महावस्तु-अवादन · भाग 161180
गम्भीरं स्य तदाश्वासं कर्माराणां व गर्गरी ॥
सारदं वा यथालंबु हरितच्छिन्नमिलायितं ॥
एवं शीर्षं महर्षिस्य तपेन प्रमिलायितं ॥
शान्तकायो महावीरो अश्रुतं आत्मचेतसं ॥
उग्रं तपं निषेवते सर्वसत्वान कारणा ॥
न शक्यं च परिकीर्तयितुं सर्ववाचाय भाषतः ॥
यं दुष्करं चरे वीरो सत्वां दृष्ट्वान दुःखितान्* ॥
पक्षिर् वा च यथाकाशे पर्यन्तं नाधिगच्छति ॥
यथापि सागरे वारि अप्रमेयो महोदधिः ॥
एवं लोकप्रदीपानां बुद्धान् आदित्यबन्धुनां ॥
न शक्यं गुणपर्यन्तं सर्ववाचाय भाषितुं ॥
अनालिप्ता छवी तस्य पृष्ठीयम् उपलेपिता ॥
गात्रा च पतिता सर्वे न च वीर्यते संसति ॥
गृह्णीय पुरिमं कायं पृष्ठिमं परिगृह्णति ॥
यदा उत्थासि वेगेन सुखेन प्रपते मुनि ॥
चत्वारि देवता दृष्ट्वा कायं वीरस्य दुर्बलं ॥
आहन्सु मुनि कालगतो न च वीर्यतो सन्सति ॥
एवंरूपं तपम् उग्रं चरन्ते पुरुषोत्तमे ॥
विस्मयं लोक आपन्नो सदेवासुरमानुषो ॥
[_म्वु_2.233_] एतम् एवंरूपं उग्रतपं कुमारस्य श्रुत्वा राजा शुद्धोदनो आपृष्टपुरुषाणां सकाशातो महाप्रजापती च गौतमी यशोधरा च सर्वं च शाक्यराष्ट्रं उत्कण्ठिता । अपि च नाम कुमारो क्षेमेण तावद् उग्रातो तपातो व्युत्थितो येय ॥ यशोधराये पि एतद् अभूषि । न एतं मम साधु भवेय न प्रतिरूपं यम् अहं आर्यपुत्रेण दुःखितेन दुष्करं चरन्तेन तृणसंस्तरकेन लूहाहारेण अहम् इह राजकुले राजार्हाणि भोजनानि भुंजेयं राजारहाणि पानानि पिबेयं राजार्हाणि वस्त्राणि धारयेयं राजार्हाणि शय्यासनानि कल्पयेयं ॥ यं नूनाहं पि लूखं च आहारं आहरेयं प्राकृतानि च वस्त्राणि धारयेयं तृणसंस्तरे पि शय्यां कल्पयेयं ॥ सा दानि लूखं च आहारं आहरेसि प्राकृतानि पि वस्त्राणि धारयेसि तृणसंस्तरके पि शय्यां कल्पयेसि ॥
___यदा च भगवां प्रवृत्तप्रवरधर्मचक्रो राजगृहे विहरति अर्धत्रयोदशभिक्षुशतपरिवारितो तदा राज्ञा शुद्धोदनेन च्छन्दको च कालोदायी च राजगृहं प्रेषिता भगवतो दूता । अनुकम्पिता भगवता देवा मनुष्या च ज्ञातीं पि भगवान् अनुकंपतु । यं च भगवां वदेय्य तं करेथ ॥ ते पि कपिलवस्तुनो राजगृहम् अनुप्राप्ता भगवन्तं च उपसंक्रान्ता यं च राज्ञो शुद्धोदनस्य संदेशं सर्वस्य ज्ञातिवर्गस्य तं सर्वं भगवतो आरोचितं ॥ भगवां च कालज्ञो वेलज्ञो समयज्ञो कालं च वेलं च समयं च आगमयति जातिभूमिं गमनाये ॥ भगवां छन्दककालोदायीन् आमन्त्रयति ॥ प्रव्रजिष्यथ च्छन्दककालोदायी ॥ ते अवचंसु ॥ राज्ञा शुद्धोदनेन आणत्ता यं वो भगवां वदेय्य तं कुर्याथ ॥ यं च पश्यन्ति नाप्य् अत्र नापितो नापि काषायाणि
[_म्वु_2.234_] येहि प्रावृता प्रव्रजेयामः ते भगवन्तम् अनुवर्तन्ता आहन्सुः ॥ प्रव्रजिष्यामः भगवन्* ॥ ते दानि भगवता एहिभिक्षुकाय आभाष्टा ॥ एहथ भिक्षवः छन्दककालोदायी चरथ तथागते ब्रह्मचर्यं ॥ तेषां दानि भगवता एहिभिक्षुकाये आभाष्टानां यं किंचिद् गृहिलिंगं गृहिध्वजं गृहिगुप्ति गृहिकल्पं सर्वं समन्तरहितं त्रिचीवरा च प्रादुर्भूता सम्भृतं च पात्रं प्रकृतिस्वभावसंस्थिता च केशा ईर्यापथो च सानं संस्थिहे तद्यथापि नाम वर्षशतोपसम्पन्नानां भिक्षूणां एषा आयुष्मन्तानां छन्दककालोदायिनां प्रव्रज्या उपसम्पदा भिक्षुभावो ॥
___आयुष्मां उदायी भगवन्तम् आह ॥ भगवं यशोधरा भगवतो अनुव्रता भगवतो तपोवने दुष्करं चरन्तस्य यशोधरापि लूखं आहारम् आहरेसि प्राकृतानि च वस्त्राणि धारेसि राजारहाणि शय्यासनानि उत्सृज्य तृणसंस्तरके सेय्यां कल्पेसि ॥ भिक्षू भगवन्तं पृच्छन्ति ॥ कथं भगवं यशोधरा भगवतो अनुव्रता ॥ भगवान् आह ॥ न भिक्षवो एतरहिं एव यशोधरा मम अनुव्रता ॥ अन्यदापि यशोधरा मम अनुव्रता ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवं ॥ भगवान् आह ॥ अन्यदापि हि भिक्षवो ॥
___भूतपूर्वं भिक्षवो अतीतमध्वाने अन्यतरस्मिं अरण्यायतने शिरिप्रभो नाम मृगो प्रतिवसति प्रासादिको दर्शनीयो सुसंस्थितशरीरो रक्तेहि खुरेहि रक्तेहि पादेहि अंजितेहि अक्षीहि पंचशतमृगयूथं परिहरति ॥ तस्य दानि मृगराज्ञो अग्रमहिषी । सा तस्य प्रभावानुरक्ता अनुव्रता च ॥ तेन मृगेण मुहूर्तम् अपि विनाभावो न भवति ॥ अपरो च नीलको नाम लुब्धको । तेन तहिं अरण्यायतने मृगाणां
[_म्वु_2.235_] पाशा शोड्डिता ॥ सो शिरिप्रभो तेन महन्तेन मृगयूथेन संपरिवारितो तहिं अरण्यायतने चरमाणो बद्धो ॥ सर्वे च मृगा च मृगी च मृगराजं बद्धं दृष्ट्वा पलाना एका मृगी या तस्य मृगराज्ञो भक्तिमन्ता च अनुव्रता सा स्थिता न पलायति । सा च मृगी शिरिप्रभं गाथयाध्यभाषे ॥
विक्रमाहि शिरिप्रभा विक्रमाहि मृगाधिप ।
पुरा सो लुब्धको एति येन सो पाशो ओड्डितो ।
छिन्दे वारत्रकं पाशं न रमिष्यं त्वया विना ॥
अथ भिक्षवो शिरिप्रभो मृगराजा तां मृगीं गाथाय प्रत्यभाषे ॥
विक्रमामि न शक्नोमि भूमौ पतामि वेगितो ।
दृढो वारत्रको पाशो पादं मे परिकर्तति ॥
रमणीयान्य् अरण्यानि पर्वतानि वनानि च ।
रमिष्यसि तुवं भद्रे अन्येन पतिना सह ॥
अथ कह्लु भिक्षवः सा मृगी तं मृगराजं गाथाय प्रत्यभाषति ॥
रमणीयान्य् अरन्यानि पर्वतानि वनानि च ।
रमिष्याम्य् अहं त्वया सार्धं अपि अन्यासु जातिषु ॥
तेषां च विलपन्तानां श्रुत्वान च विक्रन्दतां ।
लुब्धको तत्र सो गच्छि पापकर्मा सुदारुणो ॥
सो दानि मृगराजा तं पश्यति लुब्धकं तदा दूरतो एव आगच्छन्तं कृष्णं पाण्डुरेहि
[_म्वु_2.236_] दन्तेहि रक्ताक्षं पुरुषादसमं नीलाम्बरधरं दृष्ट्वा च पुन तां मृगीं गाथाय प्रत्यभाषे ॥
अयं सो लुब्धको एति कृष्णो नीलाम्बरप्रावृतो ।
यो मे चर्मं च मान्सं च च्छिन्दित्वा मह्यं हनिष्यति ॥
तस्याविदूरे सा मृगी येन सो लुब्धको तेन प्रत्युद्गम्य तं लुब्धकं गाथाये अध्यभाषे ॥
संस्तराहि पलाशानि असिं आवृह लुब्धक ।
मम पूर्वं बधित्वान पश्चा हिंसि महामृगं ॥
अथ खलु भिक्षवो तस्य लुब्धकस्य एतद् अभूषि ॥ मम दूरतो एव मृगा दृष्ट्वा पलायन्ति अदर्शनं गच्छन्ति इयं पुनर् मृगी अतीव अनुत्त्रस्ता आत्मत्यागं कृत्वा अभिमुखी आगच्छति नैषा भायति नापि पलायति ॥ सो दानि लुब्धको तस्या मृगीये विनयं दृष्ट्वा विस्मित आश्चर्यं प्राप्तो । यादृशी इयं मृगी । अस्माकं न ते गुणाः ये एतेषां । न ते तिरिच्छा येषां इमं एदृशं गुणमाहात्म्यं एदृशा दृढचित्तता एदृशा कृतज्ञता एदृशा च अनुव्रतता मुखतुण्डकेन आहारं पर्येषन्तो वयं तिरिच्छा ये वयं एदृशं महात्मानं मृगं उपयाता नाम हेठां उत्पादेम । मा वहेष्यं एतं मृगं पाशतो ॥ सो दानि लुब्धको तां मृगीं गाथाये प्रत्यभाषति ॥
न मे श्रुतं वा दृष्टं वा यं मृगी भाषति मानुषं ॥
त्वं च भद्रे सुखी भोहि मुंचामि ते महामृगं ॥
तेन दानि लुब्धकेन सो शिरिप्रभो मृगराजा पाशबद्धो मुक्तो ॥ सा दानि मृगी तं
[_म्वु_2.237_] मृगराजं मुक्तं दृष्त्वा आत्तमना प्रमुदिता प्रीतिसौमनस्यजाता लुब्धकं गाथाये प्रत्यभाषे ॥
एवं लुब्धक नन्दाहि सह सर्वेहि ज्ञातिहि ॥
यथाहं अद्य नन्दामि दृष्ट्वा मुक्तं महामृगं ।
पूर्वेनिवासं भगवां पूर्वेजातिम् अनुस्मरन्* ।
जातकम् इदम् आख्यासि शास्ता भिक्षूणम् अन्तिके ॥
ते स्कन्धा ते च धातवः तानि आयतनानि च ।
आत्मानम् अधिकृत्य भगवान् एतम् अर्थं वियाकरे ॥
अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा ।
शिरिप्रभो अहं आसि मृगी आसि यशोधरा ॥
आनन्दो लुब्धको आसि एवं धारयथ जातकं ।
एवम् इमं अनुपरीतं बहुदुःखं
उच्चनीचचरितं इदं पुराणं ।
विगतज्वरो विगतभयो अशोको
स्वजातकं भाषति भिक्षुसंघमध्ये ॥
_____समाप्तं शिरिप्रभस्य मृगराजस्य जातकं ॥
अथ बोधिसत्वं दानि उरुविल्वायां तपोवने नद्या नैरंजनायास् तीरे दुष्करचारिकां चरन्तं मारो पापीयां उपसंक्रम्य वदयति ॥ किं प्रहाणेन करिष्यसि अगारमध्ये वस । राजा भविष्यसि चक्रवर्ति । महायज्ञानि च यजाहि अश्वमेधं पुरुषमेधं सोमप्रासं निरर्गडं पदुमं पुण्डरीकं च । एतानि यज्ञानि यजित्वा प्रेत्य स्वर्गेषु मोदिष्यसि बहु च पुण्यं प्रसविष्यसि । प्रहाणं च दुष्करं दुरभिसंभणं अनवद्यपुण्यपारिहाणि
[_म्वु_2.238_] ब्रह्मचर्यवासं ॥ बोधिसत्वो आह ॥ नाहं पापीमं पुण्येहि अर्थिको ।
रमणीयान्य् अरण्यानि वनगुल्मां च पश्यिय ।
उरुविल्वाय सामन्ते प्रहाणं प्रहितं मया ॥
परिक्राम्य व्यायमन्तं उत्तमार्थस्य प्राप्तये ।
नमुचि करुणां वाचं भाषमाण इहागमत्* ॥
कृशो त्वम् असि दुर्वर्णो सन्तिके मरणं तव ।
संहर महाप्रहाणं न आशा तुह्य जीविते ॥
जीवितं ते हितं श्रेष्ठं जीवन् पुण्यानि काहिसि ।
करोहि पुण्यानि तानि येन प्रेत्य न शोचसि ॥
चरन्तेन ब्रह्मचर्यं अग्निहोत्रं च जुहूता ।
अनन्तं जायते पुण्यं किं प्रहाणेन काहिसि ॥
दूरं आशा प्रहाणस्य दुष्करं दुरभिसंभुणं ।
इमां वाचां भणे मारो बोधिसत्वस्य सन्तिके ॥
तं तथा इदानिं मारं बोधिसत्वो ध्यभाषत ।
कृष्णबन्धु पापीमं नाहं पुण्यार्थिको इहागतः ॥
अणुमात्रैः पुण्यैः अर्थो मह्यं मार न विद्यति ।
येषां तु अर्थो पुण्येहि कथं तां मार न विद्यसि ॥
नाहं अमरो ति मन्यामि मरणान्तं हि जीवितं ।
अनिवर्तं गमिष्यामि ब्रह्मचर्यपरायणः ॥
[_म्वु_2.239_] नदीनाम् अपि श्रोतांसि अयं वातो व शोषयेत्* ।
किं मम प्रहितात्मस्य शोणितं नोपशोषये ॥
शरीरं उपशुष्यति पित्तं श्लेष्मं च वातजं ।
मान्सानि लोहितं चैव अवजीर्यतु सांप्रतं ॥
मान्सेहि क्षीयमाणेहि भूयो चित्तं प्रसीदति ।
भूयो स्मृति च वीर्यं च समाधि चावतिष्ठति ॥
तस्य चैवं विहरतो प्राप्तस्य उत्तमं पदं ।
नायम् अत्र क्षतं कायं पश्य सत्वस्य शुद्धतां ॥
अस्ति च्छन्दो च वीर्यं च प्रज्ञा च मम विद्यति ।
नाहं तं पश्यामि लोके यो प्रहाणातो वारये ॥
. . . . . . . . . . . . . . . . ।
एषो सज्जो प्राणहरो धिग्ग्राम्यं नो च जीवितं ॥
तस्मा स्मृतिमन्तो सन्तो संप्रजानो निरोपधिः ।
. . . . . . . . . . . . . . . . ॥
एषो हं च परं चित्तं भावयित्वान योधने ।
बलेन वनं भिन्दित्वा अनुष्ठेयम् अनुष्ठितो ॥
अहं बोधितरोर् अधस्तात्* अप्राप्ते अमृते पदे ।
दृष्ट्वा नमुचिनो सेनां सन्नद्धाम् उत्सृतध्वजां ॥
[_म्वु_2.240_] युद्धाय प्रतियास्यामि नाहं स्थानार्थम् उपाविशे ।
ताम् अहं निवर्तिष्यामि सेनां ते अनुपूर्वसः ॥
कामा ते प्रथमा सेना द्वितीया आरति वुच्चति ।
तृतीया क्षुत्पिपासा च चतुर्थी तृष्णा वुच्चति ॥
पंचमा स्त्यानमिद्धं ते षष्ठी भीरु प्रवुच्चति ।
सप्तमा विचिकित्सा ते मानार्थो भोति अष्टमा ।
लोभो ति श्लोको सत्कारो मिथ्यालब्धो च यो यशो ॥
एषा नमुचिनो सेना सन्नद्धा उच्छ्रितध्वजा ।
प्रगाढा अत्र दृश्यन्ते एके श्रमणब्राह्मणाः ॥
न ताम् अशूरो जयति जित्वा वा अनुशोचति ।
तां प्रज्ञाय ते भेत्स्यामि आमपात्रं व अम्बुना ॥
वशीकरित्वान ते शल्यं कृत्वा सूपस्थितां स्मृतं ।
आलब्धवीर्यो विहरन्तो विनेष्यं श्रावकां पि तु ॥
प्रमादम् अनुयुजन्ति बाला दुर्मेधिनो जना ।
गंसामि ते अकामस्य यत्र दुःखं निरुध्यति ॥
तस्य शोकपरीतस्य विनाशं गच्छि उच्छ्रिति ।
ततश् च सुर्मनो यक्षो तत्रैवान्तरहायिथा ॥
यथा बोधिसत्वो संप्रजानं मृषावादं भयभीतो संप्राजानमृषावादम् एव विजुगुप्सन्तो
[_म्वु_2.241_] अलम् इति च तां वेदतां प्रतिक्षिपित्वा अनुसुखं औदरिकम् आहारं अभ्यवहृतो ततो पंचका भद्रवर्गीया निर्विद्य प्रत्यवक्रान्ताः ॥ समाधितो विभ्रष्टो श्रमणो गौतमो शैथिलिको बाहुलिकं पुन औदरिकम् आहारम् अभ्यवहृतं ॥
___मारो पि पापीयां षड्वर्षाणि बोधिसत्वस्य दुष्करचर्यां चरन्तस्य पृष्ठतो पृष्ठतो समनुबद्धो अवतारार्थी अवतारं गवेषी ॥ सो पि बोधिसत्वस्य षड्वर्षाणि अनुबद्धन्तो अलभन्तो वतारं अलभन्तो आलम्बणं अलभन्तो अभिनिवेशनं निर्विद्य प्रत्यवक्रान्तो ॥
यन् तत्र तत्र मारो न प्रसहे मारुतो व हिमवन्तं ।
तं मृत्युराजप्रणुदं पूजयति सदेवको लोको ॥
भिक्षू भगवन्तम् आहंसुः ॥ मोक्षाभिप्रायेण भगवता दुष्करं चीर्णं ॥ भगवान् आह ॥ न भिक्षवो एतर्हि एव मये मोक्षाभिप्रायेण दुष्करं चीर्णं ॥ भिक्षू आहन्सुः ॥ अन्यदा अपि भगवं ॥ भगवान् आह ॥ अन्यदापि भिक्षवो ॥
___भूतपूर्वं भिक्षवो अतीतम् अध्वानं नगरे वाराणसी काशिजनपदे शाकुन्तिको शकुना निगृह्णीय अरण्यायतनेषु जालेहि च पाशेहि च पंजरेहि च उपरुध्य निवापेन पानीयेन च पोषिय वड्डवड्डानि कृत्वा इष्टेन अर्घेन विक्रीणति ॥ तहिं अपरो शकुन्तको गृह्णीयान पंजरे उपरुद्धो ॥ सो दानि शकुन्तको पण्डितजातिको पश्यति ये ते शकुन्तका पूर्वे प्रक्षिप्ता पंजरे निवापपुष्टा वड्डवड्डा ते जनेन क्रिणिय ततः पंजरेहि कड्ढियन्ति ॥ सो पश्यति सकुन्तको पण्डितजातिको । न एष अस्माकं शाकुन्तको हितकामताये निवापं वा पानीयं वा देति अर्थहेतोः एष अस्माकं निवापं वा उदकं वा देति यदा वड्डवड्डा भवेन्सुः ततो इष्टेन अर्घेन विक्रीयेन्सुः ।
[_म्वु_2.242_] तद् अहं तथा करिष्यामि यथा मे न कोचित् क्रीणिष्यति अधिकारं पि मे अलभमानो न कोचि गृह्णीष्यति ॥ तत्तकं आहारं करिष्यामि यथा नैवं वड्डीभविष्यामि न वा मरिष्यामि ॥ सो दानि तत्तकं आहारं परिभुंजति उदकं तत्तकं पिबति यथा नैव वड्डीभवति नापि मरति चापि ॥ पुरुषो शकुन्तकानां क्रयिको आगच्छति ॥ ततो सो शकुन्तको तस्य पंजरस्य द्वारस्य अग्रतो एवन् तिष्ठति ॥ सो शकुन्तक्रयिको पुरुषो हस्तं पंजरे प्रक्षिपित्वा तं शकुन्तकं परामृशति न च तंमान्सं हस्तेन गच्छति उत्तोलेति न च गुरुको ॥ ततः पंजरातो एकान्तेन कृत्वा अन्ये वड्डवड्डा शकुन्तका गुरुका ततो निलयं गृह्णति । तं शुष्कशकुन्तको ति ग्लानको ति कृत्वा न कोचि तं गृह्णाति ॥ सो पि शाकुन्तिको पश्यति । भवितव्यं स एष शकुन्तको ग्लानो ति यदा एषो ग्लानभूतो मुक्तो भविष्यति ततो निवापं च बहुतरक भुंजिष्यति उदकं च बहुतरकं पिबिष्यति । ततः वट्टीभूतो समानो विक्रास्यति ॥ मा एषो अन्यान् अपि शकुन्तकां ग्लानां करिष्यति संसर्गेन पंजरातो निष्कुट्टिय वाह्यतो पंजरस्य अत्तीयति पाटियेकं निपापं लभति पाटियेकं पानीयं लभति यं वेलं वट्टो भविष्यति ततो विक्रयिष्यतीति ॥
___सो पि पण्डितो शकुन्तको तस्य शाकुन्तकस्य विस्रम्भेसि । यं वेलं सो शाकुन्तिको तं पंजरद्वारं मुंचति शकुन्तकानाम् अर्थाये निवापस्य वा अर्थाये उदकस्य वा ततः सो शकुन्तको अप्य् अज्ञातो व तं पंजरं प्रविशति । यं वेलं सो परोक्षो भवति
[_म्वु_2.243_] ततो स्वयं तं पंजरं प्रविशति । यदापि पंजरकातो निष्क्रमितुकामः भवति ततो स्वयम् एव निर्धावति । तं न कोचि ग्लानको ति कृत्वा निवारेति ॥ सो दानि शकुन्तको तथा दुर्बलशरीरो यथा ततो पंजरातो अद्वारेणापि प्रविशति विनिष्क्रमति पि ते पि तं शकुन्तको ग्लानको ति कृत्वा उपेक्षन्ति ॥ सो दानि यं वेलं जानति स्म विश्वस्ता मम एते शाकुन्तिका ति बहुतरकं च निवापं चरति बहुतरकं च पानीयं पिबति याव शक्यं पलायितुं दूरं उड्डीयितुं ॥ सो दानि यं वेलं समुत्साहीभूतो अयं मे कालो पलायितुं ति सो तस्य पंजरस्य उत्तरिं स्थित्वा ताये वेलाये तेषां शकुन्तकानां पुरतो इमां गाथां अध्यभाषे ॥
नाचिन्तयन्तो पुरुषो विशेषम् अधिगच्छति ।
पश्य चिन्ताविशेषेण मुक्तो स्मि च स्वबन्धनात्* ॥
सो शकुन्तको एतां गाथां भाषित्वा ततो शाकुन्तिकस्य गृहातो उत्पत्तित्वा पुनः अरण्यं गतो ॥
___भगवान् आह ॥ स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन पण्डितजातिको शकुन्तको अभूषि । नैतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । अहं सो भिक्षवस् तेन कालेन तेन समयेन पण्डितजातिको शकुन्तको अभूषि ॥ अन्यो सो तेन कालेन तेन समयेन शाकुन्तिको अभूषि । नैतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एष भिक्षवो मारो पापीयां तेन कालेन तेन समयेन सो शाकुन्तिको अभूषि ॥ तदापि मया एतस्य मारस्य शाकुन्तिकस्य पंजरातो मोक्षाभिप्रायेण दुष्करं चीर्णं ॥
_____समाप्तं शकुन्तकजातकं ॥
[_म्वु_2.244_] भिक्षू भगवन्तम् आहन्सुः ॥ बुद्धिविशेषेण भगवान्* शकुन्तभूतो मारस्य हस्तगतो वशगतो पंजरगतो मुक्तो ॥ भगवान् आह ॥ अन्यदापि बुद्धिविशेषेण एतस्य मारस्य हस्तगतो वशगतो करण्डकगतो मुक्तो ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवं ॥ भगवान् आह ॥ अन्यदापि भिक्षवः ॥
___भूतपूर्वं भिक्षवो अतीतम् अध्वानं नगरे वाराणसी काशिजनपदे परिपात्रिका नाम नदी ॥ तस्या कूले अपरमालाकारस्य वनमालं । असौ दानि मालाकारो मालस्यैव तं वेलं वनमालम् आगत्वा पुष्पाणि उद्विचिय पुष्पकरण्डकम् आदाय मालाकारणातो निर्धावति ग्रामाभिमुखो च प्रस्थितो ॥ ततो च नदीतो कच्छपो उद्धरित्वा गोमयं भक्षयति तस्य मालाकारस्य अविदूरे ॥ सो तंमालाकारेण दृष्टो । तस्य एतद् अभूषि । शोभनो मम अयं अद्य कच्छपो ओलंको भविष्यति ॥ तेन दानि तं पुष्पकरण्डं एकान्ते स्थपिय सो कच्छपो गृहीतो ॥ सो तं तहिं पुष्पकरण्डे प्रक्षिपति । तं च सो कच्छपो मानुषिकाये वाचाये आह ॥ इमाहं कर्दमम्रक्षितो ततो मयेतं पुष्पं कर्दमेन विनाशिष्यति । अत्र मे उदके धोवित्वा करण्डे प्रक्षिप । तद् एते पुष्पा न विनास्यन्ति ॥ सो दानि मालाकारो पश्यति ॥ शोभनो खल्व् अयं कच्छपो गच्छामि तं अत्र उदके धोवामि । ततो एषा पुष्पाणि न विनाशिष्यन्ति कर्दमेन ॥ सो पैतृकविषये शुण्डिकापंचमानि अंगानि प्रसारेत्वा तस्य मालाकारहस्तातो भ्रष्टो ॥ तहिं उदके गाढो ताये नदीये अविदूरे तटम् उदेत्वा तं मालाकारं गाथाये ध्यभाषति ॥
[_म्वु_2.245_] निरामया पारिपात्रि कृषिकारणा च कूलेन शक्तितो ।
कर्दमकृतो स्मि मालिक धोविय पेलाय मां प्रक्षिप ॥
अथ खलु भिक्षवः स मालाकारो कच्छपं गाथाये प्रत्यभाषति ॥
बहुका मये संचितासु राज्ञा त्रिगणो बहुको समागतो ।
तत्र तुवं कच्छप करण्डे मालकृते रमिष्यसि ॥
अथ खलु भिक्षवः स कच्छपस् तं मालाकारं गाथाये अध्यभाषे ॥
बहुका तव संचितासु राज्ञा त्रिगणो बहुको समागतो ।
मत्तो प्रलपसि मालिक तैले भुंजथ भद्रकच्छपं ॥
भगवान् आह ॥ स्यात् खलु भिक्षवः पुनर् युष्माकं एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन भद्रकच्छपो अभूषि । नैतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । अहं सो भिक्षवः तेन कालेन तेन समयेन कच्छपो अभूषि ॥ अन्यः स तेन कालेन तेन समयेन मालाकारो अभूषि । न खल्व् एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एषो सो भिक्षवो मारो पापीयां तेन कालेन तेन समयेन सो मालाकारो अभूषि ॥ तदापि अहं एतस्य मालाकारस्य हस्तातो बुद्धिविशेषेण मुक्तो । एतरहिं पि अहं एतस्य मारस्य विषयातो बुद्धिविशेषेण मुक्तो ॥
_____समाप्तं कच्छपजातकं ॥
अपि च न भिक्षवः एतरहिं एव एतस्य विषयातो मुक्तो अन्यदाप्य् अहं एतस्य हस्तगतो
[_म्वु_2.246_] विषयातो प्रमुक्तो ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि भिक्षवः ॥
___भूतपूर्वं भिक्षवो अतीतमध्वाने समुद्रकूले महावनखण्डं नानावनषण्डेहि नानावार्णेहि वृक्षेहि पुष्पफलोपेतेहि उदुम्बरबहुलेहि उपशोभितं ॥ तहिं वानरो महान्तस्य वानरयूथस्य यूथपतिः ॥ सो तत्र वनषण्डे तेन वानरयूथेन सार्धं प्रतिवसति शान्ते प्रविविक्ते बहुमृगपक्षिशतेहि निषेविते निर्मनुष्यचरिते ॥ सो च वानराधिपो तहिं समुद्रकूले महान्ते उदुम्बरवनवृक्षे शाखापलाशबहुले उदुम्बराणि भक्षयति ॥ ततो च समुद्रातो महान्तो शुशुमारो तं प्रदेशम् आगतो ॥ स तत्र समुद्रतीरे आसति । तेन वानराधिपेन दृष्टो ॥ तस्य शुशुमारं दृष्ट्वा कारुण्यं संजातं । कुत्र व तेषां जलचराणां समुद्रमध्ये पुष्पो वा फलो वा । यं नूनम् अस्य इतो हं उदुम्बरफलानि ददेहं ॥ सो दानि तस्य ततो उदुम्बरवृक्षातो वड्डवड्डानि उदुम्बराणि पक्वानि वर्णसंपन्नानि रससंपन्नानि अग्रतो पातेति निपतितनिपतितानि च उदुम्बराणि भक्षयति ॥ एवं शुशुमारो पुनः पुनो तं प्रदेशं तस्य वानरस्य समीपं आगच्छति ॥ सो तस्य वानराधिपो आगतागतस्य वृक्षातो उदुम्बराणि पातेति ॥ ते दानि उभये वानरो च शुशुमारो च परस्परस्य प्रियमाणा संजाता ॥ तस्यापि दानि शुशुमारस्य भार्या तं स्वामिं अपश्यन्ती उत्कण्ठयति ॥ भवितव्यं मम स्वामिकेन अन्या शुशुमारी प्रगृहीता । ततः सो मम मूलातो गत्वा ताये सार्धं आसति ॥ सा दानि तं स्वामिकं पृच्छति ॥ कहिं त्वं मम मूलातो गत्वा आससि ॥ सो ताम् आह ॥ समुद्रतीरे अमुकस्मिं उद्देशे महावनखण्डे तत्र मम वानरो मित्रो
[_म्वु_2.247_] तेन सह आलापसंलापेन आसामि ॥ तस्या दानि शुशुमारीये एतद् अभूषि ॥ याव सो वानरो जीविष्यति तावद् एषो मम स्वामि तहिं गत्वा वानरेण सार्धं आलापेन आसिष्यति । ततो तं वानरं मारापेमि तेन च मारितेन एषो मे स्वामिको न भूयो तं प्रदेशं गमिष्यति ॥ सा दानि शुशुमारी ग्लानकं कृत्वा आसति ॥ सो तां शुशुमारो पृच्छति ॥ भद्रे किं ते कृत्यं किन् ते दुःखं किन् ते अभिप्रेतं आख्याहि किन् ति देमि आणपेहि ॥ सा नं आह ॥ आर्यपुत्र मर्कटहृदयस्य मे दोहलो । यदि मर्कटस्य हृदयं लभामि एवं जीवेयं अथ न लभामि नास्ति मे जीवितं ॥ सो नां आह ॥ प्रसादं करोहि कुतो इह समुद्रे मर्कटस्य प्रचारो यदि अन्यस्मिं अभिप्रायो जलचरे तव उपस्थपेमि ॥ सा दानि आह ॥ न मे अन्यत्र अभिप्रायो मर्कटहृदये अभिप्रायो तन् मे उपस्थपेसि यदि इच्छसि मे जीवन्तीं ॥ सो नां पुनः पुनो संज्ञपयति ॥ प्रसीदाहि भद्रे कुतो इह उदकमध्ये मर्कटो ॥ सा दानि ॥ यो सो तव समुद्रकूले मर्कटो वयस्यो स्य वयस्यस्य हृदयं आनेहि ॥ सो आह ॥ प्रसादं करोहि सो मर्कटो मम वयस्यो च मित्रो च कथं अहं शक्यामि तस्य हृदयम् उत्पाटयितुं ॥ सा दानि आह ॥ यदि न शक्नोसि मम मर्कटहृदयम् उपस्थपयितुं नास्ति मे जीवितं ॥ सो दानि शुशुमारो ताये शुशुमारीये सुष्टु उपग्रहीतो समानो आह ॥ अहं जलचरो सो च मर्कटो स्थलचरो च वनचरो च यत्र चरति तत्र मम अगति । तत् कथं अहं शक्यामि तस्य मर्कटस्य हृदयम् आनयितुं ॥ यथोक्तं पण्डितेहि ॥
शतं माया क्षत्रियाणां ब्राह्मणानां दुवे शते ॥
सहस्रं माया राजानां स्त्रीणां माया अनन्तिका इति ॥
[_म्वु_2.248_] सा दानि तस्य शुशुमारस्य आह ॥ एते वानरा फलभक्षा फललोला तस्य वानरस्य जल्पाहि । वयस्य एत्थ समुद्रपारे नानावर्णानि वृक्षाणि नानाप्रकाराणि पुष्पफलपिण्डभारभरितानि आम्राणि जम्बूनि च पनसानि भव्यानि च पालेवतानि च क्षीरकानि च तिन्दुकानि पिप्पलानि च । आगच्छ तत्र त्वां नेष्यं नानाप्रकाराणि फलानि परिभुंजिष्यसि । ततो यदा तव हस्तगतो भवेय ततो तं मारित्वा हृदयं आनेसि ॥ तेन दानि शुशुमारेण अभ्युपगतं ॥ आनेष्यन्तस्य मर्कटस्य हृदयं प्रीता भवाहि न भूयो उत्कण्ठं करोहि मा परितप्यासि ॥
___सो दानि शुशुमारो तां भार्यां च आश्वासेत्वा तं प्रदेशं गतो यहिं सो वनषण्डे वानराधिपो प्रतिवसति ॥ सो दानि तेन वानराधिपेन शुशुमारो दृष्टो । सो दानि वानरो तं दृष्ट्वा शुशुमारं प्रतिमोदित्वा पृच्छति ॥ वयस्य किं दानि सुचिरेण आगतो अस्माकम् अवलोकयितुं किं क्षेमं मा वा किंचित्* शरीरपीडा आसि ॥ सो दानि आह ॥ वयस्य क्षेमं च न च किंचि शरीरपीडा आसि अपि मे समुद्रपारं गत्वा आगत्वा ॥ सो तं पृच्छति कीदृशं समुद्रपारं भवति ॥ शुशुमार आह ॥ वयस्य रमणीयं समुद्रपारं नानाप्रकारेहि वृक्षसहस्रेहि पुण्यफलोपेतेहि उपशोभितं आम्रेहि च जंबूहि च पनसेहि च भव्येहि च पालेवतेहि उपशोभितं मातुलुंगेहि तिन्दुकेहि च पियालेहि च मधुकेहि च क्षीरिकेहि च अन्येहि च फलजातीहि येषाम् इह प्रचारो नास्ति । यदि तव अभिप्रायो आगच्छ नानाप्रकाराणि फलानि परिभोक्तुं तहिं गम्यते ॥ तस्य दानि वानरस्य फलभुक्तस्य फललोलस्य नानाप्रकाराणि फलानि श्रुत्वा तहिं समुद्रपारे गमनबुद्धी उत्पन्ना ॥ सो दानि तं शुशुमारम् आह ॥
[_म्वु_2.249_] स्थलचरो कथं शक्येया समुद्रपारं गन्तुं ॥ शुशुमारो आह ॥ अहं ते नेष्यामि मम इह ग्रीवायाम् आरुह्य उपशेहि उभयेहि च हस्तेहि कर्करीय लग्नेहि ॥ सो दानि वानरो आह ॥ एवं भवतु गच्छामि यदि मनेसि ॥ सो दानि शुशुमारो आह ॥ ओतराहि अहं ते नेमि ॥ सो दानि वानरो उदुम्बरातो ओतरित्वा तस्य शुशुमारस्य ग्रीवायाम् आरुह्य उभयेहि हस्तेहि कर्करीय लग्नो ॥ सो दानि शुशुमारो तं वानरं गृहीत्वा समुद्रं प्रतीर्णो नातिदूरे समुद्रस्य तं वानरं उदके चालेति ॥ सो तं वानरो आह ॥ वयस्य किं दानि मे उदके चालेसि ॥ सो नं आह ॥ वयस्य न जानासि कस्यार्थाय मया त्वम् आनीतो । तस्य मे वयस्यीये मर्कटहृदयस्य दोहलो । ततो मर्कटस्य हृदयस्यार्थाय त्वं मया आनीतो । सा मे वयस्य भार्या तव हृदयं खादिष्यति । एवं त्वं मया आनीतो ॥ सो दानि वानरो आह ॥ वयस्य मम हृदयो उदुम्बरे उत्कण्ठितो स्थपितो यथा लहुकतरो समुद्रं तरेयं न च अतिभारो भवेयाति । तद् यदि ते अवश्यं मर्कटहृदयेन कार्यं ततो निवर्ताम ततो उदुम्बरातो तं मर्कटहृदयं ओतारियान दास्यामि ॥ तस्य दानि मर्कटस्य यथाजल्पन्तस्य तेन शुशुमारेण पत्तीयितं ॥ सो दानि शुशुमारो तं गृह्णीय तहिं प्रतिनिवृत्तो क्षणान्तरेण तं वनखण्डप्रत्युद्देशम् अनुप्राप्तो ॥ ततो वानरो तस्य शुशुमारस्य ग्रीवातो उप्फारित्वा तं उदुम्बरं प्रक्रान्तो ॥ सो दानि शुशुमारो आह ॥ वयस्य ओतराहि एतं अतो उदुम्बरातो हृदयं गृह्णीय ॥ अथ खलु भिक्षवः सो वानरो तं शुशुमारं गाथाभिर् अध्यभाषे ॥
वट्टो च वृद्धो च होसि प्रज्ञा च ते न विद्यते ।
न तुवं बाल जानासि नास्ति अहृदयो क्वचि ॥
[_म्वु_2.250_] प्रत्युत्पन्नेषु कार्येषु गुह्यम् अर्थं न प्रकाशयेत्* ।
लभन्ति पण्डिता बुद्धिं जलमध्ये व वानरः ॥
अलम् एतेहि आम्रेहि जंबूहि पनसेहि च ।
यानि पारे समुद्रस्य अयं पक्वो उदुम्बरो ॥
भगवान् आह ॥ स्यात् खलु भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन समुद्रतीरे वनषण्डनिवासी वानरो अभूषि । न खल्व् एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । अहं सो भिक्षवः तेन कालेन तेन समयेन समुद्रतीरे वनषण्डनिवासी वानरो अभूषि ॥ अन्यः स तेन कालेन तेन समयेन महासमुद्रे शुशुमारो अभूषि । (न खल्व् एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एषो सो मारो पापीयां तेन कालेन तेन समयेन महासमुद्रे शुशुमारो अभूषि) ॥ तदाप्य् अहं एतस्य हस्तगतो वशगतो बुद्धविशेषेण विषयातो अतिक्रान्तो एतरहिं पि एतस्य अहं मारस्य पापीमतो विषयातो अतिक्रान्तो ॥
_____समाप्तं मर्कटजातकं ॥
भिक्षू भगवन्तम् आहन्सुः ॥ पश्य भगवन् कथम् अयं मारो पापीमां भगवतो तपोवने दुष्करचारिकां चरन्तस्य पृष्ठतो अनुबद्धो ओतारार्थी ओतारगवेषी अलभन्तो च ओतारं निर्विद्य प्रत्यवक्रान्तो ॥ भगवान् आह ॥ न भिक्षवः एतरहिं एव एषो मारो पापीमां पृष्ठतो नुपृष्ठतो समनुबद्धो ओतारार्थी ओतारगवेषी अलभन्तो च ओतारं निर्विद्य प्रत्यवक्रान्तो ॥ भिक्षू भगवन्तम् आहन्सुः ॥ अन्यदापि हि भगवं ॥ भगवान् आह ॥ अन्यदापि भिक्षवो ॥
___भूतपूर्वं भिक्षवो अतीतम् अध्वानं नगरे वाराणसी काशिजनपदे शाकुन्तिकेन
[_म्वु_2.251_] अरण्यायतने शकुन्तकानाम् अर्थाये कालपाशा ओड्डिता निवापो प्रकीर्णो । ततः एकान्तं गत्वा तेषां पाशानां दर्शनपथे आसति ॥ तहिं च अपरो शकुन्तको पण्डितजातिको अरण्यायतने महान्तं शकुन्तकयूथं परिहरति ॥ तस्य शकुन्तस्य यूथपतिस्य बुद्धिविशेषेण तं शकुन्तकयूथं वर्धति न परिहीयति । स तेषां शकुन्तकानां परिरक्षति साकुन्तकानाम् अपि मूलातो चाण्डालकानाम् अपि मूलातो मृगलुब्धकानाम् अपि मूलातो विडालक्रोष्टुकानाम् अपि मूलातो नकुलानाम् अपि भंगकुलानाम् अपि ॥ सो दानि साकुन्तिकेन विगतेन शकुन्तकयूथेन सार्धं तहिं अरण्यायतने विहरन्तो तहिं उद्देशे अनुप्राप्तो यत्र तेन शाकुन्तिकेन तानि कालपाशानि ओड्डितानि तं च निवापं प्रकीर्णं ॥ तेहि शकुन्तेहि तहिं उद्देशे चरमाणेहि तिलतण्डुलकोद्रवश्यामानां गन्धं घ्रायितं ॥ ते दानि तस्य निवापस्य तं गन्धं घ्रायित्वा इतः इतो निरीक्षन्तेहि दृष्टं तं निवापं {सेनर्त्: विवापं} तहिं पि उद्देशे सानं परिसमन्ते दृष्टं ॥ ते तं यूथपतिं शकुन्ता आमन्त्रयन्ति ॥ यूथपति अत्र उद्देशे तिलतण्डुलानि च कोद्रवश्यामाकानि गच्छाम परिभुंजाम ॥ सो शकुन्तो तेषां शकुन्तकानाम् आह ॥ मा गच्छिष्यथ अयं अरण्यायतनं न इह निवापं तण्डुलानां कोद्रवश्यामाकानां वा प्रवृद्धि अथ क्षेत्रेषु एतानि चान्यजातानि भवन्ति तेषां केषांचित्* न अरण्यायतने । नूनं अत्र देशे शाकुन्तिकेहि शकुन्तानाम् अर्थाय कालपाशो ओड्डितो निवापो च प्रकीर्णं मा अत्र अल्लीयिष्यथ । येन अहं चरामि उद्देशेन तेन तेनापि चरथ ॥ तेन साकुन्तिकेन तं महान्तं शकुन्तयूथं तहिं अरण्यायतने उपलक्षितो । ततो सो शाकुन्तिको दिवसे अन्यमन्येहि प्रत्युद्देशेहि ॥ येहि प्रत्युद्देशेहि तेषां शकुन्तकानां गमनो प्रविचारो तेहि उद्देशेहि दिवसे तानि कालपाशानि ओड्डितानि
[_म्वु_2.252_] निवापानि च प्रकिरेति । समन्तेन च यूथपति शकुन्तो तेषां शकुन्तानां तेहि तेहि प्रत्युद्देशेहि ततो कालपासेहि विवापा च वारेति ॥ एवं कालपाशोकासा गच्छन्ति ॥
___तस्य शाकुन्तिकस्य तत्र अरण्यायतते तस्य शकुन्तयूथस्य गोचरे शकुन्तानां निवापार्थाय खिद्यन्तस्य बुभुक्षाये पिपासाये पि सन्तप्तस्य एवं भवति । इदानि बन्धिष्यन्ति मुहूर्ते बन्धिष्यन्ति एते शकुन्ता एतेहि पाशेहि अल्लीयन्तीति ॥ ते नं शकुन्ता यूथपतस्य पृष्ठतो तेषां कालपाशानां परिसामन्तेन चरन्ति तच् च निवापं पश्यन्ति न च निवापपाशभूमिं आक्रमन्ति सर्वकालं चरन्तो कालपाशेहि निवापातो च आत्मानं रक्षन्ति ॥ शाकुन्तिको पि एको ततो पश्यति तां शकुन्तकां तेषां कालपाशानां परिसामन्तेन चरन्ता एवं च तस्य भवति । एते अल्लीयन्ति विकालं एते बन्धिष्यन्ति इदानि बन्धिष्यन्ति मुहूर्ते बन्धिष्यन्ति ॥ एवं शाकुन्तिको तहिं अरण्यायतने तस्य शाकुन्तयूथस्य गोचरातो दिवसे दिवसे बुभुक्षाये च पिपासाय च सन्तप्तो शुष्केन मुखेन स्फुटितेहि ओष्ठेहि शीतकालेन शितेन दह्यन्तो उष्णकालेन उष्णेन पच्यन्तो वातातपेन दह्यन्तो खिज्जित्वा नित्यं विकालं क्षणितेन हस्तेन गृहं गच्छति हतो भवति ॥
___स तु शकुन्तयूथं दृष्ट्वा अखिज्जन्तं नित्यं तस्य शकुन्तयूथस्य गोचरे आगत्वा कालपाशानि च ओड्डेति निवापानि च प्रकिरेति ॥ सो दानि ग्रीष्माणां पश्चिमे मासे तहिं अरण्यायतनं गत्वा तस्य शकुन्तयूथस्य गोचरे पुनः कालपाशे ओड्डित्वा
[_म्वु_2.253_] निवापानि च प्रकिरित्वा एकान्तं गत्वा कालपाशदर्शनपथे आसति ॥ सो च शकुन्तो यूथपति शकुन्तयूथं परिहरन्तो तेन महन्तेन शकुन्तयूथेन सार्धं तेषां कालपाशानां निवापस्य च परिसमन्तेन चरति ॥ शकुन्तका भूयो तानि तिलतण्डुलानि पुनो पुनः पश्यन्ति दृष्ट्वा दृष्ट्वा तं यूथपतिं आपृच्छन्ति ॥ इमानि तिलतण्डुलानि चरेम ॥ यूथपति जल्पति ॥ मा अत्र अल्लीष्यथ कुतो इह अरण्यायतने तिलानां वा तण्डुलानां वा प्रवृद्धि क्षेत्रेहि व तिलानि भवन्ति केदारेहि न शालिव्रीहितण्डुलानि भवन्ति अन्यानि च धान्यजातानि । मा अल्लीष्यथ अपक्रमथ इमातो उद्देशातो ॥ सो पि दानि शकुन्तिको पश्यति ॥ एवं चिरं कालं मम इह अरण्यायतने एतेषां शकुन्तानाम् अर्थाये खिज्जन्तस्य कालपाशानि च ओड्डेन्तस्य निवापानि प्रकिरेन्तस्य अल्पस्मिं एतस्मिं अरण्यायतनोद्देशे एवं चरकालं विस्तीर्णो यत्र मया कालपाशानि च ओड्डितानि निवापानि च प्रकीर्णा न च कदाचिद् एते शकुन्तका अत्र कालपाशेषु अल्लीयन्ति निवापानि वा चरन्ति ॥ बहूनि वर्षाणि खिज्जन्तस्य शीतकाले शीतेन दह्यन्तस्य उष्णकाले उष्णेन पच्यन्तस्य वातातपेहि च हन्यन्तस्य बुभुक्षाये पिपासाये शुष्यन्तस्य मम न कदाचि एत्तकेहि वर्षेहि परिभ्रममाणस्य एवं महन्ततो शकुन्तयूथातो एको पि शकुन्तको हि हस्तम् आगतो ॥ को उपायो भवेया येनाहम् एतां शकुन्तकान् तेहि कालपाशेहि बन्धेयं ॥ तस्य एतद् अभूषि ॥ यन् नूनाहं पत्रशाखेहि परिवेठित्वा एतं शकुन्तकयूथं येन एते कालपाशा तेन आकालेयं ॥
___अथ खलु भिक्षवः सो शाकुन्तिको ग्रीष्माणां पश्चिमे मासे ग्रीष्मिकेहि वातातपेहि
[_म्वु_2.254_] सन्तप्यन्तो क्षुत्पिपासापरिगतो पत्रशाखेहि आत्मानं परिवेष्टयित्वा तं महान्तं यूथं येन ते कालपाशा तेन संपरिकालेति ॥ अथ खलु भिक्षवो ते शकुन्तका तं शाखान्तिकं वृक्षशाखेहि संपरिवेठितं अतिदूरेण परिसक्कन्तं दृष्ट्वा यूथपतिं आमन्त्रयेन्सुः ॥ यूथपति एष वृक्षो इमस्य शकुन्तयूथस्य वाहिरवाहिरेण गच्छति ॥ एवं स भिक्षवः यूथपति शकुन्तको तां शकुन्तां गाथाये अध्यभाषे ॥
दृष्टा मया वने वृक्षा अश्चकर्णा विभीतका ।
एवं च कर्णिकारा पि मुचिलिन्दा च केतका ॥
तिष्ठन्ते ते वने जाता अथायं गच्छते द्रुमो ।
नायं केवलको वृक्षो अस्ति तत्रैव किंचन ॥
अथ खलु भिक्षवः सो शाकुन्तिको ग्रीष्माणां पश्चिमे मासे ग्रीष्मिकेहि वातातपेहि संतप्तो खिन्नो भग्नो मथितो ताये वेलाये गाथाम् अध्यभाषि ॥
पुराणतित्तिरिको यं भित्त्वा पंजरम् आगतो ।
कुशलो कालपाशानां क्रमापक्रमन्ति भाषति ॥
भगवान् आह ॥ स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन तेषां शकुन्तकानां यूथपतिः परिकड्ढको पण्डितजातिको शकुन्तको अभूषि । नैतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । अहं भिक्षवस् तेन कालेन तेन समयेन शकुन्तयूथपति परिकड्ढको पण्डितजातिको शकुन्तको अभूषि ॥ अन्यो सो शाकुन्तिको अभूषि । नैतद् एवं द्रष्टव्यं ॥ एष भिक्षवो मारो पापीमां तेन कालेन तेन समयेन
[_म्वु_2.255_] शाकुन्तिको अभूषि ॥ तदापि एषो मम कालपाशानि च जालानि च निवापानि च ओड्डित्वा चिरं कालं पृष्ठिमेन पृष्ठिमं समनुबद्धो अवतारार्थी अवतारं गवेषी अलभन्तो च अवतारं निर्वद्य प्रत्यवक्रान्तो । एतरहिं पि एष मम षड्वर्षाणि तपोवने दुष्करं चरन्तस्य पृष्ठिमेन पृष्ठिमं समनुबद्धो अवतारार्थी अवतारगवेषी अलभन्तो अवतारं निर्विद्य प्रत्यवक्रान्तो ॥
_____समाप्तं शकुन्तकजातकं ॥
भिक्षू भगवन्तम् आहन्सुः ॥ भगवता सुभाषितस्य अर्थाये मान्सशोणितं परित्यक्तं ॥ भगवान् आह ॥ न भिक्षवो एतरहिं एव सुभाषितस्य अर्थाये मान्सशोणितं परित्यक्तं । अन्यदापि मये सुभाषितस्यार्थाये मान्सशोणितं परित्यक्तं ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि भिक्षवः ॥
___भूतपूर्वं भिक्षवो अतीतम् अध्वानं अनुहिमवन्ते सुरूपो नाम हरिणो प्रतिवसति प्रासादिको रमणियो मनोरमशरीरो रक्तेहि खुरेहि रक्तेहि शृंगेहि अंजितेहि अक्षीहि चित्रोपचित्रेण कायेन महान्तं मृगयूथं परिहरति पण्डितो बुद्धिमन्तो सुकशलमूलपुण्य-उपस्तब्धो ॥ तस्य मृगस्य पुण्योपचयेन तं सर्वं मृगयूथं सुखितं नानाप्रकाराणि भोजनानि चरमाणा शीतलानि च पानीयानि पिबमाना तहिं अनुहिमवन्ते प्रतिवसति अभीता अनुत्त्रस्ता न केनचित्* शक्यं विहेठयितुं मनुष्येण वा व्याडमृगेन वा परिणायकसंपन्ना ॥ शीतकाले उष्णप्रदेशेहि तं मृगयूथं परिकड्ढति उष्णकाले शीतेहि वनषण्डेहि तं मृगयूथं परिकड्ढति प्रियो देवानां नागानां यक्षाणां
[_म्वु_2.256_] किन्नराणां वनदेवानां मृगानां तथान्येषां पि भूतानां ॥ अथ खलु भिक्षवः शक्रो देवानाम् इन्द्रो तं मृगं जिज्ञासनार्थं लुब्धकवासम् आत्मानम् अभिनिर्मिणित्वा येन सो सुरूपो मृगराजा तेनोपसंक्रमित्वा तं मृगराजम् आह ॥ मम सुभाषिता गाथा अस्ति यदि आत्ममान्सं परित्यजासि ततो गाथां श्रवयिष्यामि ॥ सो मृगराजा तस्य लुब्धकस्य वचनं श्रुत्वा प्रीतो संवृत्तो यदि चाहं इमेन विनाशधर्मेण सुभाषितं शृणोमि महतानुग्रहेण अनुग्रहीतो भवामि ॥ सो दानि मृगराजा तं मृगलुब्धकं आह ॥ परित्यजामि आत्ममान्सं सुभाषितस्य अर्थाये श्रावेहि मे सुभाषितं शीघ्रं अविघ्नेन ॥ शक्रो देवानाम् इन्द्रो मृगराजस्य ताये धर्मगौरवताये प्रीतो संवृत्तो ॥ सो तं आह ॥ वरं एवंरूपाणां एव सत्पुरुषाणां पादपान्सुरजो न सौवर्णो पर्वतो । सत्पुरुषाणां पादपान्सुरजो शोकहानाय संवर्तति सुवर्णपर्वतो पि शोकवृद्धिये संवर्तति । शक्रो देवानाम् इन्द्रो मृगराजस्य जिज्ञासनं कृत्वा तत्रैवान्तरहायि ॥
सुरूपं नाम हरिणं लुब्धको एतद् अब्रवीत्* ।
अस्ति सुभाषितगाथा मान्सं देहि शृणोहि मे ॥
यदि विनाशधर्मेण मान्सेनाहं सुभाषितं ।
शृणोमि मान्सं ते देमि शीघ्रं ब्रूहि सुभाषितं ॥
लुब्धको आह ॥
सतां पादरजः श्रेयो न गिरि कांचनामयं ।
सो रजो शोकहानाय स गिरि शोकवर्धनः ॥
भगवान् आह ॥ स्यात् खलु पुनः भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन अनुहिमवन्ते सुरूपो नाम मृगयूथपति परिकड्ढको धर्मिको मृग अभूषि ।
[_म्वु_2.257_] नैतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । अहं सो भिक्षवः तेन कालेन तेन समयेन अनहिमवन्ते मृगयूथपति परिकड्ढको सुरूपो नाम धर्मिको मृगराजा अभूषि ॥ तदा मये सुभाषितस्यार्थाये मान्सशोणितं परित्यक्तं एतरहिं पि मये सुभाषितस्यार्थाये मान्सशोणितं परित्यक्तं ॥
_____सुरूपस्य मृगराज्ञो जातकं समाप्तं ॥
एवं मया श्रुतं एकस्मिं समये भगवान् राजगृहे विहरति गृद्धकूटे पर्वते महता भिक्षुसंघेन सार्धं पंचहि भिक्षुशतेहि ॥ अथ खलु नन्दो च देवपुत्रो सुनन्दो च देवपुत्रो सुमनो च देवपुत्रो ईश्वरो च देवपुत्रो महेश्वरो च देवपुत्रो एते चान्ये च संबहुला शुद्धावासकायिका देवपुत्रा अभिक्रान्तवर्णा अतिक्रान्ताये रात्रीये केवलकल्पं गृद्धकूटं पर्वतं वर्णेनावभासयित्वा येन भगवान्स् तेनोपसंक्रमित्वा भगवतः पादौ शिरसा वन्दित्वा एकमन्ते अस्थासि सगौरवा सप्रतीसा एकांशीकृता प्रांजलिकृता भगवन्तम् एव नमस्यमाना ॥ एकान्तसंस्थितस्य नन्दस्य देवपुत्रस्य अयम् एवरूपो चेतसो परिवितर्को उदपादि ॥ इमं अवलोकितं नाम व्याकरणं पुरिमकेहि तथागतेहि अर्हन्तेहि सम्यक्संबुद्धेहि भाषितं च भाषितपूर्वं च साधु भगवां पि एतरहिं भिक्षूणां भाषे ॥ भगव्तो संमुखं प्रतिश्रुत्वा संमुखं प्रतिगृहीतं तथत्वाय धारयिष्यन्ति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ अधिवासेति भगवान् नन्दस्य देवपुत्रस्य तूष्णीभावेन अनुकम्पाम् उपादाय ॥ अथ खलु नन्दो च देवपुत्रो सुनन्दो च देवपुत्रो सुमनो च
[_म्वु_2.258_] देवपुत्रो ईश्वरो च देवपुत्रो महेश्वरो च देवपुत्रो भगवतो तूष्णीभावेनाधिवासनां विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिष्कृत्यो प्रदक्षिणीकृत्वा तत्रैवान्तरहायेन्सुः ॥
___अथ खलु भगवान् तस्यैव रात्र्या अत्ययेन येन संबहुला भिक्षवः तेनोपसंक्रमित्वा प्रज्ञप्त एवासने निषीदि ॥ निषद्य खलु भगवान् तां भिक्षून् आमन्त्रयति ॥ दोषा भिक्षवः नन्दो च देवपुत्रो सुनन्दो च देवपुत्रो सुमनश् च देवपुत्रो ईश्वरो च देवपुत्रो महेश्वरो च देवपुत्रो अभिक्रान्तवर्णा अतिक्रान्तायां रात्र्यायां केवलकल्पं गृध्रकूटं पर्वतं वर्णेनावभासयित्वा येन तथागतस् तेनोपसंक्रमित्वा तथागतस्य पादौ शिरसा विन्दत्वा एकमन्ते अस्थासि सगौरवा सप्रतीशा एकांशीकृता तथागतम् एव नमस्यमाना ॥ एकान्तस्थितस्य भिक्षवो नन्दस्य देवपुत्रस्य अयम् एवरूपो चेतसो परिवितर्को उदपासि ॥ अयं अवलोकितं नाम व्याकरणं पुरिमकेहि तथागतेहि अर्हन्तेहि सम्यक्संबुद्धेहि भाषितं च भषितपूर्वं च ॥ अथ खलु भिक्षवः नन्दो च देवपुत्रो तथागतम् एतद् अवोचत्* ॥ अयं भगवन्* अवलोकितं नाम व्याकरणं पुरिमकेहि तथागतेहि अर्हन्तेहि सम्यक्संबुद्धेहि भाषितं च भाषितपूर्वं च ॥ साधु भगवां पि एतरहिं भिक्षुणां भाषेया । भिक्षू भगवतः संमुखं श्रुत्वा तथत्वाय धारयिष्यन्ति । तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ अधिवासेति भिक्षवः तथागतो नन्दस्य देवपुत्रस्य तूष्णीभावेनानुकम्पाम् उपादाय ॥ अथ खलु भिक्षवो नन्दो च देवपुत्रो सुनन्दो च देवपुत्रो सुमनो च देवपुत्रो ईश्वरो च देवपुत्रो महेश्वरो च देवपुत्रो तथागतस्य तूष्णीभावेनाधिवासनां विदित्वा हृष्टतुष्टा आत्तमना प्रमुदिता प्रीता सौमनस्यजाता
[_म्वु_2.259_] तथागतस्य पादौ शिरसा वन्दित्वा तथागतम् एव च त्रिष्कृत्यो प्रदक्षिणीकृत्वा तत्रैवान्तरहायेन्सुः ॥ तत्र ते भिक्षू भगवन्तम् एतद् अवोचत्* ॥ साधु भगवान् भिक्षूणाम् एतम् अर्थं भाषे भिक्षू भगवतः संमुखं श्रुत्वा प्रतिगृहीत्वा तथत्वाय धारयिष्यन्ति ॥ एवम् उक्ते भगवान् तां भिक्षून् एतद् अवोचत्* ॥ अवलोकितं भो भिक्षवो व्याकरणन् तं शृणोथ साधु भो शृणोथ मनसिकरोथ भाषिष्यामि च ॥ साधु भगवन्* इति ते भिक्षू भगवतः प्रत्यश्रोषीत्* ॥ भगवां सो तां एतद् उवाच ॥
___यदा भिक्षवो बोधिसत्वो अपारिमातो तीरातो पारिमं तीरं अभिविलोकेति अभिविलोकनापूर्वंगमेहि धर्मेहि समुदागच्छमानेहि ये पि ते महेशाख्या देवा ते पि तथागतम् अग्राये परमाये पूजाये पूजयन्ति अग्राय परमाय अपचिताय अपचायन्ति शुद्धावासा च देवा अष्टादश आमोदनीयां धर्मान् प्रतिलभन्ति ॥ कतमे अष्टादश ॥ पूर्वयोगसंपन्नो महाश्रमणो ति शुद्धावासा देवा आमोदिनीयं धर्मं प्रतिलभन्ति । पूर्वोत्पादसंपन्नो ज्येष्ठताम् अनुप्राप्नुवन्तो च अनुत्तरं च लोके युगोत्पादसंपन्नो कल्याणोत्पादसंपन्नो अग्रोत्पादसंपन्नो ज्येष्ठोत्पादसंपन्नो श्रेष्ठोत्पादसंपन्नो प्रणिधिपूर्वोत्पादसंपन्नो निश्रयसंपन्नो उपधानसंपन्नो उपस्तम्भसंपन्नो संभारसंपन्नो अविपरीतधर्मं श्रमणो देशयिष्यति नैर्याणिकं लोकोत्तरं असाधारणं अव्यावध्ययशं गम्भीराभासं महाश्रमणो धर्मं देशयिष्यति सर्वाकारप्रतिपूरं सर्वाकापरिशुद्धं इति शुद्धावासा देवा आमोदनीयं धर्मं प्रतिलभन्ति ॥ यद् भिक्षवो बोधिसत्वो अपारिमातो
[_म्वु_2.260_] पारिमं तीरं अभिविलोकेति अभिविलोकनापूर्वंगमेहि धर्मेहि समुदागच्छमानेहि ये पि ते महेशाख्या देवपुत्रा ते पि तथागतं अग्राये पूजाये पूजयन्ति अग्राये परमाये अपचिताये अपचायन्ति शुद्धावासा देवा इमानि अष्टादश आमोदनीयां धर्मा प्रतिलभन्ति ॥ अपि हि चेदं भिक्षवः सेन्द्रका देवा सब्रह्मका सप्रजापतिका महान्तं आमोदनीयं धर्मं प्रतिलभन्ति । यावज्जीवं च भिक्षवः बोधिसत्वा न च तावत् सर्वेण सर्वं कायिकेन स्थामेन समन्वागता भवन्ति न तावत् सर्वेण सर्वं वाचिकेन स्थामेन समन्वागता भवन्ति न तावत् सर्वेण सर्वं चेतसिकेन स्थानेन समन्वागता भवन्ति न तावद् भिक्षवो बोधिसत्वा सर्वगुणसमन्वागता भवन्ति नापि ताव भिक्षवः बोधिसत्वा पृथिवीप्रदेशं निश्राय गच्छन्ति वा तिष्ठन्ति निषीदन्ति वा यस्मिं भिक्षवः पृथिवीप्रदेशे बोधिसत्वा निषीदित्वा महान्तं यक्षं निहनन्ति महन्तीं च चमुं पराजिनन्ति महं च ओघं निस्तरन्ति अनुत्तरां च पुरुषदम्यसारथिताम् अनुप्राप्नुवन्ति अनुत्तरां च लोकश्रेष्ठताम् अनुप्राप्नुवन्ति अनुत्तरां च स्वस्त्ययनताम् अनुप्राप्नुवन्ति अनुत्तरां च दक्षिणेयताम् अनुप्राप्नुवन्ति अनुत्तरां च सम्यक्संबोधिम् अनुप्राप्नुवन्ति यथाकारिततथावादितम् अनुप्राप्नुवन्ति अप्रतिसमतां च अनुप्राप्नुवन्ति असममधुरतां च अनुप्राप्नुवन्ति अप्रतिसमभागतां च अनुप्राप्नुवन्ति महन्तानां वर्णानाम् आरम्बणम् अनुप्राप्नुवन्ति भूतानां च वर्णानाम् आरम्बनम् अनुप्राप्नुवन्ति महन्तानाम् उत्पादानां निदानम् अनुप्राप्नुवन्ति भूतानाम् उत्पादानां निदानम् अनुप्राप्नुवन्ति ओहितभारतां च अनुप्राप्नुवन्ति कृतकार्यतां च अनुप्राप्नुवन्ति पृथिवीसमचित्ततां च अनुप्राप्नुवन्ति आपसमचित्ततां
[_म्वु_2.261_] च अनुप्राप्नुवन्ति तेजोसमचित्तताम् अनुप्राप्नुवन्ति वायुसमचित्ततां च अनुप्राप्नुवन्ति विडालत्रस्तसमचित्ततां च अनुप्राप्नुवन्ति काचिलिन्दिकमृदूपमचित्ततां च अनुप्राप्नुवन्ति इन्द्रकीलोपमचित्ततां च अनुप्राप्नुवन्ति इन्द्रियपसंपदं च अनुप्राप्नुवन्ति बलसंपदं च अनुप्राप्नुवन्ति स्थामसंपदं चानुप्राप्नुवन्ति धनसंपदं च अनुप्राप्नुवन्ति शय्यासंपदं च अनुप्राप्नुवन्ति आत्मवृषभितां च कायवैशारद्यं च अनुप्राप्नुवन्ति वाचावैशारद्यं चित्तवैशारद्यं चानुप्राप्नुवन्ति पृथुवैशारद्यं चानुप्राप्नुवन्ति प्रज्ञासंपदं चानुप्राप्नुवन्ति सर्वकुशलधर्मवशिभावपारमितां चानुप्राप्नुवन्ति ॥ यतो च भिक्षवो बोधिसत्वा सर्वेण सर्वं कायिकेन स्थामेन समन्वागता भवन्ति वाचिकेन स्थामेन समन्वागता भवन्ति चेतसिकेन स्थामेन समन्वागता भवन्ति अथ खलु भिक्षवो बोधिसत्वा तं पृथिवीप्रदेशं निश्राय गच्छन्त्य् अपि यस्मिं पृथिवीप्रदेशे बोधिसत्वा निषीदित्वा महान्तं यक्षं निहनन्ति महतीं च चमुं पराजिनन्ति महान्तं च ओघं उत्तरन्ति अनुत्तरां च पुरुषदम्यसारथितां अनुप्राप्नुवन्ति अनुत्तरां लोकश्रेष्ठतां अनुप्राप्नुवन्ति अनुत्तरां च लोकज्येष्ठताम् अनुप्राप्नुवन्ति अनुत्तरां च लोकस्वस्त्ययनताम् अनुप्राप्नुवन्ति अनुत्तरां च दक्षिणेयताम् अनुप्राप्नुवन्ति अनुत्तरां च सम्यक्संबोधिम् अनुप्राप्नुवन्ति यथावादिततथाकारितम् अनुप्राप्नुवन्ति यथाकारिततथावादितम् अनुप्राप्नुवन्ति अप्रतिसमतां चानुप्राप्नुवन्ति असममधुरतां चानुप्राप्नुवन्ति अप्रतिसमभागतां चानुप्राप्नुवन्ति महन्तानां वर्णानां आरम्बणम् अनुप्राप्नुवन्ति भूतानां वर्णानां आरम्बणम् अनुप्राप्नुवन्ति महन्तानाम् उत्पादानां निदानम् अनुप्राप्नुवन्ति पृथिवीसमचित्ततां
[_म्वु_2.262_] चानुप्राप्नुवन्ति आपसमचित्ततां चानुप्राप्नुवन्ति तेजोसमचित्ततां चानुप्राप्नुवन्ति वायुसमचित्ततां चानुप्राप्नुवन्ति चित्तारम्बणभूतानाम् उत्पादानां निदानम् अनुप्राप्नुवन्ति ओहितभारतां चानुप्राप्नुवन्ति कृतकार्यतां चानुप्राप्नुवन्ति विडालत्रस्तस्तम्भोपमचित्ततां चानुप्राप्नुवन्ति काचिलिन्दिकमृदुसमचित्ततां चानुप्राप्नुवन्ति इन्द्रकीलोपमचित्ततां चानुप्राप्नुवन्ति इन्द्रियसंपदं चानुप्राप्नुवन्ति बलसंपदं च स्थामसंपदं च धनसंपदं च निषद्यसंपदं च शय्यासंपदं च आत्मवृषभितां च कायवैशारद्यं च वाचावैशारद्यं च चित्तवैशारद्यं च पृथुवैशारद्यं च प्रज्ञासंपदं च सर्वकुशलधर्मवशितापारमितां चानुप्राप्नुवन्ति ॥
___षोडशांगसमन्वागतो भिक्षवः सो पृथिवीप्रदेशे भवति यस्मिं पृथिवीप्रदेशे बोधिसत्वा निषीदित्वा महान्तं यक्षं निहनन्ति एत्च्. . . . . सर्वकुशलधर्मवशितापारमितां चानुप्राप्नुवन्ति ॥ कतमेहि षोडशेहि ॥ संवर्तमाने खलु लोके सर्वप्रथमं पृथिवीप्रदेशो उद्दह्यति विवर्तमाने च पुनर् भिक्षवो लोके सर्वप्रथमं पृथिवीप्रदेशो संस्थिहति प्रणीतं चात्र मध्ये संस्थिहति । न खलु पुनर् भिक्षवः स पृथिवीप्रदेशो प्रत्यन्तिकेहि जनपदेहि संस्थिहति अथ खलु भिक्षवः स पृथिवीप्रदेशो अनुमज्झिमेहि जनपदेहि संस्थिहति । न खलु भिक्षवः स पृथिवीप्रदेशो म्लेच्छेहि जनपदेहि संस्थिहति अथ खलु भिक्षवः स पृथिवीप्रदेशो आर्यावर्तेहि जनपदेहि संस्थिहति ॥
[_म्वु_2.263_] समश् च भिक्षवः स पृथिवीप्रदेशो भवति सुसंस्कृताविकृतो पाणितलजातो । अनोदके चित्र-उत्पलपदुमुदनलिनिसौगन्धिकानि जातानि भवन्ति । अभिज्ञातो च भिक्षवः सो पृथिवीप्रदेशो भवति । अभिलक्षितो च भिक्षवः सो पृथिवीप्रदेशो भवति । महेशाख्यसत्वसंसेवितो च भिक्षवः स पृथिवीप्रदेशो भवति । दुष्प्रधर्षो च भिक्षवः स पृथिवीप्रदेशो भवति । अपराजितो च भिक्षवः पृथिवीप्रदेशो भवति । न खलु पुनर् भिक्षवः तस्मिं पृथिवीप्रदेशे कोचिद् एव सत्वो अवतारं गच्छति यद् इदं मारो वा मारकायिको वा । देवानाम् अगृहीतो च भिक्षवः स पृथिवीप्रदेशो भवति । यद् इदं सिंहासनन् ति पृथिवीमण्डले संख्यातो भवति भिक्षवः स पृथिवीप्रदेशो । वज्रोपमो च भिक्षवः स पृथिवीप्रदेशो भवति । चतुरंगुलमात्रा च भिक्षवः तत्र पृथिवीप्रदेशे तृणानि जातानि भवन्ति नीला मृदू मयूरग्रीवासन्निकाशा अभिलक्षणा कुण्डलावर्ताः । ये पि ते भिक्षवो राजानो चक्रवर्तिनो तं पृथिवीप्रदेशं अधिस्थिहन्ति नान्यत्र चेतियार्थं ॥ एवं खलु भिक्षवः स पृथिवीप्रदेशो षोडशांगसमन्वागतो भवति यस्मिं पृथिवीप्रदेशे बोधिसत्वा निषीदित्वा महान्तं यक्षं निहनन्ति एत्च्. . . . . सर्वकुशलधर्मवशिपारमितां चानुप्राप्नुवन्ति ॥
___अथ खलु भिक्षवो बोधिसत्वो उरुविल्वाये दुष्करचारिकां चरित्वा सुजाताये ग्रामिकधीताये मधुपायसम् आदाय येन नदी नैरंजना तेनोपसंक्रमित्वा नदीये नैरंजनाये तीरे गात्राणि शीतलीकृत्वा सुजाताये ग्रामिकदुहितुः मधुपायसं भुंजित्वा
[_म्वु_2.264_] नद्यां नैरंजनायां कान्सपात्रं प्रवाहित्वा तहिं एव दिवाविहारं कल्पयित्वा स्मृतिं प्रतिलभते नेतिये ॥
___अथ खलु भिक्षवो बोधिसत्वो नागनन्दीकालसमये येन नदी नैरंजना तेनोपसंक्रमित्वा नदीये नैरंजनाये गात्राणि शीतलीकृत्वा येन बोधियष्टिस् तेनोपसंक्रमे ॥ अद्राक्षीद् भिक्षवो बोधिसत्वो महासत्वो न्तरा च बोधियष्टीये अन्तरा च नदीये स्वस्तिकं यावसिकं तृणराशिलंचकं ॥ अथ खलु भिक्षवः बोधिसत्वो येन स्वस्तिको यावसिकस् तेनोपसंक्रमित्वा स्वस्तिकं तृणानि अयाचि ॥ अदासि भिक्षवः स्वस्तिको बोधिसत्वस्य तृणानि ॥ अथ खलु भिक्षवो बोधिसत्वस् तृणमुष्टिम् आदाय येन बोधियष्टिस् तेनोपसंक्रमे न चाद्राक्षीत्* मारो पापीयां गच्छन्तं । तद् अनन्तरं च भिक्षवो मारस्य पापीमतो स्मृति अभूषि । सो स्मृतिम् अनुस्मरन्तो अद्राक्षीद् बोधिसत्वं अभीतविक्रान्तं विक्रमन्तं । अदीनविक्रान्तं विक्रमन्तं । दुष्प्रधर्षविक्रान्तं विक्रमन्तं । नागविक्रान्तं विक्रमन्तं । सिंहविक्रान्तं विक्रमन्तं । ऋषभविक्रान्तं विक्रमन्तं । हंसविक्रान्तं विक्रमन्तं च अग्रोत्पादं ज्येष्ठोत्पादं युगोत्पादं प्रणिधिपूर्वोत्पादं । शत्रुमथनविक्रान्तं विक्रमन्तं । अपराजितविक्रान्तं विक्रमन्तं । आजानेयविक्रान्तं विक्रमन्तं । महापुरुषविक्रान्तं विक्रमन्तं । हितैषी-अनन्तकारीकरणतायै महासंग्रामविजयाये अनुत्तरस्य अमृतस्य आहरणताये ॥ अथ खलु भिक्षवः बोधिसत्वं तं महाविक्रान्तं विक्रमन्तं पंच मोरशतानि बोधिसत्वं गच्छन्तं अभिप्रदक्षिणीकृत्वा अनुपरिवर्तेन्सुः । पंच शतपत्रशतानि बोधिसत्वं गच्छन्तं अभिप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः । पंच क्रोंचशतानि बोधिसत्वं गच्छन्तं अभिप्रदक्षिणीकरोन्ता
[_म्वु_2.265_] अनुवर्तेन्सुः । पंच जीवंजीवकशतानि बोधिसत्वं गच्छन्तम् अभिप्रदक्षिणीकरोन्ता अनुवर्तेन्सुः । पंच वकशतानि बोधिसत्वं गच्छन्तम् अभिप्रदक्षिणीकरोन्ता अनुवर्तेन्सुः । पंच पूर्णकुम्भशतानि बोधिसत्वं गच्छन्तम् अभिप्रदक्षिणीकरोन्ता अनुवर्तेन्सुः । पंच कुमारीशतानि बोधिसत्वं गच्छन्तम्न् अभिप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः ॥ अथ खलु भिक्षवो बोधिसत्वस्य एतद् अभूषि ॥ यथा च इमे पूर्वोत्पादा यथा च पूर्वनिमित्ता अव्याहताम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुधिष्यं ॥
___अद्राक्षीद् भिक्षवः कालो नाम नागराजा बोधिसत्वं अभीतविक्रान्तं विक्रमन्तं दृष्ट्वा च पुनर् एतद् अवोचत्* ॥ एहि महाश्रमण येन महाश्रमण मार्गेण गच्छसि भगवां पि महाश्रमणो क्रकुच्छन्दो एतेन मार्गेण गतो सो अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो । त्वं पि महाश्रमण एतेन मार्गेण गच्छ त्वं पि अद्य महाश्रमण अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यसि ॥ भगवां पि महाश्रमणो कोनाकमुनि एतेन मार्गेण गतो सो अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो । महाश्रमण एतेन मार्गेण गच्छ त्वं पि अद्य महाश्रमण अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यिष्यसि ॥ भगवान् अपि महाश्रमणो काश्यपो एतेन मार्गेण गतो सो अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो । त्वं पि महाश्रमण एतेन मार्गेण गच्छ अद्य त्वं पि महाश्रमण अनुत्तरां सम्यक्संबोधिम् अभिसंबोधिष्यसि ॥ एवम् उक्ते भिक्षवः बोधिसत्वो कालं नागराजम् एतद् अवोचत्* ॥ एवम् एतं काल एवम् एतं नाग अद्य अहं अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धिष्यामि ॥
[_म्वु_2.266_] अथ खलु भिक्षवो कालो नागराजा बोधिसत्वं गच्छन्तं संमुखाभिः सारूप्याभिर्
गाथाभिः अभिस्तवे ॥
यथा गच्छति क्रकुच्छन्दो कोनाकमुनि च काश्यपो ।
तथा गच्छसि महावीर अद्य बुद्धो भविष्यसि ॥
यथा उद्धरसे पादं दक्षिणं पुरुषोत्तम ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथायं रणति पृथ्वी कान्सपात्रीव ताडिता ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा च भवनं मह्यं अन्धकरात्रिमासिकं ।
ओभासेन स्फुटं सर्वं अद्य बुद्धो भविष्यसि ॥
यथा निधानं तेजेन स्फुटं तिष्ठति पण्डित ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा वाता प्रवायन्ति यथा वृक्षा विलग्निता ।
यथा द्विजा निकूजेन्ति अद्य बुद्धो भविष्यसि ॥
बुद्धानाम् एवम् उत्पादो एवं बोधि अलंकृता ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा च मण्डं पुष्पेहि स्फुटं तिष्ठति पण्डित ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा मौरशता पंच करोन्ति त्वा प्रदक्षिणं ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा शतपत्रशता पंच करोन्ति त्वा प्रदक्षिणं ।
[_म्वु_2.267_] निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा जीवंजीवशता पंच करोन्ति त्वा प्रदक्षिणं ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा क्रोञ्चशता पंच करोन्ति त्वा प्रदक्षिणं ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा हंसशता पंच करोन्ति त्वा प्रदक्षिणं ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा वकशता पंच करोन्ति त्वा प्रदक्षिणं ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा पूर्णकुम्भशता पंच करोन्ति त्वा प्रदक्षिणं ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा कन्याशता पंच करोन्ति त्वा प्रदक्षिणं ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यस्मा द्वात्रिंशति काये महापुरुषलक्षणा ।
निःसंशयं महावीर यक्षं जित्वा विरोचसि ॥
अथ खलु भिक्षवो बोधिसत्वो अभीतविक्रान्तं विक्रमन्तो अदीनविक्रान्तं विक्रमन्तो अलीनविक्रान्तं विक्रमन्तो दुष्प्रधर्षविक्रान्तं विक्रमन्तो सिंहविक्रान्तं विक्रमन्तो नागविक्रान्तं विक्रमन्तो ऋषभविक्रान्तं विक्रमन्तो हंसविक्रान्तं विक्रमन्तः अग्रोत्पादाये विक्रमन्तो ज्येष्ठोत्पादाय विक्रमन्तो श्रेष्ठोत्पादाय विक्रमन्तः पूर्वोत्पादाय विक्रमन्तो युगोत्पादाय विक्रमन्तो शत्रुदमनार्थाय विक्रमन्तो अपराजितत्वाय विक्रमन्तो आजानेयविक्रान्तं विक्रमन्तो महापुरुषविक्रान्तं विक्रमन्तो हितैषि-अनन्तकारीकरणतायै
[_म्वु_2.268_] महायग्रामविजसांये अनुत्तरस्य अमृतस्य हरणताये महाविक्रान्तं विक्रमन्तो येन बोधियष्टिस् तेनोपसंक्रमित्वा बोधियष्टिये अभ्यन्तराग्रे समन्तभद्रं तृणसंस्तरं प्रज्ञपयित्वा बोधियष्टिं पुरिमजिनचित्तीकारेण त्रिष्कृत्यो प्रदक्षिणीकृत्वा निषीदि पर्यंकम् आभुजित्वा ऋजुकायं प्रणिधाय प्रतिमुखं स्मृतिम् उपस्थापयित्वा ऋजु प्राचीनाभिमुखो ॥
___समनन्तरनिषण्णो च पुनर् भिक्षवो बोधिसत्वो पंच संज्ञा प्रतिलभति ॥ कतमा पंच ॥ क्षेमसंज्ञा सुखसंज्ञा शुभसंज्ञा हितसंज्ञा अद्य चाहं अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धिष्यन्ति ॥ समनन्तरनिषद्य च पुनर् भिक्षवो बोधिसत्वो इमां पंच संज्ञा प्रतिलभते ॥ अथ खलु भिक्षवः मारो पापीमां दुःखी दुर्मनो अन्तोशल्यपरिदाघजातो येन बोधियष्टिस् तेनोपसंक्रमित्वा बोधिसत्वस्य पुरतो स्थित्वा महागीतं विय गाये महाचैलाक्षेपं विय प्रयच्छे न च तं बोधिसत्वं चित्तीकारेसि ॥ अथ खलु भिक्षवः मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो दशविधं महा-ऊहसितं ऊहसे ॥ कथं भिक्षवो मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो दशविधं महा-ऊहसितं ऊहसे ॥ महर्द्धिको स्मि महाश्रमण महानुभावो न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महा-ऊहसितं ऊहसे ॥ महेशाख्यो
[_म्वु_2.269_] स्मि श्रमण न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महा-ऊहसितं ऊहसे ॥ महाप्रतापो स्मि श्रमण न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महा-ऊहसितं ऊहसे ॥ महावृषभो स्मि श्रमण न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महा-ऊहसितं ऊहसे ॥ महाविजयो स्मि श्रमण न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महा-ऊहसितं ऊहसे ॥ महासैन्यो स्मि श्रमण न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महा-ऊहसितं ऊहसे ॥ महाबलो स्मि श्रमण न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महा-ऊहसितं ऊहसे ॥ मनुष्यभूतो सि श्रमण अहं पुनर् देवपुत्रो न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महा-ऊहसितं ऊहसे ॥ मातापितृसंभवो श्रमणकायो ओदनकुल्माषोपचयो उच्छादनपरिमर्दनस्वप्नभेदनविकिरणविध्वंसनधर्मो मम पुनर् मनोमयः कायो न मे श्रमण मोक्ष्यसीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महा-ऊहसितं ऊहसे ॥ एवं भिक्षवः मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो बोधिसत्वं संक्षूयमानो महा-ऊहसितं ऊहसे ॥
___अथ खलु भिक्षवो बोधिसत्वो अभीतो अच्छम्भी विगतरोमहर्षो चतुर्दशभिर् आकारैर्
[_म्वु_2.270_] मारं पापीमं अभिगर्जे । एवं च भिक्षवः बोधिसत्वो अभीतो अच्छंभी विगतरोमहर्षो चतुर्दशभिर् आकारैर् मारं पापीमं संसुखं अभिगर्जे ॥ तेन हि ते पापीमं निहनिष्यामि । सय्यथापि नाम बलवां मल्लो दुर्बलं मल्लं तेन हि ते पापीमं निहनिष्यामि ॥ सय्यथा नाम बलवां वृषभो दुर्बलं वृषभं तेन हि ते पापीमं मर्दिष्यामि ॥ सय्यथापि नाम हस्तिनागो कदलिं असारिकां तेन हि ते पापीमं निहनिष्यामि ॥ सय्यथापि नाम बलवां मारुतो दुर्बलं द्रुमं तेन हि ते निहनिष्यामि ॥ सय्यथापि सूर्यो अभ्युदयमानो सर्वखद्योतकं तेन हि ते पापीमं अभिभविष्यामि ॥ सद्यथापि नाम चन्द्रो अभ्युदयमानो सर्वतारकरूपां तेन हि ते पापीमं अभिभविष्यामि ॥ सद्यथापि नाम हिमवां पर्वतराजा सर्वकालपर्वतान् तेन हि ते पापीमं अभिभविष्यामि ॥ सय्यथापि नाम राजा चक्रवर्ती पृथु प्रत्येकराजानो तेन हि ते पापीमं संनिर्जिनिष्यामि ॥ सय्यथापि नाम भद्रो अश्वो आजानेयो सर्वाश्वषण्डकां तेन हि ते पापीमं सन्त्रासयिष्यामि ॥ सय्यथापि नाम सिंहो मृगराजा सर्वक्षुद्रमृगां तेन हि ते पापीमं संमोहजालं छेष्यामि ॥ सय्यथापि नाम बलवां मनुजो दुर्बलं जालं तेन हि ते पापीमं संमोहजालं दहिष्यामि ॥ सय्यथापि नाम अनलो उपादानन् तेन हि ते पापीमं भस्मीकरिष्यामि ॥ यथापीदं निष्यन्दसंयुक्तो तेन हि ते पापीमं अभिभविष्यामि ॥ यथापीदं अभिप्रज्ञायुक्तो तेन हि ते पापीमं उत्तरित्वा अभिग्रन्थित्वा त्रासयित्वा निर्जिनित्वा अभिक्रमिष्यामि । अत्र च पापीमं न गतिर् भविष्यति ॥ एवं खलु भिक्षवः बोधिसत्वो अभीतो अच्छम्भी विगतभयरोमहर्षो मारं पापीमं चतुर्दशभिर् आकारैः संमुखं अभिगर्जे ॥
[_म्वु_2.271_]___भिक्षू भगवतो पृच्छेन्सु ॥ पश्य भगवं ज्योतिष्कस्य गृहपतिस्य एदृशीये संपत्तीये समन्वागतं गृहं अभूषि असाधारणा च भोगा भगवां च आराधितो प्रव्रज्या उपसंपदा च लब्धा निष्क्लेशता च प्राप्ता । कस्यैतद् भगवं ज्योतिष्कस्य गृहपतिस्य कर्मफलविपाकः ॥ भगवान् आह ॥ ___भूतपूर्वं भिक्षवः अतीतम् अध्वानं इतः एकनवतिमे कल्पे राजा अभूषि बन्धुमो नाम ॥ राज्ञो खलु पुनः भिक्षवो बन्धुमस्य बन्धुमती नाम राजधानी अभूषि । चक्रवरिपुरी विस्तरेण ॥ राज्ञो खलु पुनः भिक्षवो बन्धुमस्य विपश्यी नाम पुत्रो अभूषि ॥ अथ खलु भिक्षवः विपश्यी बोधिसत्वो अपरस्मिं देशे गत्वा अगारस्यानगारियं प्रव्रजित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो ॥ कदाचि दानि राजा बन्धुमो भगवतो विपश्यिस्य दूतं प्रेषेति ॥ आगच्छाहि भगवं स्वकां जन्मभूमिं अस्माकं अनुकम्पार्थं ॥ अथ खलु भिक्षवो भगवां विपश्यी राजदूतवचनं श्रुत्वा येन स्वका जन्मभूमिस् तेनोपसंक्रमि सार्धं अष्टषष्टीहि अर्हन्तसहस्रेहि ॥ तेन च कालेन तेन समयेन बन्धुमतीयं राजधानीयं अनङ्गणो श्रेष्ठि आढ्यो महाधनो प्रभूतचित्रोपकरणो ॥ अश्रोषीत् खलु अनङ्गणो गृहपति एवं चैवं च भगवां विपश्यी आगच्छति सार्धं अष्टषष्टीहि अर्हन्तसहस्रेहि ॥ तस्य दानि एतद् अभूषि । यं नूनाहं सर्वप्रथमम् एव भगवतो पादवन्द उपसंक्रमेयं ॥ अथ खलु अनङ्गणो गृहपति शीघ्रशीघ्रं त्वरमाणरूपो भगवतो पादवन्दको उपसंक्रान्तो ॥ अद्राक्षीत्* अनंगणो गृहपतिः भगवन्तं विपश्यिं दूरतो एवागच्छन्तं प्रासादिकं (यावत्ऽ) भिक्षुसंघपरिवृतं ॥
[_म्वु_2.272_] अथ खलु अनङ्गणो गृहपतिः येन भगवां (याव) भगवन्तम् एतद् अवोचत्* ॥ अधिवासेहि मे बह्गवन् त्रैमासभक्तेन सार्धं भिक्षुसंघेन (याव) तूष्णीभावेन ॥
___अश्रोषी राजा बन्धुमो एवं चेवं च भगवां विपश्यी आगच्छति महता भिक्षुसंघेन सार्धं अष्टषष्टीहि अर्हन्तसहस्रेहि . . . . . तेनान्तनगरं अलंकरोथ ॥ (यावत्*) महता राजानुभावेन (यावत्*) अद्राक्षी प्रासादिकं (यावत्*) निमन्त्रेति (यावद्*) अधिवासितं मे महाराज अनंगणस्य गृहपतिस्य त्रैमासभक्तेन सार्धं भिक्षुसंघेन ॥ राजा श्रुत्वा उत्कण्ठितो एवं जातो ॥ अनंगणो गृहपति ममतो अपृच्छित्वा अनवलोकित्वा अबहुमानं कृत्वा भगवतो सकाशम् उपसंक्रान्तो भगवां च निमन्त्रितो । असाधुम् एतं ॥ भगवां राज्ञा उक्तो ॥ एकं दिवसभक्तं मम भवतु द्वितीयं तस्य ॥ बह्गवान् आह ॥ यदि अनंगणो अनुजानाति एवं लभ्यं ॥ राजा दानि अनङ्गणस्य दूतं प्रेषेति (यावद्*) आगतं ॥ राजा आह ॥ प्राप्तं आगतं कालं तव गृहपति यं राज्ञो विलोमं वर्तसि । मम अनापृच्छियान निमन्त्रेसि । न त्वं जानसि मह्यं सो पुत्रो विपश्यी आगतो । ओसिराहि भगवतो त्रैमासं भक्तं सार्धं भिक्षुसंघेन ॥ गृहपतिः आह ॥ न वयं देवस्य अबहुमानो अपि तु किं देवो पुण्याधिको वयं नाधिको अपि तु यथा देवस्य इष्टं भवति तथा करिष्यामीति निमन्त्रितो मे भगवां ॥ अथ खलु बन्धुमस्य एतद् अभूषि । सचेद् वक्ष्याम्य् अहं मा ताव गृहपते करोहि न च मे अनुजानिष्यति न च मे भगवां विपश्यी आत्तमनो भविष्यति न च मे अधिवासयिष्यति ॥ तस्यैवं चिन्तयमानस्य गृहपतिं आमन्त्रयति ॥ तेन हि गृहपते भक्तवारं करिष्यामि । एकदिवसं मम भवतु द्वितीयदिवसं तुभ्यं भवतु ॥ आह ॥ वाढं
[_म्वु_2.273_] तत् किं न शक्यं कर्तुं ॥ प्रस्थापितं एकं दिवसं राज्ञो भक्तं द्वितीयं अनंगणस्य ॥ अनंगणो दानि गृहपति यत्तकं एकदिवसं राज्ञो भक्तं ततो अनंगणो अपरस्य अवश्यं विशेषं करोति ॥ अथ खलु राजा बन्धुमो महामात्रं आमन्त्रयति ॥ तस्य दानि ग्रामणि अनङ्गणस्य गृहपतिस्य स्वापतेयं बहुतरकं न मम त्ति यद् इदं गृहपतिस्य भक्तं संपद्यति न मम तं संपद्यति अथ देवस्य पश्चिमकं दिवसं पश्यित्वा विशेषं करोति । तेन हि ग्रामणि तथा कर्तव्यं यथा अनंगणस्य गृहपतिस्य उत्क्षेपं भवे यं वारयिष्यति ॥ न शक्नोति किंचित् कर्तुं यावत् त्रैमासिकं समाप्तं द्विदिवसा अवशेषा चतुर्दशी च राज्ञो भक्तवारं पंचदशी च गृहपतिस्य ॥ राज्ञो दानि बन्धुमस्य मुनिहतो नाम नन्दनारामो महान्तो च विस्तीर्णो च शीतलो च सुगन्धो च प्रासादिको च दर्शनीयो च ॥ राज्ञा दानि पश्चिमके दिवसे चतुर्दशीयं सर्वं चन्दनवाटं सिक्तसंसृष्टं कृत्वा ओसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्णं एकमेकस्य चन्दनवृक्षस्य एकमेकस्य भिक्षुस्य शतसाहस्रिका आसनप्रज्ञप्ती क्रियति । चत्वारो दारका सर्वालंकारविभूषिता सुवर्णरूप्यमयदण्डेन सर्वश्वेतेन चामरेण वीजयन्ति ॥ एकेनान्तेन कुमारिका सर्वालंकारविभूषिता पुरतो शतसाहस्रिकानि गन्धयोगानि अनुलेपनां पीषयन्ति पृष्ठतो हस्तिनागा सर्वालंकारविभूषिता हेमजालप्रतिच्छन्ना अवदातानि च्छत्राणि धारयन्ति ॥ राज्ञो आणत्तीया यावत् तां बन्धुमतीं द्वादश योजनानि समन्ते न केनचित्* शलाका विक्रीणितव्या यो क्रीणाति
[_म्वु_2.274_] यो विक्रीणाति तस्य वधदण्डं दातव्यं पश्यथ । एवं वारियन्तो सो गृहपति किं करिष्यति केनाप्य भक्तं पच्यति अवारितो । न केनचित् क्रीणितव्यं (यावद्*) वधदण्डं दातव्यं (यावद्*) अवारितो शतं व्यंजनं न भविष्यति ॥ कुतो गृहपतिस्य प्रदर्शका उद्यानकृता आसना प्रक्षपीयन्ति (यावत्*) कुतो हस्ति ॥ ततो अनङ्गणेन दानि गृहपतिना एदृशां संपत्तिं शुत्वान शोकपरिशरविद्धहृदयो चिन्तासागरम् अनुप्रविष्टो आसति ॥ सो दानि करुणं प्रध्यायति ॥ सो दानि चिन्तेति ॥ यदि तावद् अहं काष्ठं न लभिष्यं शलाकान्य् एव शक्यं परिप्रापयितुं अथ च न लभिष्यं व्यंजनस्यार्थाये इदं पि शक्यं परिप्रापयितुं अन्यानि व्यंजनानि सज्जिष्यं शोभनानि प्रणीतानि । अपि तु मे एदृशो चन्दनवाटो नास्ति आसनप्रज्ञप्ती च मे न तादृशी भविष्यति । चत्वारो दारका दारिका च मे न भविष्यन्ति हस्तिनागा च मे न भविष्यन्ति ॥ तथा सो उत्कण्ठितो ॥ तस्य पुण्यतेजेन शक्रो देवानाम् इन्द्रो उपसंक्रमित्वाग्रतः आह ॥ गृहपति मा उत्कण्ठाहि भक्तं उपस्थाहि भक्तं प्रतिजाग्राहि सर्वं भविष्यति । अहं आसनप्रज्ञप्ती करिष्यं मण्डलमालं तं मापयिष्यं शोभनं चालंकृतं च कारयिष्यं ॥ गृहपति आह ॥ को त्वं मारिष ॥ आह ॥ गृहपति शक्रो हं देवानाम् इन्द्रो ॥ गृहपति मुदितो चन्दनकाष्ठेन व्यंजनं पाचयति । घृततैलकुण्डं भरित्वा ततो यथा भद्रमुष्टिकानि ओवाहियति तेन भक्तं सज्जियति ॥ शक्रो देवानाम् इन्द्रो विश्वकर्मं देवपुत्रम् आमन्त्रयति ॥ भगवतो च भिक्षुसंघस्य च महन्तं मण्डलमालं समन्वाहर प्रणीतं च शय्यासनं ॥ साधु मारिषेति (यावत्*) प्रतिश्रुत्वा
[_म्वु_2.275_] ततो विश्वकर्मेण देवपुत्रेण महन्तो मण्डलमालो अभिनिर्मिणित्वा अष्टषष्टीसहस्राणि तालवनम् अभिनिर्मिणित्वा सुवर्णमयस्य तालस्कन्धस्य रूप्यमयं पुत्रं च पुष्पं च फलं चापि (यावत्*) लोहितिकामयस्य स्कन्धस्य वैडूर्यमयं पत्रं च फलं च (यावद्*) आसनप्रज्ञप्ती कृता एकमेकस्य स्तम्भस्य एकमेकस्य भिक्षुस्य अर्थाये चत्वारश् च देवपुत्रा सर्वालंकारविभूषिता वामदक्षिणे स्थिता मोरहस्तेहि वीजमाना चत्वारो देवकन्या सर्वालंकारभूषिताः अनुवातम् एव दिव्यानि अनुलेपनानि पीषेन्सुः ॥ एकमेकस्य भिक्षुस्य एकमेकं हस्तिनागं एरवणेन सादृशानि पृष्ठतो सप्तरत्नां अग्रां छत्रां वैडूर्यमयेहि दण्डेहि धारेन्ति एरवणो च हस्तिनागो भगवतो उपरि च्छत्रं धारेति ॥ तं महामण्डलमालं यावज् जानुमात्रं दिव्यपुष्पावकीर्णं मृदुका च वाता ओवायन्ति । तस्मिंश् च तालवने वातसंघट्टिते दिव्यो घोषो निश्चरति ॥ (याव) भगवतो कालम् आरोचेन्ति । (यावत्*) प्रविशति ॥ निषीदि भगवान् ततो गृहपति राज्ञो दूतं प्रेषेति ॥ आगच्छ देव अद्यैव पश्चिमकं दिवसं संघं परिविषिष्यामः सहितका ॥
___राजा दानि भद्रं यानम् अभिरुहित्वा संप्रस्थितः ॥ अद्राक्षीद् राजा बन्धुमो दूरतो एवागच्छन्तं सर्वपाण्डुरं हस्तिनागं दृष्ट्वा च पुनर् एतद् अभूषी । निःसंशयं गृहपतिना सर्वपिण्डमयं हस्तिनागं कारापितं ॥ सो दानि आगतः प्रविशित्वा तं एदृशं नानावियूहं पश्यित्वा आश्चर्यजात उपजातं आश्चर्यम् इदं गृहपतिस्य पुण्यतेजेन ॥ ग्रामालुकेनापि दानि पुरुषेण दधिघटं आनीतं प्राभृतार्थं ॥ सो पंचहि पुराणशतेहि क्रीयकेन याचितो ॥ सो दानि ग्रामालुको पुरुषो संविग्नो पश्यति । मा तावद् इमे
[_म्वु_2.276_] (यावद्*) अर्थम् आकर्षके निष्चये [यावत्*] सर्वसंघे (यावद्*) अर्थं याचित्वा तत्तकं एव ॥ ततो राजा बन्धुमो अनंगणेन मान्यपरिनायकं अयं च पुनः पंच पुराणशतानि किम् एतं भविष्यति ॥ सो दानि पृच्छति ॥ किम् एतं भविष्यति ॥ आहन्सुः ॥ भगवां विपश्यी सार्धम् अष्टषष्टीहि अरहन्तसहस्रेहि परिविषीयति ॥ सो दानि चिन्तेति । दुल्लभं तथागतानां (यावत्*) संबुद्धानां लोके प्रादुर्भावः । यं नूनाहं इमेन दधिघटकेन बुद्धप्रमुखं स्वयम् एव परिविषेयं ॥ सो दानि स्वयम् एव सर्वसंघे (यावद्*) अर्थं याचित्वा तत्तकं एव ॥
___ततो राजा बन्धुमो अनङ्गणेन गृहपतिना सार्धं तादृशकेन व्यूहेन भगवन्तं सश्रावकसंघं परिविषति ॥ यदा भगवां भुक्तावी धौतहस्तो अपनीतपात्रः ततो गृहपति प्रणिधिं करोति ॥ यो यं मम देयधर्मपरित्यागात् पुण्याभिस्यन्दः कुशलाभिस्यन्दः सुखस्याधारणं मे दिव्यं उपभोगं भवेया तं च असाधारणं एतादृशं च शास्तारं आरागयेयं । सो धर्मं देशेय तञ् चाहं आजानेयं प्रव्रजित्वा निष्क्लेशो भवेयं ॥
___भगवान् आह ॥ स्याद् वो भिक्षवः एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन अनङ्गणो नाम श्रेष्ठि अभूषि । नैतद् एवं द्रष्टव्यं । ज्योतिष्को गृहपतिः स तस्मिं काले तस्मिं समये अनंगणो नाम गृहपतिर् आसि [यावत्*] तस्य प्रणिधि सर्वार्थसिद्धः ॥
___अथ खलु मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो षोडशाकारसमन्वागतं महापरिदेवितं परिदेवे ॥ कथं च भिक्षवः मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो षोडशाकारसमन्वागतं महापरिदेवितं परिदेवे ॥ महर्द्धिकं वताहं समानं मा हेव श्रमणो अभिभविष्यतीति मारो
[_म्वु_2.277_] पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । महाप्रभावं वत मे समानं मा हैव {सेनर्त्: हेव} मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । महेशाख्यं बत मे समानं मा हैव मे श्रमणो गौतमो अभिभष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । महाप्रतापं वत मे समानं मा हैव मे श्रमणो गौतमो अभिभविष्यति इति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । महावृषभितं वत मे समानं मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । महाविक्रमं वत मे समानं मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । महास्थामं बत मे समानं मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । महाबलं वत मे समानं मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । मनुष्यभूतो श्रमणो गौतमो अहं पुनर् देविपुत्रो मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । मातापितृसंभवो श्रमणगौतमस्य कायो औदरिको ओदनकुल्माषोपचयो
[_म्वु_2.278_] आच्छादनपरिमर्दनसुपनभेदनविकिरणविध्वंसनधर्मो मम पुनर् मनोमयो कायो मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । ये पि ते शूरा वीरा परमपुरुषास् ते पिमे इमस्य मानुष्यस्य परिनिक्षेपं पि न जानन्ति मा हेव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । यथा यथा खलु पुनर् मे एवं भवति अद्य अहं श्रमणं गौतमं अभिभविष्यतीति तथा तथा मे तेन मनसिकारो मे क्षिप्रम् एव निरुध्यति मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । विपद्यति च मे सेना मा हैव मे श्रमणो गौतमो अभिभविष्यति इति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । स्रस्तानि वत मे भवन्ति गात्राणि मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । मोघं वत मे उत्थानं आकुलो वत व्यायामो मा हैव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे । ये पि ते मे स्वविषयकायिकदेवपुत्रा ते श्रमणस्य गौतमस्य अभ्यन्तरो परिवारो मा हव मे श्रमणो गौतमो अभिभविष्यतीति मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो महापरिदेवितं परिदेवे ॥ एवं खलु भिक्षवः मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो षोडशाकारसमन्वागतं महापरिदेवितं परिदेवे ॥
___अथ खलु भिक्षवः बोधिसत्वो अभीतो अछ्हम्भी विगतभयरोमहर्षो द्वात्रिंशताकारसमन्वागतं
[_म्वु_2.279_] आर्यमानं प्रगृह्णे ॥ कथं च भिक्षवः बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो द्वात्रिंशताकारसमन्वागतम् आर्यमानं प्रगृह्णे ॥ महान्तम् अर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्णे । प्रतिपूरं अर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्णे । प्रणीतं अर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्णे । परिशुद्धं अर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्णे । अविपरीतं अर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्णे । अपूर्वं अर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्णे । नैर्याणिकम् अर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्णे । लोकोत्तरं अर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्णे । असाधारणं अर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्णे । अव्यावध्यं अर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्णे । अनागतं अर्थं प्रार्थयमानो बोधिसत्वो आर्यमानं प्रगृह्णे । नास्ति तं सुखं यं मे न परित्यक्तं तस्य अर्थस्य आहरणतायै बोधिसत्वो आर्यमानं प्रगृह्णे । नास्ति लोकोत्तरलोके सुखं यं मे न परित्यक्तं तस्य अर्थस्य आहरणतायै बोधिसत्वो आर्यमानं प्रगृह्णे । नास्ति लोके तं दुःखं यं मे न उपादिन्नं तस्य अर्थस्य आहरणतायै बोधिसत्वो आर्यमानं प्रगृह्णे । नास्ति सा लोके रमणीयता या मे न परित्यक्ता तस्य अर्थस्य आहरणताये बोधिसत्वो आर्यमानं प्रगृह्णे । नास्ति लोके चित्रिकं यं मे न परित्यक्तं तस्य अर्थस्य आहरणताये बोधिसत्वो आर्यमानं प्रगृह्णे । नास्ति तं लोके ऐश्वर्यं यं मे न परित्यक्तं तस्य अर्थस्य आहरणताये बोधिसत्वो आर्यमानं प्रगृह्णे । न खलु पुनः कामरतिहेतोः बोधिसत्वो आर्यमानं प्रगृह्णे । अथ खलु विरक्तः सर्वसंस्कारेषु सर्वसंस्कारवीतिक्रमं प्रापयिष्यामीति बोधिसत्वो आर्यमानं प्रगृह्णे । पूर्वोत्पादसंपन्नो बोधिसत्वो आर्यमानं प्रगृह्णे । अग्रोत्पादसंपन्नो बोधिसत्वो आर्यमानं प्रगृह्णे ।
[_म्वु_2.280_] प्रणिधिसंपन्नो बोधिसत्वो आर्यमानं प्रगृह्णे । निःश्रयसंपन्नो बोधिसत्वो आर्यमानं प्रगृह्णे । उपचारसंपन्नो बोधिसत्वो आर्यमानं प्रगृह्णे । उपस्तम्भसंपन्नो बोधिसत्वो आर्यमानं प्रगृह्णे । सम्भारसम्पन्नो बोधिसत्वो आर्यमानं प्रगृह्णे । दृढसमादानो हम् अस्मीति कुशलेहि धर्मेहि तं मया समादानं भग्नपूर्वं नापि भंजिष्यामीति बोधिसत्वो आर्यमानं प्रगृह्णे । दृढचित्तो हम् अस्मि स्थितचित्तो या खलु पुनर् दृढचित्तेन स्थितचित्तेन भूमी अधिगन्तव्या तां भूमिम् अधिगमिष्यामीति बोधिसत्वो आर्यमानं प्रगृह्णे । महाद्रुमो हम् अस्मि अपरिमितचेतसो या खलु पुनः महाद्रुमेन अपरिमितचेतसेन भूमी अधिगन्तव्या तां भूमिं अधिगमिष्यामीति बोधिसत्वो आर्यमानं प्रगृह्णे । अग्रेण पुनः वीर्येण अग्रां भूमिं अधिगमिष्यं अग्रं मे वीर्यन्ति बोधिसत्वो आर्यमानं प्रगृह्णे । तां भूमिम् अधिगमिष्यामि यां भूमिम् अधिगम्य महतो जनकायस्य अर्थं करिष्यामि बोधिसत्वो आर्यमानं प्रगृह्णे । एवं खलु भिक्षवो बोधिसत्वो अभीतो अच्छम्भी विगतभयरोमहर्षो द्वात्रिंशताकारसमन्वागतं आर्यमानं प्रगृह्णे ॥
___अथ खलु भिक्षवो बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो पंचविधं आर्यस्मितं प्रादुर्करे ॥ कथं च भिक्षवः बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो पंचविधं आर्यस्मितं प्रादुरकरे । सय्यथीदं छन्दोपस्तब्धं वीर्योपस्तब्धं स्मृत्युपस्तब्धं समाध्युपस्तब्धं प्रज्ञोपस्तब्धं ॥ एवं खलु भिक्षवो बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो पंचविधं आर्यस्मितं प्रादुरकरे ॥
___अथ खलु भिक्षवो बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो चतुर्विधं
[_म्वु_2.281_] आर्यमहासिंहविलोकितं विलोकेति ॥ कथं च भिक्षवो बोधिसत्वो अभीतो अच्छम्भी विगतभयरोमहर्षो चतुर्विधं आर्यमहासिंहविलोकितं विलोकेति ॥ सय्यथीदं असंविग्नं विलोकेति । असंत्रस्तं च विलोकेति । असंप्रभीतं च विलोकेति । विगतभयरोमहर्षं च विलोकेति ॥ एवं खलु भिक्षवः बोधिसत्वो चतुर्विधं आर्यमहासिंहविलोकितं विलोकेति ॥
___अथ खलु भिक्षवो बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो चतुर्विधं आर्यमहासिंहविजृम्भितं विजृम्भेति ॥ कथं च भिक्षवः बोधिसत्वो अभीतो अच्छम्भी विगतभयरोमहर्षो चतुर्विधं आर्यमहासिंहविजृम्भितं विजृम्भेति ॥ सय्यथीदं अभीतं च विजृम्भेति अविग्नं च विजृम्भेति असन्त्रस्तं च विजृम्भेति त्रासेन्तो च पुन मारं च मारपर्षदं च महासिंहविजृम्भितं विजृम्भेति ॥ एवं च खलु भिक्षवो बोधिसत्वो चतुर्विधं आर्यमहासिंहविजृम्भितं विजृम्भेति ॥
___अथ खलु भिक्सवो बोधिसत्वो अभीतो अच्छम्भी विगतभयरोमहर्षो महासिंह-उक्कासितं उक्कासि ॥ कथं च भिक्षवो बोधिसत्वो अभीतो अच्छम्भी विगतभयरोमहर्षो आर्यमहासिंह-उक्कासितं उक्कासे ॥ सय्यथीदं अभीतं उक्कासे असंविग्नं च उक्कासे असंत्रस्तं च उक्कासे अच्छम्भी च उक्कासे ॥ इदं च पुनर् भिक्षवो बोधिसत्वस्य आर्यमहासिंह-उक्कासितं । त्रिसाहस्रमहासाहस्राय लोकधातौ ये जना सर्वे शब्दं अश्रोषीत्* ॥ एवं खलु भिक्षवो बोधिसत्वो अभीतो अच्छम्भी विगतभयरोमहर्षो चतुर्विधं आर्यमहासिंह-उक्कासितं उक्कासि ॥
___अथ खलु भिक्षवो मारो पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो
[_म्वु_2.282_] महतीं चतुरंगिनीं सेनां सन्नाहयित्वा येन बोधियष्टिस् तेनोपसंक्रमित्वा बोधिसत्वस्य पुरतो स्थित्वा महान्तं घोषं महान्तं शब्दनिनादम् {सेनर्त् शन्दनिनादम्} अकार्षीत्* ॥ सय्यथीदं इमं हरथ इमं निहरथ इमं वधथ मारगणा भद्रम् अस्तु वो ॥ अथ खलु भिक्षवो बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो सुवर्णवर्णबाहां चीवरातो निर्नामयित्वा जालिना हस्तरत्नेन ताम्रनखेन सुचित्रराजिकेन लाक्षारसप्रसेकवर्णेन मृदुना तूलस्पर्शोपमेन अनेककल्पकोटीकुशलमूलसमन्वागतेन दक्षिणेन त्रिष्कृत्वो शिरम् अनुपरिमार्जे दक्षिणेन पाणिना पर्यंकं परिमार्जयित्वा दक्षिणेन पाणिना पृथिवीं पराहनति ॥ अथ खलु भिक्षवो बोधिसत्वेन पाणिना शीर्षे परामृष्टे दक्षिणेन पाणिना पर्यंके परामृष्टे दक्षिणेन पाणिना पृथिवीयं पराहतायां इयं महापृथिवी गम्भीरभीमरूपं अनुनदे अनुरणे । सय्यथापि नाम भिक्षवो महतीये मागधिकाये कंसपात्रीये गिरिकन्दरगताये शिलापट्टे संपराहताये गम्भीरो भीष्मरूपो घोषो अनुनदे अनुरणे एवम् एव भिक्षवो बोधिसत्वेन दक्षिणेन पाणिना शिरे परामृष्टे दक्षिणेन पाणिना पर्यंके परामृष्टे दक्षिणेन पाणिना पृथिवीयं पराहतायं (इयं महापृथिवी गम्भीरभीमरूपं अनुनदे अनुरणे) ॥ सा मारसेना तावत् सुसमृद्धा तावत् सुसंनद्धा भीता त्रस्ता व्यथिता संविग्ना संहृष्टरोमजाता तेन विचरेन्सु तेन विलयेन्सु हस्तिनो पि सानं संसीदेन्सुः अश्वा पि सानं संसीदेन्सुः रथा पि सानं संसीदेन्सुः पदाता पि सानं संसीदेन्सुः प्रहरणा पि सानं संसीदेनसुः । अपरे हस्तेषु प्रततेन्सुः
[_म्वु_2.283_] अपरे ओमुद्धका प्रपतेन्सुः अपरे अपकुब्जका प्रपतेन्सुः अपरे उत्तानका प्रपतेन्सुः अपरे वामेन पार्श्वेन प्रपतेन्सुः अपरे दक्षिणेन पार्श्वेन प्रपतेन्सुः । मारो च पापीमां दुःखी दौर्मनस्यजातो अन्तःशल्यपरिदाघजातो एकमन्ते प्रध्याये काण्डेन भूमिं विलिखन्तो ॥ श्रमणो मे गौतमो विषयं अतिक्रमिष्यतीति ॥
___अथ खलु भिक्षवो बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो विविक्तम् एव कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरे । सवितर्कानां सविचाराणां व्युपशमाद् अध्यात्मसंप्रसादा चेतसो एकोतिभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानं उपसंपद्य विहरे । सप्रीतिविरागाद् उपेक्षकश् च विहरे स्मृतः संप्रजानं सुखं च काये । यत् तद् आर्या आचक्षते उपेक्षकः स्मृतिमां सुखविहारी तृतीयं ध्यानं उपसंपद्य विहरे । सो सुखस्य च प्रहाणात् सर्वसौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्ष्य स्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरे ॥
___अथ खलु भिक्षवो बोधिसत्वो अभीतो अच्छंभी विगतभयरोमहर्षो रात्र्या पुरिमे यामे दिव्यचक्षुज्ञानदर्शनप्रतिसंखाय चित्तम् अभिनिर्हरे अभिनिर्नामये । स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्वां पश्यति च्यवन्तां उपपद्यन्तां सुवर्णां दुर्वर्णां सुगतां दुर्गतां हीनां प्रणीतां यथाकर्मोपगतां सर्वां प्रजानति । इमे भवन्तः सत्वा कायदुश्चरितेन समन्वागता वाचादुश्चरितेन समन्वागता मनोदुश्चरितेन समन्वागता आर्याणाम् अपवादका मिथ्यादृष्टिका ते मिथ्यादृष्टिकर्मसमादानहेतोः तद्धेतोस् तत्प्रत्ययात् कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपाते नरकेषूपपन्नाः । इमे
[_म्वु_2.284_] पुनर् भवन्तः सत्वाः कायसुचरितेन समन्वागता वाचासुचरितेन समन्वागता मनोसुचरितेन समन्वागता आर्याणाम् अनपवादकाः सम्यग्दृष्टिकास् ते सम्यग्दृष्टिकर्मसमादानहेतोस् तद्धेतोस् तत्प्रत्ययात् कायस्य भेदात् परं मरणात् स्वर्गकाये देवेषूपपन्नाः । इमे दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्वां पश्यति च्यवन्ताम् उपपद्यन्तां सुवर्णां दुर्वर्णां सुगतां दुर्गतां हीनां प्रणीतां यथाकर्मोपगां सत्वां जानाति ॥
___अथ खलु भिक्षवः बोधिसत्वो आभीतो अच्छम्भी विगतभयरोमहर्षो रात्र्या मध्यमे यामे पूर्वनिवासानुस्मृतिज्ञानाये चित्तम् अभिनिर्हरे अभिनिर्नामयेसि । सो नेकविधं पूर्वनिवासं समनुस्मरे । सय्यथीदं एकां वा जातिं द्वे वा जातीं त्रीणि वा जातीं चत्वारि वा जातीं पंच वा जातीं दश वा जातीं विंशं वा जातीं त्रिंशं वा जातीं पंचाशं वा जातीं शतं वा जातीं सहस्रं वा जातीं शतसहस्रं वा जातीं संवर्तकल्पं वा विवर्तकल्पं वा संवर्तविवर्तकल्पं वा अनेकान्य् अपि संवर्तकल्पां अनेकान्य् अपि विवर्तकल्पां अनेकान्य् अपि संवर्तविवर्तकल्पां अमुत्राहम् आसिं एवंनामो एवंगोत्रो एवंजात्यो एवमाहारो एवमायुःपर्यन्तो एवंसुखदुःखप्रतिसंवेदी इति साकारं सोद्देशं अनेकविधं पूर्वनिवासम् अनुस्मरति ॥
___अथ खलु भिक्षवो अभीतो अच्छम्भी विगतभयरोमहर्षो रात्र्या पश्चिमे यामे अरुणोद्घाटसमये नन्दीमुखायां रजन्यां यत् किंचित् पुरुषेण सत्पुरुषेण महापुरुषेण पुरुषर्षभेण पुरुषद्रव्येण पुरुषशूरेन पुरुषवीरेण पुरुषनागेन पुरुषसिंहेन पुरुषपदुमेन पुरुषकुमुदेन पुरुषपुण्डरीकेन पुरुषाजानेयेन पुरुषधौरेयेण अनुत्तरेण पुरुषदम्यसारथिना निक्रान्तेन विक्रान्तेन पराक्रान्तेन अर्थिकेन अप्रमत्तेन
[_म्वु_2.285_] आतापिना प्रहितात्मेन व्यपकृष्टेन विहरन्तेन गतिमतानुस्मृतिधृतिमता बुद्धिमता प्रज्ञामता सर्वशो सर्वत्रताये ज्ञातव्यं प्राप्तव्यं बोद्धव्यं अभिसंबोद्धव्यं सर्वन्तं एकचित्तक्षणसमायुक्तया प्रज्ञया अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धे । सय्यथीदं इदं दुःखं अयं दुःखसमुदयो अयं दुःखनिरोधो अयं दुःखनिरोधगामिनी प्रतिपत्* । इमे आश्रवा इमो आश्रवसमुदयो अयं आश्रवनिरोधो अयं आश्रवनिरोधगामिनी प्रतिपत्* । इह आश्रवा अशेषा निरवशेषा निरुध्यन्ति व्युपशाम्यन्ति प्रहाणम् अस्तंगच्छन्ति । यद् इदं इमस्य सतो इदं भवति इमस्य असतो इदं न भवति । इमस्योत्पादाद् इदम् उत्पद्यते । इमस्य निरोधाद् इदं निरुध्यति इति पि । अविद्याप्रत्ययाः संस्काराः संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययं स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययम् उपादानं उपादानप्रत्ययो भवो भवप्रत्यया जाति जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा भवन्ति । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । इत्य् अपि अविद्यानिरोधात् संस्कारनिरोधः संस्कारनिरोधाद् विज्ञाननिरोधः विज्ञाननिरोधात्* नामरूपनिरोधः नामरूपनिरोधात्* षडायतननिरोधः षडायतननिरोधात् स्पर्शनिरोधः स्पर्शनिरोधाद् वेदनानिरोधः वेदनानिरोधात् तृष्णानिरोधः तृष्णानिरोधाद् उपादाननिरोधः उपादाननिरोधाद् भवनिरोधः भवनिरोधाज् जातिनिरोधः जातिनिरोधाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते । एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति ॥ सर्वसंस्कारा अनित्याः सर्वसंस्कारा दुःखा सर्वधर्मा अनात्मानः ॥ एतं शान्तं एतं प्रणीतं एतं यथावदेतं अविपरीतं यम् इदं सर्वोपधिप्रतिनिःसर्गो सर्वसंस्कारसमथा धर्मोपच्छेदो तृष्णाक्षयो विरागो निरोधो निर्वाणं ॥
[_म्वु_2.286_] अथ खलु भिक्षवो तथागतस्त् अस्मिं समये इदम् उदानम् उदानेसि ॥
सुखो पुण्यस्य विपाको अभिप्रायश् च ऋध्यति ।
क्षिप्रं स परमां शान्तिं निर्वृतिं चाधिगच्छति ॥
पुरतो ये उपसर्गा देवता मारकायिका ।
अन्तरायं न शक्नोन्ति कृतपुण्यस्य कर्तु वै ॥
ये भवन्ति अल्पपुण्यस्य विघ्ना ते न भवन्ति पुण्यवतो । बलवां भवति समाधि सम्भारतो पुण्यानां । यद् यद् एव देवलोके अथ वा वसवर्तिमनुष्येषु कृतपुण्यः प्रार्थयते तथा ऋध्यते तस्य । अथ वा पुनर्* प्रार्थयति निर्वाणं अच्युतपदम् अशोकं मार्गं दुःखप्रशमनं प्रतिलभते । अल्पकिशरेण बोधि उत्तमा स्पर्शिता इह मया प्रज्ञाये वीर्येण च दुःखं मोचितं भारमोहितं गुरुं प्राप्ता च सर्वज्ञता मारो च निहतो सबलवाहनो भस्मीकृतो अन्तको तस्मिं बोधिद्रुमोत्तमे स्थितो हं ॥
___सप्ताहं एकासने देवकोटीसहस्राणि पूजयेन्सुः ॥ तस्मिं आसने दिव्यं चन्दनचूर्णं ओकिरेन्सुः पुष्पेहि च मान्दारवेहि ओकिरेन्सुः दिव्यानि तूर्याणि उपरि अघट्टितानि प्रवाद्येन्सुः तदा देवा च दिव्यानि चन्दनचूर्णानि उपरितो प्रकिरेन्सुः दिव्यानि च अगुरुचूर्णानि दिव्यानि केशलचूर्णानि दिव्यानि तमालपत्रचूर्णानि दिव्यानि मान्दारवाणि पुष्पाणि प्रवर्षेन्सुः महामान्दारवाणि पुष्पाणि कर्कारवाणि महाकर्कारवाणि रोचमानानि महारोचमानानि भीष्माणि महाभीष्माणि समन्तगन्धानि महासमन्तगन्धानि मंजूषकानि महामंजूषकानि पारिजातकपुष्पाणि दिव्यानि सुवर्णपुष्पाणि {सेनर्त्: सुवणपुष्पाणि}
[_म्वु_2.287_] रुप्यपुष्पाणि सर्वरतनामयानि पुष्पाणि प्रवर्षेन्सुः दिव्यानि त्रिंशच्छतसहस्राणि दिव्यानि रत्नमयानि अन्तरीक्षस्मिं प्रादुर्भूतानि च्छादयेन्सुः जिनकायं शैलं रत्नामयं स्तूपं वा सुवर्णमयं नैककल्पकोटिकुशलमूलसमन्वागतं ॥
___अथ खलु भिक्षवः संबहुलाश् च शुद्धावासकायिका देवा येन तथागतस् तेनोपसंक्रमित्वा तथागतस्य पादौ शिरसा वन्दित्वा एकान्ते स्थितासुः सगौरवा सप्रतीसा एकांशीकृता प्रांजलीकृतास् तथागतम् एव नमस्यमाना ॥ एकान्ते स्थिता भिक्षवः ते संबहुलाः शुद्धावासकायिका देवपुत्रा अशीतिहि आकारेहि मारं पापीमं संमुखं अभिगर्जेन्सुः ॥ कतमेहि अशीतीहि ॥ न नाम ते पापीमं एतद् अभूषि । न खलु पुनर् अहं पश्यामि श्रमणस्य गौतमस्य कंचिद् देवमनुष्येषु निक्षेपणं यन् नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । ये पि चेमे स्वविषयकायिका देवपुत्राः श्रमणस्य गौतमस्य अभ्यन्तरो परिवारो यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वाः पूर्वयोगसंपन्ना भवन्ति यं नूनाहं श्रमणे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वाः निर्वाणसन्तिका भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वाः द्युतिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वाः अनूनाचारसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वाः गर्भावक्रान्तिसम्पन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम
[_म्वु_2.288_] ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा गर्भस्थितिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वाः जातिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वाः कुलसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि ॥ एवंरूपाः सत्वा लक्षणसम्पन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि ॥ एवंरूपाः सत्वाः अनुव्यंजनसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वाः कृताधिकारा धर्मसम्पन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वाः कल्याणसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वाः वर्णसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे विर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि ॥ एवंरूपाः सत्वाः कारवर्णसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा अध्याशयसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि ॥ एवंरूपाः सत्वा सत्त्वसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वाः सर्वविभूतिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वाः कायकर्मसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा वाचाकर्मसंपन्ना
[_म्वु_2.289_] भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वाश् चित्तकर्मसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वाः सत्त्वसारसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वाः सारप्रवरसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वाः अपरिहाणिधर्मसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमन्न् एतद् अभूषि । एवंरूपाः सत्वा अभिरूहसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपास् सत्वाः यापनकसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वाश् चारित्रसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वाः महाकरुणासंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा आवाससंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा महेशाख्यत्वसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा धर्मैश्वर्यसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा महाधर्मसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि ॥ एवंरूपाः सत्वा लोकसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥
[_म्वु_2.290_] न नाम ते पापीमन्न् एतद् अभूषि । एवंरूपाः सत्वा लोकविचयसंपन्ना भवन्ति यन्नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा लोकप्रविचयसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमन्न् एतद् अभूषि । एवंरूपाः सत्वा ऋद्धिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा बोधिपक्षिकधर्मसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपास् सत्वाः उत्थानसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा वीर्यसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमन्न् एतद् अभूषि । एवंरूपाः सत्वा स्मृतिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वास् समाधिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा प्रज्ञासंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा विमुक्तिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा विमुक्तिज्ञानदर्शनसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा प्रतिभानसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमन्न् एतद् अभूषि । एवंरूपा सत्वा व्याकरणसंपन्ना भवन्ति यं नूनाहं श्रमणे
[_म्वु_2.291_] गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपास् सत्वा धर्मदेशनासंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम पापीमं एतद् अभूषि । एवंरूपाः सत्वा अनवद्यधर्मदेशनासंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमन्न् एतद् अभूषि । एवंरूपाः सत्वा ज्ञानसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमन्न् एतद् अभूषि । एवंरूपाः सत्वा दर्शनसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमन्न् एतद् अभूषि । एवंरूपाः सत्वा ज्ञानदर्शनसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा आनिंज्यसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपा सत्वाः परित्राणसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा पूर्वोत्पादसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा युगोत्पादसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वाः कल्याणोत्पादसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा अग्रोत्पादसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा ज्येष्ठोत्पादसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा श्रेष्ठोत्पादसंपन्ना भवन्ति यं नूनाहं श्रमणे
[_म्वु_2.292_] गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमन्न् एतद् अभूषि । एवंरूपाः सत्वाः प्रणिधिपूर्वोत्पादसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा निःश्रेयसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा उपचयसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा उपस्तम्भनकुशला भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा संभारसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा आर्यपंचांगिकसमाधिसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्य अपक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा आर्यमहापंचांगिकसमाधिसंपन्ना भवन्ति यं नूणाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा आर्यपंचज्ञातिकसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा आर्यमहापंचज्ञातिकसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा एकाग्रमनसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा अरणासंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा अरिसैन्यप्रमर्दनसंपन्ना भवन्ति यं नूनाहं श्रमणे
[_म्वु_2.293_] गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा स्वयम्भूसंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा स्वयम्भूधर्मतासंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा अग्राये परमाये धर्मताये संपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा कृतपुण्यतासंपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा अग्राये परमाये वर्णसंपदाये संपन्ना भवन्ति यं नूनाहं श्रमणे गौतमे निर्विद्यापक्रमेयं ॥ न नाम ते पापीमं एतद् अभूषि । एवंरूपाः सत्वा वर्णसंपन्ना ते पुनः पापीमं सत्वा दुष्प्रधर्षा भवन्ति । पश्य पापीमं यावत्* महदयं अपराधं ॥ एकमन्ते स्थिता भिक्षवः शुद्धावासकायिका देवा मारं पापीमं इमेहि अशीतीहि आकारेहि संमुखं अभिगर्जेन्सुः ॥ इदम् अवोचद् भगवान् राजगृहे विहरन्तो गृद्धकूटे पर्वते इमस्मिंश् च पुनर् व्याकरणे भाष्यभाणे पंचानां भिक्षुशतानां अनुपादाश्रवेभ्यश् चित्तानि विमुक्तानि आत्तमनसस् ते भिक्षू भगवतो {सेनर्त् मगवतो} भाषितम् अभिनन्देन्सुः ॥
अवलोकितं नाम सूत्रं समाप्तं ॥
___एवं मया श्रुतं एकस्मिं समये भगवां वैशाल्याम् आम्रपालीवने महता भिक्षुसंघेन सार्धं महता च बोधिसत्वगणेन ॥ अथ खलु विशुद्धमति भिक्षुर् उत्थायासनाद् एकांशं चीवरं प्रापयित्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिस्थापयित्वा येन
[_म्वु_2.294_] भगवांस् तेनांजलिं प्रणामयित्वा भगवन्तम् एतद् उवाच ॥ यद् भगवता बोधिसत्वभूतेन बोधिमण्डं उपसंक्रमित्वा बोधिमण्डे स्थिहित्वानावलोकितं सर्वलोकहिताय सर्वलोकसुखाय तं भगवां निर्दिशतु तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च बोधिसत्वानां च महासत्वानां महन्तो धर्मालोको कृतो भविष्यति आश्वासो च दत्तो भवति ॥ अथ खलु विशुद्धमतिर् भिक्षुः ताये वेलाये इमां गाथाम् अभाषि ॥
कथं त्वं लोकप्रद्योत अप्रमेय निरुपधि ।
नैरंजनां तरितो सि हिताय सर्वप्राणिनां ॥
ये निमित्ता अभूत् तत्र तरमाणे नरोत्तमे ।
व्याकरोहि महावीर तथागत महामुनि ॥
यथा ते लोकप्रद्योत बोधिमण्डो अलंकृतो ।
तथा हि मे पृच्छितो ब्रूहि अर्थकामहितंकरं ॥
यथा उत्तमा बोधि प्राप्ता त्वया लोकस्य चेतिय ।
यथा पापीमं प्रहनेसि कृष्णबन्धुं ससैन्यकं ॥
दश ते बला स्वयंभू सत्वसार निरुत्तरा ।
. . . . . . . . . . . . . . . . . . . . . . . .
ऋद्धिप्रभावो थ प्रतपसि दिशा सर्वा सार्थवाह नरमरुपूजित शतकृत्वो महर्षे । क्रमसि यथैव हन्सराजा हिमवरपाण्डरो शुद्धो धार्तराष्ट्रो वरसुरवर अकिलंतकायो । व्रजसि दिशतो विदिशा तावद् एव देवासुरनागयक्षसंघा मरुभवना कृत्वा
[_म्वु_2.295_] सर्वजिह्मवर्णस्थूणां । यथैव दग्धां स्थूणां सुवर्णबिम्बं अभिभवति तथा शास्ता सर्वलोकम् अभिभवति । कुसुमितो रत्नकायो लक्षणेहि यथा गगणं प्रतिपूरं तारकेहि । पुण्यशतसहस्रेहि कोटि परा न विद्यति सुगतस्य एकनामे ॥ न ते स्ति कोचित् समसमो सर्वलोके कुतो विशिष्टो तावद् एव सर्वा संप्रभासि दश दिशता समन्ता सहस्ररश्मि यथा अन्तरीक्षे ॥ अलंकृतस् ते दशबल आत्मभावः द्वात्रिंशकवचितलक्षणेहि घनातो मुक्तो यथा कार्तिकस्मिं चद्रो व शोभते ॥ यथा तारकेहि सहस्रशीतिं चतुरो अशीति अन्यश् चरं शास्तु येहि घोषो अंगसहस्रेहि अविकल्या पंचपुरा परिगृहीता भगवतो येहि भगवतो वाचा ॥ मुखतो गन्धो भगवतो चन्दनस्य प्रवायते । अतुलियम् अप्रमेयं बुद्धक्षेत्रं अपरिमितं भरित्वा समेति खिल दोषमोहं । त्रिसाहस्रा सर्वा यदि पि लोकधातु पूरा भवे शिखाशिरि सर्षपेहि शक्यं गणेतुं स्यात् सर्षपा एकमुहूर्ते विचक्षणेन न त्व् एव शक्यं गणयितुं सर्वसत्वधातू दशसु दिशासु अपरिमिता अनन्ता या हि भगवतो चन्दनस्य घ्रायित्वा गन्धं प्रतिलभे । क्षान्तिभूमि धीर अतुल्य महाकरुणावीर महाप्रतापबलवां भिषज सत्वानां । नाथ अनुपलिप्त दक्षिणेय शरणव्रजतां जिनप्रवर स्वयंभो ॥ कस् तृप्तिं हि जनये त्वां स्तुवन्तो ॥ तथा हि बलो भगवतः अप्रमेयो ॥ अनन्तवर्णं हतरागं शान्तचित्तं शरणं व्रजेम त्वा अभिभुं अनभिभूतं ॥ भवेय अन्तं गगणं व्रजतो शक्यं समुद्रं पि ततः क्षपेतुं न शक्यं
[_म्वु_2.296_] जिने बलप्रमाणं क्षपेतुं । तथा हि संबुद्धो संभूतबलो ॥ सिंहं नरेन्द्रं दशबलं अप्रमेयं पृच्छामि ॥ वीर हतराग शान्तं चित्तं ज्ञानेन शुद्धा दशदिशता असंगतिता स मे प्रश्नं हितकर व्याकरोहि ॥
कल्पकोटिसहस्राणि अप्रमेयम् अचिन्तिया ।
चरितो भोति अर्थाय सर्वज्ञो द्विपदोत्तमो ॥
दानं शीलं च क्षान्ति च ध्यानानि च निषेविता ।
प्रज्ञा च चरिता पूर्वं कल्पकोटिशतां बहूं ॥
आग्नेयमणीनां या आभा गगने विद्युतान वा ।
नक्षत्राणां चापि या आभा जिह्मवर्णा भवन्ति ता ॥
नास्ति देवो वा नागो वा यक्षो कम्भाण्डराक्षसो ।
यस्य एतादृशकायो यथा ते नरनायक ॥
सुरासुरवरपूजनीयो गुरुकृतवन्दितो सक्तृतो महर्षे प्रभंकर द्विपदेन्द्र सत्वसारवर पुरुषर्षभ चेतियं नराणां । भ्रूविवरललाटे ऊर्णाभागो यथा गगने सुविशुद्धरश्मि राजते भगवतो यथा कार्तिके मासे विमलो विरोचते चन्द्रो पूर्णमास्यां ॥ नीलविमलनेत्रा नायकस्य सुरुचिरोत्पलवर्णसंनिकाशा विमला शुभा प्रभा ॥ संरोचते च सुखजनना नरनारीणां नरेन्द्रदन्ता विमलपाण्डरा सुजातसमसहिता हिमवरसन्निकाशा
[_म्वु_2.297_] मुखं दलवरसंप्रकाशं दशबल तथा विशदं । ते शास्तुनः तरुणसुखुमरश्मीभिर् आस्तृता वररसवती शोभति जिह्वा नायकस्य प्रबालकसमतुल्यवर्णा च दिव्या बहुजनसंज्ञापनी । सुखंददं च आभाजालेन बद्धं ललाटं सभ्रूमुखं च शोभे यथैव चन्द्रमसो । सुखसमाहितनीला दशबल भगवतो शीर्षे केशा । शाक्यसिंह ग्रीवा ते शोभे यथा सुवर्णकम्बु यथा ओवाहा च जिन समा । अभेद्यो सिंहार्धपूर्वो भगवतो आत्मभावो । प्रभासि लोके दिशता समन्ता । विशिष्टवाक्य अतुलसमुद्र कर्मविपाकं करोहि इमां गिरां भाषमाणः सर्वस् ते लोको अभिनमते आवर्जितो करितो पृष्ट्वा दशनख-अंजलीहि ॥
___एवम् उक्ते भगवां विशुद्धमरिं भिक्षुं एतद् अवोचत्* ॥ साधु साधु भिक्षु साधु खलु पुनस् ते भिक्षु यस् त्वं तथागतम् एतम् अर्थं परिपृच्छितव्यं मन्यसि । शोभनं ते भिक्षु प्रतिभानं भद्रिका परिमीमान्सा यद् एवं हि भिक्षु प्रतिभायसि । एवं पि तेषां कुलपुत्राणां कर्मविपाका प्रतिभायन्ति येषाम् अयं धर्मपर्यायो हस्तगतो भविष्यति । न ते मारस्य पापीमतो वसगता भविष्यन्ति । नापि तेषां मनुष्या वा अमनुष्या वा अवतारं लभिष्यन्ति ॥ तत् कस्य हेतोः ॥ उदारकुशलमूलचरिता ते हि भिक्षू ते हि सत्वा येषां अर्थाय त्वं एतम् अर्थं परिपृच्छसि बोधिसत्वानां महासत्वानां । त्वं भिक्षु सत्वानाम् अर्थाय तथागतम् एतम् अर्थं परिपृच्छितव्यं मन्यसि यम् इदं बोधिसत्वानां लोकपरिणायकानां सर्वसत्वचारिकविशेषसंप्रस्थितानां । त्वं भिक्षु सत्वानाम् अर्थाय तथागतं
[_म्वु_2.298_] परिपृच्छसि यम् इदं बोधिसत्वानां महासत्वानां लोकपरिणायकानां सर्वसंशयच्छेदप्रभेदकौशल्यसमन्वागमसंप्रस्थितानां । भिक्षु सत्वानाम् अर्थाय तथागतम् एतम् अर्थं परिपृच्छेसि यम् इदं बोधिसत्वानां महासत्वानां लोकपरिणायकानां दानविशेषाभियुक्तानां क्षान्तिविशेषाभियुक्तानां ध्यानविशेषाभियुक्तानां प्रज्ञाविशेषाभियुक्तानां ॥ अथ खलु भगवां ताये वेलाये इमां गाथाम् अभाषि ॥
तुषिते भवने दिव्य ओतरित्वा हिमसमो नागो भवित्व षड्विषाणो ।
राज्ञो अग्रमहिषीं प्रविष्टो कुक्षिं ततो त्रिसाहस्र प्रकम्पे लोकधातु ॥
तद सुविपुल आभा सुवर्णवर्णा इमं सर्वं साहस्रलोकधातुं ।
उपरि यावभवग्रं प्रज्वलन्ते यद जिनः कुक्षिं प्रविष्टो संप्रजानो ॥
शक्रशतसहस्रं सब्रह्मकोट्यो जिनं वरकुक्षिगतं नमस्य नित्यं ।
उपागमि दिवसे पि अर्धरात्रे न च व्रजि इमे अविसर्जिता कदाचित्* ॥
तूर्यं च शतसहस्रसंप्रघुष्टं उपरि नभं स्फुटं सर्वदेवताहि ।
दिव्यं प्रहाय चन्दनस्य चूर्णं अथ पुनर् अन्ये पताकच्छत्रहस्ता ॥
. . . . . . . . . दिव्या प्रवर्षि वरकुसुमा च उत्पलस्य ।
मधुकरकरविंका सुवर्णमाल्या याव जिनो कुक्षिं प्रविष्टो संप्रजानो ॥
यद जायेथा बुद्धो सत्वसारो देवानं इन्द्रो धारये संहृष्टः ।
वस्त्रं विशिष्टं सुरुचिरं कौशिकेयं जाम्बुनदस्य समनिभं कांचनस्य ॥
यदा च भूमिस्थितो बोधिसत्वो सप्त पदां चक्रमे हृष्टचित्तो ।
[_म्वु_2.299_] अहं खु लोके असदृशं करिष्यं अन्तं जराय मरणक्रियाय ॥
तदा प्रकम्पे वसुमति षड्विकारं आभा च मुक्ता दिशता समन्ता ।
दिव्या शब्दा प्रवादिता अन्तरीक्षे अशीति सहस्रा अभु देवतानां ॥
दिव्या च चूर्णा नभतो प्रवर्षे चन्दनस्य सुवर्णशुभा देवपुत्रा ।
मन्दारवेहि ओकिरे बोधिसत्वं प्रामोद्यजाता मरु हृष्टचित्ता ॥
एकूनत्रिंशो वयसानुप्राप्तो परिपाचयित्वा जगद्बोधिसत्वो ।
त्यजित्व राज्यं रतनवरां च सप्त काषायवस्त्रो अभु बोधिसत्वो ॥
सो प्रव्रजित्व विदु बोधिसत्वो षड्वर्षयुगं चरे दुष्कराणि ।
सो मागधस्य विजितं प्रविष्टो ग्रामिकधीता दृशि बोधिसत्वं ॥
सुवर्णपात्रीं च उदग्रचित्तो भृंगारं गृह्य रतनविचित्रं ।
अष्टाङ्गपेतं शुभपारिपूर्णं तद आचमेसि ऋषि बोधिसत्वो ॥
बलेनुपेतं सुरसंप्रणीतं गन्धेन च उपनये भोजनं च ।
एवं च च्छन्दं जने वेगजाता बुद्धो भवे कवचितो लक्षणेहि ॥
इमं च हीनं विजहिय इष्टिभावं चरेयं शुद्धं अशबलब्रह्मचर्यं ।
वर्जे कामं दुःखकरं रोगमूलं सेवेयं बुद्धां हतरजनिष्किलेशां ॥
भाषित्वा गाथाम् इमां एवरूपां सेनापतेर् दुहिता हृष्टचित्ता ।
नमस्यमानांजलिय बोधिसत्वं मुंचित्वा अश्रु इमं वाचं भाषे ॥
सुलब्धलाभो महिपति बिम्बिसारो अशोकप्राप्तो परिवृंहिताज्ञो ।
[_म्वु_2.300_] यस्यायं विजिते स्थितो बोधिसत्वो अद्य अतुल्यां प्राप्स्यति बोधिम् अग्रां ॥
भुंजित्वा भक्तं मम क्रकुच्छन्दो व्रजेत् स्वयंभू द्रुमं पादपेन्द्रं ।
प्रभासयन्तो दश दिशा समन्ता जाम्बुनदस्य यथ सुवर्णयूपो ॥
कोनाकनामो महदक्षिणीयः भुंजित्व भक्तं व्रजि बोधिमण्डं ।
अदीनचित्तो अचलो असंप्रवेधि यस्यासि कायो स्फुटो लक्षणेहि ॥
यस्यासि नामं तद काश्यपो पि जाम्बूनदसमनिभविग्रहस्य ।
भुंजित्व भक्तं मम विदु सत्वसारः व्रजेत् स्वयंभू द्रुमवरं पादपेन्द्रं ॥
ये भद्रकल्पे अतुलिय दक्षिणेया भेष्यन्ति धीरा हतरजनिष्किलेशा ।
पूजेष्यि सर्वा अतुलियबोधिहेतोः न मह्य कांक्षा अन्या हि अस्ति किंचित्* ॥
ये अन्तरीक्षे इह देवपुत्राः ते चन्दनेनोकिरे बोधिसत्वं ।
वाचां भाषे मुदितवेगजाता सेनापतेर् दुहिता लब्धलाभा ॥
पूर्वेनिवासं स्मरेसि सुजाता प्रेम्नं जनेत्व शुभं बोधिसत्वे ।
बुद्धान कोटिनयुता सहस्रा भुक्वा भुक्तं मम गता बोधिमूलं ॥
अथ खलु बोधिसत्वो येन नैरंजना तेनोपसंक्रमित्वा मुहूर्तं अस्थासि । समेहि पादतलेहि धरणीं प्रकम्पेसि ॥ अथ खलु तस्मिं समये महान्तः पृथिवीचालो अभूषि भीषणो सरोमहर्षणो येन पृथिवीचालेन इयं त्रिसाहस्रमहासाहस्रा लोकधातु समा अभूषि पाणितलजाता सुमेरुश् च पर्वतराजा चक्रवाडमहाचक्रवाडा च पर्वता निमिन्धरो युगन्धरो इषान्धरो च पर्वता खदिरकाश्वकर्णो विनतको सुदर्शनो च सप्त पर्वता द्वीपान्तरिका तथान्ये कालपर्वता पृथिव्यां ओसन्ना अभूषि
[_म्वु_2.301_] बोधिसत्वस्यानुभावेन । महासमुद्राश् च संक्षुब्धा अभूषि बोधिसत्वस्यानुभावेन प्रज्ञायेन्सुः ॥ तेन खलु पुनः समयेन अयं त्रिसाहस्रमहासाहस्रो लोकधातुः शकटचक्रप्रमाणमात्रेहि जाम्बूनदस्य सुवर्णस्य पदुमेहि शतसहस्रपदुमेहि शतसहस्रपत्रेहि नीलवैडूर्यजातेहि मुसारगल्वकेहि शिरिगर्भपिंजलेहि स्फुटा अभूषि अष्टापदविनिबद्धा महान्तश् च ओभासो प्रादुर्भूतः येन ओभासेन महानिरया भीष्मा उपशान्ता अभूषि । सर्वे नैरयिका सत्वा सुखिता अभूषि । सर्वे तिर्यग्योनिगताः सुखिता अभूषि । सर्वे यामलौकिका सत्वाः सुखिता अभूषि परस्परं मैत्रचित्ता बोधिसत्वानुभावेन । महान्तेन चोभासेन सर्वा त्रिसाहस्रमहासाहस्रा लोकधातु ओभासिता अभूषि ॥ तेन खलु पुनः समयेन त्रिसाहस्रमहासाहस्राये लोकधातुये यावतका देवेन्द्रभवना नागेन्द्रभवना यक्षेन्द्रभवना गरुडेन्द्रभवना ते सर्वे एकोभास-आभासा अभूषि ॥ सर्वत्र बोधिसत्वस्य आत्मभावताम् अनुप्राप्ताः संजानन्ति ॥ तेन खलु पुनः समयेन यावतका त्रिसाहस्रमहासाहस्राये लोकधातूये देवा नागा यक्षा गन्धर्वा असुरा गरुडा किन्नरा महोरगा ते सर्वे स्वकस्वकेषु आसनेषु न रमेन्सुः बोधिसत्वस्यानुभावेन । बोधिसत्वस्य शिरिं असहन्ता ते सर्वे येन बोधिमण्डस् तेनोपसंक्रमेन्सुः पुष्पमाल्यगन्धच्छत्रपताकावाद्यधूपनविलेपनपरिगृहीता ॥ तेन खलु पुनः समयेन असंख्येयेहि अप्रमेयेहि बुद्धक्षेत्रेहि अभिक्रान्तकान्ता बोधिसत्वाः देवतावेषम् अभिनिर्मिणित्वा उपरि अन्तरीक्षे प्रतिष्ठेन्सुः दिव्य-उत्पलपदुमपुण्डरीकपरिगृहीता ॥ तेन खलु पुनः समयेन अयं त्रिसाहस्रमहासाहस्रो लोकधातुः शकटचक्रप्रमाणेहि
[_म्वु_2.302_] जाम्बूनदसुवर्णपदुमेहि श्तसहस्रेहि नीलवैडूर्यनाडीहि अयुतशो केशरेहि [शिरीषगर्भपंजरेहि भूमितलम् उपादाय यावद् भवाग्रं स्फुटम् अभूषि आगन्तुकेहि केशरकेहि] शिरीषगर्भपंजरेहि भूमितलम् उपादाय यावद् भवाग्रं स्फुटं अभूषि आगन्तुकेहि बोधिसत्वेहि देवनागयक्षेहि च असुरगरुडकिन्नरमहोरगेहि च ॥
___अथ खलु बोधिसत्वो महतो देवगणस्य पुरतो नैरंजनां नदीं उत्तीर्णो ॥ तेन खलु पुनः समयेन नैरंजनाये नदीये अशीति च्छत्रकोटीयो जाम्बूनदसुवर्णानां छत्राणां प्रादुर्भूता बोधिसत्वस्य उपरि स्थिहेन्सुः अशीति च्छत्रकोटीयो रूप्यमयानां अशीति च्छत्रकोटीयो अस्मगर्भमयानां अशीति च्छत्रकोटीयो हस्तिगर्भमयानां अशीति च्छत्रकोटीयो लोहितकामयानां अशीति च्छत्रकोटीयो मणिमयानां प्रादुर्भूता बोधिसत्वस्य उपरि स्थिहेन्सुः । अशीति च नागकोटीयो एकमेकश् च नागो अशीतिनागकोटिपरिवारो लोहितमुक्तापुष्पपरिगृहीता येन बोधिसत्वस् तेनोपसंक्रमित्वा बोधिसत्वं पूजयेन्सुः पुरिमकेन पुण्योपचयेन ॥
___अथ खलु कालो नागराजा स्वजनपरिवारः स्वकातो भवनातो अभ्युद्गमित्वा येन बोधिसत्वस् तेनोपसंक्रमित्वा बोधिसत्वस्य पादां शिरसा वन्दित्वा बोधिसत्वं प्रांजलीकृतो प्रेक्षमाणो गाथाभिर् अध्यभाषे ॥
बोधिं पर्येषमाणो यं बोधिसत्वो विसारदो ।
नैरंजनां चरित्वान बोधिमूलम् उपागमे ॥
नानाद्विजसंघरुतं वरपादपमण्डितं ।
वरपुष्पफलोपेतं त्रिसाहस्राय यावता ॥
यत्र ते लोकप्रद्योता आगता बोधि प्रापुणे ।
क्रकुच्छन्दो कोनाकमुनि काश्यपो च महामुनि ॥
[_म्वु_2.303_] तं देशं लोकप्रद्योतो उपागमे लोकनायको ।
यो सो वादित्यबन्धूनां शाक्यानां परमो मुनिः ॥
ते देवसंघा मुदिता सर्वे हर्षितमानसाः ।
पुष्पमेघसमानोघाः तामकासि वसुन्धरां ॥
स्वभवनेषु आगत्वा पूजेन्ति लोकनायकं ।
प्रदक्षिणं बोधिसत्वं शुद्धावासा समागता ॥
मन्दारवेहि पुष्पेहि दिव्येहि मनुजेहि च ।
महारहेहि श्रेष्ठेहि बोधिमण्डं अलंकरे ॥
वृक्षा ततोमुखा सर्वे बोधिमण्डे वने नमे ।
येन स प्रवरो देशः पूर्वबुद्धनिषेवितः ॥
यापि च बोधिमण्डस्मिं देवता वृक्षम् आश्रिता ।
सा बोधिसत्वं दृष्ट्वान घोषेसि च अमानुषं ॥
चैलं च भ्रामये दिव्यं चन्दनं च प्रमुंचसि ।
सा दिव्यै रत्नचूर्णैश् च ओकिरेसि नरर्षभं ॥
नानाविधानां गन्धानां दिव्यानां मानुषाण च ।
चतुर्दिशाश्रिता वाता बोधिमण्डे प्रवायेन्सु च ॥
दिव्या च तूर्या वाद्येन्सु अन्तरीक्षस्मिं शोभना ।
संगीतिं विविधां कुर्वन् मञ्जुघोषां मनोरमां ॥
ओभासः सुमहा आसि बोधिमण्डस्य रश्मिभिः ।
येन सर्वो देवलोको स्फुटो आसि तद् अनन्तरं ॥
[_म्वु_2.304_] जिह्मवर्णा अभूद् दिव्या विमाना रतनामया ।
जाम्बूनदसुवर्णेहि बोधिसत्वस्य रश्मिभिः ॥
मन्दारवेहि पुष्पेहि ओकिरेन्ति नभे स्थिताः ।
देवपुत्रसहस्राणि बोधिसत्वं महर्द्धिकाः ॥
श्रुणित्वा अतुलं घोषं कालो नागो महर्षिणः ।
हर्षितप्रीतसंतुष्टो नागकन्यापुरस्कृतो ॥
क्रीडारतिसुखं दिव्यम् उज्झित्वा सर्वम् आगतो ।
चतुर्दिशं विलोकेत्वा पश्यते पुरुषर्षभं ॥
वैरोचनं वा गगणस्मिं सर्वरश्मिसमागतं ।
अर्चित्वा मुदिततुष्टो बोधिसत्वं समालपे ॥
यादृशा लक्षणा पूर्वबुद्धान पुरुषोत्तम ।
क्रकुच्छन्दे कोनाकमुनि अभूच्चापि नरोत्तमे ।
काश्यपे जिने च लक्षणा तथागते पुरुषोत्तमे ॥
समा जालावनद्धा तेषां चरणा सुप्रतिष्ठिता ।
लाक्षारसप्रसेकवर्णा सहचक्रा महर्षिणां ।
हेष्टा पादतला जाता स्वस्तिकैर् उपशोभिताः ॥
पादांगुलीषु सर्वत्र नन्दियावर्त उद्धता ।
भासन्ति लोकनाथानां व्रजतां चित्रमेदिनीं ॥
उच्छृंखलपादा ते नाथ ईदृशा यादृशो तुवं ।
न-उज्जोतना गुल्फायो अंगुलीयो सुघट्टिता ॥
[_म्वु_2.305_] दीर्घांगुली ताम्रनखा जालेहि उत्सदेहि च ।
चरणा लोकनाथानां व्रजतां चित्रमेदिनीं ॥
एणीजंघा च ते आसि शिरिगर्भोपसन्निभा ।
जानुका गुप्तगुल्फा च तथा लोकहिता भवे ॥
गजहस्तसदृशा बाहु आसि तेषां महर्षिणां ।
सिंहपूर्वार्धकाया च न्यग्रोधपरिमण्डला ॥
हातकं यथा उत्तप्तं कांचनच्छविशोभना ।
अनोनतेन कायेन पाणीहि जानुकां स्पृशे ॥
मृगराज्ञो हि तथा तेषां कटी वट्टा सुसञ्चिता ।
कोशवस्तिगुह्यमेढ्रं हयराजस्य यादृशं ॥
ओदातम् आचारं तेषां जानूनि च सुनिष्ठिता ।
गम्भीरनाभा ते आसि पूर्वबुद्धा महर्षिणो ॥
रजोकणेन अस्पृष्टो कायो तेषां महर्षिणा ।
श्लक्ष्णच्छवी च ते नाथा ईदृशा यादृशो भवां ॥
एकैकरोमा ते आसि ऊर्ध्वाग्ररोमराजिनो ।
नीलप्रदक्षिणावर्ता तथा लोकहितो भवां ॥
संवृत्तस्कन्धा भ्रूश् चैषां यथा ऋषभस्य तादृशी ।
प्रह्वर्जुगात्रा ते नाथा आसीसु इमे उत्सदा ॥
फणिकोपमांसबाहा अनुपूर्वम् अनुद्धता ।
नारायणसंघटना ईदृशा यादृशो भवां ॥
[_म्वु_2.306_] तुंगनखा ताम्रनखाः कैलासशिखरोपमाः ।
लक्षणैर् उत्सदैश् चैषां कायम् अतीव शोभितं ॥
ग्रीवा कम्बुसमा तेषां अनुपूर्वसमुद्गता ।
सिंहहनू च ते नाथा तथा रसरसाग्रिणः ॥
चत्वारिंशत्सुवट्टा दन्ता तेषां महर्षिणाम् अभूत्* ।
अभून्सु शुक्रदंष्ट्रा ते ईदृशा यादृशो भवां ॥
प्रभूततनुजिह्वाय सर्वं छादेन्सु स्वं मुखं ।
दुवे च कर्णाग्राणि ते नासां च परिमार्जिषुः ॥
अष्टांगसंप्रपूर्णा च वाचा तेषां महर्षिणां ।
सर्वदर्शिणां सत्या च आज्ञेया सर्वप्राणिनां ॥
ब्रह्मस्वरा च ते आसि करविंकरुतस्वरा ।
दुन्दुभिस्वरघोषा च प्रेमणीयस्वरा पि च ॥
जलेरुहो व कनको दशशतरश्मि भासति ।
तथा भासेन्सु नाथानां मुखा आदित्यबन्धुनां ॥
आयता अभिनीला च नेत्रा तेषां महर्षिणां ।
नासा च उद्गता शोभे सुवर्णयूपोपमा यथा ॥
भ्रुवन्तरेणाभूत्तेषां वरजातिमहर्षिणां ।
ऊर्णा हि प्रकाशवन्ती मृदुका तूलसादृशा ॥
महानलं चाभू मुखं चन्द्रो वा पूर्णमासिये ।
[_म्वु_2.307_] रतनाग्नीव च दिशा सर्वा ताय प्रभासिषु ॥
नीला च मृदुका केशा काचिलिन्दिकसादृशा ।
सर्वे प्रदक्षिणावर्ता तथा लोकहितो भवां ॥
उष्णीषशीर्षा ते नाथा ईदृशा यादृशो भवां ।
अनुल्लोकितमूर्ध्नानि सुरेहि असुरेहि च ॥
महाप्रभा हि ते बुद्धा अतिगृह्णन्ति रश्मिभिः ।
केतुराजेन चन्द्रो व प्रभाय अतिगृह्यते ॥
एतां च अन्या च पश्यित्वा निमित्ता लक्षणानि च ।
सर्वाणि बोधिसत्वस्य इदं वचनम् अब्रवीत्* ॥
यथा ते देवपुत्रा ते पूजनार्थाय उत्सृताः ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
अजितां जालिनीं तृष्णां भवनेत्रीं समाहितः ।
प्रज्ञाशस्त्रं गृहीत्वान च्छेत्स्यसे मारबन्धनं ॥
अद्य त्वं सर्वतो शेषं किलेशपरिवेष्टितं ।
विधुनिष्यसि रागाग्निं बोधिं प्राप्तो नरोत्तम ॥
संघाटीपटं पात्रं च चीवरस्य वर्णता तथा ।
यथा मे दृष्टा नाथानां तथा च लोकहिता तव ॥
सर्वे प्रदक्षिणावर्ता एदृशा भोन्ति पुद्गला ।
यथा व्रजसि सिंहो व अद्य बुद्धो भविष्यसि ॥
शैलोपमं अप्रकम्प्यं समाधिं च जिनोपमं ।
[_म्वु_2.308_] बोधिमण्डे स्थिहित्वान दृढवीर्यः समारभे ॥
स तस्य वचनं श्रुत्वा कालनागस्य भाषितं ।
तुष्टो उदग्रसुमनो बोधिमूलम् उपागमे ॥
श्रुत्वान अतुलं घोषं कालनागो महाबलो ।
बोधिसत्वस्य वेगेन भवनातो समुद्गतो ॥
अंजलीं प्रगृहीत्वान दशपूर्णांगुलीन् तथा ।
अभिस्तवे बुद्धवीरं बोधिमण्डं व्रजन्तकं ॥
यथा मृदु इमे वाता वायिष्यन्ति सुखं सदा ।
सुरभिमनोज्ञगन्धा नात्युष्णा नातिशीतलाः ॥
यथा च कुसुमवृष्टिं प्रवर्षेन्सु इमं देवता ।
सुगत तव रहत्वं भेष्यति द्विपदोत्तम ॥
प्रदक्षिणावर्तो मार्ष तुष्टो हृष्टो प्रमोदितो ।
प्रीतिमना उदग्रो च सुखंमुञ्चो पि निष्क्रम ॥
यथापि तूर्यसहस्रं संप्रघुष्टं उपरि नभस्मि स्फुटं देवताहि ।
हृष्टप्रमुदितचित्तवेगजातो भविष्यसि बुद्धो विशिष्टो सर्वलोके ॥
यथा च प्रभा न भायि अन्य काचिद् उपरिविमाना कृता च जिह्मवर्णाः ।
यथा प्रचलते भूमि षड्विकारं भविष्यसि अद्य अतुल्यो दक्षिणेयो ॥
यथ च भ्रामयन्त्य् अंबराणि भीष्मं मारगणं भंजित्व हृष्टचित्ता ।
छत्रध्वजपताका च धारयन्ति भविष्यसि बुद्धो न मह्य अस्ति कांक्षा ॥
[_म्वु_2.309_] यथा च मधुरं दुन्दुभी नदन्ति गगनतलं स्फुटं सर्वम् अम्बरेहि ।
यथा च कुसुमा वर्षे देवसंघो भविष्यसि लोके सदेवको स्वयंभूः ॥
यथा च करिय अंजलिं नभस्मिं अभिस्तवे देवसहस्र हृष्टचित्ता ।
कनकप्रभो विशिष्टो दक्षिणेयो भविष्यसि बुद्धो नराण अग्नवादी ॥
अथ खलु बोधिसत्वो येन वृक्षमूलं तेनोपसंक्रमित्वा तेन खलु पुनः समयेन सर्वावन्तो बोधिमण्डो ओसक्तपट्टदामकलापो अभूषि । उच्छ्रितध्वजपताको छत्रकोटिसमलंकृतो रत्नसूत्रविचित्रितो धूपितधूपनो रतनवृक्षपरिवृतो चीवरसंस्तृतसंस्तृतो चन्दनचूर्ण-अध्योकीर्णो रत्नोघविचित्रो ॥ तेन खलु पुनः समयेन अनेकानि देवशतसहस्राणि उपरि अन्तरीक्षे प्रतिस्थिहित्वा धूपनपरिगृहीता बोधिसत्वं नमस्यन्ति । छत्रध्वजपताकपरिगृहीता बोधिसत्वं नमस्यन्ति । दिव्य-उत्पलपदुमकुमुदपुण्डरीकपरिगृहीता नमस्यन्ति बोधिसत्वं । दिव्यचन्दनचूर्णपरिगृहीता बोधिसत्वं नमस्यन्ति । दिव्यरत्नचूर्णपरिगृहीता दिव्यरत्नपुष्पपरिगृहीता अनिमिषं प्रेक्षमाणा बोधिसत्वं नमस्यन्ति ॥ तस्य अन्या देवता सुवर्णमयं बोधिवृक्षं संजानन्ति । यथा स्वकाये अधिमुक्तीये अन्ये देवा रूप्यमयं बोधिवृक्षं संजानन्ति । अन्ये देवा वैडूर्यमयं बोधिवृक्षं संजानन्ति । अन्ये देवा स्फटिकमयं बोधिवृक्षं संजानन्ति । अन्ये देवा अस्मगर्भमयं बोधिवृक्षं संजानन्ति । अन्ये देवा सप्तरत्नमयं बोधिवृक्षं संजानन्ति । अन्ये देवा शतसहस्ररत्नमयं बोधिवृक्षं संजानन्ति । यथापीदं स्वकस्वकाये अधिमुक्तीये अन्ये देवा लोहितचन्दनस्य बोधिवृक्षं संजानन्ति । अन्ये देवा अगुरुचन्दनस्य बोधिवृक्षं संजानन्ति । अन्ये देवा
[_म्वु_2.310_] परस्परस्य वाञ्छितरत्नमयं बोधिवृक्षं संजानन्ति । अन्ये देवा पीतचन्दनस्य बोधिवृक्षं संजानन्ति । अन्ये देवा सिंहचन्दनस्य बोधिवृक्षं संजानन्ति । अन्ये देवा रसचन्दनस्य बोधिवृक्षं संजानन्ति ॥ यथापीदं स्वकस्वकाये अधिमुक्तीये अन्ये देवा गिरिसारचन्दनस्य बोधिवृक्षं संजानन्ति । अन्ये देवा दिव्य-अगुरुचन्दनस्य बोधिवृक्षं संजानन्ति । अन्ये देवा मणिरत्नामयं बोधिवृक्षं संजानन्ति । अन्ये देवा सर्वरत्नालंकृतं बोधिवृक्षं संजानन्ति । अन्ये देवा मणिरत्नविचित्रितं बोधिवृक्षं संजानन्ति । अन्ये देवा दिव्यनीलवैडूर्यालंकृतं बोधिवृक्षं संजानन्ति । अन्ये देवा मुसारगल्वमणिविचित्रितं बोधिवृक्षं संजानन्ति । अन्ये देवा अस्मगर्भमणिरतनविचित्रितं बोधिवृक्षं संजानन्ति । अन्ये देवा हस्तिगर्भमणिरतनविचित्रितं बोधिवृक्षं संजानन्ति । अन्ये देवा . . . . . मणिरतनविचित्रं बोधिवृक्षं संजानन्ति । अन्ये देवाः सुप्रभासमणिरतनविचित्रितं बोधिवृक्षं संजानन्ति । अन्ये देवा अमृताश्मगर्भेहि मणिरतनेहि समलंकृतं बोधिवृक्षं संजानन्ति । अन्ये देवा समन्तचन्द्रेहि समलंकृतं बोधिवृक्षं संजानन्ति । अन्ये देवास् सुचन्द्रेहि समलंकृतं बोधिवृक्षं संजानन्ति । अन्ये देवास् सूर्योभासेहि समलंकृतं बोधिवृक्षं संजानन्ति । अन्ये देवाः स्फटिकविचित्रं अन्ये देवाः सूर्यविक्रान्तेहि समलंकृतं । अन्ये देवाश् चन्द्रोभासेहि समलंकृतं । अन्ये देवा ज्योतिप्रभासेहि समलंकृतं । अन्ये देवा विद्युप्रभासेहि समलंकृतं । अन्ये देवाः समन्तालोकेहि मणिरत्नेहि समलंकृतं । अन्ये देवा मुक्ताप्रभेहि मणिरत्नेहि समलंकृतं । अन्ये देवा अप्रतिहतप्रभेहि मणिरतनेहि समलंकृतं बोधिवृक्षं संजानन्ति । अन्ये देवा रतनसमुच्छ्रयसमलंकृतं । अन्ये देवाः सर्वलोकाग्रभूतेहि मणिरतनेहि समलंकृतं । अन्ये देवाः शक्राभिलग्नेहि मणिरतनेहि समलंकृतं । अन्ये देवा रत्नपत्रेहि समलंकृतं ।
[_म्वु_2.311_] अन्ये देवा उरगगर्भमणिरतनेहि समलंकृतं । अन्ये चन्दनप्रभेहि समलंकृतं । अन्ये लोहिताक्षेहि समलंकृतं । अन्ये गजपतीहि मणिरतनेहि समलंकृतं । अन्ये महेश्वरदत्तेहि मणिरतनेहि समलंकृतं । अन्ये रसकेहि समलंकृतं । अन्ये गोमेदकेहि मणिरतनेहि समलंकृतं । अन्ये देवा शशेहि मणिरतनेहि समलंकृतं बोधिवृक्षं संजानन्ति । अन्ये लालाटिकेहि मणिरतनेहि समलंकृतं । अन्ये शिरिगर्भेहि मणिरतनेहि अन्ये तालिकेहि मणीहि एतेहि च अन्येहि च दिव्येहि मणिरतनेहि समलंकृतं बोधिवृक्षं संजानन्ति ॥
___येषां देवानां ततोनिदानं कुशलमूलो परिपच्चिष्यति अनुत्तराये सम्यक्संबुद्धाये ते यथाकुशलमूलेहि बोधिवृक्षं संजानेन्सुः । नीलमुक्ताहारेहि लोहितमुक्ताहारेहि श्वेतमुक्ताहारेहि कण्ठनिष्केहि सुवर्णसूत्रेहि कुण्डलेहि मुद्रिकाहि परिहारकेहि वलयकेहि नूपुरेहि वेष्टनकेहि मुद्राहस्तकेहि आवापकेहि रतनदामकेहि पट्टदामकेहि पुष्पदामकेहि सुवर्णकेयूरेहि रत्नहारेहि रुचकहारेहि मन्दारवदामेहि हंसदामेहि सिंहलताहि वजिराकारेहि स्वस्तिकेहि एतेहि चान्येहि च दिव्येहि आभरणेहि समलंकृतं बोधिवृक्षं संजानेन्सुः ॥ येषां बोधिवृक्षं पश्यित्वा कुशलमूलानि जायन्ति ते देवाः स्वलंकृतं बोधिवृक्षं संजानन्ति । अन्ये एतेहि चान्येहि च यथापरिकीर्तितेहि अलंकारेहि बोधिवृक्षं समलंकृतं संजानन्ति ॥ तत्र केचिद् देवा योजनं उच्चत्वेन बोधिवृक्षं संजानन्ति । अन्ये देवाः पंचयोजनम् उच्चत्वेन ॥ अन्ये दशयोजनम् उच्चत्वेन ॥
[_म्वु_2.312_] अन्ये विंशयोजनम् उच्चत्वेन । अन्ये त्रिंशयोजनम् उच्चत्वेन । अन्ये चत्वारिंशयोजनम् उच्चत्वेन । अन्ये देवा पंचाशद्योजनम् उच्चत्वेन बोधिवृक्षं संजानन्ति । अन्ये योजनशतम् उच्चत्वेन बोधिवृक्षं संजानन्ति । यथास्वकस्वकेन ज्ञानेन बोधिवृक्षम् उच्चत्वेन संजानन्ति ॥ सन्ति देवा योजनसहस्रम् उच्चत्वेन बोधिवृक्षं संजानन्ति । सन्ति देवा दीर्घायुष्का पुरिमजिनकृताधिकारा योजनशतसहस्रम् उच्चत्वेन बोधिवृक्षं संजानन्ति । सन्ति देवपुत्रा अभिसंजातकुशलमूलनिर्याता यावद् भवाग्रम् उच्चत्वेन बोधिवृक्षं संजानन्ति ॥ तत्र केचिद् देवा सर्वरतननिर्यूहं सिंहासनं बोधिवृक्षमूले अद्दशेन्सुः । दिव्यं बहुयोजनम् उच्चत्वेन दिव्यदुष्यसंस्तृतं रतनजालसंछन्नं किङ्किनीजालसमलंकृतं । अन्ये देवा योजनशतसहस्रम् उच्चत्वेन सिंहासनम् अद्दशेन्सुः । अन्ये देवा योजनसहस्रम् उच्चत्वेन सिंहासनम् अद्दशेन्सुः । अन्ये देवा अड्ढतिययोजनशतानि उच्चत्वेन सिंहासनम् अद्दशेन्सुः । अन्ये देवा द्वे योजनशतानि उच्चत्वेन सिंहासनम् अद्दशेन्सुः । अन्ये देवा योजनशतम् उच्चत्वेन सिंहासनम् अद्दशेन्सुः । अन्ये देवा पंचाशद्योजनानि उच्चत्वेन सिंहासनम् अद्दशेन्सुः । अन्ये देवा चत्वारिंशयोजनानि उच्चत्वेन सिंहासनम् अद्दशेन्सुः । अन्ये देवा त्रिंशद्योजनानि उच्चत्वेन सिंहासनम् अद्दशेन्सुः । अन्ये देवा विंशद्योजनानि उच्चत्वेन सिंहासनम् अद्दशेन्सुः । अन्ये देवा दशयोजनानि उच्चत्वेन सिंहासनम् अद्दशेन्सुः । अन्ये देवा चतुर्योजनानि उच्चत्वेन सिंहासनम् अद्दशेन्सुः । अन्ये देवा त्रियोजनम् उच्चत्वेन सिंहासनम् अद्दशेन्सुः । अन्ये देवा द्वियोजनानि
[_म्वु_2.313_] उच्चत्वेन सिंहासनम् अद्दशेन्सुः । अन्ये देवा योजनम् उच्चत्वेन सिंहासनम् अद्दशेन्सुः । अन्ये देवा त्रिक्रोशम् उच्चत्वेन सिंहासनम् अद्दशेन्सुः । अन्ये देवा द्विक्रोशम् उच्चत्वेन सिंहासनम् अद्दशेन्सुः । अन्ये देवा क्रोशम् उच्चत्वेन सिंहासनम् अद्दशेन्सुः । अन्ये देवा सप्ततालम् उच्चत्वेन सिंहासनम् अद्दशेन्सुः । अन्ये देवा षट्टालम् उच्चत्वेनान्ये देवा पंचतालं अन्ये देवा चतुतालं अन्ये देवा त्रितालं अन्ये देवा द्वितालं अन्ये देवा तालमात्रं बोधिवृक्षस्य मूले सिंहासनम् अद्दशेन्सुः । अन्ये देवा सप्तपौरुषेयम् उच्चत्वेन सिंहासनम् अद्दशेन्सुः । अन्ये देवा षट्पौरुषेयम् उच्चत्वेन सिंहासनम् अद्दशेन्सुः । अन्ये पंचपौरुषेयं अन्ये चतुपौरुषेयं अन्ये त्रिपौरुषेयं अन्ये द्विपौरुषेयं । अन्ये देवा पुरुषमात्रम् उच्चत्वेन बोधिवृक्षस्य मूले सिंहासनम् अद्दशेन्सुः ॥ तत्र ये लूखाधिमुक्तिका सत्वा ते तृणसंस्तरे निषण्णं बोधिसत्वम् अद्दशेन्सुः । तृणसंस्तरे निषीदित्वा बोधिसत्वो अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धिष्यतीति ॥
___अथ खलु पुन बोधिसत्वः सदेवमानुषासुरस्य लोकस्य पुरतो येन बोधिवृक्षमूलं तेनोपसंक्रमित्वा बोधिवृक्षं त्रिष्कृत्यो प्रदक्षीक्र्त्वा पुरिमका तथागता समनुस्मरन्तो निषीदि पर्यंकम् आभुंजित्वा ऋजुं कायं प्रणिधाय प्रतिमुखां स्मृतिं प्रतिस्थापयित्वा ॥ तत्र चेवं बोधिवृक्षमूले निषण्णस्य बोधिसत्वस्य मुखमण्डलं भासति तपति विरोचते । सय्यथापि नाम महासाहस्रलोकधातुविस्तृतं सूर्यमण्डलं वा । यस्य तेजेन सर्वावन्ता त्रिसाहस्रमहासाहस्रा लोकधातु जिह्मवर्णा अस्यात्* ॥ सय्यथापि
[_म्वु_2.314_] नाम जाम्बूनदस्य बिम्बस्य पुरतो विदग्धस्थूणा काला मसिनिभा न तपति न विरोचति न च भवति प्रभास्वरा एवम् एव बोधिसत्वेन त्रिसाहस्रमहासाहस्रा लोकधातुः तेजेन अभिभूता अभूषि ॥ तत्र ये देवपुत्रा याव अकनिष्ठातो उपरि बोधिसत्वं निषण्णं अद्दशेन्सुः तत्र भूम्या देवा समानं बोधिसत्वं अद्दशेन्सुः ॥ तथा अन्तरीक्षे यावच् चातुर्माहाराजिका देवा त्रायस्त्रिंशा यामा तुषिता निर्माणरति परिनिर्मितवशवर्ति मारभवनातः सिंहासनगतं बोधिसत्वं संजानन्ति ॥ एवं ब्रह्मा देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा महाब्रह्मा देवा आभा देवा आभास्वरा देवा शुभा देवा परीत्तशुभा देवा अप्रमाणशुभा देवा शुभकृत्स्ना देवा बृहत्फला देवा अवृहा देवा अतपा देवा सुदर्शना देवा अकनिष्ठा देवा सिंहासनगतं बोधिसत्वं संजानेन्सुः ॥ ये च त्रिसाहस्रमहासाहस्राये लोकधातूये कुशलमूलसमन्वागता सत्वा पर्यन्तस्थायिनः ते सर्वे सिंहासनगतं बोधिसत्वं संजानेन्सुः ॥ ये अवरुप्तकुशलमूला सत्वा पुरिमजिनकृताधिकारा कामधातुपर्यापन्नाः ते मारं न पश्यन्ति न संजानन्ति बोधिसत्वस्य पूजां करोन्ता बोधिसत्वं नमस्यमानाः बोधिसत्वानुभावेन ॥
___अथ खलु मारः पापीयां स्वकं बलं ध्यामबलं संजानति सर्वावतीं च त्रिसाहस्रमहासाहस्रां लोकधातुं अभिनतां येन बोधिसत्वो । महासत्वश् च इमं प्रतिसंशिक्षति । न तावद् अहं अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धिष्यामि यावन् न मारं पापीमं सार्धं बलकायेन सन्नद्धम् आगतं पराजिष्यामि मा सत्वानाम् एवं भवेया अनाश्चर्यम् एतं यं बोधिप्राप्तेन मारो निगृहीतः स्वकं च स्थामं ऋद्धिप्रातिहार्येण बोधिसत्वः सदेवकस्य
[_म्वु_2.315_] लोकस्य पुरतो उपदर्शितुकामः एवं दृढस्थामवेग-ऋद्धिप्राप्तो बोधिसत्व इति च मम च अनुशिक्षित्वा अनुत्तराये सम्यक्संबोधिये चित्तम् उत्पादयिष्यन्ति ॥ अथ खलु मारो पापीमां दुःखी दुर्मनो शोकशल्यविद्धः प्रतिराजसंज्ञां बोधिसत्वे उपस्थापेत्वा चतुरंगिनीं मारसेनां उद्योजयित्वा बहुयोजनशतां हरित्वा येन बोधिवृक्षमूलं तेनोपसंक्रमि बोधिसत्वं पश्यिष्यामो ति ॥ सो न प्रभवति बोधिसत्वं द्रष्टुं चक्षुविभ्रमम् अनुप्राप्तः सचेद् बोधिसत्वो मुखवाटम् ओसिरेया येन स्थामेन बोधिसत्वो समन्वागतो अभूषि । सचेद् अयं त्रिसाहस्रमहासाहस्रो लोकधातुर् वज्रमयो महापर्वतः अभविष्यत् तां लोकधातुं बोधिसत्वः परमाणुरजसदृशीं विधूनित्वा असंख्येया लोकधातुयो अभ्युत्क्षिपेया न च एको पि परमाणुरजो द्वितीयेन परमाणुरजेन सार्धं समये ॥ बोधिसत्वो च ततो मारपरिषाये बहूं सत्वां कुशलमूलान् अद्राक्षीत्* ये इमं बोधिसत्वस्य एवंरूपं ऋद्धिप्रातिहार्यं दृष्ट्वा अनुत्तराये सम्यक्संबोधाय चित्तम् उत्पादयिष्यन्तीति ॥ एतम् अर्थपदं बोधिसत्वो संपश्यमानो आगमेति न ताव अजिनित्वा मारं सबलवाहनं अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धिष्यामीति ॥ अथ खलु भगवां ताये वेलाये इमां गाथाम् अध्यभाषे ॥
यथा स्वयंभू स्थितो बोधिमूले
शाक्यान राजा सुविशुद्धसत्वो ।
सुवर्णबिम्बं यथ दर्शनीयो
जाम्बूनदं अपगतसर्वक्लेशो ॥
ओभासजाता दिशता अभूषि
मारश् च त्रस्तो अभु कृच्छ्रप्राप्तो ।
[_म्वु_2.316_] किं तं हि नाम मह्यं भेष्यतीति
रतिं न विन्दामि विमान अस्मिं ॥
विमान सर्वा अभु व्योमवर्णा
प्रासादश्रेष्ठा वरचन्दनस्य ।
सुवर्णसूत्रा स्फटिकप्रवाडा
मा खु च्यविष्यं इतो अद्य स्थानात्* ॥
स्फुटा गवाक्षा रुचिरार्धचन्द्रा
मुसारगल्वकवचिता च गर्भा ।
वैरोचनस्य जगतो विशिष्टा
आभा अभू भविष्यति किं तु अद्य ॥
शीर्षतो मह्यं मकुटो प्रलुप्तो
शुभा च आभा विगता ममाद्य ।
संगीति मह्यं स्थिता अप्सराणां
मा खु च्यविष्यं इतो अद्य स्थानात्* ॥
जाम्बूनदेन यथ कांचनेन
व्योमे विमाना कृतजिह्मवर्णा ।
इमे ये दिव्या इमे ये विमाना
जिह्मा अभू उपगते बोधिसत्वे ॥
सो चादृशासि भगवन्तं स्वयंभुं
निषण्णं सिंहं यथ दुष्प्रधर्षं ।
[_म्वु_2.317_] विशुद्धसारं जगसत्त्वसारं
जाम्बूनदस्य यथ यूपो भासे ॥
देवा दिव प्रतिष्ठिता मुक्तिहारा
सुवर्णकम्बूरुचिरा मनोज्ञा ।
सुवर्णसूत्रां ग्रहिय प्रहृष्टा
अलंकरोन्ति भगवतो बोधिवृक्षं ॥
सुवस्तिकाश् च शुभा अर्धचन्द्रा
सिंहीलताहि स्फुटा बोधिवृक्षे ।
विद्युप्रभां च रतनां ग्रहेत्वा
अलंकरोन्ति मुदितदेवपुत्रा ॥
चन्द्रप्रभां च रतनां ग्रहेत्वा
सूर्यकान्ता च रतनां गृहेत्वा ।
वैरोचनां मणिरत्नां ग्रहेत्वा
अलंकरोन्ति भगवतो बोधिवृक्षं ॥
मुक्ताप्रभा च रतनां ग्रहेत्वा
ओभासयन्तां शुभदर्शनीयां ।
प्रामोद्यजाता मुदितहृष्टचित्ताः
अलंकरोन्ति भगवतो बोधिवृक्षं ॥
समन्तचन्द्रा मणिरतनां ग्रहेत्वा
रतनावलिं सुरुचिरदर्शनीयां ।
[_म्वु_2.318_] गोमेदकां मणिरतनां ग्रहेत्वा
अलंकरोन्ति भगवतो बोधिवृक्षं ॥
अन्ये ग्रहेत्वा शुभलोहिताक्षां
शिरिगर्भशुद्धां रतनां ग्रहेत्वा ।
. . . . . . . . . . . . . . . . . . .
अलंकरोन्ति भगवतो बोधिवृक्षं ॥
रक्ताङ्गियो च रुचकां ग्रहेत्वा
महेश्वरां सुरुचिरवर्णवन्ता ।
कर्केतनां च रतनां ग्रहेत्वा
अलंकरोन्ति भगवतो बोधिवृक्षं ॥
नीलां च मुक्तां तथ श्वेतमुक्ता
रक्तां च मुक्तां शुभवर्णनीयां ।
हर्षं जनेत्वान च वेगजाता
अलंकरोन्ति भगवतो बोधिवृक्षं ॥
ज्योतिकां च मणिरतनां ग्रहेत्वा
ये चन्द्रसूर्यां अभिभवन्ति तेजसा ।
विशेषप्राप्ता मणिरतनां ग्रहेत्वा
अलंकरोन्ति भगवतो बोधिवृक्षं ॥
नागामणीं च शुभवर्णनीयां
गुह्या विशुद्धाक्षियो मोदमाना ।
नभे स्थिहित्वा तद ऋद्धिमन्तो
अलंकरोन्ति भगवतो बोधिवृक्षं ॥
ब्रह्मा सहस्रा उपगता बोधिमण्डं
[_म्वु_2.319_] शक्रश् च देवा अधिपति गुह्यकानां ।
येहि दृष्टा पुरिमकलोकनाथा
ते देवता च प्रणता स्वयंभुं ॥
आभास्वरा उपगता देवपुत्रा
शुभा च देवपुत्र शुभकृत्स्ना ।
. . . . रूपा च बृहत्फला च
अतपा सुदर्शना च अकनिष्ठा
अलंकरोन्ति भगवतो बोधिवृक्षं ॥
संछन्नो सर्वो अभु बोधिवृक्षो
रस्मीं सहस्रां किरे अप्रमेयां ।
दिव्यैर् मणीभिः प्रतपति बुद्धक्षेत्रं
सर्वां सहां अभिभवे लोकधातुं ॥
तस्यैवं चित्तम् अहु प्रमत्तबन्धुनो
मा हेव मे च्यावये आसनातो ।
एषैव राजा भवे देवतानां
न चास्य अस्ति समो सर्वलोके ॥
अथापि बुद्धो भवे धर्मस्वामी
सून्या विमाना भवे देवतानां ।
देशेत मार्गं शिवशान्तिक्षेमं
न भूय मह्यं भवे ईश्वरत्वं ॥
उत्सदप्राप्तं भवे बुद्धक्षेत्रं
माराण कोटी संयोजयन्तो ।
[_म्वु_2.320_] सन्नद्धवर्मा कवचितवर्मा
संग्रामकाले भवथाप्रमत्ता ॥
उद्योजयित्वान स मारसेनां
उपसंक्रमित्वा वरपादपेन्द्रं ।
अद्राक्षीत् कृष्णो तथ बोधिसत्वं
सूर्या सहस्रं यथ अन्तरीक्षे ॥
तस्यैव चित्तं अभु वेपमानं
एषो न शक्यो मये धर्षणाये ।
लोके भिप्रेतं रतनं ग्रहेत्वा
राज्यानपेक्षं जनयित्व छन्दं ॥
दिव्यं च चूर्णं वरचन्दनस्य
जाम्बूनदस्य रतनामयं च ।
दिव्यां च गृह्य वरसारगन्धां
सो बोधिसत्वम् ओकिरे वेगजातो ॥
एकांशं कृत्वा वसनं कृतांजलि
प्रदक्षिणं निदह्य जानु भूम्यां ।
संहर्षितो ऽनिमेषं प्रेक्षमाणः
सो बोधिसत्वं स्तवे तस्मिं काले ॥
रूपेन त्वं असदृशो पुण्यवन्तो
वर्णेन तुह्यं सदृशो न प्राप्तो ।
[_म्वु_2.321_] सुसंप्रजानो मरुपूजनीयो
लोकैकवीरो स्थितो वृक्षमूले ॥
न तुभ्य अस्ति सदृशो कुतोत्तरो
देवो व नागो मनुजो व लोके ।
सर्वां अभिभोसि दिशतां शिरीये
घनाभ्रमुक्तो गगणे व चन्द्रो ॥
तवा हि ते पूजनिया भुंजाहि
सप्त रत्नानि प्रवरोत्तमानि ।
चक्रं प्रवर्तेहि महिं आवसाहि
चातुर्द्वीपो रत्ना परिभवाहि ॥
तुवं च प्राप्ता दिश प्रेक्षमाणो
अदीनचित्तो च अनन्ततेजो ।
देवसहस्रानभिभोहि आभा
विदग्धस्थूणां यथ सुवर्णबिम्बं ॥
द्वात्रिंशतीहि स्फुटो लक्षणेहि
विरोचे कायं तव सत्वसार ।
सोभासि राज्ये स्थितो अप्रमत्तो
प्रशासि सत्वां पितरो व पुत्रां ॥
चत्वारि द्वीपां वसि ईश्वरत्वे
न च करेसि इह अनुशास्तिं ।
त्वं ऋद्धिप्राप्तो विचरेसि लोके
शिष्यो ते भेष्यं यथ एकपुत्रो ॥
इस्त्रीसहस्रैः सह क्रीडमानो
[_म्वु_2.322_] मरूण राजा व शिरिद्धिप्राप्तो ।
दास्यामि तुभ्यं रतनानि सप्त
भवाहि राजा विदु चक्रवर्ती ॥
भविष्यते पुत्रसहस्रं तुभ्यं
शूराण वीराण महाबलानां ।
वरांग[रूपान] परसैन्यप्रमर्दकानां
ससागरान्तं जये लोकम् एतं ॥
इमा च पश्य बहु मारकन्या
पुष्पा ग्रहेत्वा वरचन्दनस्य ।
प्रागन्तरीक्षे शुचिवसननिवस्ता
गीते कलासु परमार्थप्राप्ता ॥
वीणां गृहेत्वा पणवां मृदंगां
शंखा च वेणुं च सुघोषकां च ।
संभारिकां नकुलककिंफलां च
उपगीयमाना तद वृक्षमूले ॥
अन्ये स्थिहित्वा गगणे डियन्ता
चूर्णां क्षिपन्ति वरचन्दनस्य ।
जाम्बूनदस्य रतनामयं च
क्षिपन्ति चूर्णं तव भोन्ति सर्वे ॥
हाहाभेरीशंखपणवनिनादे
प्रासादश्रेष्ठे रम त्वं कुमार ।
पुष्पं च गन्धं च विलेपनं च
[_म्वु_2.323_] भुंजाहि तत्र परिचारको हं ॥
चक्रं च नागो हयवरो मंजुकेशो
वैडूर्यमणिरतनं विशिष्टं ।
स्त्री च श्रेष्ठा धनधरो खड्गहस्तो
परिणायको रत्ना भवन्ति सप्त ॥
तवाधिपत्ये निवसं कुमार
शुश्रूषन्तो मृदु भाषमाणं ।
श्रुत्वान ते वाक्य सुखी भविष्यं
मृषा च भाषे न व एवरूपः ॥
सत्ये स्थिहित्वा लभये सुरूपं
कायं विशिष्टं स्फुटं लक्षणेहि ।
व्यंजनेहि तथ अनुव्यंजनेहि
प्रभासमानो स्फुट लक्षणेहि ॥
सो मंजुघोषो रुतवल्गुभाषी
उल्लोकयित्वा दिशता समन्ता ।
अष्टांगुपेतां (निनादये) वाचां
शृणोहि यक्ष गिरां भाषतो मे ॥
राजा भविष्यं अहं सर्वलोके
बुद्धित्व बोधिं वशिशान्तिक्षेमां ।
पुत्रा च भूता मम अप्रमत्ता
काहिन्ति श्रुत्वा मम आनुशास्तिं ॥
ममापि सप्त रतना विशिष्टा
[_म्वु_2.324_] भेष्यन्ति बुद्धित्व मे अग्रबोधिं ।
बोध्यंग सप्त पुरिमजिनप्रशस्तान्*
तां व लभित्व भवति अप्रमत्तो ॥
चत्वारो अन्याम् अहं ऋद्धिपादां
ध्यानप्रमाणं तथ मार्गश्रेष्ठं ।
बुद्धित्व सत्यानि समन्तज्ञानि
अभिप्राप्तो दिशतां विजेष्यं ॥
जुगुप्सनीयाः सुखहीनाः हि कामा
न अत्र विज्ञो लभे आनिसंसं ।
एषो हि मार्गो नरके तिरिच्छे
यमस्य लोके बहुप्रेतलोके ॥
अधर्मकामा रत मैथुनस्मिं
तमान्धकारे प्रणता समन्ता ।
विहीननेत्रा च्युतशुक्लधर्मा
ते कामसेवी नर एवरूपाः ॥
दुर्गन्धपूतिं अशुचिं अनार्यं
न तत्र जातु रता शुद्धसत्वाः ।
बालो नये तत्र विशेषसंज्ञां
न पण्डितो जानयि तत्र च्छन्दं ॥
समृद्धे पक्वे यथ शालिक्षेत्रे
विद्युत्पतेया अशनिवरचक्रं ।
[_म्वु_2.325_] तथैव शुक्ला परमार्थधर्मा
कामनिदानं अफला भवन्ति ॥
पृथग्जना तु रता हीनसेवी
जात्यन्धभूता अबुधा रज्यन्ति ।
रज्यन्ति ते अबुधचेतसेन
न कामतृष्णां जने बोधिसत्वो ॥
संवर्तनीये यथ बुद्धक्षेत्रे
हुतासने प्रज्वलिते नभस्मिं ।
रमणीय आभा मषिं छारिकां वा
तथैव कामां विचिकित्सु [शुक्ल]धर्मा ॥
विसृष्ट वध्यो यथ पार्थिवेन
लभेय मोक्षं श्रियं स्वस्तिभावं ।
न हीनकामां प्रतिसेवमानो
लभेय अर्थं तु जिनानुज्ञातं ॥
उच्चारो शुष्को यथ दह्यमानो
जुगुप्सनीयो परमदुर्गन्धो ।
न राजपुत्रो तहिं भवति उदग्रो
तथैव कामा गर्हित पण्डितेहि ॥
ग्रीष्माण मासे यथ पश्चिमस्मिं
लवणोदकं जनये तृषां नराणां ।
तथैव कामां दुःख [प्रति]सेवमानो
[_म्वु_2.326_] अज्ञानप्राप्तो जनयति जालतृष्णां ॥
यं तेहि पूयं यकृद्वृक्कफुष्फसेहि
गूथं च अन्यं अनुगतम् आत्मभावे ।
प्रस्यन्दमानं वहिमुखेहि काये
न अत्र विज्ञो जने सौमनस्यं ॥
सिंहाणलाला यथ श्लेष्मपूरं
कफो थ पित्तं अनुगतं मस्तरोगं ।
सदा श्रवन्तो अशुचि जिगुप्सितं च
न अत्र विज्ञो जने सौमनस्यं ॥
कामनिदानं प्रपतिषु दुर्गतीषु
उच्चावचं दुःखं नरा देवयन्ति ।
मुद्गा च माषा यथ कुम्भप्राप्ता
तथैव खिन्ना नरकेषु सत्वा ॥
असीहि च्छिन्ना बहुविधम् आत्मभावा
शक्तिशरेहि पुन पि संप्रभिन्ना ।
बाला करोन्ति त्रिविधं अनिष्टं
न अत्र जातु अभिरतु बोधिसत्वो ॥
रूपेहि वूल्हो भवति सम्मोहजातः
यो कामतृष्णां जने अल्पबुद्धिः ।
स्वयं व सेवि दुःखकररोगमूलं
यथा स्मसाने कुणपं शृगालः ॥ {श्मशाने}
[_म्वु_2.327_] मा कृष्णबन्धु मम मोहनार्थं
कामां प्रशंस गर्हिता पण्डितेहि ।
अंगारकर्षूं यथ संप्रपूरां
तथैव कामां त्यजे बोधिसत्वो ॥
न कामसेवी हि इमं प्रदेशं
द्विजाभिकीर्णं स्फुट पादपेहि ।
न चापि एवं स्फुट लक्षणेहि
सेवित्व कामां लभे आत्मभावं ॥
रक्षित्व शीलं अशवलब्रह्मचर्यं
सेवित्व बुद्धां हतरजा निष्किलेशा ।
भावेत्व क्षान्तिं बहुकल्पकोटी
विशिष्टो भोति (स्फुट) आत्मभावो ॥
अच्छिद्रशिलो पुरिमभवे अभूषि
क्षान्ती-उपेतो सद अप्रमत्तो ।
शोधेत्व मार्गं विविधं अनन्तं
सो अद्य लप्स्यं वर-अग्रबोधिं ॥
भगवतो सार्थवाहो हितकरो अप्रमत्तो
पुरतो स्थित्व अवच स कृष्णबन्धु ।
शृणोहि तात मम गिरां भाष्यमाणां
मा अत्र दोषं प्रजने अप्रसादं ॥
यद् एष जातो असदृश पुण्यवन्तो
कम्पे सशैला वसुमति षड्विकारं ।
[_म्वु_2.328_] ओभासिता दश दिशता अभूषि
दिव्या च वाद्या अघट्टिता संप्रवाद्यि ॥
दिव्यां छत्रां धारये देवपुत्राः
ध्वजपताकैः स्फुटो बुद्धक्षेत्रो ।
चैला भ्रमेन्सु मरुगणा देवसंघा
अप्रमादं जनयि अदीनसत्वा ॥
एषो चक्षुर् भविष्यति सर्वलोके
आलोकभूतस् तिमिरं निहत्वा ।
एषो न्धकारं विधमे दुःखितानां
मा अप्रसादं जनेहि बालबुद्धे ॥
एषो हि लेनं भविष्यति सर्वलोके
त्राणं च द्वीपं शरणं परायणं ।
अकरित्वा नरमरु च प्रसादं
घोरं व्रजन्ति निरयं अवीचिं ॥
एषो हि लोके असदृशो दक्षिणेयो
एषो हि लोके सततं हितानुकम्पी ।
एतं सक्तृत्वा नरनारिसंघा
च्युता सुखी भवे इह सर्वलोके ॥
यो अत्र मानं जने न प्रसादं
पुण्योपपेते धुतरजे शाक्यसिंहे ।
न तस्य जातु भवे स्वस्तिभावो
च्युतश् च क्षिप्रं व्रजे दुर्गतीषु ॥
[_म्वु_2.329_] एषो हिमां अचलचमूं प्रभेत्ति
अभ्युत्क्षिपित्वान ते सागरातो ।
क्षेत्राण कोटीनयुता क्षिपेय
मूल पाठ: Mahāvastu-avādana · Edition: Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)) · Data entry Emmanuel Fauré · GRETIL (Göttingen) · CC BY-NC-SA 4.0