्यतरान्यतरेण यानेन यावन् न परिनिर्वाणं तस्य पर्यन्तः ॥ तत् कस्य हेतोः ॥ यथा एवं हि भिक्षो तथागतो अप्रमाणः सर्वेहि गुणेहि तथा एवं भिक्षो तथागतो प्रतिष्ठापिता दक्षिणा अप्रमाणा अपर्यन्ता अचिन्तिया अतुलिया अमापिया अपरिमाणा अनभिलाप्या ॥ यश् च खलु पुनः भिक्षो तथागतम् एतरहि तिष्ठन्तं यापयन्तं सत्करेया गुरुकरेया मानेय पूजेया पुष्पेहि गन्धेहि माल्येहि छत्रेहि ध्वजेहि पताकाहि वाद्येहि धूपेहि विलेपनेहि अन्नपानयानवस्त्रेहि यश् च परिनिर्वृतस्य सर्षपफलमालम् अपि धातुं सत्करेया इत्य् एतं समसमं ॥
___अथ खलु भगवां ताये वेलाये इमां गाथाम् अभाषीत् ॥
बोधाय चित्तं नामेत्वा हिताय सर्वप्राणिनां ।
यस् स्तूपं लोकनाथस्य करोति अभिप्रदक्षिणं ॥
स्मृतीमन्तो मतीमन्तो पुण्यवन्तो विशारदो ।
भोति सर्वत्र जातिषु चरन्तो बोधिचारिकां ॥
[_म्वु_2.363_] देवनागान यक्षाणां राक्षसानां च पूजितो ।
भोति सर्वत्र जातीषु स्तूपं कृत्वा प्रदक्षिणं ॥
वर्जेति अक्षणां अष्टौ ये केचिद् देशिता मया ।
आरागेति क्षणं एकं बुद्धोत्पादं सुशोभनं ॥
वर्णरूपेण संपन्नो लक्षणेहि अलंकृतो ।
उपेतो वरवर्णेन अदीनमनमानसो ॥
आढ्यो महाधनो भोति पुण्यवन्तो अनीर्षुको ।
पश्यित्वा लोकप्रद्योतं सत्करोति पुनर् पुनः ॥
न सो मुह्यति धर्मेषु नैरात्म्यं दृष्ट्वा शून्यतां ।
प्रसादं लभते क्षिप्रं धर्मेण सो च कोविदो ॥
श्रेष्ठिकुलेषु आढ्येषु स्फीतेतु चोपपद्यति ।
अतिदानपतिः शूरो मुक्तात्यागो अमत्सरी ॥
ये केचिज् जंबूद्वीपस्मिं विशिष्टा कुलशोभनाः ।
तत्र सो जायते वीरो हीनां च परिवर्जयेत्* ॥

गृहपतिमहाशालो शिरितेजेन तेजितो ।
पूजितो भवति सर्वत्र स्तूपं कृत्वा प्रदक्षिणं ॥
ब्राह्मणमहाशालश् च प्रज्ञावन्तो बहुश्रुतो ।
क्षत्रियमहाशालश् च आढ्यो भोति महाधनो ॥
राजा पि धार्मिको भोति जंबूद्वीपस्मिं ईश्वरो ।
प्रशासति इमां च सर्वां मेदिनीं गिरिकुण्डलां ॥
चक्रवर्ती महर्द्धिकः सप्तरत्नान ईश्वरः ।
[_म्वु_2.364_] राज्ये प्रतिष्ठितो बुद्धं सत्करोति पुनर् पुनः ॥
च्युतश् च गच्छते स्वर्गं प्रसन्नो बुद्धशासने ।
शक्रो पि भोति देवेन्द्रो मेरुमूर्धनि ईश्वरो ॥
सुयामो भोति देवेन्द्रो भोति संतुषितो पि च ।
निर्मितो पि च देवेन्द्रो वशवर्ती च ईश्वरः ॥
ब्रह्मा पि ब्रह्मलोकस्मिं ईश्वरो भोति पण्डितो ।
सत्कृतो देवकोटीहि स्तूपं कृत्वा प्रदक्षिणं ॥
न शक्यं भाषणक्षपणं कल्पकोटिशतेहि पि ।
ये स्तूपं लोकनाथस्य करोन्ति अभिप्रदक्षिणं ॥
न जातु अन्धो काणो वा भोति कल्पान कोटिभिः ।
बोधाय चित्तं नामेत्वा यो वन्दे शास्तु चेतियं ॥
विशुद्धां लभते नेत्रां विशालां नीलशोभनां ।
चेतियं लोकनाथस्य कृत्वा अभिप्रदक्षिणं ॥
उपेतो बलवीर्येण न कौसीद्यं स गच्छति ।
अप्रमत्तो सदा भोति स्तूपं कृत्वा प्रदक्षिणं ॥
दृढवीर्यो दृढस्थामो धौरेयो दृढविक्रमो ।
कौशल्यं गच्छते क्षिप्रं स्तूपं कृत्वा प्रदक्षिणं ॥
अग्निविषेण शस्त्रेण न जातु कालं करोति च ।
कालं करोति पूर्णेन आयुःक्षीणेन पण्डितो ॥
विघुष्टो राजधानीषु राष्ट्रेषु निगमेषु च ।
रूपेण अर्थभोगेहि स्तूपं कृत्वा प्रदक्षिणं ॥
शुचिगात्रो शुचिवस्त्रः शुक्लधर्मप्रतिष्ठितो ।
ततो न सेवते कामां चरन्तो बोधिचारिकां ॥
[_म्वु_2.365_] पुष्पस्य मालां कृत्वान यः स्तूपे उपनिक्षिपे ।
चित्तं बोधाय नामेत्वा न सो जातु विहन्यति ॥
इतश् च्यवित्वा मृतो हि त्रायस्त्रिंशां स गच्छति ।
विमानं लभते क्षिप्रं विचित्रं रतनामयं ॥
कूटागारांश् च प्रासादां अप्सरोगणसेवितां ।
मालां स्तूपे दहित्वान त्रायस्त्रिंशेषु भुंजति ॥
अष्टांगवरसंपूर्णां सुवर्णवालुकसंस्तृतां ।
वैडूर्यस्फाटिकास्तीर्णां दिव्यां पुष्करिणीं लभे ॥
भुंजित्वा विभवां दिव्यां परिपूरेत्व पण्डितो ।
च्यवित्वा देवलोकातो मनुष्यो भोति भोगवां ॥

तेन च कुशलमूलेन आरागति तथागतं ।
पूजेति द्विपदश्रेष्ठां अप्रमत्तो विचक्षणो ॥
न सो जय्यति रागेन नापि दोषेण ह्रीयति ।
ना जातु भोति संमूढः पूजेत्वा द्विपदोत्तमं ॥
अरक्तश् च अदृष्टश् च अमूढः संवृतेन्द्रयः ।
भोति सर्वत्र जातीषु पूजेत्वा लोकनायकं ॥
जातीकोटीसहस्राणि शतानि नयुतानि च ।
सत्कृतो भोति सर्वत्र मालां दत्त्वान चेतिये ॥
चक्रवर्ती अपि राजा शक्रो पि भोति ईश्वरः ।
ब्रह्मा पि ब्रह्मलोकस्मिं मालां दत्त्वान चेतिये ॥
पट्टदामं ददित्वान लोकनाथस्य चेतिये ।
[_म्वु_2.366_] सर्वे स्य अर्था वर्तन्ति ये दिव्या ये च मानुषाः ॥
हीनां च कुलां वर्जेति न स तत्रोपपद्यति ।
आढ्यश् च धनवां भोति जम्बूद्वीपस्मिं ईश्वरो ॥
रूपेणाथ भोगेहि च वर्णेन अथ ऋद्धिया ।
विशिष्टो भोति सर्वत्र पूजां कृत्वा तथागते ॥
जातिस्मरश् च सो भोति न सो रागेन ह्रीयति ।
जानते दोषं कामानां ब्रह्मचर्यं समादिये ॥
रूपेहि अथ शब्देहि रसेहि अपराजितो ।
न करोति पापकं कर्म पूजेत्वा द्विपदोत्तमं ॥
गन्धेहि अथ स्पर्शेहि न जातु स च ह्रीयति ।
स्मृतिमां संप्रजानश् च भोति पूजेत्व नायकं ॥
न तस्य चौरा राजानो धनस्कन्धं परामृषे ।
अग्निर् वा अपस्करोति पूजां कृत्वा तथागते ॥
शोकं च शोकवैराग्यां न सो जातु निगच्छति ।
पट्टदामं ददित्वान पुष्पं च लोकनायके ॥
सर्वत्र भोति जातीषु अशोक अनुपद्रुतो ।
पूजेत्वा लोकप्रद्योतं चक्रवर्ती महर्द्धिको ॥
सुघट्टितहस्तपादो अंगशोभां निगच्छति ।
वर्णरूपेण संपन्नः पूजेत्वा लोकनायकं ॥
वर्जेति पापकं कर्म चरन्तो बोधिचारिकां ।
पश्यते द्विपदश्रेष्ठां ये लोकस्मिं सुदुर्लभा ॥
[_म्वु_2.367_] कल्पकोटीसहस्राणि शतानि नयुतानि च ।
भुंजित्वा सौख्यं सप्रज्ञो बुध्यते बोधिम् उत्तमां ॥
मालाविहारं कृत्वान लोकनाथस्य धातुषु ।
अभेद्यपरिवारेण राजा भोति महर्द्धिको ॥
वर्जेति पापकां धर्मा ये आर्येहि विवर्जिता ।
चरति कुशलां धर्मां ये बुद्धेहि प्रशंसिता ॥
प्रियश् च दयितो भोति सत्कृतश् च प्रशंसितो ।
देवानाम् अथ नागानां ये च लोकस्मिं पण्डिता ॥

मूल पाठ: Mahāvastu-avādana · Edition: Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)) · Data entry Emmanuel Fauré · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc