महावस्तु-अवादन · भाग 201220
महता परिवारेण शोभनेन महाबलो ।
पूजयति द्विपदश्रेष्ठं संबुद्धम् अपराजितं ॥
यत्र सो जायते गेहे पुण्यतेजेन तेजितो ।
तं कुलं सत्कृतो भोति राष्ट्रेण निगमेन च ॥
मालाविहारं कृत्वान चित्तं बोधाय नामये ।
तस्यैषा भोति संपत्ति या बुद्धेहि प्रशंसिता ॥
न सो कुब्जो च खंजो वा खलितो वा विचंक्रमो ।
अलंकृतो लक्षणेहि यत्र यत्रोपपद्यति ॥
दरिद्र सत्व पश्यित्वा धनेन अभिच्छादये ।
असंहरणीयश् च सो चरन्तो बोधिचारिकां ॥
इमां च वसुधां सर्वां ओशिरित्वा महामतिः ।
अदीनचित्तो सो भोति न सो जातु विषीदति ॥
पुत्रांश् च धीतरांश् चैव भार्या कल्याणभद्रिकां ।
ओशिरित्वान सो याति यो बोधिम् अभिप्रस्थितो ॥
पूर्वालापी च सो भोति सुमुखश् च सुदर्शनः ।
[_म्वु_2.368_] न सो हन्यति ईर्ष्याये न च मानेन कदा चन ॥
सो अनीर्षु सूरतश् चैव क्षान्तिये पारमिंगतो ।
हितैषी गुणसंपन्नो यो बोधिम् अभिप्रस्थितो ॥
रतनं सर्वलोकस्मिं उत्पादस् तस्य दुर्लभो ।
अनिंदितो दक्षिणीयो यो बोधिम् अभिप्रस्थितो ॥
गगणे निमिषे शक्यं बालेन गणेतु तारकां ।
न तस्य गुणपर्यन्तं शक्यं वाचाय भाषितुं ॥
शक्यं सर्वेषां सत्वानां त्रियध्वचित्तं जानितुं ।
न तस्य गुणपर्यन्तं शक्यं वाचाय भाषितुं ॥
महासमुद्राश् चत्वारो बालेन सिकतां तथा ।
नागकोटीसहस्राणि न तस्य गुण भाषितुं ॥
ये रोमा सर्वसत्वानां गतिषु षट्सु ये जगे ।
गणेतु निमिषे शक्यं न तस्य गुण भाषितुं ॥
यत्रेयं वसुधा सर्वा आपस्कन्धे प्रतिष्ठिता ।
निर्मितुं शक्यते बालेन न तस्य गुण भाषितुं ॥
देवागारम् उपादाय ये कल्पस्थायिजीविनो ।
ये अत्रान्तरेण वृक्षा ये च भूमि अनागता ॥
पुष्पा फलानि च शक्यं गणयितुं विजानता ।
त तस्य बुद्धपुत्रस्य गुणपर्यन्त भाषितुं ॥
भाषेयुस् तस्य शूरस्य वर्णमालां मनोरमां ।
[_म्वु_2.369_] न शक्यं बुद्धपुत्रस्य गुणपर्यन्त भाषितुं ॥
जातीशतसहस्राणि यः से करेय अप्रियं ।
देवा मनुष्यां वर्जेत्वा निरयस् तस्य गोचरः ॥
अन्धो अचक्षुको भोति दुःखितो अपरायणो ।
उत्पीडां बोधिसत्वानां यः करोति अविद्दसु ॥
च्युतो अवीचिं गच्छेया दारुणं भयभैरवं ।
महता आत्मभावेन दुःखां वेदेति वेदनां ॥
योजन-आत्मभावेन भोति तत्रोपपद्यते ।
समन्तमण्डलाकीर्णो समन्तपरितापितो ॥
पंच शीर्षसहस्राणि आत्मभावे प्रतिष्ठिता ।
एकशीर्षे च जिह्वानां शता पंच अनूनका ॥
हलानां शत एकस्मिं जिह्वाग्रे प्रतिपादिता ।
तं पाचेति महाघोरं पापकर्मस्य तत् फलं ॥
अवीचितश् च्यवित्वान तपनं च प्रतापनं ।
वेदेति तत्र दुर्मेधो पौराणं दुष्कृतं नरो ॥
उत्पीडां बुद्धपुत्राणां यः करोति अविद्दसु ।
न तस्य सुलभो जातु भेष्यते मानुषो भवः ॥
जातीशतसहस्राणि शतानि नयुतानि च ।
दुःखा वेदनां वेदयति ततोनिदानं पच्यति ॥
मज्जाघासो विषो भोति अभिमर्दो भयानको ।
[_म्वु_2.370_] उत्पीडनं करित्वान बुद्धपुत्राण तायिनां ॥
क्षुधापिपासाम् अधिगतो पापकर्मस्य तत् फलं ।
न सो भोजनं लब्ध्वान जातु तृप्तीय भुंजति ॥
ततो च्यवित्वा यमलोके महाद्रोणिषु खज्जति ।
न त्राणं लभते जातु कृत्वा उत्पीड भिक्षुणां ॥
ततो च्युतः कालगतो मानुषं लोकम् आगतो ।
जात्यन्धो भोति दुर्मेधो दृष्टचित्तो असंवृतो ॥
वाचा दुर्भाषिता भवति असत्या घोषपापिका ।
मनुष्येहि च्यवित्वान क्षिप्रं गच्छति दुर्गतिं ॥
कल्पकोटीसहस्रेहि न जातु बुद्धं पश्यति ।
उत्पीडां बुद्धपुत्राणां यः करोति असंवृतो ॥
वस्तुषु बुद्धपुत्राणां करोन्तो रक्ष धार्मिकां ।
वर्जेति दुर्गती सर्वां क्षिप्रं गच्छति स्वर्गतिं ॥
आढ्यो महाधनो भवति बलवन्तो विशारदो ।
स्मृतिप्रज्ञाय संपन्नो सुखितो भोत्य् अनुपद्रुतो ॥
यदा च लोकप्रद्योता भवन्ति परिनिर्वृता ।
पश्यित्वा बुद्धस्तूपानां सत्करोन्ति पुनर् पुनः ॥
को इमान् एदृशा धर्मां श्रुत्वा बुद्धस्य भाषितां ।
प्रसादं बुद्धपुत्राणां न करेया पुनः पुनः ॥
यश् च बुद्धसहस्राणि शतानि नयुतानि च ।
यथा वालिका गंगाये एत्तकां कल्प सत्करे ॥
यश् च प्रलुज्जन्तं सद्धर्मं लोकनाथेन दर्शितं ।
[_म्वु_2.371_] एकरात्रिंदिवं चापि धारये पुण्यं विशिष्यति ॥
अहं च पूजितो भोति बुद्धज्ञाने प्रतिष्ठितः ।
ते पि च पूजिता बुद्धा धर्मे लुज्जन्ते धारिते ॥
प्रलुज्जमाने सद्धर्मे यो रक्षे शास्तु शासनं ।
कल्पकोटीसहस्रेहि न सो जातु विहन्यति ॥
कायेन सुखितो भोति न स रोगं च गच्छति ।
अमनापसहस्रेहि न जातु संहरीयति ॥
क्षान्तिये भोति संपन्नो सूरतः सखिलो मृदुः ।
मैत्रचित्तश् च सत्वेभ्यो रक्षित्वा शास्तु शासनं ॥
सुखितो प्रमुदितः प्रतिक्रोशं
प्रतिलभति पुरिमनिरोधदृष्टं ।
सर्वां जहति अक्षणां अशेषा
जिनवरधर्म धारेत्वा लुज्जमानं ॥
कवचितो सदा भोति लक्षणेहि
यथा गगणं प्रतिपूरं तारकेहि ।
स मधुरवचनो मनोज्ञघोषो
जिनवरधर्म धारेत्व लुज्जमानं ॥
हीनकुलविवर्जितो स भोति
सुखितं येषु न अस्ति सौमनस्यं ।
आढ्य सुखित भोति भोगवां च
[_म्वु_2.372_] जिनवरधर्म धारेत्व लुज्जमानं ॥
स्थामवर उपेति वीर्यवन्तो
विचरति सर्वां वसुन्धरां अदीनो ।
बुद्धशतसहस्र सत्करोति
जिनवरधर्म धारेत्व लुज्जमानं ॥
स्मृतिमतिगतिवन्तो पुण्यवन्तो
परमसुसत्कृतु भोति नरामरेषु ।
विदु परमप्रशस्त जंबुद्वीपे
जिनवरधर्म धारेत्व लुज्जमानं ॥
परमसु-अभिरूपदर्शनीयो
प्रिय भवति नरनारीणां मरूणां ।
सुरुचिरु प्रशस्तु पुण्यवन्तो
जिनवरधर्म धारेत्व लुज्जमानं ॥
कल्पशतसहस्रकोटी पूरां
गुणस्थाविर्यसंगतो अनन्तज्ञानी ।
नो च क्षपेय सर्व आनुशंसं
जिनवरशासनं लुज्जितं धरेत्वा ॥
येषाम् इमं पुरिमसूत्रं शास्ता
दशबलधारि प्रकाशि देवदेवो ।
तेषाम् इदं नराणां हर्षम् अप्रकम्प्यं
भविष्यति पश्चिमे काले वर्तमाने ॥
भाषेच् च जिनवरधर्म निर्वृतानां
[_म्वु_2.373_] श्रद्धाय तेषां धरयति गारवेण ।
दानं च देति अपरिमितचेतियेषु
पूजेति संघ भगवतो च गारवेण ॥
प्रलज्जमाने जिनवरशासनस्मिं
धारेति शास्तु वरधर्मनेत्री ।
सो तं अकरित्वा शुभकर्मश्रेष्ठं
नोपचक्रमे शुभं कालकर्मं ॥
सर्वे च सत्वा सियु लोकनाथा
समन्तचक्षू हतरजनिष्किलेशा ।
ते कल्पकोटीनयुतां सहस्रां
भाषेयु वर्णं जिनवरे पुष्पदिन्ने ॥
पापं च कर्मं विजहति सर्वकालं
श्रेष्ठं च धर्म प्रकरि उदग्रचित्तो ।
चरित्वार्थं सुचिरं चारिकासु
सो बुद्धो लोके भवति अतुल्यो ॥
यः सार्षपेण सूक्ष्मतरं ग्रहेत्वा
धूपेय गन्धं भगवतो चेतियेषु ।
तस्यानुशंसां शृणोथ मे भाषमाणं
प्रसन्नचित्ता जहिय किलेशां ॥
सो पुण्यवन्तो चरति दिशासु
अरोगप्राप्तो दृढव्रत अप्रमत्तो ।
विनेति लोकां चरयन्तो चारिकां
प्रियो मनापो भवति जनस्य ॥
[_म्वु_2.374_] राज्यं च प्राप्तो जिन सत्करोति
महानुभावो विदु चक्रवर्ती ।
सुवर्णवर्णो स्फुटो लक्षणेहि
मनोज्ञगन्धां लभते सर्वकालं ॥
तस्य दुःखं नास्ति दौर्मनस्यं
स भोगां हीनां वितरि चारिकासु ।
आढ्यश् च भोति धनवां प्रभूतभोगो
अशेषप्राप्तो विचरति सर्वलोके ॥
उपसंक्रमि बहुजनं पृच्छमानो
धर्मं विशिष्टं जिनशासनस्मिं ।
विनेति कांक्षां गिरां भाषमाणः
श्रुत्वा च धर्मं लभे सौमनस्यं ॥
न पापकर्मं करि हीनबुद्धिः
ज्ञानं तु ज्ञात्वा परमं विशिष्टो ।
करोति दिव्यं शुभप्रेमणीयं
शोधेति चक्षुं विधमति अन्धकारं ॥
न तीव्ररागो भवति न तीव्रदोषो
न तीव्रमोहो भवति मनुष्यलोके ।
चरन्त शुद्धं अशबलब्रह्मचर्यं
करोति अर्थं अपरिमित-अनन्तं ॥
न कस्यचिद् भवति प्रदुष्टचित्तो
न भोगहानिर् भवते कदाचित्* ।
न तस्य नीघो भवति जनस्य
धूपेत्व गन्धं जिनचेतियेषु ॥
[_म्वु_2.375_] विशुद्धचित्तो विमलो विधूतपापः
शान्तः प्रशान्तः परशमेनुपेतः ।
कल्पान कोटी नयुता शतां चरित्वा
बोधिं अतुल्यां स्पृशति अदीनचित्तो ॥
सत्वान कोटीनयुतां सहस्रां
मार्गे अशोके परमे स्थपेत्वा ।
वर्तेत्व चक्रं असदृशं सर्वलोके
निर्वायि पश्चा हतरजो निष्किलेशो ॥
पताकं दत्त्वा भगवतो चेतियेषु
जनयेत्* छन्दं कथम् अस्मि बुद्ध लोके ।
सो पूजनीयो भवति जनस्य
चरन्तु श्रेष्ठो जिनचारिकाये ॥
विघुष्टशब्दो भवति विदु प्रशंस्यः
शुद्धं विशुद्धं लभे आत्मभावं ।
उद्वीक्षणीयो भवति जनस्य
देवान नागान गुरु पूजितश् च ॥
सुवर्णवर्णो सद आत्मभावो
लाभी च भोति शुभचीवराणां ।
कर्पासिकानाम् अथ कम्बलानां
क्षोमदुकूलान च कौशिकानां ॥
ये जंबुद्वीपे कुलश्रेष्ठ भोन्ति
आढ्या महात्मा बहुधनस्वापतेया ।
तत्रैव तस्य भवतोपपत्ति
[_म्वु_2.376_] वर्जेति हीना कुला ये दरिद्रा ॥
येन तस्य क्वचिज् जनियति ईश्वरत्वं
प्रदुष्टचित्तो न भवति कश्चि सत्वो ।
पापं च कर्मं गरहति सो परेषां
विशुद्धशीलो भवति सदाप्रमत्तो
अमत्सरी भवति अनाग्रहीतः
सो मुक्तत्यागो भवति अशोकप्राप्तो ।
न जीविकार्थं जनयति सो परेषां
विघुष्टशब्दो भवति सदा प्रशस्तो ॥
पश्यित्व बुद्धं महासार्थवाहं
करोति पूजां सद हृष्टचित्तो ।
छत्रैः पताकैः ध्वजगन्धमाल्यैः
सदा चरन्तो अशबलब्रह्मचर्यं ॥
मनुष्यलोके गुरुकृत सत्कृतो च
देवेषु दिव्यं लभति विमानश्रेष्ठं ।
मनोज्ञवर्णं सुरुचिरदर्शनीयं
रजताभिच्छन्नं मणिस्फाटिकेहि ॥
[चित्रं] सुमेरुमूर्ध्ने लभति ईश्वरत्वं
सर्वे स्य देवा अभिनत शिष्यभूता ।
धर्मेण तेषां जनयति सौमनस्यं
न जातु भोति परमप्रमत्तो ॥
ततो च्यवित्वा भविष्यति मनुष्यलोके
राजान श्रेष्ठो वरचक्रवर्ती ।
न तस्य पापं जनयति कश्चि सत्वः
[_म्वु_2.377_] प्रियो मनापो भवति जनस्य ॥
कल्पान कोटीनयुता सहस्रां
लभित्व सौख्यं सुचिरं मर्त्यलोके ।
गत्वान देशं पुरिमजिनान वुट्ठं
सो बोधिं बुद्धे अजरमराम् अशोकां ॥
ध्वजं दहित्वा हतरजसत्वसारे
तं च प्रसूतं लभे नो चिरेण ।
प्रभूतकोशो भवति अनोपमप्रज्ञो
परिवार तस्य होति अदीनचित्तो ॥
लभित्व भोगां विभजति भुंजते च
न तस्य त्रासो भवति न दौर्मनस्यं ।
राजा सो तुष्टो वितरति ग्रामराष्ट्रं
न पापचित्तं जनयति तस्मिं जातु ॥
श्रेष्ठी विशिष्टो भवति प्रभूतकोशो
गृहपतिश् च रतनविचित्रितांगो ।
पुत्रो च राज्ञो अथ वा अमात्यो
राजा च भवति बलचक्रवर्ती ॥
वर्जेति सो हीनकुलानि सर्वान्*
विशिष्टभोगं कुलरत्नं लभित्वा ।
सदाप्रमत्तो भवति अलीनचित्तो
वर्जेति कामां यथ मीढकुम्भं ॥
[_म्वु_2.378_] विशिष्टरूपं लभते क्षणांश् च
कुले च श्रेष्ठे भवतीश्वरश् च ।
परिवारस् तस्य भवति अभेद्यो
पुरस्कृतश् च भवति जनेन ॥
न चित्तशूलं जनयति सो पुरेषु
प्रसन्नचित्तो सदा अप्रमत्तो ।
न तस्य अग्नि क्रमते न शस्त्रं
उल्लोकनीयो सद पुण्यवन्तो ॥
प्रमादं सो न चरति पुण्यवन्तो
सुसंप्रजानो सद सो मनुष्यो ।
सुनिगृहीतो भवति मुक्तचित्तो
न तस्य . . . . धर्मस्य अन्तो ॥
सुतीक्ष्णगात्रो भवति विशिष्टो
सुविशुद्धचित्तो भगवां सत्यवादी ॥
भयार्दितानां जने सौमनस्यं
त्राणं चरेय च परायणं च ॥
स वै करित्वा बहुकामनुष्यं
प्रतिस्थिहित्वा महाज्ञानस्कन्धे ।
गच्छित्व मण्डं वरपादपेन्द्रं
बुद्धे अतुल्यो वर-अग्रबोधिं ॥
हेष्टा उपादाय भवाग्रपूरं
[_म्वु_2.379_] जाम्बूनदस्य इमं बुद्धक्षेत्रं ।
शक्यं क्षपेतु शिरिम् एवरूपां
न बुद्धस्तूपे धरयतो एकदीपं ॥
न तस्य कायो भवति विवर्णो
दृढे स पीठे . . . . . अच्छति ।
आलोकप्राप्तो चरे सर्वलोके
दहित्व दीपं भगवतो चेतियेषु ॥
यदा च भोति जिनप्रादुर्भावो {सेनर्त्: -प्रादुभावो}
आसन्नप्राप्तो भवति तथागतस्य ।
पुत्रो च भ्राता अथ पिता वा ज्ञातिको
सो ज्ञानस्कन्धं लभे नचिरेण ॥
बुद्धान क्षेत्रा नयुतामिता सहस्रा
पूरा भवेन्सुः यदि सर्षपाणां ।
शक्यं गणेतुं तुलय्य जानितुं वा
न बुद्धस्तूपे धरयतो एकदीपं ॥
अग्रार्हं बुद्धो वरदक्षिणीयो
अग्रां चरित्वा चारिकां विशिष्टां ।
करित्व पूजं गुणसागरस्य
विपाको अग्रो भवति अनोपमो ॥
वैडूर्यरत्नेहि मणीहि पूरा
सर्वा सियायं सहालोकधातु ।
शक्यं क्षपेतुं शिरिम् एवरूपां
न बुद्धस्तूपे धरयतो एकदीपं ॥
[_म्वु_2.380_] कार्षापणेहि सहलोकधातुं
हेष्टा उपादाय भवाग्रपूरां ।
शक्यं क्षपेतुं शिरिम् एवरूपां
न बुधस्तूपे धरयतो एकदीपं ॥
क्षेत्रसहस्रा वरचन्दनेन
हेष्टा उपादाय भवाग्रपूरां ।
शक्यं क्षपेतुं शिरिम् एवरूपां
न बुद्धस्तूपे धरयतो एकदीपं ॥
क्षेत्रा सहस्रा बहुवस्त्रपूरा
यं देवलोके शुभकस्मि दुष्यं ।
शक्यं क्षपेतुं शिरिम् एवरूपां
न बुद्धस्तूपे धरयतो एकदीपं ॥
देवेषु दिव्या च रत्ना विचित्रा
नागासुरमनुजमहोरगानां ।
शक्यं क्षपयितुं शिरिम् एवरूपां
न बुद्धस्तूपे धरयतो एकदीपं ॥
ये दिव्यगन्धा नरदेवलोके
तेहि भवेया सहा संप्रपूरा ।
शक्यं क्षपेतुं शिरिम् एवरूपां
न बुद्धस्तूपे धरयतो एकदीपं ॥
प्रमाणं शक्य दिशि विदिशासु ज्ञातुं
आकाशधातु अयम् एत्तिको ति ।
[_म्वु_2.381_] न बुद्धस्तूपे धरयतो एकदीपं
प्रमाण शक्यं गणयितुं पुण्यस्कन्धे ॥
छत्रं से दिन्नं भगवतो मारुतानां
बुद्धोत्तमस्य व्रजतो नरर्षभस्य ।
चित्तं प्रसादेत्व नरोत्तमस्मिं
मा बुद्धकायं तपे रस्मिराजा ॥
सो तं करित्वा अहं धर्मश्रेष्ठं
शतं सहस्रं मरुशक्र आहु ।
ब्रह्मापि आसि अहं ब्रह्मलोके
शतसहस्रं ददिय जिनस्य च्छत्रं ॥
राजा अभूषि अहं चक्रवर्ती
शतसहस्रं दशदिशाचरो भूयः ।
श्रेष्ठी अभूत्* धनवां प्रभूतकोशो
गृहपति बहुधनो पुण्यवन्तो ॥
विंशच् च कोटि सुगतोत्तमानां
आगमित मे गुरुकृत सत्कृता च ।
शय्यासनेहि . . . . . . . . . . . . .
विहारास् तेषां कृतगन्धलिप्ताः ।
दौर्गन्धियं अपगतं सर्व मह्यं
उष्णं च शीतं विवर्जितं मे ॥
तुष्टो च भोसि परमोदग्रचित्तो
पूजां च तेषां परमोत्तमानां ।
करोषि अलंकृत्वा शुभदर्शनीयं
[_म्वु_2.382_] ददित्व च्छत्रं जिनचेतियेहि ॥
तस्यापि भोति शुभ आत्मभावो
द्वात्रिंशतीहि स्फुट लक्षणेहि ।
येहि स्य नित्यं प्रतपति आत्मभावः
यूपो विशिष्टो यथ कांचनस्य ।
जाम्बूनदस्य यथ दर्शनीयो
असंप्रकीर्णो स्फुटो व्यंजनेहि ॥
अभिज्ञप्राप्तो भवति भिषच्छ्रेष्ठो
चरन्तो जित्यं जिनचारिकासु ।
न भोगहीनो भवति कदाचिद्*
देवान भोति गुरु पूजितो च ॥
न कामभोगै रमते कदाचिद्*
विशुद्धशीलो सद ब्रह्मचरी ।
समादियित्वा पवनं व्रजित्वा
अरिक्तध्यानो सुविशेषप्राप्तो ॥
न ध्यानहानिर् भवते कदाचित्*
न बोधिचित्तं जहते कदाचित्* ।
मैत्राविहारी सद हृष्टचित्तो
ददित्व च्छत्रं जिनचेतियेषु ॥
वाद्येषु पूजित्व नरर्षभस्य
न शोकशल्या प्रसहन्ति तस्य ।
मनोज्ञघोषो च मनुष्यलोके
स्वरं च तस्य विशुद्ध भोति ॥
विशुद्धश्रोतो च उदग्रचित्तो
[_म्वु_2.383_] विशुद्धचक्षू च सुसंप्रजानो ।
श्रोतेन्द्रियेण सु-उपेतो भोति
वादेत्व वाद्यं जिनचेतियेषु ॥
जिह्वास्य भोति तनुदर्शनीया
पद्मप्रकाशा यथ पुण्डरीकं ।
रक्त प्रवाडा यथ देवतानां
यं यं स्वरं ओसिरे दर्शनीयं ॥
न जडो भोति अजिह्वो [कुब्जो] न खंजो
न पि विच्छिन्नांगो विशिष्टो भोति ।
प्रवरात्मा भोति प्रवरात्मभावो
वादेत्व वाद्यं जिनचेतियेषु ॥
न तस्य कश्चिज् जनो दुर्मनो स्यात्*
देवा च नागा मनुजा महोरगा ।
आश्वासप्राप्तो चरे सर्वलोके
वादेत्व वद्यं जिनचेतियेषु ॥
न जातु गिलानो भवे पाण्डुरागो
न चापि कुष्ठी नापि च किलासी ।
प्रशंसनीयं लभे आत्मभावं
वादेत्व वाद्यं जिनचेतियेषु ॥
प्रभूतचित्तो च अकुब्जगात्रो
उत्तप्तवर्णो यथ सुवर्णबिंबं ।
दृढसमाधि च असंप्रवेधी
[_म्वु_2.384_] वादेत्व वाद्यं जिनचेतियेषु ॥
देवेषु खो . . . . . ईश्वरत्वं
मनुष्यलोकं पि गतु पूजनीयो ।
उत्तप्तवीर्यो भवति अमर्दनीयो
वादेत्व वाद्यं जिनचेतियेषु ॥
न सो कहिंचिज् जने अप्रसादं
न चापि कंचित्परुषं भणाति ।
पैशुन्य सर्वं विजहति सत्यवादी
वादेत्व वाद्यं जिनचेतियेषु ॥
अलंकारा कृत्व जिनचेतियेषु
स्नापित्व स्तूपानि तथागतानां ।
विशुद्धवाक्यो स्नपयित्व स्तूपं
रजो धोवमानो विरजस्य स्मृत्या ॥
धर्मं करित्वा करिकारधर्मं
आरोग्यप्राप्तो चरे सर्वलोके ।
प्रशंसनीयो भवते जनस्य
कारीषि दत्त्वा जिनचेतियेषु ॥
अखण्डशीलो च अरिक्तध्यानो
प्राप्त्वान सेवां धनम् अप्रसह्यं ।
आज्ञां करोति बहुकां जनस्य
कारीषि दत्त्वा जिनचेतियेषु ॥
श्मसानसंज्ञां जनयते इष्टिकासु
[_म्वु_2.385_] न कामलोको च न रक्तचित्तो ।
लाभाय छन्दं जहति अशेषं
कारीषि दत्त्वा जिनचेतियेषु ॥
न चित्तपीडां जनये परेषु
न खाद्यभोज्येन जने सौमनस्यं ।
न च दरिद्रो स न चापि रोगी
कारीषि दत्त्वा जिनचेतियेषु ॥
अमित्रपक्षो न च तस्य भोति
पूजेति बुद्धां सततं अभेद्यो ।
बुद्धं च धर्मं जिनश्रावकां च
कारीषि दत्त्वा जिनचेतियेषु ॥
क्षेत्रा सहस्रा बहवो अनन्ता
जाम्बूनदेन सिया सर्वपूरा ।
शक्यं क्षपेतुं शिरिम् एवरूपां
न तैलविन्दुं जिनस्तुपे दत्त्वा ॥
सदा च भोति वशि आत्मचित्ते
न चेष्टमानो व्रजति कदाचित्* ।
अभिन्नहस्तो च अभिन्नपादो
कारीषि दत्त्वा जिनचेतियेषु ॥
उन्मार्ग सर्वं पि जहाति तेन
येन व्रजन्ते बहुदुर्गतीयो ।
विशोधितो स्य भवे स्वर्गमार्गो
कारीषि दत्त्वा जिनचेतियेषु ॥
नामेत्व चित्तं सहलोकनाथे
[_म्वु_2.386_] तैलस्य विन्दुं जिनचेतियेषु ।
ददेय एकं शतधा करित्वा
तं पुण्यस्कन्धं क्षपयितुं न शक्यं ॥
इष्टिका गृह्य भगवतो चेतियेषु
पुण्यस्यार्थाय नरो चेद् धरेय ।
न तस्य जातु अमनोज्ञगन्धं
कायो स्य गन्धं लभे चन्दनस्य ॥
कल्पान कोटीनयुता सहस्रां
विशिष्टकायो भवते शुभांगो ।
विघुष्टशब्दो वरलक्षितांगो
शोधेत्व स्तूपं पुरुषोत्तमस्य ॥
विमानश्रेष्ठं लभते सुगन्धं
दिव्यं मनोज्ञं वरचन्दनस्य ।
न तत्र तृष्णां जनये कदाचित्*
शोधेत्व स्तूपं पुरुषोत्तमस्य ॥
कोटीसहस्रं लभते अप्सराणां
मनोज्ञगन्धा च सुदर्शनीया ।
तासां न तृष्णां जनये कदाचित्*
शोधेत्व स्तूपं पुरुषोत्तमस्य ॥
अष्टांगुपेतां जलशोभमानां
उद्यानश्रेष्ठां लभते पुष्किरिण्यो ।
दिव्योत्पलेहि च शोभमाना
शोधेत्व स्तूपं पुरुषोत्तमस्य ॥
[_म्वु_2.387_] परिवारस् तस्य भवते अनुरूपं
दिव्यं च घोषं शृणोति विशुद्धं ।
संगीतिशब्दानि सुरासुराणां
शोधेत्व स्तूपं पुरुषोत्तमस्य ॥
कथां च धार्मां शृणे देवतानां
संस्कारा सर्वे च दुःखा अनित्या ।
ग्राह्यं च भोति वरदान दानं
शोधेत्व स्तूपं पुरुषोत्तमस्य ॥
जराभिभूतो उपगतो स्वर्गलोकं
न तस्य भूयो इतो दुर्गतीयो ।
स बुद्धं च पश्यति मर्त्यलोके
शोधेत्व स्तूपं द्विपदोत्तमस्य ॥
कथां च कृत्वा शुभ देवतानां
स्थपेत्व देवा बहुबुद्धस्तूपं ।
कालं करित्व उपगमि मर्त्यलोके
शोधेत्व स्तूपं पुरुषोत्तमस्य ॥
सो जातमात्रो स्मरे कल्पान् अनन्तां
ये पूर्वं बुद्धा पूजित सत्कृता च ।
नामं च तेषां स्मरति गणं च धर्मं
शोधेत्व स्तूपं द्विपदोत्तमस्य ॥
अनुलेपेन भगवतो यो करोति
पूजां विशिष्टां सुमनोज्ञघोषां ।
सो लब्धलाभो विचरति सर्वलोके
आदिन्नसारो वरगन्ध दत्त्वा ॥
[_म्वु_2.388_] प्रलुज्जकाले जिनशासनस्य
न सो इहागच्छति जम्बुद्वीपे ।
स्वर्गेषु संधावति तस्मि काले
गन्धानुलेपं करियान स्तूपे ॥
दुर्गन्धकामां सुजुगुप्सनीयां
वर्जेति नित्यं स्थितो शीलस्कन्धे ।
सदा चरन्तो इह ब्रह्मचर्यं
गन्धानुलेपं ददियान स्तूपे ॥
इतो च्यवित्वा मरुस्वर्गलोके
अथ सहस्रा तुलयति अप्रमेयां ।
करोति अर्थं बहुदेवतानां
गन्धानुलेपं ददियान स्तूपे ॥
यस्मिं च काले नरा भोन्ति आढ्या
अदुष्टचित्ता मृदुमार्दवा च ।
तस्मिन् तु काले स्थितो जम्बुद्वीपे
गन्धानुलेपं ददियान स्तूपे ॥
अपायभूमिं विजहिय सर्वां
आसन्नप्राप्तो स जिनस्य भोति ।
प्रतीतो भवति सुखप्रेमणीयो
गन्धानुलेपं ददियान स्तूपे ॥
विशिष्टवाक्यो भवति सुघोषो
प्रियो मनापो जनसत्कृतो च ।
[_म्वु_2.389_] सुखं च तस्य सद सुप्रसन्नं
गन्धानुलेपं ददियान स्तूपे ॥
राजापि भोति वरचक्रवर्ती
श्रेष्ठी अमात्यो गृहपति पुण्यवन्तो ।
बुद्धो पि [भोति] प्रभंकरो धर्मस्वामी
गन्धानुलेपं ददियान स्तूपे ॥
मणिहारं दत्त्वा जिनचेतियेषु
उदग्रचित्तो प्रमुदितो वेगजातो ।
सो भोति राजा सह लक्षणेहि
महानुभावो गुरुकृतो चक्रवर्ती ॥
मणिविमानं रुचिर प्रेमणीयं
विचित्रवर्णं लभे दर्शनीयं ।
प्रासादम् अग्रं रतनामयं च
महारहाहि स्फुट वेदिकाहि ॥
सो राजधानीं लभते विशिष्टां
नारीगणेहि नरसंप्रपूरां ।
समां सुजातां सुविभक्तरूपां
प्रभूतभोगां बहुशो समन्ता ॥
सुभिक्षक्षेमां अपगतशर्करां
पुष्पावकीर्णां स्फुटावसक्तदामां ।
सुमनोज्ञघोषां प्रियदर्शनीयां
[_म्वु_2.390_] अन्तिष्ठगुप्तां बहुशालिमध्ये ॥
उद्यानरम्यां शुभरुतसन्निनादां
जालविचित्रां सुखसंप्रवेशां ।
ध्वजपताकाहि स्फुटां सुरम्यां
छत्रेहि च्छन्नां शुभदर्शनीयां ॥
न तत्र चोरा न शठा न धूर्ता
राज्ये भवन्ति परवित्तहानी ।
ईर्यापथेन उपपेत सत्वा
विजिते सन्ति सदा मैत्रचित्ता ॥
अतश् च देवां व्रजते सुपुण्यो
स्वर्गेषु भोति परिपृच्छनीयो ।
किं कार्यं शुक्लं कथम् आचरेम
यदा व्रजेम इतो मर्त्यलोके ॥
बुद्धांश् च क्षिप्रं लभे दक्षिणीयां
पश्यित्व सो पूजति लोकनाथां ।
बोधाय च्छन्दं जनयति पूजं कृत्वा
तेनैव बुद्धा हतरज व्याकरोन्ति ॥
बहुज्ञानी भवति महानुभावो
विशेषभूमिस्थितो अग्रसत्वो ।
चित्तप्रसादं भगवतो एकं कृत्वा
कल्पसहस्रं जहे दुर्गतीयो ॥
आरोचयामि इमु भाषमाणो
मा कोचि कांक्षां जने भाषतो मे ।
[_म्वु_2.391_] मा बुद्धज्ञानं क्षिपिया अवीचिं
भवेय पश्चा सुदुःखितो कृच्छ्रप्राप्तः ॥
यो जालकानि उपनये चेतियेषु
लोकप्रदीपे महापुण्यक्षेत्रे ।
सो मारजालं विधापिय अप्रमत्तो
भोति नरेन्द्रो दशबलो निष्किलेशो ॥
अपायभूमिं विजहति अप्रमत्तो
सदा च बुद्धं हतरज सत्करोति ।
सदा च भोति बलचक्रवर्ती
समन्तलोकं उपगत पुण्यवन्तो ॥
देवेषु भोति मरुपति पूजनीयो
दिव्यं च आयुं लभे तत्र क्षिप्रं ।
यशं च दिव्यं तथापि च दिव्यवर्णं
दिव्यं च सौख्यं असदृशम् ईश्वरीयं ॥
रूपां च शब्दान् तथ पुनर् गन्धश्रेष्ठां
स्पृष्टव्यां तथा लभे देवभूतो ।
उल्लोकनीयो भवति महानुभावो
न कामतृष्णां जनयति अप्सरासु ॥
ततो च्यवित्व व्रजति मनुष्यलोकं
सुगन्धिताङ्गो भवति विशिष्टवर्णो ।
न पारिहाणिं लभते कदाचित्*
छोरेत्व जालं जिनचेतियेषु ॥
[_म्वु_2.392_] शूरो च भवति दृढव्रत अप्रमत्तो
न कामभोगे सुरतिं जनेति ।
नैष्क्रम्यतो भवति अदीनचित्तो
छोरेत्व जालं जिनचेतियेषु ॥
सो अक्षणानि परिवर्जयित्वा
क्षणा च तस्य भवन्ति विशिष्टा ।
बुद्धान पूजां अतुलियां सो करोति
छोरेत्व जालं जिनचेतियेषु ॥
न बोधिचित्तं विजहति सो कदाचित्*
न खण्डशीलो भवति असंवृतो वा ।
धर्मं विरागं लभे विशुद्धं
छोरेत्व जालं जिनचेतियेषु ॥
दौर्वर्णियं च जहे सर्वकालं
दौष्प्रज्ञियं च विजहति सो अशेषं ।
विशेषप्राप्तो विचरति सर्वलोके
छोरेत्व जालं जिनचेतियेषु ॥
लाभी च भोति शुचिभोजनानां
वस्त्रां विशिष्टां लभे सुवर्णचित्रां ।
रङ्गोपपेतां सुरुचिरदर्शनीयां
छोरेत्व जालं जिनचेतियेषु ॥
अभ्युद्धरित्वान जिनचेतियेषु
निर्माल्यं तुष्टो प्रमुदितो वेगजातो ।
दुःखां खरां वाचं जुगुप्समानो
[_म्वु_2.393_] आरागये सो दशबलसार्थवाहं ॥
प्रासादिको भवति विशुद्धकायो
उल्लोकनीयो बहुजनपूजितो च ।
न तस्य राजा भवे दुष्टचित्तो
यो चेतिये अपनयि जीर्णपुष्पं ॥
कुमार्ग तस्यापिहिता भवन्ति
यो शीलस्कन्धे स्थितो बोधिसत्वो ।
अभ्युद्धरेया जिनचेतियेषु
ओसिरे पुष्प पुरिमं मिलानं ॥
शोकं च दोषं च जहे सर्वकालं
रागां च काये जहे सर्व अशेषां ।
आश्वासप्राप्तो सो अनन्तकल्पां
यो चेतिये अपनये जीर्णपुष्पं ॥
बुद्धो च भोति सहसार्थवाहो
अनन्ततेजेन मरुपूजनीयो ।
अलंकृतो भवति विशुद्धकायो
यो चेतिये अपनये जीर्णपुष्पं ॥
पंच ददेया शुभदिव्यपुष्पां
मान्दारवां अथ पाटलां वा [निर्माल्यां] ।
यो जीर्णं पुष्पं अपनये चेतियेषु
विपाकु तस्य भवति स शोभमानो ॥
न तस्य काये क्रमति विषं न शस्त्रं
हुतासनं ज्वलितो अग्निस्कन्धो ।
[_म्वु_2.394_] चौरा पि तं न प्रसहन्ति पापा
यो जीर्णं पुष्पं अपनये चेतियेषु ॥
न तस्य पुण्यं सुकरं प्रकीर्तितुं
यन् तेन पुण्यं सुमहत्* गृहीतं ।
ओसन्नपुष्पं जिनचेतियेषु
छोरेत्व तुष्टो प्रमुदितवेगजातो ॥
उद्विद्धकायो भवति उदारो
सदा चरन्तो शुभकर्मश्रेष्ठं ।
न तस्य दूरे वर-अग्रबोधि
छोरेत्व निर्माल्यं जिनस्य स्तूपे ॥
यो चन्दनं किरेय नायकस्य
छन्दं जिनेत्वा परमार्थबोधि ।
सो भोति लोके सद पूजनीयो
प्रासादिको सुमनो तेजवन्तो ॥
तस्यैव राज्ञो प्रणमति सर्वलोको
देवा नागा च मनुजा महोरगा [च] ।
सर्वां सहस्रां कुसुमितलोकधातुं
प्राशासि वीरो ततो ईश्वरत्वे ॥
ये तस्य राज्ये निवसन्ति लोके
प्रतिष्ठन्ति ते वरबुद्धिज्ञाने ।
ते सर्वपापेषु अतिक्रमित्वा
देवमनुष्येषु चरन्ति धर्मं ॥
परिवारस् तस्य भवति अभेद्यो
[_म्वु_2.395_] पुण्यवन्तो स्मृतिवन्त प्रज्ञवन्तो ।
आश्वासप्राप्तो विचरति सर्वलोके
यथाभिप्रायं जनयति तेषु प्रीतिं ॥
प्रपूरवाक्यं स्वराङ्गं भवति शुद्धं
ज्ञापेति सत्वान् सुसखिलश्लक्ष्णवाक्यो ।
न तस्य कोपि जने ईश्वरीयं
उल्लोकनीयो भवति बहुजनस्य ॥
प्रियवद्य दानं तथ अर्थचर्या
समानार्थता च बहुजनस्य ।
अक्रुष्टवन्तो न जनेति रोषं
यो अंगुलीहि नमे बुद्धस्तूपं ॥
न सो अपायं प्रपतेय भूयः
वर्जेति हीनां कुल मर्त्यलोके ।
आढ्यश् च सो भोति प्रभूतकोशो
यो अंजलीये वन्दति बुद्धस्तूपं ॥
देवेन्द्र भोति गत देवलोकं
मनुष्यभूतो पि च भोति राजा ।
न पारिहानि च कदाचि तस्य
यो अंजलीये वन्दति बुद्धस्तूपं ॥
अयुक्तवाचं न कदाचि भाषे
सुभाषितं भाषति नित्यकालं ।
अतृप्त सत्वा वचनेन तस्य
यं सो प्रमुंचेद् वरम् एकवाचं ॥
[_म्वु_2.396_] कालं करोन्तो जिनम् अदृशासि {अद्दशासि?}
मनोज्ञघोषां वसे राजधानीं ।
सो इन्द्रकीले स्थित लोकनाथं
पुष्पां ग्रहेत्वा अभिकिरे वेगजातो ॥
स्वकस्मिं गृहे जिनम् अद्दशासि
भुंजित्व भक्तं वदन्त धर्मं ।
प्रसादजातो जिन सत्करोति
गृहीत्व पात्रं व्रजे नायकस्य ॥
प्रतिगृह्णते तस्य जिनो ऽन्तिकातो
ज्ञात्वान चित्तं चरितं उदारं ।
तस्य यशो भेष्यति देवलोके
विशिष्ट लोके असदृशो दक्षिणीयो ॥
गृहीत ज्ञात्वा सुगतेन पात्रं
सो वेगजातो परितुष्टचित्तो ।
उल्लोकयित्वा तद देवलोकं
जनेय च्छन्दं इमम् एवरूपं ॥
मोचेय सत्वां बहुदुःखप्राप्तां
अन्धान चक्षु सिय सर्वलोके ।
आलोकप्राप्तो तमस्तिमिरस्य घाती
अतीर्णसत्वान् अहम् अपि तारयेयं ॥
अमुक्त मोचेयम् असंस्कृतातो
स्पृशित्व शान्तां वरम् अग्रबोधिं ।
चरे अहं दशदिशा असंप्रकंपो
बुद्धित्व ज्ञानं दुःखितां प्रमोचे ॥
[_म्वु_2.397_] ज्ञात्वान तस्य प्रणिधिम् एवरूपां
यथा तं चित्तं ततो बुद्धज्ञाने ।
स्मितं करित्वा जिनो व्याकरोति
बुद्धो तुवं भेष्यसि लोकनाथो ॥
इदम् अवोचद् भगवान् आत्तमना विशुद्धमति भिक्षुः सदेवमानुषासुरलोको भगवतो भाषितम् अभ्यनन्दे ॥
_____अवलोकितं नाम सूत्रं महावस्तुस्य परिवारं समाप्तं ॥
बोधिसत्वो यथा वीरो नैरंजनाम् उपागमे ।
अथ कालो महानागो एकको व अनुचिन्तयत्* ॥
यथायं रणते पृथिवी कंसपात्रीव ताडिता ।
निःसंशयं महावीरो लोके प्रादुर्भविष्यति ॥
रणतीं पृथिवीं श्रुत्वा नन्दिघोषसमाकुलां ।
भवनातो उत्तरित्वान समन्तं स विलोकये ॥
विलोकयन्तो महानागो असदृशं पुरुषोत्तमं ।
अग्निस्कन्धं ज्वलमानं विद्युं वापि घनान्तरे ॥
नैरंजनायां तीरे अद्रुतगामि अनिघो पुरुषसिंहो ।
घृतहुतनिभाननस् तं नागो काल भवन्तं वन्दे ॥
ततो उदग्रो समानो प्रीतिसुखसमर्पितो ।
बोधिसत्वं नमस्यन्तो इमां गाथाम् अभाषत ॥
यादृशा मे पुरा दृष्टा लोकनाथा महायशाः ।
तेषां तुवं पि सदृशो अत्र मे नास्ति संशयः ॥
[_म्वु_2.398_] यथा उद्धरसे पादं दक्षिणं पुरुषोत्तम ।
दिशाम् अभिविलोकेन्तो अद्य बुद्धो भविष्यसि ॥
यथेयं रणते पृथ्वी कंसपात्रीव ताडिता ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा च भवनं मह्यं अन्धकारतमिस्रकं ।
ओभासेन स्फुटं सर्वं अद्य बुद्धो भविष्यसि ॥
यथा विमानो तेजेन स्फुटो तिष्ठति सर्वशो ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा च विमला नेत्रा विशुद्धा मम नायक ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा चीवरनिक्षेपा यथा च अवगाहसि ।
नैरंजनां शीतकालां अद्य बुद्धो भविष्यसि ॥
यथा नैरंजना रम्या कुसुमेहि समाकुला ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा च पुष्पा वर्षन्ति देवा क्षिपन्ति अम्बरा ।
वृक्षा च प्रणता सर्वे अद्य बुद्धो भविष्यसि ॥
शुचिजलं च वहते प्रतिपूर्णं
पार्थिवोत्तमसुतो अवगाह्य ।
अभ्युदयन्तो अभिषेचयित्वा
उपागमे पुरिमबुद्धनिषद्यां ॥
सर्वमहीं सचतुर्द्वीपसशैलां
खेडपिण्डं व अनपेक्षो जहित्वा ।
[_म्वु_2.399_] याचे स्वस्तिकं तृणां नरसिंहो
यत्र निषण्णो स स्पृशो वरबोधिं ॥
तस्य तृणां मृदुकतूलनिकाशां
स्वस्तिको कनकबिम्बनिभस्य ।
वेगजातु अददे तृणमुष्टिं
तं गृह्य च मृदुतूलांगुलपाणिः ॥
अथ खलु बोधिसत्वो सिंहविक्रान्तं विक्रमे अनुत्तरस्य अमृतस्य आहरणताये । नागविक्रान्तं विक्रमे । ऋषभविक्रान्तं विक्रमे । हंसविक्रान्तं विक्रमे । क्रोञ्चविक्रान्तं विक्रमे । दुष्प्रधर्षविक्रान्तं विक्रमे । अग्रोत्पादविक्रान्तं विक्रमे । श्रेष्ठोत्पादविक्रान्तं विक्रमे । पूर्वोत्पादविक्रान्तं विक्रमे । युगोत्पादविक्रान्तं विक्रमे । प्रणिधिपूर्वोत्पादविक्रान्तं विक्रमे । शत्रुमथनविक्रान्तं विक्रमे । अपराजितविक्रान्तं विक्रमे । महापुरुषविक्रान्तं विक्रमे । अलीनविक्रान्तं विक्रमे । अदीनविक्रान्तं विक्रमे । अहीनविक्रान्तं विक्रमे । अभीतविक्रान्तं विक्रमे । हितैषी-अनन्धकारीकरणताये महाविक्रान्तं विक्रमे । महासंग्रामविजयाये अनुत्तरस्य अमृतस्य आहरणताये विक्रान्तं विक्रमे ॥
___अथ खलु बोधिसत्वं सिंहविक्रान्तं विक्रमन्तं । नागविक्रान्तं विक्रमन्तं । ऋषभविक्रान्तं विक्रमन्तं । हंसविक्रान्तं विक्रमन्तं । क्रोञ्चविक्रान्तं विक्रमन्तं । दुष्प्रधर्षविक्रान्तं विक्रमन्तं । अग्रोत्पादविक्रान्तं विक्रमन्तं । श्रेष्ठोत्पादविक्रान्तं विक्रमन्तं । पूर्वोत्पादविक्रान्तं विक्रमन्तं । युगोत्पादविक्रान्तं विक्रमन्तं । प्रणिधिपूर्वोत्पादविक्रान्तं विक्रमन्तं । शत्रुमथनविक्रान्तं विक्रमन्तं । अपराजितविक्रान्तं विक्रमन्तं । महापुरुषविक्रान्तं
[_म्वु_2.400_] विक्रमन्तं । अलीनविक्रान्तं विक्रमन्तं । अदीनविक्रान्तं विक्रमन्तं । अभीतविक्रान्तं विक्रमन्तं । हितैषी-अनन्धकारीकरणताये महाविक्रान्तं विक्रमन्तं । महासंग्रामविजयाये अनुत्तरस्य अमृतस्य आहरणताये महाविक्रान्तं विक्रमन्तं पंच वाणशतानि बोधिसत्वं अनुप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः । पंच हंसशतानि बोधिसत्वं अनुप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः । पंच क्रोञ्चशतानि बोधिसत्वम् अनुप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः । पंच मयूरशतानि बोधिसत्वम् अनुप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः । पंच जीवंजीवकशतानि बोधिसत्वम् अनुप्रदक्षिणीकरोन्ता अनुपरिवर्तेन्सुः । पंच कन्याशतानि बोधिसत्वम् अनुप्रदक्षिणीकरोन्ता अनुवर्तेन्सुः ॥
___कालो नाम नागराजा अद्दर्शि दृष्ट्वा च पुनर् बोधिसत्वम् एतद् उवाच ॥ एहि महाश्रमण एहि महाश्रमण येन त्वं महाश्रमण मार्गेण आगच्छसि स भगवां पि महाश्रमण क्रकुच्छन्दो एतेन मार्गेण आगतो सो च अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो त्वं पि अद्य महाश्रमण एतेन मार्गेण आगच्छसि अद्य तुवं पि अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धिष्यसि । येन महाश्रमण मार्गेणागच्छसि भगवान् अपि कोनाकमुनि एतेन मार्गेण आगतो सो च अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो त्वं पि महाश्रमण एतेन मार्गेण आगच्छसि अद्य त्वं पि अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धिष्यसि । येन त्वं महाश्रमण मार्गेणागच्छसि भगवां महाश्रमण काश्यपो एतेन मार्गेणागतो अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो त्वं पि महाश्रमण एतेन मार्गेणागच्छसि अद्य त्वं पि सम्यक्संबोधिम् अभिसंबुध्यिष्यसि ॥
___अथ खलु कालो नागराजा बोधिमण्डं गच्छन्तं गाथाभिर् अभिस्तवे ॥
[_म्वु_2.401_] अथ कल्पसहस्राणि वशिभूतसहस्रकोटीन् अनुचीर्णं ।
दृष्ट्वा तदा व्रजन्तं कालो शाक्योत्तमम् अवोचत्* ॥
मार्गेण येन गच्चसि द्विपदोत्तम अद्रुतं असंभीतं ।
अद्य जिनपारमिताये सर्वसत्वान चरितं बुध्यसि ॥
येन ते पुरिमा बुद्धा मृदुमार्गेण प्रस्थिता ।
तेन त्वं प्रणतो वीर अद्य बुद्धो भविष्यसि ॥
क्रकुच्छन्दो भगवां बुद्धो मुनि कोनाकसाह्वयो ।
काश्यपो भगवां बुद्धो भवां प्य् एतेन प्रस्थितः ॥
येन गतो क्रकुच्छन्दो कोनाकमुनि च काश्यपो ।
एतेन त्वं गच्छ वीर अद्य बुद्धो भविष्यसि ॥
यथा तृणानि गृह्णासि यथा याचसि स्वस्तिकं ।
यथोपेसि महीमण्डं अद्य बुद्धो भविष्यसि ॥
यथा इमे शुद्धावासा वशीभूता करपुटाः ।
नमस्यन्ति तर्हि एषां सत्कारो शाक्यसुता समः ॥
पुरिमेहि यथा विमानं तेजेन स्फुटं सर्वशः ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा च भवनं मह्यं अन्धकारतमिस्रकं ।
ओभासेन स्फुटं सर्वं अद्य बुद्धो भविष्यसि ॥
यथा च विमला नेत्राः विशुद्धा मम नायक ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा च रणते पृथ्वी कंसपात्रीव ताडिता ।
[_म्वु_2.402_] निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा च वाता वायन्ति यथा वृक्षा निरिंगिता ।
यथा द्विजा निकूजन्ति अद्य बुद्धो भविष्यसि ॥
यथा मेदिनी पुष्पेहि समंगिभूतमण्डिता ।
बुद्धानाम् एव उत्पादे एवं भोति अलंकृता ॥
यथा वाणशता पंच करोन्ति त्वां प्रदक्षिणं ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा पत्त्रिशता पंच करोन्ति त्वां प्रदक्षिणं ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा हंसशता पंच करोन्ति त्वा प्रदक्षिणं ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा क्रोञ्चशता पंच करोन्ति त्वा प्रदक्षिणं ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा मोरशता पंच करोन्ति त्वा प्रदक्षिणं ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा जीवकशता पंच करोन्ति त्वा प्रदक्षिणं ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा पूर्णकुम्भशता पंच करोन्ति त्वां प्रदक्षिणं ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
यथा कन्याशता पंच करोन्ति त्वां प्रदक्षिणं ।
निःसंशयं महावीर अद्य बुद्धो भविष्यसि ॥
संमुखं पि च जिनपारमिताये
[_म्वु_2.403_] उपागमे पुरिमबुद्धनिषद्यां ।
स्वस्तिककाले स लोकप्रदीपः
उपाविशे महिरुहाग्रसमीपे ॥
अथ खलु कालो नागराजो बोधिसत्वं सिंहासनगतम् अभिस्तवे ॥
यथा मृदूहि जालेहि संस्तरित्वान संस्तरं ।
यथा पर्यंकम् आभुंजसि अद्य बुद्धो भविष्यसि ॥
यथा वाणशता पंच करोन्ति त्वां प्रदक्षिणं ।
समीपे द्रुमराजस्य अद्य बुद्धो भविष्यसि ॥
त्वं पि नरवीर चरियां अद्य निषेवसि पूर्वं अनुचीर्णां ।
धक्ष्यसि त्वं शठसैन्यं सनागरथ सपदातं ॥
यथा द्वात्रिंशती काये महापुरुषलक्षणा ।
निःसंशयं मारसैन्यं प्रभंजित्वा विरोचसि ॥
अद्य त्वं साश्रवं चित्तं किलेसमदसूदन ।
ज्ञानेनोत्पाटयित्वान बोधिं प्राप्य विभोत्स्यसि ॥
अद्य ते सह धर्मेण प्रतिवक्ता न भेष्यति ।
इति कालो महानागः उरगाणां वरोत्तमः ।
हृष्टो प्रांजलिको आह अद्य बुद्धो भविष्यसि ॥
बोधिसत्वो कालं नागराजानं संरागेति ॥ एवम् एतं महाकाल एवम् एतं महानाग अद्याहं अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यिष्यं ॥
तं च कालम् अवचि द्विपदेन्द्रो
प्रीतिहर्षपरिवृंहितकायो ।
[_म्वु_2.404_] अद्य काल वचनं तव सत्यं
अद्य स्पृशिष्य अनुत्तरबोधिं ॥
अपि महिधरा गिरिवरा न भवेया
चन्द्रमात्र गगणा प्रपतेया ।
नैवाहन् तत्र गतो न भवेयं
भोहि प्रीतिमनसो भुजगेन्द्र ॥
मेरुशृंग अनिलो विधमेया
मेदिनी च गगणं च समेया ।
मादृशा न हि सिंहासनश्रेष्ठं
उपगम्य अमृतं न स्पृशेन्सुः ॥
सो गिरां प्रमुंच तत्र निषण्णो
तिर्यं व द्रुमवरस्य समीपे ।
अद्य सर्वभवमूलम् अशेषं
ऊहनामि रजनीक्षयकाले ॥
स्तवित्व कालो संबुद्धं द्वात्रिंशवरलक्षणं ।
प्रदक्षिणं करित्वान तत्रैवान्तरहायिथ ॥
निषण्णो बोधिसत्वो पंच संज्ञा प्रतिलभे ॥ तद्यथा अतीतसंज्ञा क्षेमसंज्ञा सुखसंज्ञा अशक्यसंज्ञा ॥ इमां च पुनः परसंज्ञां प्रतिलभते ॥ अद्यमहम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धेष्यं [चत्वारि नीतयो तद्यथा साम दण्डो भेदो प्रदानो] ॥
___अथ खलु मारो पापीमां येन बोधियष्टिस् तेनोपसंक्रमित्वा वैहायसे अन्तरीक्षे स्थितः प्रांजलीकृतः बोधिसत्वं नमस्यन्तो ॥ अथ खलु बोधिसत्वो मारं पापीमं इमाये गाथाये अभ्यभाषे ॥
मूल पाठ: Mahāvastu-avādana · Edition: Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)) · Data entry Emmanuel Fauré · GRETIL (Göttingen) · CC BY-NC-SA 4.0