महावस्तु-अवादन · भाग 141160
एवं संजायते प्रेम्नं उत्पलं वा यथोदके ॥
संवासेन निवासेन प्रेक्षितेन स्मितेन च ॥
एवं संजायते प्रेम्नं मानुषाणां मृगाण च ॥
[_म्वु_2.169_] यत्र मनं प्रविशति चित्तं वापि प्रसीदति ॥
सर्वत्र पण्डितो गच्छे संस्तवो वै पुरे भवेत्* ॥
सा दानि गणिका तहिं अश्ववाणिजके जातीसहस्राणि प्रेम्नानुबद्धा । तस्या तहिं अत्यर्थं प्रेम्नं उत्पन्नं ॥ तस्या दानि एतद् अभूषि । यदि एतं पुरुषं न लभामि मरिष्यामि ॥ सा दानि तन्मुहूर्तं चेटिकाम् आह ॥ अमुके गच्छ मम वचनेन एतां वध्यघातां वदेहि अहं वो एत्तकं हिरण्यसुवर्णं दास्यामि मा एतं पुरुषं घातेथ । अन्यो पुरुषो आगमिष्यति एतद्वर्णो एतद्रूपो च तं गृह्य तं मारेथ ॥ तथा च जल्पसि द्वितीयो न जानीते ॥ ततः सा चेटी गत्वा तेषां च घातकानां यथासन्दिष्टं आरोचयेसि ॥ तस्या ते वध्यघातका आहन्सुः ॥ वाढं एवं भवतु ॥ ते दानि कृतान्तसूनिकां गच्छन्ति ॥ तहिं दानि गणिकाकुले श्रेष्ठिस्य एकपुत्रको द्वादशवर्षिकेन क्रयेण प्रविष्टको दश वर्षा अतिक्रान्ता द्वे वर्षा अवशिष्टा ॥ तद्यथाह ॥
शातं माया क्षत्रियाणां ब्राह्मणानां दुवे शता ॥
सहस्रं माया राजानां स्त्रीमाया हि अनन्तिका ॥
सा दानि गणिका श्यामा तस्य श्रेष्ठिपुत्रस्य अग्रतो भोजनं व्यपनेति व्यंजनं च । श्रेष्ठिपुत्रो पृछ्हति ॥ स्यामे किम् इमं भविष्यति ॥ सा आह ॥ आर्यपुत्र तं मे वध्यं दृष्ट्वा कृपा उत्पन्ना । तस्या मे एतद् अभूषि ॥ स्वयं इमं भोजनं हरिष्यामि ॥ श्रेष्ठिपुत्रो आह ॥ मा त्वं स्वयं गच्छे चेटिं प्रेषेहि ॥ सा आह ॥ को जनाति दास्यति वा चेटी न वा दास्यतीति । स्वयं आहरित्वा दास्यामि ॥ ततो सो श्रेष्ठिपुत्रो
[_म्वु_2.170_] आह ॥ आनेहि अहं गमिष्यामि मा त्वं स्वयं गच्छासि ॥ सा दानि भूयस्या मात्रया मायां दर्शयति । आह ॥ न होति मा आर्यपुत्रो गच्छतु अहं गमिष्यामि ॥ श्रेष्ठिपुत्रो पि आह ॥ न हि मा त्वं गच्छ अहं गमिष्यामि ॥ गणिका आह ॥ यथा आर्यपुत्रस्य अभिप्रायो भवतु अहं वा गच्छेय आर्यपुत्रो वा ॥ सो दानि श्रेष्ठिपुत्रो तं भोजनम् आदाय प्रस्थितो ॥ ताये दानि गणिकाये चेटी उक्ता ॥ गच्छ यदा एषो श्रेष्ठिपुत्रो घातितो भवति ततः तं पुरुषं प्रतिच्छन्नं आनयाहि यथा न कोचित् पश्येया याव दानि सूर्यो अस्तमेति ॥ सर्वो जनकायो निवृत्तः ते च वध्यघाताः श्मशानम् अनुप्राप्ताः सो च श्रेष्ठिपुत्रो तं भोजनम् आदाय उपगतो । तेन सो भोजनो तस्य वध्यस्य उपनामितो । तेहि दानि वध्यघातेहि तं श्रेष्ठिपुत्रं घातेत्वा सो अश्ववाणिजको ओसृष्टः ॥
___सो दानि ताये चेटिकाये प्रच्छन्नं तं गणिकाकुलं प्रवेशितो ॥ सो दानि अश्ववाणिजको तत्मुहूर्तके उच्छापितो स्नापितो महारहं वस्त्रं परिहापितो महारहे पर्यंके उपविशापितो गन्धमाल्यं च उपनामितं भोजनम् उपनामितं । पंचहि कामगुणेहि समर्पितः समग्रीभूतो ॥ उभौ क्रीडन्ति रमन्ति प्रविचारयन्ति ॥ सो दानि प्रथमको श्रेष्ठिपुत्रो दशवर्षप्रविष्टो आसि । यदा घातापितो तदापि द्वे वर्षाणि सर्वोपकरणं मातापितॄणां सकाशातो आनीयति ॥ सो दानि अश्ववाणिजको तं वर्तनं तादृशं पश्यिय शोकसमर्पितो पाण्डुवर्णो भवे । न भुक्तं पि यं भोजनं तं छड्डेति मा हैवं अहं पि तथा एव हनिष्यामि यथा सो पुरिमको श्रेष्ठिपुत्रो ॥ सा दानि गणिका तं अश्ववाणिजकं पृच्छति ॥ आर्यपुत्र एत्तको कालो
[_म्वु_2.171_] यतः आर्यपुत्रो इह प्रविष्टो न च ते पश्यामि अभिरतं न उदग्रं । केन ते वैकल्यं किं प्रार्थयसि कस्य वा ते अभिलाषो तं लभिष्यसि । सो दानि अश्ववाणिजको आह ॥ सा अस्माकं नगरी तक्षशिला उद्यानोपशोभिता पुष्करिणीहि च तत्र च अभीक्ष्णं जनो उद्यानयात्रां निर्धावति क्रीडार्थं तानि चोद्यानानि तां च उद्यानक्रीडां दकक्रीडानि च समनुस्मरामि ॥ गणिका आह ॥ आर्यपुत्र इहापि वाराणस्यां उद्यानानि पुष्करिण्यश् च आरामानि च पुष्पफलोपेतानि रमणीयानि यदि आर्यपुत्रस्य उद्यानगमने अभिप्रायो निर्धावामि उद्यानभूमिं क्रीडार्थं ॥ सो आह ॥ वाढं विर्धावामो ति ॥
___ताये दानि गणिकाये अन्यतरा उद्यानभूमी सिक्तसंसृष्टा कारापिता । तं अश्ववाणिजकं ओनद्धहयने प्रक्षिपित्वा खाद्यभोज्यं च पानं च गन्धमाल्यं च आदाय चेटीहि पुरस्कृता निष्क्रान्ता ॥ तेन दानि वज्रसेनेन श्रेष्ठिपुत्रेण सा गणिका उक्ता ॥ एतां पुष्करिणीं प्रतिसीराहि प्रतिवेठापेहि विश्वस्ता दकक्रीडां क्रीडिष्यामः न कोचित् पश्यति ॥ तस्या गणिकाये भवति ॥ सुष्टु आर्यपुत्रो जल्पति तत्र विश्वस्तं क्रीडिष्यामः न च नं कोचित् प्रत्यभिजानिष्यति ॥ ताये दानि गणिकाये पुष्करिणी प्रतिसीराहि वेठापिता । ते दानि उदकक्रीडाये क्रीडन्ति रमन्ति प्रविचारयन्ति उभये अतृतीया ॥ तस्य दानि अश्ववाणिजकस्य भवति । यदि अहं अद्य न पलायामि न भूयः शक्यं पलायितुं ॥ सो दानि पानं अग्रे स्थापयित्वा तां गणिकां पायेति यदा च एषा प्रमत्ता भवेद् अहं तदा शक्येयं पलायितुं ॥ गणिका पि पश्यति प्रेम्नेन पश्यति मां आर्यपुत्रो पायेतीति । सा दानि पिबन्ती मत्ता
[_म्वु_2.172_] संवृत्ता ॥ सो दानि अश्ववाणिजको तेषां चेटीनाम् आह ॥ गच्छथ यूयं भाण्डमूले आसथ वयं विश्वस्ता उदकक्रीडां क्रीडिष्यामः ॥ ता दानि चेटी एकान्ते भाण्डमूले आसन्ति ॥ ते दानि उभयो पुष्करिणीम् ओतीर्णा उदकक्रीड्यकेहि क्रीडितुं ॥ सो दानि अश्ववाणिजको तां श्यामां कण्ठे समालिंगं कृत्वा निवर्तेति मुहूर्तं वारेत्वा उद्यच्छति । श्यामा जानाति आर्यपुत्र उदकक्रीडां करोति । एवं तेन अश्ववाणिजेन वज्रसेनेन भूयोभूयो चिरतरं निवुट्टिय वार्यति श्यामा च पीडियति वज्रसेनो च तहिं उदके निवुट्टापिय करोति अल्पप्राणां संजातां ॥ वज्रसेनस्य भवति । मृता एषा श्यामा अयं वेला मम पलायनाये ॥ सो दानि श्यामां मृताम् अभिज्ञात्वा पुष्करिणीये सोपानस्मिं स्थपेत्वा इतो इतः प्रत्यवेक्षित्वा पलायते यथा न केनचिद् दृष्टो ॥
___तेषां चेटीनाम् एतद् अभूषि । विलोडेन्ति अत्र पुष्करिणीयं आर्यपुत्रो आर्यधीता च क्रीडार्थं न च सानं किंचित् क्रीडान्तानां शाब्दं शृणोम गच्छाम जानाम ॥ ते दानि पुष्करिणीं अल्लीना पश्यन्ति च तां श्यामां तत्र पुष्करिण्यां सोपाने मृतिकां शायमानां । कथंचिद् आश्वासयन्ति ॥ सा दानि श्यामा तेहि चेटीहि तन्मुहूर्तं ओमूर्धिकम् आलम्बापिता सर्वं च से उदकं मुखेन आगतं ॥ सा दानि श्यामा यं वेलं प्रत्याश्वस्ता ततः चेटीनि पृच्छति कहिं आर्यपुत्रो ति ॥ चेटी आहन्सुः ॥ आर्यधीते न खल्व् आर्यपुत्रो कहिंचिद् दृश्यति भवितव्यं पलानो ॥ सा आह ॥ मा चिरं करोथ नगरं प्रवेक्ष्यामः ॥ ता दानि नगरं प्रविष्टा ॥
[_म्वु_2.173_]___सा दानि श्यामा गणिका तन्मुहूर्तं चण्डाला शब्दापियान आह ॥ अहं युष्माकं एत्तकं च एत्तकं च हिरण्यं उपजीवनं दास्यामि इच्छामि प्रत्यग्रमृतकं पुरुषं अनादष्टं आनीयन्तं ॥ आहन्सु ॥ वाढं आनीयति ॥ तेहि श्मशानं गत्वा प्रत्यग्रमृतको पुरुषो अनादष्टो आनीयते यथा न केनचिद् दृष्टो ॥ ते दानि चण्डाला उपजीवनं दत्त्वा विसर्जिता ॥ ताये दानि श्यामाये सो मृतको पुरुषो गन्धोदकेन स्नापयित्वा गन्धेहि अनुलिपित्वा अर्हन्तेहि वस्त्रेहि वेठित्वा चमुस्मिं प्रक्षिपित्वा सुबद्धं कृत्वा तेषां चेटीनाम् आह ॥ सर्व एककण्ठा रोदनं करोथ एवं च वदथ आर्यपुत्रो कालगतो आर्यपुत्रो कालगतो ति ॥ तेहि चेटीहि यथायथा ताये श्यामाये सन्दिष्टं रोदनं कृतं ॥ महता जनकायेन गणिकाये श्यामाये गृहे रोदनशब्दं श्रुत्वा श्रेष्ठिपुत्रो कालगतो ति । तस्य श्रेष्ठिपुत्रस्य मातापितृभिः श्रुतं सो अस्माकं एकपुत्रको कालगतो ति ॥ ते दानि रोदनं करोन्ता तं गणिकाकुलं गताः सर्वो च ज्ञातिवर्गो । गणिकावीथिजनेन समास्यति ॥ ते आहन्सु ॥ अपहरथ एतां चमुं पश्चिमदर्शनं पुत्रं पश्याम ॥ तस्या दानि गणिकाये एतद् अभूषि । यदि चमुं हरिष्यन्ति ततो बुद्धिष्यन्ति तद् अहं खण्डखण्डं छिन्दिष्यं ॥ सा तेषां आह ॥ मा तुम्हे चमुं अपहरिष्यथ ॥ ते आहन्सुः ॥ किंकारणं ॥ सा आह ॥ यं कालं आर्यपुत्रो ग्लानो तं कालं मया उक्त आर्यपुत्र गच्छाहि मातापितॄणां कुलं । सो दानाह । एत्तकेहि वर्षेहि न गतो न इदानीं गमिष्यं यावद् वार्त्तीभवामि ततः गमिष्यं मातापितॄणि द्रष्टुं । सो दानि यं वेलं न वार्त्तीभवति व्याधिना च ग्रस्तो ततो नं अहं संदिष्टा मा मे
[_म्वु_2.174_] मृतस्य मातापितॄणां ज्ञातीनां वा दर्शयिष्यसि एत्तकं मे प्रियं करोहि । मया च आर्यपुत्रस्य प्रतिज्ञातं न आर्यपुत्र मृतकं कस्यचित्* मातापितॄणां वा ज्ञातीनां वा उपदर्शयिष्यामि । कामं आत्मानम् उपसंक्रमेयं न पुनर् आर्ययुत्रस्य शरीरसंदर्शनं करेयं । ततो यदि तुम्हे एवं चमुं अपहरथ आत्मानं अहम् उपसंक्रमेयं । एवं मया आर्यपुत्रस्य चरिमकाले प्रतिज्ञातं ॥ श्रेष्ठिस्य भवति ॥ एवम् एतं यथा एषा जल्पति यत् कारणं एषा मम पुत्रस्य अत्यर्थं प्रिया मनापा च आसि या मरणकाले पि मम पुत्रेण एषा न परित्यक्ता एषापि च मम पुत्रस्य भावानुरक्ता हितकामा च आसि अत्माकं च पुत्रको मृतो अलभनीयो एषो र्थो यदि वयं एतत् पुत्रं मृतं न लभामः तस्माद् अपनेतुं चमुं ॥ श्रेष्ठिना आणत्तं ॥ मा अपहरथ चमुं यथा मम पुत्रस्य मरणकाले अभिप्रायो तथा भवतु ॥ सो दानि महता सत्कारेण नगरातो निष्कासिय एकान्ते ध्यायितो ॥ सा दानि गणिका अतिकरुणानि रोदति शोचति परिदेवति बहूनि मायानि दर्शयति । निवारीयन्ती येन चिता ततः अभिमुखा धावति इच्छति चितायां पतितुं सर्वजनेन निवारिता चितायां पतन्ती ॥ तस्य दानि श्रेष्ठिपुत्रस्य मातापितॄणाम् एतदभूषि ॥ इमा श्यामा गणिका अस्माकं पुत्रस्य इष्टा च दयिता च आसि एताये पि च अस्माकं पुत्रो इष्टो च दयितो आसि यं नूनं वयेमेतां श्यामां गृहं प्रवश्यामः या अस्माकं पुत्रस्य दर्शनं भविष्यति ॥ तेन दानि श्रेष्ठिना सा श्यामा राजकुलातो अनुजानापेत्वा गृहं प्रवेशिता ॥ सा दानि ओमुक्तमणिसुवर्णा ओदातवस्त्राम्बरधरा एकवेणीधरा वज्रसेनम् अश्ववाणिजकं शोचन्ती आसति । श्रेष्ठिपुत्रस्य च मातापितॄणाम् एतद् अभूषि । अस्माकम् एषा एकपुत्रस्य
[_म्वु_2.175_] शोचति ॥ सो दानि श्रेष्ठि सभार्यको यथा व पुत्रकं तथा तां श्यामां चेष्टति ॥
___कदाचिद् दानि तक्षशिलका नटा वाराणसीम् आगताः । ते दानि नटदारका भिक्षार्थका तं श्रेष्ठिकुलं प्रविष्टा ॥ ताये दानि श्यामाये तेषां नटदारकानाम् उत्तरापथकं भाष्यं प्रगृहीतं । सा तां नटदारकां पृच्छति । कुतो यूयं ति ॥ ते आहन्सुः ॥ उत्तरापथका वयं ॥ सा आह ॥ कतमातो अधिस्थानातो ॥ ते आहन्सुः ॥ तक्षशिलातो ॥ सा आह ॥ योनं प्रत्यभिजानथ यूयं तक्षशिलायां श्रेष्ठिपुत्रो वज्रसेनो नाम अश्ववाणिजो ॥ नटदारका आहन्सुः ॥ आम प्रत्यभिजानाम ॥ सा आह ॥ शक्यथ मम व्यापारं कर्तुं ॥ ते आहन्सुः ॥ वाढं शक्यामो ति किं कर्तव्यं ॥ सा आह ॥ इमं श्लोकं श्रेष्ठिपुत्रस्य वज्रसेनस्य सन्तिके भणथ ॥
यान् त्वं सालेहि फुल्लेहि श्यामां कौशेयवासिनीं ॥
गाढं अंकेन पीडेसि सा ते कौशल्यं पृच्छति ॥
ते दानि नटदारका अनुपूर्वेण तक्षशिलाम् आगता अश्ववाणिजकं वज्रसेनम् उपसंक्रमित्वा आहन्सुः ॥
यान् त्वं सालेहि फुल्लेहि श्यामां कौशेयवासिनीं ॥
गाढं अंकेन पीडेसि सा ते कौशल्यं पृच्छति ॥
सो दानि वज्रसेनो श्रेष्ठिपुत्रो तं श्लोकं श्रुत्वा तां नटदारकां गाथया प्रतभाषे ॥
[_म्वु_2.176_] रागाभिभूता न सुखं शयन्ति
कृतानुकारं प्रतिकर्तुकामा ॥
नराः कृतज्ञा न सुखं शयन्ति
वैरप्रसंगी न सुखं शयन्ति ॥
तं वो न श्रद्दधाम्य् अहं वातो वा गिरिम् आवहे ॥
कथं सा मृतिका नारी मम कौशल्यकं भणे ॥
ते दानि नटदारका आहंसुः ॥
नापि सा मृयते नारी नाप्य् अन्यम् अभिकांक्षति ।
एकवेणीधरा बाला त्वाम् एव अभिकांक्षति ॥
श्रेष्ठिपुत्रो वज्रसेनो आह ॥
असंस्तुतं मे चिरसंस्तुतेन
न निर्मिणेया ध्रुवम् अध्रुवेण ॥
इतो प्य् अहं दूरतरं गमिष्यं
ममापि सा अन्यं न निर्मिणेय ॥
स्यात् खलु भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन वज्रसेनो नाम अश्ववाणिजको अभूषि । नैतद् एवं द्रष्टव्यं । तत्कस्य हेतोः । अहं स भिक्षवः तेन कालेन तेन समयेन वज्रसेनो नाम अश्ववाणिजको अभूषि ॥ अन्या सा तेन कालेन तेन समयेन नगरे वाराणसीये गणिका श्यामा नाम अभूषि । नैतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एषा सा भिक्षवः यशोधरा तेन कालेन तेन समयेन वाराणस्यां
[_म्वु_2.177_] नगरे श्यामा नाम अग्रगणिका अभूषि । तदापि अहं एताये अनपेक्षो एतरहिं पि एताये अनपेक्षो ॥
_____समाप्तं श्यामाये जातकं ॥
अथ भिक्षू आहन्सुः ॥ भगवां यशोधराये वधे निर्नीयन्तो त्रायितो । बहुकरा भगवतो बोधिसत्वभूतस्य संसारे संसरन्तस्य यशोधरा आसि ॥ भगवान् आह ॥ वाढं भिक्षवः बहुकरा यशोधरा आसि तथागतस्य संसारे संसरन्तस्य । अन्यदापि अहं एताये यशोधराये अमित्रहस्तगतो रक्षितो ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि भिक्षवः ॥
___भूतपूर्वं भिक्षवो अतीतम् अध्वानं नगरे वाराणसी काशिजनपदे उग्रसेनो नाम राजा राज्यं कारयति कृतपुण्यो महेशाख्यो सुसंगृहीतपरिजनो दानसंविभागशीलो महाकोशो महावाहनो । तस्य तं राज्यं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णजनमनुष्यं च सुखितजनमनुष्यं च प्रशान्तदण्डडमरं सुनिगृहीततस्करव्यवहारसंपन्नं च ॥ तस्य दानि जनपदे चम्पको नाम नागराजो प्रतिवसति कृतपुण्यो उत्सदकुशलसंचयो अनेकनागशतसहस्रपरिवारः ॥ तस्य दानि चंपकस्य नागराज्ञो भवनं देवभवनसंनिभं सप्तरत्नमयानि विमानानि सर्वत्रकानि सर्वकालिकानि पुष्पफलानि रत्नमयायो पुष्करिणीयो उत्पलपदुमनलिनिकुमुदपुण्डरीकसंछन्ना ॥ ताये पुष्करिणीये अविदूरे वैडूर्यस्तम्भप्रासादो रत्नामयो मुसारगल्वतलास्तृतो ॥ तस्य च राज्ञो षोडशनागकन्यासहस्राणि अन्तःपुरं ॥ सो दानि तहिं नागभवने यथा देवराजा तथा मोदति ॥ सो दानि अष्टमीं चतुर्दशीं पंचदशीं त्रिष्कृत्वो पक्षस्य चतुर्महापथे उपोषधं उपोषति । अष्टांगसमन्वागतो ओसृष्टकायो विहरति ॥
[_म्वु_2.178_] सो दानि नागराजा तहिं चतुर्महापथे उपवासं समादत्तो अहितुण्डकेन दृष्टो । तेन सो अहितुण्डिकेन चम्पको नागराजो ततश् चतुर्महापथातो गृह्य सर्पकरण्डके प्रक्षिप्तो आसति । नापि तस्य अहितुण्डिकस्य कुप्यति नान्तरहीयन्तो महाबलो महातेजो नागराजा इच्छति सजनपदां वाराणसीं भस्मीकरेया ॥ तत्र सर्पकरण्डे तं व्रजम् अनुपालेन्तो आसति ॥ तेनापि नागराज्ञा परिवारस्य निमित्तानि आचिक्षितानि यदि मम एत्थ चतुर्महापथे उपवासं समादत्तस्य कोचिद् विहेठेय तहिं नागभवने निमित्तानि भविष्यन्ति । यदि इह नागभवने एतानि वनस्पतीनि संमिलायेन्सुः एतानि च उत्पलपदुमकुमुदपुण्डरीकसौगन्धिकानि ततो जानेथ बद्धो सो नागराजा । यदि एतानि वनस्पतीनि सर्वाणि सर्वशुष्कपत्रा भवेन्सुः एतानि च पुष्करिणीनि निरोदकानि भवेन्सुः ततः जानेथ हतो नागराजा ति ॥ तेन दानि चम्पकेन नागराज्ञा अहितुण्डकेन सर्पकरण्डके बद्धेन तहिं नागभवने एतानि निमित्तानि प्रादुर्भवन्ति ॥ ते दानि नागा च नागकन्या च तहिं नागभवने तानि निमित्तानि दृष्ट्वा सर्वे उत्कण्ठिता बद्धो नागाराजा । किं ततो ॥ एकमेको समर्थो तं नागराजं ततः अहितुण्डिकस्य हस्तातो मोक्षयितुं न च तं नागराजं भोक्षयन्ति ॥ यत् कारणं पूर्वे व नागराजेन परिवारस्य संदिष्टं । यदि मम उपवाससमंगिस्य कोचिद् हरेय वा बन्धेय वा न युष्माभिस् तस्य केनचिद् अप्रियो वा विप्रयो वा कर्तव्यो । यत् कारणं एष मम व्रतोत्तमः ॥
___तस्य दानि नागराज्ञो अग्रमहिषी षोडशानां स्त्रीसहस्राणां . . . . . । ताये च वाराणसीं गत्वा राज्ञो उग्रसेनस्य उपरिप्रासादवरगस्य नागराज्ञो ग्रहणं सनिदानम् आरोचितं ॥ राजा उग्रसेनो तस्या नागिनीये सकाशातो चम्पकस्य नागराज्ञो
[_म्वु_2.179_] तं गुणपरिकीर्तनं श्रुत्वा प्रीतो संवृत्तो । राजा तां नागकन्याम् आह ॥ निषीदाहि वा स्वकं वा भवनं गच्छाहि यावत् सुदूता तं नागराजम् अन्वेषिय आगच्छन्ति इति ॥ नागिनी आह ॥ महाराज अहितुण्डिकं संतोषयित्वा ग्रामवरेण वा हिरण्यसुवर्णेन वा तं नागराजानं मोक्षेहि मा राजाज्ञया ॥ राजा आह ॥ नागिनि एवम् अस्तु अहितुण्डिकं परितोषेत्वा ग्रामवरेण वा हिरण्यसुवर्णेन वा चंपकं नाम नागराजानं मोक्षयिष्यामि ॥ सा दानि नागकन्या उग्रसेनस्य काशिराज्ञो आह ॥ शरणगतो ते महाराज चंपको नाम राजा सार्धं षोडशहि स्त्रीसहस्रेहि ॥ एवम् उक्त्वा सा नागकन्या अन्तरहिता ॥ राज्ञा उग्रसेनेन समन्ता दूता प्रेषिता । चम्पको नागराजा उपवाससमंगी अहितुण्डिकेन गृहीतको तं आनेथ ॥
मनसा देवानां वचसा पार्थिवानां
अचिरेणाढ्यानां कर्मणा दरिद्राणां ॥
राज्ञो उग्रसेनस्य वचनमात्रेण राजदूतेहि अहितुण्डको सनागराजो आनीतो ॥ राज्ञा तं अहितुण्डिकं परितोषेत्वा ग्रामवरेण हिरण्यसुवर्णेन च चंपको नागराजो भोक्षितः ॥ मुक्तमात्रो च चम्पको नागराजा देवराजविषयो संवृत्तो नागभवनो च यथापौराणं संवृत्तं देवभवनसन्निभं तस्य च नागराज्ञो परिवारो यथापौराणं नं भवनं दृष्ट्वा प्रीता तुष्टा संवृत्ता । मुक्तो नागराजा ॥
___सो दानि नागराजा उग्रसेनेन काशिराजा सार्धं एकपर्यंकेन निषण्णो ॥ सो तं काशिराजं निमन्त्रेति इच्छामि महाराज यं सपरिवारो मम भवनं पश्येसि ॥ राजा आह ॥ यूयं नागा तीक्ष्णविषा च क्रोधना च । न शक्यामि नागभवनं गन्तुं ॥ नागराजा तम् आह ॥ महारज सशरीरो सो महानरके प्रपतेया यो
[_म्वु_2.180_] अस्माकम् एदृशं तव पूर्वोपकारिम् अपकृत्वान जीवं नरके पतेया । सचन्द्रतारा पृथिवी पतेया नद्यो च प्रतिश्रोतं वहेन्सुः ॥ न खल्व् एवं अहं मृषावादं भाषेया तव च कृतं न जानेया ॥ राजा आह ॥ यथा नागराजस्य इष्टं तथा भवतु । पश्यामि ते भवनं ॥ राज्ञा उग्रसेनेन अमात्या आणत्ता । युज्यन्तु रथा हस्ति अश्वा विविधानि च यानानि नागराज्ञो भवनं द्रक्ष्यामः ॥ वचनमात्रेण राज्ञो अमात्येहि प्रतिजागृतं ॥ राजा सामात्यपरिजनो सयुग्यबलवाहनो चम्पकेन नागराज्ञा सार्धं एकयानम् अभिरुहित्वा महता राजानुभावेन महता राज-ऋद्धीये महतो जनकायस्य हक्कारहिक्कारमरुपटहशंखसन्निनादेन वाराणसीये नगरातो निर्यात्वा येन चम्पकस्य नागराज्ञो भवनं तेन प्रयासि । यावत्तां यानानां भूमिं ताव यानेहि यात्वा पदचारेण चंपकस्य नागराज्ञो भवनं प्रविष्टो सपरिवारो ॥ सो दानि तं चम्पकस्य नागराज्ञो भवनं पश्यति देवभवनसंनिभं पुष्पफलोपेतेहि वृक्षसहस्रेहि उपशोभितं नानाप्रकारेहि च माल्येहि उपवासितं पुष्करिणीहि च रत्नामयीहि उपशोभितं उत्पलपदुमनलिनिकुमुदपुण्डरीकसौगन्धिकसंछन्नाहि नानाविचित्रेहि च रत्नमयेहि कूटागारेहि प्रासादेहि च वैडूर्यस्तम्भेहि मुसारगल्वास्तृततलेहि ॥ तत्र काशिराजा चम्पकेन नागराजेन रत्नामये पर्यङ्के उपविशापितः ॥ तानि षोडश नागकन्यासहस्राणि चंपकं नागराजं उपक्रम्य पृच्छन्ति । कथन् ते अमित्रमध्ये वासो आसि कथं ते क्षुधापिपासा विनोदिता कथं वा ततः मोक्षो आसि ॥ नागराजा आह ॥ लब्धो मे यथोचितम् अन्नपानं इमेन च काशिराज्ञा मोक्षितो ॥ ता दानि षोडश नागराजकन्यासहस्राणि राज्ञो उग्रसेनस्य प्रीता तुष्टा संवृत्ता मुक्तानां पंच वैडूर्यमिश्राणि वाहशतानि दिन्नानि ॥ चम्पकेन नागराजेन सर्वाकारं
[_म्वु_2.181_] उग्रसेनस्य राज्ञो भवनं पश्यति देवभवनसन्निभं ॥ राजकुलं परिरक्षितं अस्ति दाघो च उत्पन्नो चम्पकेन नागराजेन निर्वापितः ॥
_____इति श्रीचम्पकस्य नागराजस्य परिकल्पपदं समाप्तं ॥
अथ
का नु विद्युद् इवाभासि सरसि विय तारकाः ॥
ताम्रपादपयष्टिर् वा पुष्पिता वनम् अन्तरे ॥
असि त्वं नन्दने जाता जाता चित्ररथे वने ॥
देवी असि वा गन्धर्वी न त्वं असि हि मानुषी ॥
नागकन्या आह ॥
नाहं देवी न गन्धर्वी न महाराज मानुषी ॥
नागकन्याहं भद्रन् ते अवीची इह आगता ॥
राजा आह ॥
चित्रान्तचित्ता विलुतेन्द्रियासि
नेत्रेहि ते वारि श्रवन्ति किन् ते ॥
नष्टं हि किंची अभिप्रार्थयन्ती
इहागता तानि न दीर्घं ब्रूहि ॥
नागकन्या आह ॥
यम् उग्रतेजं उरगो त्ति आहु
नागो ति नं आहु जना जनेन्द्र ॥
तम् अग्रहे पुरुषो जीवितान्वितं
तं बन्धना मुंच पतिं मे देव ॥
[_म्वु_2.182_] नगरं पि नागो भस्मीकरेया
तथा हि यावच् च बलोपपेतो ॥
धर्मं तु नागो अयं याचमानो
हस्तत्वम् आगच्छे वणीपकस्य ॥
राजा आह ॥
कथं विजानेय गृहीतनागो
स उग्रतेजो बलस्थामवन्तो ॥
दुरासदो दुःप्रसहो भुजंगो
हस्तत्वम् आगच्छे वणीपकस्य ॥
नागकन्या आह ॥
चतुर्दशीं पंचदशीं च अष्टमीं
चतुष्पथे गच्छति नागराजो ॥
ओसृष्टकायो विचरन्तो नागो
हस्तत्वम् आगच्छे वणीपकस्य ॥
एवं विजानेसि गृहीतनागो
सो उग्रतेजो बलस्थामप्राप्तो ॥
दुरासदो दुःप्रसहो भुजंगो
हस्तत्वम् आगच्छे वणीपकस्य ॥
राजा आह ॥
निषीद वा तिष्ठहि त्वं व नागि
गच्छाहि वा ताव स्वकं निवेशनं ॥
यावद्मि दूता गतो नीयतां ति
अन्वेषिसुः नागनृपं यशस्विनं ॥
[_म्वु_2.183_] नागकन्या आह ॥
धर्मेण मोचेहि असाहसेन
ग्रामेण निष्केन च गोशतेन ॥
ओसृष्टकायो निगृहीतनागो
पुण्यार्थिको मुच्यतु नागराजो ॥
राजा आह ॥
धर्मेण मोचेष्यम् असाहसेन
ग्रामेण निष्केण गवां शतेन ॥
ओसृष्टकायो च भुजंगो गच्छतु
प्रीतो च संपद्यतु नागराजा ॥
नागिनी आह ॥
सोडश स्त्रीसहस्राणि आमुक्तमणिकुण्डला ॥
वारिवासगृहाश्रिता आर्य त्वां शरणागता ॥
राजदूतेहि अहितुण्डिको च नागराजा च आनीतो ॥ राजा उग्रसेन आह ॥
देमि निष्कशतं लब्धं स्थूला च मणिकुण्डला ॥
चतुःशतं च पर्यंकं दामकपुष्पसन्निभं ॥
भार्यां च सदृशीदेवीं मुच्यतु उरगाधिपः ॥
अहितुण्डिको आह ॥
विना तु दाना वचनान् नरेन्द्र
मुंचामिमं धार्मिको नागराजा ॥
महानुभावो परलोकदर्शी
महाबलो सो च न संविहेठ्यो ॥
[_म्वु_2.184_] मुक्तो चम्पको नागो काशिराजानं भाषति ॥
नमो ते काशिनां राज नमो ते काशिवर्धन ॥
अंजलिन् ते प्रगृह्णामि पश्य राज मो निवेशनं ॥ {मे निवेशनं?}
राजा उग्रसेन आह ॥
सुदुष्करं नाग मया कृतं ते
दुःखासि त्वं बन्धनाद् असि मुक्तः ॥
जातो च लोके न कृतानि जानति
मा खुस्स मे नाग कृतं न जाने ॥
नागराजा आह ॥
नरकस्मिं जीवेय चिरं स कामं
मा कायिकं किंचि लभेय साधु ॥
यो बाधते पूर्वकरिस्य राज्ञो
अस्मादृशो तुह्य कृतं न जाने ॥
राजा आह ॥
तुम्हे हि मे तीक्ष्णविषा उदारा
महाबला क्षिप्रकोपा च नागा ॥
नागाहम् एतं अभिश्रद्दधामि
नो त्वं अमनुषो मनुषस्य क्रुद्धो ॥
नागराजा आह ॥
नरकस्मिं सो शक्तितले पतेया
. . . . ऊर्ध्वपादो अधोशिरो ॥
[_म्वु_2.185_] यो बाधते पूर्वकरिस्य राज्ञो
अस्मादृशो तुह्य कृतं न जाने ॥
अप्य् एव वातो गिरिम् आवहेय
चन्द्रो च सूर्यो च क्षितिं पतेय ॥
सर्वा च नद्यो प्रतिश्रोता वहेन्सुः
न त्व् एवहं राज मृषा भणेयं ॥
राजा आह ॥
यथेष्टं नागराजस्य तथा भोतूरगाधिप ॥
यथा तुवं याचेसि पश्यामि ते निवेशनं ॥
राजा उग्रसेनो अमात्यान् आह ॥
युज्यन्तु ते राजरथा सुचित्रा
कम्बोजका अश्ववरा सुदान्ता ॥
हस्ती च युज्यन्तु सुवर्णच्छत्रा
द्रक्ष्याम्य् अहं नागनिवेशनानि ॥
अमात्या आहन्सुः ॥
युक्ता इमे अश्वरथा सुचित्रा
कम्बोजका अश्ववरा सुदान्ता ॥
हस्ती च युक्तास् ते सुवर्णच्छत्रा
निर्यातु (राजेन्द्रो) महाबलेन ॥
ततो च राजा निर्यासि सेना च चतुरंगिनी ॥
मित्रामात्यपरिवृतो ज्ञातीसहपुरस्कृतो ॥
[_म्वु_2.186_] भेरी मृदंगा पटहाश् च संखा
वाद्येन्सु वेणू उग्रसेनराज्ञो ॥
निर्याति राजा महता बलेन
पुरस्कृतो नारिगणस्य मध्ये ॥
गत्वान काशीनां राजा नागराजनिवेशनं ॥
अद्राक्षीन् नागराजस्य देवानां भवनं यथा ॥
आम्रजम्बूहि संछन्नं कोकिलगणसेवितं ॥
अद्दर्शा नागराजस्य काशिराजा निवेशनं ॥
समन्ततो वनगुल्मा पुष्पिता सर्वकालिका ॥
मनोज्ञगन्धं प्रवायन्ति नागराजनिवेशने ॥
सुवर्णरूप्यसोपाना पुष्करिण्यो अभिनिर्मिता ॥
पदुमोत्पलसंछन्ना नानाद्विजनिषेविता ॥
वैडूर्यस्तम्भप्रासादा मुसारगल्वतलास्तृता ॥
अद्दर्शा नागराजस्य काशिराजा निवेशने ॥
प्रविश्य काशीनां राजा नागराजनिवेशनं ॥
पर्यंकस्मिं उपविशे जातरूपमये शुभे ॥
दृष्ट्वान तं आगतं च नागराजं च चम्पकं ॥
काशिराजेन सार्धं च कृत्वान अंजलिं नता ॥
पृच्छति नागकन्या यदासि अमित्रमध्यमे ॥
ततो पिपासां क्षुधां च कथं तत्र विनोदये ॥
[_म्वु_2.187_] नागराजा आह ॥
यथोचितं लभ्यति अन्नपानं
क्षुधापिपासाय विनोदनार्थं ॥
अयं च मे . . . . . काशिराजा
क्षिप्रं नाम मोचये बन्धनातो ॥
ता दानि षोडश नागकन्यासहस्राणि उग्रसेनं काशिराजम् अभिस्तवेन्सुः ॥
एवं नन्दाहि भद्रन् ते काशिराज सबान्धवो ॥
यथा वयम् अद्य नन्दाम दृष्ट्वानम् उरगाधिपं ॥
एवं नन्दाहि त्वं राज सह सर्वेहि ज्ञातिहि ॥
यथा वयम् अद्य नन्दाम समग्रा पतिना सह ॥
मुक्तान ते वाहशतानि पंच
वैडूर्यमिश्रान ददासि राज्ञे ॥
अन्तःपुरे भूमि समास्तरा हि
निष्कर्दमा त्विषिमति नीरराज ॥
तं तादृशं अथ स राजा दृष्ट्वा
अन्तःपुरं देवविमानकल्पं ॥
नारीगणेन परिचर्यमाणो
अनुशासते काशिपुरं समृद्धं ॥
राजा उग्रसेन आह ॥
त्वं कंचुकाम्बरधरो सुवस्त्रो
तत्र यापेन्तो अनुपमवर्णो ॥
दिव्येहि कामेहि समंगिभूतः
किमर्थं नाग भुवि त्वं चरेसि ॥
[_म्वु_2.188_] नागराजा आह ॥
नान्यत्र भवे मानुषको जनो तु
संचिन्त्यति सो दिवसंगमो वा ॥
योनिमहं मानुषीं प्रार्थयन्तो
तस्य कारणाय तपं चरामि ॥
राजा उग्रसेनो चिन्तयति ॥
दृष्टा नागा च नागी च प्रार्थयन्ता मानुषं भवं ॥
किं करिष्यामि शुभं कर्म अपायसमतिक्रमं ॥
पूर्वेनिवासं भगवां पूर्वेजातिम् अनुस्मरन्* ॥
जातकम् इदम् आख्यासि शास्ता भिक्षूण सन्तिके ॥
ते स्कन्धा तानि धातूनि तानि आयतनानि च ॥
आत्मानं च अधिकृत्य भगवान् तम् अर्थं व्याकरे ॥
अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा ॥
चम्पको हं तदा आसि नागराजा महर्द्धिको ॥
यशोधरा नागकन्यासि एवं धारेथ जातकं ॥
एवम् इदम् अपरिमितं बहुदुःखं
उच्चनीचं चरितं पुराणं ॥
विगतज्वरो विगतभयो अशोको
स्वजातकं भाषति भिक्षुसंघमध्ये ॥
भगवानाह ॥ तदाप्य् अहं भिक्षवः नागभूतो अहितुण्डिकेन बद्धो मान्सार्थं यशोधराये मोक्षितो
। अश्ववाणिजको पि सन्तो वाराणसीये संजातो मोचितो ॥
_____इति श्रीचम्पकनागराजस्य जातकं समाप्तं ॥
[_म्वु_2.189_] छन्दको बोधिसत्वेन अभिनिष्क्रमन्तेन अनोमियातो अधिस्थानातो निवर्तितो । छन्दकश् च कण्ठको च कपिलवस्तु आगता ॥ राजा शुद्धोदनो श्रुत्वा छन्दको आगतो कण्ठकम् आदाय छत्रं च आभरणानि च राजकुलातो बाहिरद्वारशालां निर्धावितो सान्तःपुरो यशोधरापि कण्ठकं ग्रीवायाम् उपगृह्य प्ररीदन्ती आह ॥ कहिन् ते कण्ठक कुमारो नीतो किं मया तव अपराद्धं छन्दकस्य च यं यूयं मम सुखप्रसुप्ताये कुमारम् आदाय गता अहं च षष्टिसहस्रं च अन्तःपुरं भवति विधवाकृतं ॥ छन्दको आह ॥ किम् अस्माकं अपराधं कृतं अहं पि उच्चेन स्वरेण आरवामि । कुमारेण अभिनिष्क्रमन्तेन कण्ठकेन उच्चेन स्वरेण हीषणशब्दं न च युष्माकं को पि विबुध्यति ॥ देवसहस्रकोटीयो अन्तरीक्षे समागता ॥ इमां मल्लभूमिं अनोमियं नाम अधिष्ठानं नीतो वशिष्टस्य {वशिष्ठस्य?} ऋषिस्य आश्रमपदस्य नातिदूरे ॥ कुमारेण लुब्धकस्य काशिकानि दत्त्वा काषायाणि गृहीतानि स्वयं चूडा असिपत्रेण च्छिन्ना सा च चूडा शक्रेण देवराजेन प्रतिच्छिता ॥ ततः मो कुमारेण आभरणानि दत्त्वा निवर्तिता । एवं च अहं सन्दिष्टो । पितरं मे कौशल्यं पृच्छेसि मातुस्वसाये पि सर्वस्य ज्ञातिवर्गस्य । कृतकार्यो पि परिपूर्णसंकल्पो आगमिष्यामि ॥ यशोधरा च षष्टिसहस्रं च अन्तःपुरं सर्वं च शाक्यराष्ट्रं रोदित्वा परिदेवित्वा स्वकस्वकानि निवेशनानि गता ॥
___छन्दकस्य राजकुलं प्रवेशित्वा राजार्हं प्रणीतं अन्नपानखाद्यभोज्यं उपनामितं । कण्ठकस्यापि मधुम्रक्षितानि मोदकानि उपनामितानि तथा अन्यम् अपि राजार्हं खाद्यभोज्यं मोदकप्रकाराणि च कण्ठकस्य पुरतो राशीकृता न च कण्ठको परिभुंजति ॥
[_म्वु_2.190_] बोधिसत्वं समनुस्मरन्तो सर्वकालम् अश्रूणि प्रवर्तेति । अन्तःपुरिका च अंशुकेहि दुकूलेहि पट्टोर्णेहि च महारहेहि राजार्हेहि वस्त्रेहि कण्ठकस्य अन्ये अश्रूणि प्रमार्जेन्ति अन्ये शीर्षं प्रमार्जेन्ति अन्ये ग्रीवं प्रमार्जेन्ति अन्ये पृष्ठं प्रमार्जेन्ति अन्ये स्कन्धं प्रमार्जेन्ति अन्ये बाहुं प्रमार्जेन्ति अन्ये सन्धिं प्रमार्जेन्ति अन्ये बालधिं प्रमार्जेन्ति अन्ये पादानि परिमर्दयन्ति अन्ये मधुम्रक्षितानि आलोपानि मुखे अल्लीयन्ति अन्ये नानाप्रकाराणि खज्जकानि अल्लीयन्ति अन्ये उक्कारिकानि अल्लीयन्ति अन्ये मोदकानि अल्लीयन्ति सुवर्णरूप्यमयेहि भाजनेहि रत्नविचित्रेहि राजारहाणि पानानि अल्लीयन्ति न च कण्ठक आहारं करोति । बोधिसत्वस्य शोकेन अनाहारो च कण्ठको कालगतो बोधिसत्वम् अपश्यन्तो ॥ तस्य कालगतस्य राज्ञा शुद्धोदनेन महता राजानुभावेन शरीरपूजा कृता ॥ समनन्तरकालगतो च त्रायस्त्रिंशेहि उपपन्नो शिखण्डिस्य देवपुत्रस्य पुत्रत्वम् अभ्युद्गतो कण्ठको नाम देवपुत्रो महर्द्धिको महानुभावो अन्येषां पूर्वोपपन्नानां देवसहस्राणां देवपुत्राणां दिव्येहि दशहि स्थानेहि अभिभवति । तद्यथा दिव्येनायुषा दिव्येन वर्णेन दिव्येन सुखेन दिव्येन ऐश्वर्येण दिव्येन परिवारेण दिव्येहि च रूपेहि शब्देहि गन्धेहि रसेहि दिव्येहि च स्पर्शेहि ॥
___यदा भगवां प्रवृत्तप्रवरधर्मचक्रो वैस्तारिकशासनसंजातो तदायुष्मता महामौद्गल्यायनेन देवेषु चारिकां चरमाणेन कण्ठको देवपुत्रो दृष्टो दृष्ट्वा च पुनः गाथया अध्यभाषे ॥
[_म्वु_2.191_] चन्द्रो यथा पंचदशीं नक्षत्रपरिवारितो ।
ओभासेति दिशां सर्वां तारका विगता नभा ॥
तथोपमम् इदं वेश्म दिव्यं देवपुरे तव ।
प्रज्वाल्यमानो वर्णेन आदित्यो व विरोचसि ॥
मुसारगल्वमुक्ताहि मणिलोहितकाहि च ।
चित्रा सुसंस्कृता भूमि न चात्रोद्वायते रजः ॥
वैडूर्यस्य सुवर्णस्य स्फाटिकरूपियस्य च ।
कूटागारशुभास्थाना प्रासादा ते मनोरमा ॥
प्रासादानां च अविदूरे पुष्करिण्यो सुनिर्मिता ।
वैडूर्यफलकसोपाना सुवर्णवालिकसंस्तृता ॥
तासां च तीरेषु द्रुमा सुजाता
महा महान्तं विटपं समुद्गता ।
अभ्युद्गता ब्रह्मपुरं च अम्बराद्
वातेरिता सर्वदिशा प्रवान्ति ॥
तेषां च तीरेषु द्रुमा सुजाता
महा महान्तं विटपं समुद्गता ।
संपुष्पिता भान्ति दिशा चतस्रो
द्विजेहि घुष्टा रुचिरस्वरेहि ॥
संछन्ना पुण्डरीकेहि पदुमेहि उत्पलेहि च ।
नानावर्णेहि पुष्पेहि वान्ति सर्वदीशो दिशो ॥
एकमेकस्मिं तूर्यस्मिं षष्टि नृत्यन्ति अप्सरा ।
[_म्वु_2.192_] तासां च नृत्यमानानां दिव्यकन्या कानने ॥
दिव्यो निश्चरते सब्दो द्विजकन्यागणे यथा ।
सुवर्णपादे पर्यंके निर्मिते रतनामये ॥
संस्कृते सुविसृष्टे स्वर्गकायस्मि मोदसि ।
सुवर्णपादे पर्यंके निर्मिते रतनामये ॥
प्रेक्षमाणो दिशा सर्वां ब्रह्मा च उपशोभसि ।
तस्मिं . . . . पर्यंके तूलिकास्तृते ॥
अलंकृता देवकन्या वीजन्ति चामरेहि ते ।
तवम् एते अप्सरसंघा हेमजाला अलंकृता ॥
बाहां विकीर्य नृत्यन्ति गायन्ति च सुवादितं ।
काचित् तत्र उपगायन्ति उपवादेन्ति अप्सरा ॥
काचिच् च उपनृत्यन्ति संगीतस्मिं सुवादिते ।
काचित् ते रुचिरं शब्दं मुंचन्त्य् अंगेहि सर्वशो ॥
कासांचित् सर्वरोमेहि वान्ति गन्धा अमानुषा ।
तं देवकन्याहि उपेतरूपं
निवेशनं ते पदुमुत्तराहि ॥
सुवर्णकंचुककृतभूतिम् एतं
भवनमहो लंकृतम् अप्सरोहि ।
किं त्वं कर्म करित्वान पूर्व अन्यासु जातिषु ।
केन कुशलमूलेन त्रायस्त्रिंशोपपद्यथ ॥
किं त्वं कर्म करित्वान पूर्वे मानुष्यके भवे ।
[_म्वु_2.193_] केन कुशलमूलेन विपाकम् अनुभोसिमं ॥
केन त्वया अयं लब्धो आयुर्वशो यशो बलं ।
ऋद्धिं च परिवारं च अनुभोसि अमानुषं ॥
किं त्वया कल्याणं कर्म करित्वा अन्यासु जातिषु ।
केन कुशलकर्मेण विपाकम् अनुभोसिमं ॥
केन ते ब्रह्मचर्येण संयमेन दमेन च ।
केन कुशलकर्मेण स्वर्गकायस्मि मोदसि ॥
केनापि एवं ज्वलितो अनुभावो वर्णो च ते ।
केन कुशलकर्मेण सर्वां दिशां प्रभाससि ॥
पृच्छितो देवपुत्र ब्रूहि कस्य कर्मस्यिदं फलं ।
सो देवपुत्रो आत्मना मौद्गल्यायनेन पृच्छितो ।
प्रश्नं पृष्टो वियाकर्षि स्थविरस्येति मे श्रुतं ॥
अहं कपिलवस्तुस्मिं शाक्यानां नगरोत्तमे ।
अट्टालकोट्टरचिते दृढप्राकारतोरणे ॥
गोधामुखनिर्यूहदृढार्गलकपाटतोरणे ।
हयगजरथाचीर्णे आवासे शाक्यश्रेष्ठिनो ॥
आकीर्णजनमनुष्ये नगरे साधुनिर्मिते ।
शुद्धोदनस्य पुत्रस्य सहजो आसि कण्ठको ॥
यदा चाभिनिष्क्रमेसि प्रव्रज्याये नरोत्तमो ।
तदा स वचनम् आह बहुसम्यग्गिरां ब्रवीत्* ॥
[_म्वु_2.194_] तां सह गिरां श्रुणित्वा हर्षजातेन चेतसा ।
वेगजातो नमस्यन्तो वहेद् अहं पुरुषोत्तमं ॥
परेषां विषयं गत्वा उद्गतस्मिं दिवाकरे ।
मम च्छन्दकं च विहाय अनवेक्षो स प्रक्रमे ॥
तस्य ताम्रनखा चरणां जिह्वाया परिलेहिय ।
रोदमानो उद्वीक्षेयं गच्छन्तं पुरुषोत्तमं ॥
तस्यैव अदर्शनेन शाक्यपुत्रस्य श्रीमतो ।
खुर-आबाध उत्पद्येत् ततो कालं करोम्य् अहं ॥
तस्यैवम् अनुभावेन विमानम् आवसाम्य् अहं ।
नारीवरगणाकीर्णं कूटागारं वरुत्तमं ॥
सचेद् भदन्ते गच्छासि शाक्यसिंहस्य सन्तिके ।
कण्ठको वचनं आह वदेसि पुरुषोत्तमं ।
एषो चाहम् अपि आमंस्ये वन्दितुं पुरुषोत्तमं ॥
साधु खु दर्शनं भोति तादृशानां महर्षिणां ।
तेन मया इदं लब्धं आयुवर्णयशोबलं ।
ऋद्धिं च परिवारं च अनुभोमि अमानुषं ॥
तेन मे ब्रह्मचर्येण संयमेन दमेन च ।
अयं मे तादृशी ऋद्धी अप्रतिक्रान्ता अमानुषी ॥
तं कर्मं कुशलं कृत्वा यत् तं उपचितं पुरा ।
तेन कुशलकर्मेण विपाकम् अनुभवाम्य् अहं ॥
भोगा च मे उत्पद्येन्सु ये केचित्* मनसि प्रिया ।
देवा च मे नमस्यन्ति तेषां च उपचितो अहं ॥
[_म्वु_2.195_] तस्मिं चित्तं प्रसादेथ दक्षिणीयेषु तादृशं ॥
पश्यति रक्षभूतेन कर्मं उपचितं शुभं ॥
_____इति श्रीमहावस्तु-अवदानकथायां कण्ठकस्य व्याकरणं समाप्तं ॥
शुद्धावसेहि देवेहि तहिं अरण्यायतने काषायप्रावृतो लुब्धको निर्मितो । सो दानि बोधिसत्वेन दृष्टो ॥
तत्राद्राक्षीद् अरण्यस्मिं लुब्धकं काषायप्रावृतं ॥
सो तत्र उपसंक्रम्य इदं वचनम् अब्रवीत्* ॥
इमौ काशिकौ गृह्णित्वा देहि काषायं त्वं मम ।
सो तौ काशिकौ गृहीत्वा देति काषायं लुब्धको ॥
ततः काषायौ गृह्णित्वा तुष्टो आत्तमनो अभूत्* ।
सो पथो मे वरो धीरो उत्तमार्थस्य प्राप्तये ति ॥
बोधिसत्वो धर्मारण्यं वशिष्ठस्य ऋषिस्य आश्रमपदं प्रविष्टः ॥ वशिष्ठो पि ऋषि बोधिसत्वं दृष्ट्वा विस्मितो को यं भविष्यति मानुषो वा देवो वा शक्रो वा ब्रह्मा वा यस्य कायस्य प्रभाये सर्वम् इमं तपोवनम् ओभासितं ॥ सर्वे ते वटुका बोधिसत्वं दृष्ट्वा त्वरितत्वरिता स्वकस्वकानि पर्णकूटीनि प्रधाविता नानाप्रकाराणि फलानि गृह्य पानीयं च बोधिसत्वम् उपसंक्रान्ता ॥
तत्र वृद्धं महाप्राज्ञं तापसन्तपतां वरं ।
वशिष्ठं नाम गोत्रेण ददर्श च जगाम च ॥
ताम्रधूमारुणजटं ज्वालम् इव अदर्शि तं ।
[_म्वु_2.196_] आसीनं मुनिम् अव्यग्रं निर्वातम् इव सागरं ॥
अभिगम्य च धर्मात्मा नं मुनिं शाक्यपुंगवो ।
अनुज्ञातो प्रविष्टाय भूमियां उपविश्य स ॥
समुद्र इव गम्भीरो वीर्यवा हिमवान् इव ।
शाक्यराजसुतं दृष्ट्वा महर्षि विस्मितो अभूत्* ॥
को न्वयं वपुषा श्रीमान्* ज्वलत्य् अनुपमद्युति ।
सुवर्णो धूमापगतः जोतिमानो यथानलः ॥
व्यूढोरस्क्यो महाबाहुः सुप्रशस्तकरांगुलि ।
समन्तकुक्षिश् च श्लक्ष्णो एणवृत्ति कटीमहान्* ॥
कांचनस्तम्भसदृशो गोवृषाक्षो महाद्युतिः ।
शार्दूलवृषभस्कन्धः पद्मपादकरो नघः ॥
शरीरलक्षणैर् अस्य जातिशतगुणाचितैः ।
शोभतो शरीरं तस्य नक्षत्रैर् इव चन्द्रमाः ॥
विभूषणा नैव गात्रेषु रचिता अनुरूपिका ।
शरीरं भूषयन्त्य् अस्य लक्षणानि महात्मनः ॥
मेरुमण्डलसारेण गच्छता गजगामिना ।
आक्रान्ता सहसा पद्भ्यां रणतीव वसुन्धरा ॥
स्निग्धगम्भीरशब्देन स्वरेण अनुनादिना ।
त्रिलोकम् अर्हते कृत्स्नम् आज्ञापयितुम् ओजसा ॥
व्यंजनानि हि या यस्य लक्षणानि च लक्षये ।
[_म्वु_2.197_] युक्तो यं सर्वभूतानां त्रिलोकपतिर् ईश्वरः ॥
प्रभया पूरयत्य् एष स्वशरीरसमुच्छ्रया ।
तपोवनम् इदं सर्वं उदयन्न् इव भास्करो ॥
अशीतिव्यंजनोपेतो द्वात्रिंशद्वरलक्षणः ।
सनत्कुमारप्रतिमो कुमारो द्युतिमान् अयं ॥
सर्वलक्षणसंपन्नं सर्वभूतमनोहरं ।
कुमारं परिपृच्छेयं महर्षि उपगम्य तं ॥
गन्धर्वशशिसंकाश देवगर्भोपम युवा ।
कस्य त्वं किन्निमित्तं वा तपोवनम् उपागतो ॥
सत्यानुपरिवर्तिन्या सर्वभूतात्मया गिरा ।
श्लक्ष्णया प्रियवादिन्या बभाषे स नृपात्मजः ॥
इक्ष्वाकुवंशप्रभवः शुद्धोदननृपात्मजः ।
विहाय पृथिवीं राज्यं उज्झित्वा मोक्षम् आस्थितः ॥
लोकन् तु बहुभिर् दुःखैर् दृष्ट्वैवं समभिद्रुतं ।
मोक्षार्थम् अभिनिष्क्रान्तो जातिव्याधिजरादिभिः ॥
यत्र सर्वं न भवते यत्र सर्वं निरुध्यते ।
यत्रोपशाम्यते सर्वं तत् पदं प्रार्थयाम्य् अहं ॥
एवम् उक्ते महाप्राज्ञो महात्मा सत्यवागृषिः ।
उवाच वदतां श्रेष्ठं शाक्यराजकुलोदितं ॥
ईदृशेन हि वृत्तेन वृत्त्या लक्षणसंपदा ।
प्रज्ञया च महाभाग न किंचिद् यं न प्रापये ॥
[_म्वु_2.198_] बोधिसत्वो दानि वैशालिं गतो आराडं कालामं अल्लीनो । निर्वेदित्वा नायं मार्गो नैर्याणिको ततो राजगृहं गतो ॥
गत्वा च सो राजगृहं मागधानां गिरिगह्वरे ।
पिण्डाये अभिसरेसि आकीर्णवरलक्षणः ॥
तम् अदृशासि प्रासादात्* श्रेणियो मगधाधिपः ।
प्रसन्नचित्तो दृष्ट्वा च अमात्यां इदम् अब्रवीत्* ॥
इमं भवन्तो पश्यन्तु आकीर्णवरलक्षणं ।
आरोहेण च सम्पन्नं युगमात्रं च प्रेक्षति ॥
उत्क्षिप्तचक्षुर् मेधावी नायम् ऊनकुलोदितो ।
राजदूतानुबन्धन्तु कहिं वासम् उपेष्यति ॥
ततो तं संदिशिता दूता पृष्ठतो अनुबन्धिषु ।
गमिष्यति कहिं भिक्षुः कहिं वासम् उपेष्यति ॥
पिण्डाये चारं चरित्वान निष्क्रम्ये नगरान् मुनिः ।
पाण्डवं अभिसरेसि अत्र वासो भविष्यति ॥
ज्ञात्वा च बासोपगतं एको दूतो उपाविशत्* ।
अपरो क्षिप्रम् आगम्य राज्ञो आरोचये तदा ॥
एष भिक्षुः महाराज पाण्डवस्मिं पुरस् ततः ।
निषण्णो वृक्षमूलस्मिं एकाग्रो सुसमाहितः ॥
द्वीपीव सुतनुं वित्तं व्याघ्रं वा गिरिसानुगं ।
सिंहं वा गिरिदुर्गस्मिं महासिंहो मृगाधिपः ॥
ततो च राजा त्वरमानो अमात्यां अध्यभाषति ।
[_म्वु_2.199_] क्षिप्रं पन्थं विशोधेथ द्रक्ष्याम पुरुषोत्तमं ॥
ततो च ते राजदूता महामात्रा यशस्विनो ।
क्षिप्रं पन्थं विशोधेन्सुः स्वयं राजा इहेष्यति ॥
ततो च ते राजधूता महामात्रा यशस्विनो ।
गत्वा राज्ञो निवेदेन्सुः शुद्धो ते देव पाण्डवो ॥
ततो च निर्याति राजा सेना च चतुरंगिनी ।
मित्रामात्यपरिवृत्तो ज्ञातिसंघपुरस्कृतो ॥
यानातो ओतरित्वान पदसा उपसंक्रमे ।
सारायणीं कथां कृत्वा एकमन्ते उपाविशि ॥
निषद्य प्रमुखो राजा बोधिसत्वम् अध्यभाषति ।
उदग्रो त्वमसि राज्ञः अश्वारोहो व सेलको ॥
ददामि भोगां भुंजाहि जातीं चाख्याहि पृच्छितो ।
बोधिसत्व आह ॥
निजजनपदो राज हिमवन्तस्य पार्श्वतः ।
धनवीर्येण सम्पन्नो कोशलेषु निवासितो ।
आदित्यो नाम गोत्रेण शाकियो नाम जातिये ॥
ततो कुला प्रव्रजितो हं न कामां अभिप्रार्थये ।
प्रहाणाय गमिष्यामि वेश्मं मुक्ता रतनामयं ॥
तं खो तथा भोतु स्पृशाहि निर्वृतिं
बोधिं च प्राप्तो पुनर् आगमेसि ।
[_म्वु_2.200_] मह्यं पि धर्मं कथयेसि गौतम
यम् अहं श्रुत्वान व्रजेय स्वर्गतिं ॥
बोधिसत्व आह ॥
तं खो महाराज तथा भविष्यति
बोधिं स्पृशिष्यामि न मे त्र संशयो ।
प्राप्तो च बोधिं पुनर् आगमिष्यं
धर्मं च ते देशयिष्यं प्रतिशृणोमीति ॥
बोधिसत्व उद्रकं रामपुत्रं अल्लीनो नायं मार्गो निर्याणिको ति । ततो पसंक्रम्य गयां गतो ॥ गयाशीर्षे पर्वते तिस्रो उपमा प्रतिभायेन्सुः ॥ ततो उरुविल्वां गतो पिण्डाय प्रविष्टो ॥ काश्यपो पूरणो उरुविल्वां पिण्डाये प्रविष्टो ॥
नीवरणं विजहित्वा शृणोथ एकाग्रमानसा सर्वे ।
यथा पुरिमजिनसंगमो यशस्विनो बोधिसत्वस्य ॥
प्रव्रज्यायभ्युपेत्वा अराड-उद्रकं वने अपरितुष्टो ।
प्रक्रमि दिशं प्रदक्षिणां पुरिमजिननिसेवितं देशं ॥
पिण्डाये प्रतिचरन्तो उरुविल्वां प्राप्तो कनकनिष्कनिभो ।
ग्रामिकघरं आगमि नरनारिसमाकुलं काले ॥
अथ ग्रामिकस्य धीता नामेन सुजाता पण्डिता कुलीना ।
तं दृष्ट्वा राजपुत्रं प्रकम्पिता प्रीतिवेगेन ॥
अश्रूणि प्रवर्तयन्ति पुरतो स्थिता हि सपतिस् सगौरवा ।
[_म्वु_2.201_] आलपति राजपुत्रं मा त्वं निवर्तयस्य नरवर ॥
चन्द्रप्रतिपूर्णवदन मा गा नित्यन् तु सर्वतो निगमा ।
अतृप्टा हि मम नयना तव वीर निरीक्षमाणाये ॥
किं तु खु सुचारुविक्रम सुरूपलक्षण वराभरणधारि ।
प्रक्रमसि अतृप्ताया सर्वान्धकृतो यं मे हृदयं ॥
सा श्रुणति देवतानां गिरां नभगतानां च भाषन्तां ।
एष खलु कपिलवस्तुतो शुद्धोदनराजवरपुत्रो ॥
सा तस्य दर्शनतृषा निर्धाविता गुणशता कीर्तयति ।
वरपुरुष विप्रहीनो स्वबन्धुजनस्य कथं आसी ॥
प्रमदागणसंपरिवृता रुदन्ति अनुगच्छन्ति कनकवर्णं ।
परिदेवते च करणं अटविवनमुखे प्रपद्यन्तं ॥
सुखिता वनेषु सकुला मृगा च वनदेवा वनराजा च ।
ये राजहंसगतिकं वीक्षन्ति वनेवरं वीरं ॥
सुकुमारफुल्लगात्रं कमलदलनिभेहि पादरतनेहि ।
कथम् आक्रमसि वसुधां तृणकुशशरसंस्तृतविदुर्गां ॥
मृष्टान्नरससमुदितो नानारसप्रवरवृंहितशरीरो ।
मूलफलपत्रभक्षो भेष्यसि कथं निर्झरवनान्ते ॥
कनकगजदन्तपादे वरास्तरे कुसुमसंकुले शयने ।
सुपियान कथं शयिष्यसि तृणकुशशरसंस्तृततलेषु ॥
श्रुणियान वरेन्द्र भवने पटहत्रिपुष्करनिनादसंगीतिं ।
[_म्वु_2.202_] श्रोष्यसि खरां भयकरां संरुषितगजगर्जितनिनादां ॥
मूलफलपत्रसफला ते भवतु दिशा अनुग्रमृगसंघा ।
मा तृषितभुक्षितस्य ते शिला तपे वनेचर शरीरं ॥
ग्रीष्मपरितापितस्य ते भवतु सलिलगर्भमण्डपोपवनं ।
शिशिरे च विगतजलदो दिवाकरो भातु गिरिदरीषु ॥
राक्षसयक्षभुजंगपरिवारं तव देवगर्भसुकुमारं ।
नक्षत्रचन्द्रप्रवरं हृदयनयननन्दनशरीरं ॥
सो विन्ध्यपादपार्श्वे गजवर इव पद्मिनीम् अभिलषन्तो ।
प्रविशति तपोवनन्तं शृणोथ विविधं वनवरस्य ॥
क्वचि रक्तपल्लवलता तरुणतरुकुसुममंजलिके रण्ये ।
क्वचि वनदेवोपतप्ता क्वचित् क्रमत्कुंजरविभग्ना ॥
क्वचिद् विपुलघनपलाशप्रलम्बफलैः तरु अलंकृत अगम्यैः ।
क्वचि जीर्णो कोटरतरु वनपादपगुल्मवृतमूलो ॥
क्वचि पद्मसरो सुरूपो क्वचि गिरिसरितालाभो वनः वीराः ।
तापसकुलाश्रमा क्वचि कोकिलशुकमोरपरिगीता ॥
क्वचिद् विवरतृणजांगला क्वचित् . . . . . . शरपल्लवरक्ता ।
क्वचित् रुरुचमरमहिषा क्वचित् क्वचिद् व्याघ्रसिंहमणाः ॥
क्वचि रक्तपल्लवलता तरुणतरुप्रलम्बिता नाना ।
[_म्वु_2.203_] उद्यानगमनश्रान्ता प्रमदायो विय निद्रायन्त्यो ॥
क्वचि कुरवकतरुशिखरो प्रकुसुमितो व्यक्तपुष्पसुविबुद्धो ।
निद्रागलितनयनानां नारीणाम् इव विबुद्धानां ॥
मधुरपवनेरिता क्वचि नानाद्रुमकुसुमचित्रवनशाखा ।
आलम्बन्ति परस्परं प्रमदा सलीला वियान्योन्यं ॥
क्वचि कुप्यकवनशाखा प्रकुसुमिता भारमप्रसहमाना ।
अनुवेल्लिता . . . . सहोदरम् इव वत्सला प्रमदा ॥
क्वचि किंशुका कुसुमिता वनराजिवनान्तरे गुरुकुले वा ।
रक्ताम्बरोत्तरीया प्रमदा विपुलाक्षियो वनिता ॥
क्वचित्* वसुमतिप्रदेशो नवसंपुष्पितपुष्पैः संछन्नो ।
आभरणभरितवसना सललितशयना नववधू व ॥
क्वचि कठिनकण्टकलता मृगमहिषवराहाण पदनिकेता ।
शबरशर-आहतानां मृगान रुधिरेण सिक्तानि ॥
क्वचि गजकरंकनिकरो क्षितिं गले पटपाण्डरास्तरणकल्पो ।
क्वचि व्याघ्रकेशरिहता विषादि नरवारणवराहा ॥
क्वचि राक्षसप्रलापा पिशाचकुम्भाण्डभेरवरुतानि ।
क्वचि गुह्यकभणितानि निशासु पवनेषु प्रचरन्ति ॥
क्वचित्* निशासु जलधरा गर्जन्ति प्रतिनन्दति व्यालगणा ।
[_म्वु_2.204_] . . . . भैरवकरा करोन्ति रूपाणि च बहूनि ॥
पादपवनस्मिं तस्मिं विहरति सो सर्वलोकहितकामो ।
चण्डमृगराक्षसानां हृतबहुमानेन यो रम्यो ॥
यथ आत्मनो मृगपतिः सर्वजगहितं ततो विशेषेण ।
प्रार्थयति सत्वसारो सत्वान तद् अपि दमाश्चर्यं ॥
एकेकसत्वमोक्षणे यदि कल्पम् असंख्यं सर्वसत्वानां ।
दुःखम् अनुभोमि तारेष्यं सर्वसत्वानां व्यवसितम् इदं ॥
सत्वसारस्य षड्वर्षा दुष्करं वने चरित्वा कर्मक्षये ।
स्मृति लब्धा यत्र पथास्मि गतो नायं मार्गो मोक्षाये ॥
अस्ति तस्मिं मति पूर्वे जंबुद्रुमे शाक्यराजम् उद्याने ।
प्रथमं ध्यानं समादयि स भविष्यति बोधिये मार्गो ॥
न च शाक्यं दुर्बलेन कृशेन परिशुष्करुधिरमान्सेन ।
बोधिम् अभिगन्तुं यद् अहं पुनर् आहारम् अभ्यवहरेयं ॥
देवता अवोच मा त्वं आहरयहि मा ते यशो परिहाये ।
वयम् ओजं गात्रेषु तुह्यं उपसंहरिष्यामथ ॥
तस्यासि अहं सर्वशो सततम् अनाहार इत्य् अभिज्ञातो ।
ओजश् चे मह्य तेहि उपसंहारितं मृषा अस्या ॥
सो अनृतवचनभीतो अलम् इति तां देवतां प्रतिक्षिपिय ।
मुद्रकुलच्छहरेण्डा फाणिकृतं यूषम् उपभुंजे ॥
[_म्वु_2.205_] अनुपूर्वं च शरीरे स्थामं च बलं च संजनेत्वान ।
आहारं समगवेषि उरुविल्वम् उपागमि स साधु ॥
अथ सा पूर्वजनेत्री सुजाता नामेन पण्डितकुलीना ।
न्यग्रोधपादपमूले तिष्ठति मधुपायसं गृह्य ॥
किं ब्रह्मचारि अवचा कर्शितम् आयासितं तव शरीरं ।
सा पायसं ददत्वा परिकीर्तय राजपुत्रस्य ॥
राज-ऋषिस्य च तस्य आसि मधुपायसं तत्र सुजातं ।
तां अवचि पार्थिवसुतो किमर्थम् एतं ददसि दानं ॥
जातिशतानि जनेत्री अभूषि या तस्य शुद्धसत्वस्य ।
सा प्रतिभणेसि मधुरं प्रार्थेमि समृध्यतु मह्यं ॥
हिमवन्तपादपार्श्वे नगरं कपिलाह्वयन्ति विख्यातं ।
दिशविदिशविश्रुतयशं प्रमुदितनरनारिसंकीर्णं ॥
तस्मिं नगरे कुमारो पुत्रो शुद्धोदनस्य शाक्यस्य ।
अवहाय बान्धवजनं वनं गतो राज्यम् उत्सृज्य ॥
षड्वर्ष तस्य व्रजतो तपोवने उग्रे भैरवे वने ।
दानेन मे तस्य भवति प्रणिधी परिपूरिया ॥
तेन तपेन वरो यं मार्गेति मे स समृध्यतु अर्थो ।
अहम् अपि तेन पथेन गच्छेय महानरवरेण ॥
ततो प्रादुरासि वाचा अन्तरीक्षादमानुषी ।
सुजाते एषो सो धीरो शाक्यराजकुलोदितो ॥
[_म्वु_2.206_] एतेन तपा आचीर्णा दुष्करा रोमहर्षणा ।
शुष्कशोणितमान्सेन नानारूपा तपोवने ॥
ते निरर्थानि उत्सृज्य प्रक्रमे वरपादपं ।
अत्र अतीता संबुद्धा प्राप्ता संबोधिम् उत्तमं ॥
ततो अश्रूणि वर्तेन्ति सौमनस्यसमर्पिता ।
कंपमाना नरव्याघ्रं कृतांजलि उवाच सा ॥
दृष्टो सि भैरववने उग्रतपाभ्युत्थितो कमलनेत्र ।
दृष्ट्वा मे शोकमथितं हृदयं प्रीतिं समनुभोति ॥
षड्वर्षाणि ममाग्रे न सुप्तपूर्वा सुखाय शय्यानि ।
शोकशरातापेन तव तपम् अनुचिन्तयन्तीये ॥
तं खो राज्यं जनो च पिता च अभिवत्सला च मातुस्वसा ।
तव श्रुत्वा तपसो न्तं प्रीतिसुमनसो भविष्यन्ति ॥
होहिन्ति कपिलनगरे तूर्यशतनिनादितानि भवनानि ।
आनन्दप्रमुदितानि प्रहसितनरनारिसंघानि ॥
मधुपायसम् उपभुक्त्वा पुरिमभवनेत्रिये भव निर्घाती ।
द्रुमराजपृथिवीषण्डे अमृतम् अधिगतो पदम् अशोकं ॥
व्याकरि नरप्रदीपो जातिशता पंच जननी मह्यासि ।
भेष्यसि अनागते ध्वनि प्रत्येकजिनो जिनव्रतो ति ॥
_____इति श्रीमहावस्तुने सुजाताव्याकरणं समाप्तं ॥
[_म्वु_2.207_] अथ बोधिसत्वो उरुविल्वाये सेनापतिग्रामकातो पिण्डाय नानाप्रकाराणां पूपानां भरितेन पात्रेण निर्धावति काश्यपो च पूरणो तिरिक्तकेन पात्रेण निर्धावति ॥ सो बोधिसत्वेन पृच्छियति ॥ आयुष्मं काश्यप लभ्यति भिक्षा ति ॥ सो दानि काश्यपो बोधिसत्वं गाथायम् अध्यभाषति ॥
प्रस्कन्दको बलाकल्पो उज्जंगलो च जंगलो ।
एतेहि पापग्रामेहि एकापि भिक्षा न लभ्यति ॥
अथ बोधिसत्वो काश्यपं पूरणं गाथाय प्रत्यभाषति ॥
प्रस्कन्दको बलाकल्पो उज्जंगलो च जंगलो ।
एतेहि भद्रग्रामेहि पश्य पात्रं भरितं अभू ॥
यं बोधिसत्व अकामकानां मातापितॄणां अश्रुकण्ठानां रुदन्मुखानां अभिनिष्क्रान्तो राज्ञा शुद्धोदनेन पुरुषा विसर्जिता । कुमारस्य दिवसवार्तां नित्यम् आनेथ ॥ ततो यं कुमारो अनोमियं गतो वशिष्ठस्य ऋषिस्य आश्रमपदं ततो प्रवृत्ति आगता ॥ यं वशिष्ठस्य ऋषिस्य आश्रमपदातो वैशालिं गतो ततो च राज्ञो शुद्धोदनस्य प्रवृत्ति आगता ॥ यं वैशालियं अरडं कालामम् उपसंक्रान्तो ततो पि प्रवृत्ति आगता ॥ यं वैशालितो राजगृहं गतो ततो पि प्रवृत्ति आगता ॥ यं राजगृहे उदकं रामपुत्रम् उपसंक्रान्तो ततो पि प्रवृत्ति आगता ॥ यं राज्ञा श्रेणियेन बिम्बिसारेण विस्तीर्णेहि भोगेहि प्रवारितो ततो पि प्रवृत्ति आगता ॥ यं राजगृहातो गयाशीर्षं पर्वतं गतो ततो पि प्रवृत्ति आगता ॥ यं गयाशीर्षातो पर्वतातो उरुविल्वां गतो नदीय नैरंजनाय तीरे उरुविल्वके वनषण्डे ततो राज्ञो शुद्धोदनस्य प्रवृत्ति आगता ॥
[_म्वु_2.208_] यं उरुविल्वके वनखण्डे उग्रं च तपं तप्यति प्रहाणं च प्रतिदधाति ततः प्रवृत्तिर् गच्छति ॥ यं बोधिसत्वो आस्फानकं ध्यानं ध्यायति लूखताय च नासिकाश्रोत्रेहि च उभयतो च कर्णश्रोत्रविवरान्तरेहि बोधिसत्वेन आश्वासप्रश्वासा उपरुद्धा तेषां पुरुषाणां भवति कालगतो कुमारो ति नो उश्वसति न प्रश्वसति तेहि गत्वा कपिलवस्तुं राज्ञो शुद्धोदनस्य निवेदितं । महाराज कालगतो कुमारो ति ॥ राजा न पत्तीयति । तेषां पुरुषाणां पृच्छति । कथं यूयं जानथ कुमारो कालगतो ति ॥ ते आहन्सुः ॥ महाराज उग्रेण तपेन लूहाहारताये च कालगतो नापि उश्वसति न प्रश्वसति काष्ठभूतो आसति । ततः अस्माकं भवति यथा कुमारो न उश्वसति न प्रश्वसति कृशो च दुर्बलशरीरो कालगतः कुमारो ति ॥ राज्ञो दानि शुद्धोदनस्य एतद् अभूषि ॥ यादृशा कुमारस्य गर्भावक्रान्ति आसि यदृशा च देवसहस्रेहि पूजा कृता गर्भचंक्रमस्य यादृशाये च विधीये लुम्बिनीवने उद्याने कुमारो जातो जातमात्रो च पृथिवीयं सप्त पदानि प्रक्रान्तो दिशा च अभिलोकितो महाहसितं च ऊहसितो वचनं प्रव्याहृतो अहं लोके अग्रो ज्येष्ठो श्रेष्ठो पूज्यो देवानां च मनुष्याणां च यादृशानि च कुमारे जातमात्रे आश्वर्याद्भुतानि अचेतना पृथिवी कंपिता देवसहस्रेहि च पूजा कृता यादृशा च अभिनिष्क्रमणसम्पदा आसि तत्र न एदृशा महापुरुषा अल्पायुष्का भवन्ति ॥ भवितव्यं कुमारो यथा पूर्वे प्रव्रज्याम् अप्रव्रजितो सीतलाये जम्बुच्छायाये पर्यंकेन निषण्णः शान्तं समाधिं समापन्नो भविष्यति । तद् एते जानन्ति कालगतो कुमारो ति ॥ सो दानि तेषां पुरुषाणां आह ॥ गच्छथ कुमारस्य सकाशं न कुमारो कालगतो शान्तं समाधिं समापन्नो ॥ कुमारस्य
[_म्वु_2.209_] दिवसप्रवृत्तिं मम आनेथ ॥ ते दानि पुरुषा भूयो उरुविल्वां गताः तपोवनं च प्रविष्टाः कुमारं च अरोगं स्वस्तिवन्तं समाधितो व्युत्थितं पश्यन्ति ॥ ते दानि पुरुषा विस्मिता पण्डितो राजा शुद्धोदनो ॥ यदा भगवां प्रवृत्तप्रवरधर्मचक्रो एतं प्रकरणं भिक्षूहि श्रुतं ॥ भिक्षू भगवन्तं पृच्छन्ति ॥ कथं भगवं राजा शुद्धोदनो तेषां आपृष्टपुरुषाणां श्रुत्वा कुमारो कालगतो ति नाभिश्रद्दधाति ॥ भगवान् आह ॥ न हि भिक्षवो न एतरहिं एव राजा शुद्धोदनो ममान्तरेण कालगतो ति श्रुत्वा नाभिश्रद्दधाति । अन्यदापि ममान्तरेण एष कालगतो ति श्रुत्वा नाभिश्रद्दधाति ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि भिक्षवो ॥
___भूतपूर्वं भिक्षवो अतीतमध्वने नगरे वाराणसी काशिजनपदे अपरो ब्राह्मणो ॥ तेन अष्टचत्वारिंशद्वर्षात् कौमारं ब्रह्मचर्यं चीर्णं वेदा च अधीता ॥ तेन दानि अष्टचत्वारिंशद्वर्षात् कौमारं ब्रह्मचर्यं चरित्वा वेदा च अधीत्य नास्ति अनपत्यस्य लोके पि धर्मो दारं कृतं अपत्यो च उत्पादितो ॥ तस्य भवति ब्राह्मणस्य । परिभुक्ता मानुष्यका कामा समयो मे प्रव्रजितुं ॥ सो दानि ब्राह्मणो तां ब्राह्मणीम् आमन्त्रयति । भवति आमन्त्रेमि प्रव्रजिष्यामीति ॥ सा नं आह ॥ ब्राह्मणस्य वा पुत्रस्य को विवेष्यति मम वा को विवेष्यति । यदि तव अभिप्रेतं प्रव्रजितुं अहं पि प्रव्रजिष्यामि अहं पि तपश्चरणं करिष्यामि अहं पि ब्रह्मचर्यं चरिष्यामि । यथापि त्वं तपश्चरणं करिष्यसि तथाहं पि तपश्चरणं करिष्यमि ॥ ब्राह्मणो आह ॥ एवम्
[_म्वु_2.210_] अस्तु त्वं पि प्रव्रजाहि ॥ ते दानि वाराणसीतो निर्गता ॥ अनुहिमवन्ते साहंजनी नाम आश्रमपदो । तहिं गौतमो नाम महर्षि प्रतिवसति पंचतपरिवारो चतुर्ध्यानलाभी पंचाभिज्ञो ॥ सो दानि ब्राह्मणो ताये ब्राह्मणीये तहिं साहंजनीं आश्रमपदं गत्वा गौतमस्य ऋषिस्य मूले प्रव्रजितो । सापि ब्राह्मणी प्रव्रजिता ॥ तेन दानि तस्य आश्रमपदस्य अविदूरे आश्रमो मापितो तृणकुटी वर्णकुटी च कृता । तस्या पारगाये तापसीये एकान्ते तृणकुटी कृता ॥ तेहि दानि तहिं आश्रमपदे प्रतिवसन्तेहि वाहिरकेन मार्गेण युज्यन्तेहि घटन्तेहि व्यायमन्तेहि ध्यानानि च अभिज्ञा च साक्षात्कृता चतुर्ध्यानलाभी पंचाभिज्ञा महाभागा संवृत्ता उग्रतपाश्रिता ब्रह्मचारी ॥ यं ऋषि आनेति मूलविकृतिं वा फलविकृतिं वा कोद्रवकं वा श्यामाकं वा प्रियंगु वा भंगं वा प्रासादिकं वा शाकं वा मूलकं वा ततः तस्या पि पारगाय सगर्भरूपाये संविभागं करोति ॥ तेषां भवति । किं इमस्य माणवकस्य नामं भवतूति ॥ तेषाम् एतद् अभूषि । अयं माणवको श्यामवर्णको भवति इमस्य माणवकस्य श्यामको ति नाम ॥ तस्य दानि माणवकस्य तेहि मातापितृहि श्याभको ति नाम कृतं ॥
___तहिं आश्रमपदे सो माणवको उन्नीयति । एवम् अनुपूर्वेण सो माणवकः यं कालं संवर्धितो पादेहि अण्वितः ततो यं एवं मृगपोतकेहि सार्धं रमति ॥ मैत्रीविहारी ऋषयो महाभागा । तेषां मृगपक्षिणः न सन्त्रसन्ति ॥ मृगपक्षिसहस्रेहि तम् आश्रमपदं उपशोभितं । यं वेलन् ते मृगपोतका मातरो स्तनं पिबन्ति ततः श्यामको पि तेहि एवं मृगपोतकेहि सार्धं तं मृगीये स्तनं पिबति । यस्या यस्या मृगीये अल्लीयति सा एव स्तनं पायेति यथा स्वकपोतकं पायेति तथा श्यामकं पि
[_म्वु_2.211_] पायेति ॥ एवं सो श्यामको ऋषिकुमारो तहिं आश्रमपदे तेहि मृगपोतकेहि पक्षीहि च सार्धं संवर्धति ॥ यतो यतः मृगपोतका च पक्षी च अण्वन्ति तत्र तत्र श्यामको ऋषिकुमारो तेहि मृगपक्षीहि परिवारितो अण्वति । ते पि मृगपक्षी ऋषिकुमारेण सार्धं अभिरमन्ति ॥ यं वेलं ऋषिकुमारो उटजे शयितो भवति ततः अनेकमृगपोतका च पक्षी च नानाप्रकारा उटजस्य द्वारमूलम् अन्वासन्ति यावत्* श्यामको ऋषिकुमारो ततो उटजातो निर्धावितो भवति । ततः आश्रमपदस्य परिसामन्त अण्वन्ति ॥ श्यामको तेहि मृगपक्षीहि सार्धं आश्रमपदे अभिरमति मृगपक्षी पि तेन श्यामकेन सार्धं तहिं आश्रमपदे अभिरमन्ति ॥ शयितस्यापि ऋषिकुमारस्य आश्रमपदे मृगपोतका च मृगा च पक्षी च अनुपरिवारित्वा आसन्ति । यदा अण्वितुकामा भवन्ति मृगपोतका च पक्षी च ततो तं श्यामकं ऋषिकुमारं मुखतुण्डकेन प्रतिबोधयन्ति ॥ एवं सो ऋषिकुमारो तेहि मृगपक्षीहि सार्धं आश्रमपदे संवर्धति ॥ यं वेलं ऋषिकुमारो विवृद्धो संवृत्तो ततः मृगाणाम् अजिनेन निवस्तो च प्रावृतो च ॥ या तत्र आश्रमपदे भवति मूलविकृतिर् वा फलविकृतिर् वा कोद्रवो वा श्यामको वा चिन्नको वा प्रियंगुर् वा भंगं वा प्रासादिको वा शाकं वा मूलका वा तम् आनयित्वा मातापितॄणां उपनामेति । उदकम् आनेति काष्ठनि आनेति तृणकुटिपर्णकुटीनि संस्थापेति । तम् आश्रमपदं सिंचति संमार्जति ॥ परमगौरवेण तेषां मातापितॄणाम् उपस्थिहति । प्रथमं मातापितरं प्रतिचरति पश्चात्* स्वयं आहारं करोति । यत उपादाय ऋषिकुमारो विज्ञप्राप्तो ततः उपादाय न कदाचिद् अदत्त्वा
[_म्वु_2.212_] मातापितॄणाम् आहारं स्वयं आहारं कृतपूर्वो । एवं श्यामको ऋषिकुमारो तहिं आश्रमपदे मातापितरम् उपस्थिहति ॥ इष्टेन कान्तेन प्रियेन मनापेन कालो गच्छति ऋषिकुमारस्य मातापितरं उपस्थिहन्तस्य ॥ मातापितरो पि तहिं आश्रमपदे प्रतिवसन्ता जीर्णा संवृत्ता दुर्बलशरीरा चक्षुपरिहीणा परप्राणेया अशक्या आत्मणा आहारविधानं कर्तुं उदकहाराय वा गन्तुं तृणकुटीय वा पर्णकुटीय वा वेषितुं ॥ श्यामको ऋषिकुमारो तेषां मातापितॄणां वृद्धानां जीर्णानां दुर्बलशरीराणां चक्षुहीनानां सर्वहितोपस्थानेन उपस्थिहति दश कुशलां कर्मपथां समादाय वर्तति प्रासादिको ऋषिकुमारो अभिरूपो दर्शनाये शुभेन कर्मणा अभिनिर्वृत्तः मातापितृवर्तको कौमारब्रह्मचारी उग्रतपसाश्रितो प्रान्तशय्यासनविहारी महाभागो प्रियो देवानां नागानां यक्षाणां राक्षसानां पिशाचानां कुम्भाण्डानां किन्नराणां किन्नरीणां मृगानां पक्षीणां प्रियो सर्वभूतानां ॥ यतो यतो ऋषिकुमारो गच्छति मूलहारी वा पत्रहारी वा पुष्पहारी वा फलहारी वा ततो ततो मृगपक्षीहि च देवनागेहि च किन्नरेहि किन्नरीहि च संपरिवृतो गच्छति ॥
___सो दानि घटम् आदाय मृगपक्षीहि संपरिवृतः देवनागेहि च किन्नरेहि च किन्नरीहि च उदकहारी गिरिनदीं ओकस्तो ततः उदकघटं परिपूरयति ॥ पेलियक्षो नाम काशिराजा महाबलो महाकोशो महावाहनो मृगव्ये अण्वन्तो वातजवसमेन तुरगेण मृगम् अनुजवति । उज्झित्वा बलवाहना न कश्चन तं प्रदेशम् अनुप्राप्तो ॥ यथोक्तं भगवता धर्मपदे ॥
गति मृगानां पवनं आकाशं पक्षिणां गतिः ।
धर्मो गतिर् विभागीयानां निर्वाणम् अर्हतां गतिर् इति ॥
[_म्वु_2.213_] सो मृगो तहिं एव वनखण्डे नष्टो ॥ राजा तहिं वनखण्डे श्याम-ऋषिस्य ततो गिरिनदीतो उदकघटं भरन्तस्य शब्दं शृणोति । तस्यैतद् अभूषि मृगस्य एतं शब्दं ति न मनुष्यचरितो अयं वनो ॥ तेन दानि यतो तं शब्दं श्याम-ऋषिस्य उदकघटं भरन्तस्य ततो क्षुरप्रं क्षिप्तं ॥ सो दानि क्षुरप्रो ऋषिकुमारस्य हृदये निपतितो विषकृतो ॥ ते मृगपक्षिणो तेन विषकृतस्य क्षुरप्रस्य शब्देन शब्दवेधिगन्धेन दिशो दश प्र्पलाना । श्यामक-ऋषि उदक्घटं नदीतीरे स्थापेत्वा करुणानि परिदेवति ॥ मान्सस्यार्थं मृगवराहा हन्यन्ति । चर्मणार्थाय सिंहव्याघ्रा द्वीपयो हन्यन्ति । बालार्थ्ं चमरीयो हन्यन्ति । दन्तार्थं हस्तिनागा हन्यन्ति । भैषज्यार्थं तित्तिरकपिंजलानि हन्यन्ति । अस्माकं पुनर् नैवं शक्या मान्सेन कार्यं कर्तुं न चर्मेण न केशेहि न दन्तेहि कस्यार्थाय वयं अहेठका अदूषका अनपराधिनो एकेन इषुणा त्रयो जना हता । अहो यथा संप्रज्वलितो अधर्मो ॥ सो च श्याम-ऋषिकुमारो तथा परिदेवति काशिराजो च नं प्रदेशम् अनुप्राप्तो पश्यति तम् ऋषिकुमारं परिदेवन्तं अजिनजटावल्कलधरं महाभागं अश्रु प्रपातेन्तं ॥ सो राजा तम् ऋषिकुमारं क्षुरप्रेण आहतं दृष्ट्वा भीतो अस्तो संजातो । मा हैव मे सनगरजनपदं शापेन भस्मीकरिष्यति ॥ सो ततो अश्वातो अवतरित्वा श्याम-ऋषिस्य कुमारस्य मूर्ध्ना निपतितो ॥ भगवं मृगसंज्ञेन मया एतं इषु क्षिप्तं अजानमानेन अनुक्षमापयिष्यं भगवन्तं ये चैते अश्रुविन्दू भूमिं पतन्ति केवलकल्पं ज्म्बुद्वीपं एते अश्रुविन्दू दहेन्सुः
[_म्वु_2.214_] किम् अंग पुनः अस्मद्विधानां बालानां ॥ येन भगवान् आह एकेन इषुणा त्रिवर्गं हतन्ति एतं न विजानामि । भगवान् एको न त्रिवर्गो । कथं एकेन इषुणा त्रयो जना हताः ॥ ऋषिकुमार आह ॥ महाराज मम मातापितौ जीर्णा वृद्धा दुर्बलशरीरा चक्षुहीना ब्रह्मचारी महाभागा सदेवकस्य लोकस्य दक्षिणीया परप्राणेया अहं च तेषाम् उपस्थायको । प्रथमं तेषाम् आहारविधानं करोमि पश्चाद् आत्मनो यं कंचित् तेषां उपस्थानपर्यन्तं अहं सर्वं करोमि नास्ति तेषां अन्यो कोचिद् यो सानं उपस्थिहेय ततः मया हतेन ते पि हता । नास्ति मया मृतेन तेषां जीवितं । तद् एतेन कारणेन जल्पामि एकेषुणा त्रयो जना हता ति ॥ काशिराजा श्यामशिरिम् ऋषिकुमारं आह ॥ तीक्ष्णविषकृतेन इषुणा हृदयस्मिं आहतो सो मया अजानमानेन जानामहं यथा तव जीवितं नास्ति । तं चरे एकं सत्यं प्रतिश्रुणामि । राज्यं ऋद्धं स्फीतम् अवहाय तव गुरुमातापितरं अहं परिचरिष्यं ॥ यथा परिचीर्णं तथा परिचरिष्यं ॥ ऋषिकुमारो आह । महाराज तेन मे शोकशल्यो हृदयातो अपगतः ॥ एतं वचनं प्रतिश्रुत्वा यथा सत्यप्रतिज्ञो भवेसि मे गुरुषु तथा करोहि महीपाल महान्तं ते कुशलं भविष्यति । तेषां महाभागानां उपस्थानपरिचर्यं कृत्वा एतं महाराज उदकघटम् आदाय एताये एकपदिकाये मम मातापितॄणाम् आश्रमपदं गच्छेसि । मम वचनेन अभिवादनं पृच्छेसि । श्यामशिरि अभिवादनं पृच्छति एवं चाह । मृतो वो एकपुत्रको तन् न शोचितव्यं न रोदितव्यं जातेन जीवलोके अवश्यं मर्तव्यं अल्भनीयं स्थानं तन् न शक्यं रोदितेन वा शोचितेन वा लब्धुं न शक्यं स्वयंकृतानां
[_म्वु_2.215_] कर्मणां पलायितुं । नापि मम एकस्य मरणं सर्वसत्वा मरणधर्मा । तन् मा शोचिष्यथ मा उत्कण्ठिष्यथ । सर्वेहि प्रियेहि मनापेहि नानाभावो विनाभावो ॥ यथा महाराज सत्यप्रतिज्ञो मे गुरुषु भवसि तथा करोहि ॥ एवं संविदित्वा ऋषिकुमारो विपरिगतशरीरो कालगतो ॥
___राजा ऋषिकुमारं कालगतं विदित्वा रोदित्वा परिदेवित्वा अश्रूणि संमार्जित्वा तम् उदकघटम् आदाय ताये एकपदिकाये यथोपदिष्टाये श्यामकशिरिणा तम् आश्रमपदं गच्छति ॥ समनन्तरप्रक्रान्तो च काशिराजा श्यामकशिरिस्य मूलातो श्यामकशिरि च मृगपक्षिशतेहि मृगपक्षिसहस्रेहि परिवारितो देवेहि नागेहि यक्षेहि किन्नरेहि किन्नरीहि तथान्येहि भूतेहि । ऋषिकुमारं परिवारेत्वा महान्तं आरोदनं करेन्सुः महान्तं निनादं अकरेन्सुः । नूनं सो पापकर्मो तमातो तमं गमिष्यति अपायेषु अपायं गमिष्यति येन ताव अहेठकस्य अदूषकस्य अनपराद्धस्य अपराद्धं ॥ सर्वं वनखण्डं ता पर्वतदरी तं च आश्रमपदं भूतनिनादेहि निनादितं मृगपक्षिरवेहि च आरावितं ॥ श्यामकशिरिस्य मातापितरौ तानि भूतानि श्रुत्वा मृगपक्षिरवाणि श्रुत्वा चिन्ताम् आपन्ना । किम् इदं अद्य नास्मभिः कदाचिद् एदृशाणि भूतानां निर्नादशब्दानि श्रुतपूर्वाणि न एदृशानि मृगपक्षिरवशब्दानि श्रुतपूर्वाणि मा हैव श्यामकशिरि सिंहेन व्याघ्रेण वा अन्येन वा व्याडमृगेण विहेठितो भूद् इति ॥ यादृशानि एतानि निमित्तानि यादृशो च अस्माकं हृदयो अनिर्वृत्तो यथा च मे अक्षीणि परिस्फुरन्ति ॥ ते च तथा अनिर्वृत्ता कायेन च चित्तेन च श्यामकशिरिं विचिन्तेन्ति । काशिराजा च तम् आश्रमपदम् अनुप्राप्तः मृगपक्षिशतानि च ततः आश्रमपदातो भैरवाणि
[_म्वु_2.216_] रवाणि रवन्ता प्रपलाना । ऋषयो अस्याधिकं सन्त्रस्ता ॥ काशिराजा एकमन्ते वृक्षदण्डे अश्वं बन्धित्वा तं उदकघटम् आदाय श्यामकशिरिस्य मातापितॄणां सकाशम् उपसंक्रान्तो ॥ अभिवादयामि भगवन्* ॥ ते पृच्छन्ति नन्दन्ता ॥ को तुवन्ति ॥ राजा आह ॥ भगवन् अहं पेलियक्षो नाम काशिराजा कच्चिद् भगवान् इह तपोवने सुखं भवति व्याडमृगानुचरिते निर्मनुष्ये उत्पद्यन्ति मूलफलानि कोद्रवं श्यामाकं शाकमूलं अल्पकिसरेण लभ्यति अल्पा वा व्याधि शरीरे अल्पा दंशमसकसरीसृपसंस्पर्शा काये उपनिपतन्ति ॥ ते दानि आहन्सुः ॥ तं खु महाराज सुखं वसामः इह अरण्ये व्याडमृगानुचरिते निर्मनुष्ये आश्रमपदे मूलपत्रफलानि च कोद्रवश्यामकमूलकानि अल्पकिसरेण लभ्यन्ति अल्पो च व्याधि शरीरस्मिं अल्पानि च दंशमसकसरीसृपसंस्पर्शा काये उपनिपतन्ति । कच्चित्* महाराज तवापि अन्तःपुरे कुमारामात्येषु बलवाहनकोशकोष्ठागारेषु क्षेमं निरीतिकं निरुपद्रवं पौरजानपदा अनुवर्तन्ति प्रतिराजानो न कच्चिद् अपराध्यन्ति देवो च कालेन वर्षति शस्यानि संपद्यन्ति क्षेमं च ते राज्यं सुभिक्षं निरुपद्रवं ॥ सो दानि आह ॥ तं खु भगवन् अन्तःपुरे कुमारामात्येषु बलवाहनकोशकोष्ठागारेषु क्षेमं निरीतिकं निरुपद्रवं पौरजानपदा अनुवर्तन्ति प्रतिराजानो न कच्चिद्* अपराध्यन्ति देवो च कालेन वर्षति शस्यानि संपद्यन्ति क्षेमं च राज्यं सुभिक्षं च निरुपद्रवं च ॥ ते दानि आहन्सुः ॥ महाराज एताहि शिविकाहि निषीदाहि यावत् श्यामकशिरि आगच्छति उदकहारी गतको ततो ते फलोदकम् उपनामेष्यति ॥ एवं च तेहि ऋषीहि उक्तो राजा प्ररुण्डो ॥ ते पृच्छन्ति ॥ महाराज किं रोदसि ॥ राजा आह ॥ भगवं यस्य यूयं कीर्तयथ श्यामकशिरि आगमिष्यति फलोदकं उपनामेष्यतीति सो
[_म्वु_2.217_] कालगतो अयं च उदकघटो मम हस्ते विसर्जितः अभिवादनं च वः पृच्छति एवं च संदिशति । न शोचितव्यं न रोदितव्यं । न शोचितेन वा रोदितेन वा कोचिद् अर्थो । सर्वेण जातेन अवश्यं मर्तव्यं । नैव मरणं मम एकस्य सर्वसत्वा मरणधर्माः च्यवनधर्मा न स्वयंकृतानां कर्मणां पलायितुं शक्यं ॥ ते पृच्छन्ति ॥ महाराज कथं श्यामशिरि कालगतो ॥ राजा आह ॥ अहं मृगव्ये अण्वन्तो वातजवसमेन तुरंगेण मृगम् अनुजवन्तो तम् उदेशम् अनुप्राप्तो उदकसमीपं यत्र शामशिरिः घटं पूरेति । तत्र च वनगहने सो मृगो नष्टो ॥ तस्य श्यामशिरिस्य तं उदकघटं भरन्तस्य शब्दं शृणोमि । तस्य च मे तद् अभूषि । स एव मृगो उदकेन गच्छतीति ॥ तस्येदं गच्छन्तस्य शब्दं शृण्वतो मम येन तं शब्दं तेन विषकृतो क्षुरप्रो क्षिप्तः । सो श्यामकशिरिस्य हृदये निपतितो । एष ऋषिकुमारो कालगतो ॥ ते डानि तस्य राज्ञो श्रुत्वा प्ररुण्डा अश्रुकण्ठा रुदन्मुखा परिदेवेन्सुः ॥ महाराज मान्सार्थं मृगवराहा हन्यन्ति चर्मार्थं सिंहव्याघ्रद्वीपयो हन्यन्ति दन्तार्थं हस्तिनागा हन्यन्ति भैषज्यार्थं तित्तिरलोपाका हन्यन्ति अस्माकं पुनर् महाराज न मन्सकार्यकं न चर्म न केशा न दन्ता । तत् कस्य हेतोः वयम् अहेठका अदूषका अनपराधिनो एकिना इषुणा त्रयो जना हता ॥ काशिराजा ऋषयो प्रणिपतित्वा क्षमापयति ॥ भगवं यद् एते युष्माकं अश्रू भूमिं निपतन्ति ते केवलकल्पं जम्बुद्वीपम् अपि दहेन्सुः किं पुनर् अस्मद्विधानां बालानां ॥ अहं राज्यम् अवहाय सस्वजनं सबान्धवं
[_म्वु_2.218_] इह युष्माकं उपस्थानं करिष्यामि यथा श्यामकशिरिस्य उपस्थितं तथा व च उपस्थिहिष्यामि ॥ ते दानि आहन्सुः ॥ महाराज वयं अन्धा चक्षुर्हीना न प्रतिबला तं प्रदेशं गन्तुं विना प्रणेतरेण । तन् नेतु महाराजा अस्माकं तं प्रदेशं यत्र श्यामकशिरिः ॥ वयन् तं ऋषिकुमारं सत्यवाक्येन उपस्थापेष्यामः सत्यव्क्येन च तं मृगविषं हनिष्याम ॥ तस्य राज्ञो भवति । यादृशा इमे ऋषयो महाभागा प्रतिबला एते तम् उपस्थापयितुं ॥ सो आह ॥ नेमि वः भगवन्तं प्रदेशं यत्र श्यामकशिरी ॥
___ते दानि तस्य राज्ञो स्कन्धे हस्तं दत्त्वा तं प्रदेशं गता ॥ श्यामक-ऋषिस्य शीर्षं उत्संगे कृत्वा पारगा श्यामकशिरिस्य माता मुखमण्डलं पाणिना संपरिमार्जन्ती बहुप्रकारं रोदति परिदेवति ॥ शून्यो आश्रमपदः श्याम्कशिरिणा विहीनो भविष्यति । वनदेवता करुणं परिदेवित्वा गमिष्यति । मृगपक्षिणो पि श्यामकशिरिं अपश्यन्तः आश्रमपदातो करुणं परिदेवन्ता गमिष्यन्ति ॥
___ऋषि आह ॥ पारगे मा रोदाहि मा शोचाहि किं रुण्डेन शोचितेन वा किंचिद् अर्थो भवति ॥ वयम् पि उग्रतपचीर्णवरिताविनो ब्रह्मचारी समर्था वयं एतं सत्यवचनेन उत्थापयितुं । तं करोम सत्यवचनं येनास्य मृगविषं हनिष्यामः जीवितं च उपस्थपेष्यामः ॥ तेहि दानि तस्य सत्यवचनेन तं मृगविषं हतं ॥ यथा त्वया पुत्र न जातु कस्यचिद् विषमं चिन्तितं मैत्रचित्तो सर्वसत्वेषु तथा तव हतो मृगविषो भवतु ॥ यथा त्वया न जातु अदत्त्वा मातापितॄणां आत्मनो आहारं कृतं तथा तव हतं मृगविषं भवतु ॥ यथा तव पुत्र मातापितरौ नित्यकालं शीलं परिशुद्धं
[_म्वु_2.219_] रक्षतः तथा तव हतं मृगविषं भवतु ॥ सो दानि ऋषिकुमारो तेषां मातापितॄणां तेजानुभावेन सत्यवचनेन स्वकेन च सुचरिततेजेन यथा शयितको पुरुषो बुद्द्येया तथा विजृम्भन्तो उत्थितो ॥
___भगवान् आह ॥ स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन श्यामको ऋषिकुमारो ॥ नैतद् एवं द्रष्टव्यं ॥ तत् कस्य हेतोः ॥ अहं सो भिक्षवः तेन कालेन तेन समयेन श्यामको नाम ऋषिकुमारो अभुषि ॥ अन्यो सो भवति र्षि श्यामकस्य पिता । एषो शुद्धोदनो राजा तं कालं श्यामकस्य पिता अभुषि ॥ अन्या सा तेन कालेन तेन समयेन श्यामकस्य ऋषिकुमारस्य पारगा नाम माता अभूषि । एषा सा मायादेवी अभूषि ॥ अन्यो सो पेलियक्षो नाम काशिराजा अभूषि ॥ नैतद् एवं द्रष्टव्यं ॥ तत् कस्य हेतोः ॥ एष भिक्षवः आनन्दस्थविरस् तेन कालेन तेन समयेन पेलियक्षो नाम काशिराजा अभूषि ॥ तदापि भिक्षवः एष शुद्धोदनो राजा मम कारणेन कालगतो ति श्रुत्वा न श्रद्दधाति । न सो महाराज कालगतो श्यामकशिरि मृगविषेण सो मोहितो । नेहि त्वं अस्माकं तं प्रदेशं वयं तं मृगविषं सत्यवचनेन हनिष्यामः तं च श्यामकशिरिं उत्थापेष्यामः ॥ एतरहिं पि एष शुद्धोदनो राजा मम अर्थाय कालगतो ति श्रुत्वा नाभिश्रद्दधाति ॥
_____समाप्तं श्यामकजातकस्य परिकल्पं ॥
लोकोत्तरस्य लोके अपरिमितयशस्य लोकनाथस्य ।
पूर्वचरितं भगवतो . . . गुणवतो प्रवक्ष्यामि ॥
न हि बोधिसत्वचरितं सदेवगन्धर्वमानुषे लोके ।
[_म्वु_2.220_] शक्यम् अभिभवितुं केनचि तेन दशबलो अनभिभूतो ॥
यं यं तथागतानां स्मृतिये बलं तासु तासु जातीषु ।
मैत्राय च करुणाय च लोकं अनुकम्पमानानां ॥
तं सुचरितं भगवतो कल्पशतसहस्रसंचितशुभस्य ।
अहम् अभ्युदाहरिष्यं अवधानं देथ सत्कृत्य ॥
तेन समयेन भगवां वानप्रस्थान तापसकुलस्मिं ।
अत्यन्तशुद्धे सत्वं उपपद्यिथ बुद्धिसम्पन्नो ॥
तस्य मातापितरौ जीर्णा च अभून्सुश् चक्षुविहीना ।
एतेषाम् उत्पद्ये हिताय लोकोत्तरो . . . . ॥
सर्वमनवद्यगात्रो ऋद्धीमां सौम्यको विशालाक्षो ।
तद् एव तस्य नामं अभूषि श्यामो ति तं कालं ॥
आश्चर्यं ऋषिकुमारं यो पश्यति मानुषो वा देवो वा ।
रूपगुणपारमिगतं निध्यायन्तो स न तृप्यति ॥
स्वयम् एव बोधिसत्वो किं कुशलं गवेषयं समादियति ।
शुक्लं कुशलं धर्मं तं च समादाय वर्तेति ॥
अखण्डकम् अकल्माषं परिशुद्धं दुष्कृतं कुशीदेहि ।
स्वयं चरति ब्रह्मचर्यं परं च तत्र नियोजयति ॥
मातापितॄषु वीरो उपस्थपेत्वा तीव्रं परिचरति ।
ब्रह्मचर्यं ब्रह्मचारि स्वयं ब्रह्मचारिव्रतं चरति ॥
[_म्वु_2.221_] तस्यासि समादानं प्रियेषु मातापितॄषु दयितेषु ।
न खु मे प्रपञ्चयितव्यं अन्धेषु परप्रणेय्येषु ॥
मूलफलम् आहरन्तो गिलानका जीर्णका वयोवृद्धान्* ।
प्रेम्नेन गौरवेण च सत्कृत्य गुरून् उपस्थास्यं ॥
अन्नेन च पानेन च गिलानभैषज्यानुप्रदानेन ।
वस्त्रैः शय्यासनेन मातापितरं उपस्थास्यं ॥
अपि चात्र बोधिसत्वो मातापितरं भणासि मा खु भवे ।
न खु ताव शोचितव्यं अहं च परिचारको अस्मि ॥
तं अवच श्यामसुन्दरि चीरंभाजी च मा च तव पापं ।
उत्पथपन्थगतस्य च तुह्य मा त्रासेन्तु भूतानि ॥
मान्सरुधिरार्थिनो पि मृगराजा अतिबला च मातंगा ।
मार्गाद् अपक्रमन्तु ते मा च ते त्रासेन्तु भूतानि ॥
मृगपोतकेहि सार्धं प्रतिवसति आश्रमेषु रमणियेषु ।
मृग इव मृगेहि सार्धं वसति अरण्ये ऋषिकुमारो ॥
तस्य तहिम् आश्रमपदे प्रतिवसतो क्षमदमप्रहाणस्य ।
मैत्राय च करुणाय च लोकं अनुकंपमानस्य ॥
प्रादुर् अहु काशिराजा नृपति महावाहनो महेशाख्यो ।
सो तस्मिं आश्रमपदे त्रासयति मृगा च पक्षी च ॥
राजा वनान्तरेण अदर्शि एणीमृगाण यूथानि ।
दृष्ट्वान त्वरितत्वरितो वितने धनु सन्दहे क्षुरप्रा ॥
[_म्वु_2.222_] एषो अश्वावाही अनिलजवं ओसरे मृगाभिमुखं ।
सकलतुरंगश्रेष्ठं प्रकीर्णशिरजं त्वरितगामिं ॥
संप्रति च ऋषिकुमारो कलशं आदाय प्रस्थितो उदकं ।
अवगाहि ताव गिरिनदिं त्रस्ता च मृगा च पक्षी च ॥
अथ परमकोपकुपितो सो राजा आभतेन चापेन ।
अनुधावन्तो मृगान् न अद्दशि कुपितो ऋषिकुमारं ॥
तेन मृगस्य खुरप्रो संदहितो येन आहतो श्यामः ।
विषलिप्तेन अविषमो शल्येन समर्पितो पतितो ॥
सो अवच हन्यमानो केनास्मि अदूषको पिता माता ।
एकेषुणा त्रयो हता संप्रज्वलितो पुन अधर्मो ॥
दन्तान नाम कारणा हनन्ति नागा मृगा च मान्सार्थं ।
चमरी च बालहेतोर् द्वीपयो चार्थाय चर्मस्य ॥
मह्यं पुनर् न दन्ता न पि चर्म न शिरजा नापि च मान्सं ।
किस्य खु नाम कृतेन अहेठका हता भविष्यामः ॥
सो तां गिरां श्रुणित्वा राजा अधिगम्य तं ऋषिकुमारं ।
अनुनेति क्षमापेति च अजानता आहतो भगवान्* ॥
नैषो क्षुरप्रो संधितो त्वम् आहतो सि मय अजानन्तेन ।
यम् अजानन्तेन क्षतं एतं मया क्षम्यताम् एव ॥
यं च परिदेवन्तो भणेसि एकेषुणा हता त्रीणि ।
[_म्वु_2.223_] वियाहर ब्रह्मचारी एतं मे अर्थम् आख्याहि ॥
तं अवच बोधिसत्वो प्रियेषु मातापितॄषु दयितेषु ।
कारणम् उपसंजनेत्व इमां गिराम् अभ्युदीरेमि ॥
ते मे चिरब्रह्मचारी माता च पिता च जीर्णका वृद्धा ।
तेषाम् अचक्षषुषाणाम् अहम् एव गतिश् च नाथश् च ॥
तेषाम् अनाथमरणं उपस्थितन् तेन राज शोचामि ।
ते मह्यम् अपरिचीर्णा अनाथमरणं मरिष्यन्ति ॥
एतेन हेतुना अहं भणामि हता त्रीणि ।
किंचि त्वयि पोषियन्तो न हतो . . . भविष्यामि ॥
काशिपतिः तीक्ष्णबुद्धि तेनापि अस्य संभावितो अर्थो ।
तं अवच ऋषिकुमारं प्रणम्य शिरसा हि पादेषु ॥
निरयं अहं पतिष्यं अदूषकं ऋषिपुत्रं हनित्वान ।
एतादृशा हि हत्वा नरकेषु न मुच्यितुं शक्या ॥
ये पि तव अश्रुविन्दू पतन्ति अत्यन्तशुद्धसत्वस्य ।
लोकम् अपि ते दहेन्सुः किं पुन अस्मादृशां बाला ॥
सत्यं भणामि यदि मे मरणेन जीवितं तव भवेय ।
प्राणम् अपि अहं त्यजेयं न वैष संविद्यते स्थानं ॥
तीक्ष्णेन विषकृतेन हृदयस्मिं आहतो सि ऋषिपुत्र ।
जानामि जीवितं तव नास्ति न च मे प्रियं भवति ॥
एवं च ते महायश प्रतिश्रुणिष्यामि तं मे पत्तीय ।
[_म्वु_2.224_] सत्यं हि जीवलोके प्रतिष्ठितं एष परमार्थं ॥
राज्यम् अपहाय स्फीतं स्त्रीयो च कामांश् च परित्यज्य ।
मूलफलम् आहरन्तो गुरू तवाहं परिचरिष्यं ॥
तं अवच बोधिसत्वो खरं मम शोकशल्यपरिदाघं ।
व्यपनयसि राजकुंजर इमां गिराम् अभ्युदीरेन्तो ॥
इदम् एव उदककुम्भं आदाय इमाहि एकपदिकाहि ।
अस्माकम् आश्रमपदं गत्वा वचनेन मे भणेसि ॥
अभिवादनं पुनः पुन भणेसि त्वं मातरं च पितरं च ।
कालगतो वो पुत्रो सो च वो अभिवादनं आह ॥
न कथंचित्* शोचितव्यं नापि च रुण्डेन शोचितेनार्थो ।
जातेन जीवलोके सर्वेण अवश्यं मर्तव्यं ॥
एषा किलानुपूर्वा न सुचिरं जीवितं मनुष्याणां ।
मरणं पर्यवसानं आढ्यानां दुर्गतानां च ॥
नापि च स्वयंकृतानां कर्माणां फलं पलायितुं शक्या ।
चक्रपरिवर्तकस्य हि उपरिपतति सुखं च दुःखं च ॥
नापि च मनोन्वितानां मया श्रुतं नापि चाहं जानामि ।
क्षणिकस्य दुर्बलस्य च संस्कारगतस्य अध्रुवतां ॥
नापि . . . . . मरणं नापि च मम एव एदृशं दुःखं ।
अनुभूतो एष अर्थो न किंचि लोके अनागम्यं ॥
एषो मे शोकशल्यो यं जीर्णा चक्षुषा च परिहीना ।
होहन्ति शोकबहुला तव श्रुणित्वान वृत्तान्तं ॥
[_म्वु_2.225_] स्यामे थ पश्य दानिं काशिवर्धन सत्यप्रतिज्ञो भवेसि ।
तं मे गुरूसु पारिचर्याये जनाधिप भविष्यति ॥
तं महार्थं जीर्णेषु दुर्बलेषु च पण्डिता प्रशंसन्ति ।
परिचर्यं हि जनाधिप त्रीणि पि तस्यास्ति अंगानि ॥
पुण्यं च नाम होहति यशो च कीर्ती च कशलमूलं च ।
पृच्छाहि काशिराज वचनम् अभिगमनं समुपस्थाहि ॥
साधूति श्रुत्वान स विमनो अश्रूणि संप्रमार्जन्तो ।
प्रक्रमति काशिराजा मृतो स्ति श्यामो ति विदित्वान ॥
सम्प्रति च काशिराजा प्रक्रान्तो मृगशतानि च बहूनि ।
परिवारेन्सुः श्यामं पक्षिगणा देवता अपि च ॥
तं पश्यियान पतितं शयमानं मूर्च्छितं नदीतीरे ।
रोदेन्सुः देवता पि मृगपक्षिशतानि च बहूनि ॥
सो नूनं पापकर्मा तमा तमं दुर्गतीषु दुर्गतियं ।
गच्छति यो तव पापं चिन्तयति अपापधर्मस्य ॥
भूतानां च निनादो आकाशे पृथिवीये च निर्घोषो ।
वाता च विप्रवान्ति चिन्तयति ऋषि अहो कष्टं ॥
मा हैव ऋषिकुमारो विहेठितो यादृशानि दृश्यन्ति ।
रौद्राणि कारुणानि च रुतरुतशब्दानि सुबहूनि ॥
वाता प्रवान्ति कष्टं शकुना प्रव्याहरन्ति च खराणि ।
हृदयं च व्युत्थस्थानो सर्वो च अनिर्वृतो कायो ॥
[_म्वु_2.226_] एते मनोवितर्का वर्तन्ति सो च पेलियशो नाम ।
प्रक्रमति आश्रमपदं मृगपक्षिगणा च सन्त्रस्ता ॥
भीता दिशो व्रजन्ति भयार्दिता देवता पि संज्ञात्वा ।
दुर्मनतरा अभून्सुः निष्प्रत्याशा पश्यन्तीयो ॥
न इमां दिशां मनुष्यो अमनुष्यो वापि क्वचिद् आगम्य ।
न पि दृष्ट्वा ऋषिकुमारं मृगपक्षिगणा भयं एन्ति ॥
निःसंशयं भविष्यति महद्भयो रोमहर्षणो सत्वो ।
यं पश्यिया मृगगणा सन्त्रस्यन्ति पक्षिसंघा च ॥
विदितविदितं उपगम्य मातापितरं अनागमनेन स्य ।
प्राणहरो पि त्रस्यन्तं मधुराहि गिराहि अभिनन्दि ॥
ते अवच स्वागतं तव कुतो तुवं कस्य वासि त्वं दूतो ।
अन्धा स्म अचक्षुष्का श्यामो च गतो उदकहारी ॥
राजाह अहं मृगव्यं काशिपुरा निर्गतो सह बलेन ।
नामेन पेलियक्षो अण्वामि मृगा गवेषन्तो ॥
कच्चि तव राजकुंजर वर्षति देवो रोहति च वीजं ।
अन्तःपुरं अरोगं मह्य कुमारा बलाग्रं च ॥
नगरेषु जनपदेषु च क्षेमं मे प्रकृतयो च अनुरक्ता ।
न च वर्धन्ति अमित्रा सर्वो च विवर्धति कोशो ॥
श्रमणेषु ब्राह्मणेषु च आरक्षो धार्मिको जनपदेषु ।
[_म्वु_2.227_] वर्धति न चैव हायति दानानि च देमि सत्कृत्य ॥
युष्माकं पि अरण्ये तस्करव्याघ्रबहुव्यालचरितस्मिं ।
न करोन्ति केचिद्* हिंसां भूतानि यथोत्पथगतानि ॥
पुष्पकलं प्रभूतं श्यामाकं शाकमूलकं प्रचुरं ।
अल्पकिसरेण लभ्यति अल्पा व्याधी शरीरस्मिं ॥
नचिरेण गतो कुमारो निषीद एताहि पर्णशिविकाहि ।
भव्यस्य धार्मिकस्य अतिरिव च मनोमनापस्य ॥
अथ विषकृताम् अनिष्टां प्राणहरां तस्य तापसकुलस्य ।
वाचां प्रव्याहरति राजा अश्रूणि वर्तेन्तो ॥
यं भणथ ब्रह्मचारी ऋषिपुत्रः धर्मचारि समचारि ।
सो संप्रति कालगतो सो वो अभिवादनं आह ॥
न कथंचि शोचितव्यं न पि रुण्डशोचितेन कोचार्थो ।
जातेन जीवलोके सर्वेण अवश्यं मर्तव्यं ॥
ते तां गिरां अनिष्टां अमनोज्ञां अप्रियां श्रुणित्वान ।
अवचिंसु जीवितं खु मे उपरुन्धसि एवं जल्पन्तो ॥
सो अवच एषो अर्थो नयेन जातो यदा मया पापं ।
अविजानन्तेन कृतं एवं क्षम्यन्तु मे देवा ॥
अहम् अपि च एतम् अर्थं इहागतो यां धुराम् ऋषिकुमारो ।
[_म्वु_2.228_] वहेति च तां वहिष्यं अहं च देवा उपस्थास्यं ॥
परिदेवते स्य माता इन्दीवरसुप्रसूतवर्णस्य ।
हसितभणितानि पूर्वं प्रियस्य पुत्रस्य विगणेन्ती ॥
हा दयित स्याम सुन्दर त्वया विनाभावसम्भवो पूर्वं ।
मह्यं हृदयं दहिष्यति शुष्कं तृणकाष्ठम् इव अग्नि ॥
शून्यम् इमम् आश्रमपदं ख्यायति भयभैरवं अनभिरम्यं ।
भव्येन धार्मिकेन विहीनं ऋषिणा उदारेण ॥
यं नूनं सो सर्वा नो शक्ति कामम् अहु तेन च शमं ।
तं मम अस्य वरतरं न जातु एतादृशं दुःखं ॥
अस्मेहि न्यूना मन्ये कृता विचित्रा विविधा तपश्चर्या ।
तस्यैष फलविपाको यं स्म विहीना प्रियपुत्रेण ॥
रुण्डेन शोचितेन महत्तरं पीडिता परिकिलन्ता ।
बह्व्यस्य धार्मिकस्य अनुस्मरन्ती गुणशतानि ॥
ते अवच काशिराजं एवं सो याचितो तहिं नेहि ।
अन्धा स्म अचक्षुका स्म न स्म समर्था तहिं गन्तुं ॥
सो अवच तहिं खु नेष्यं तं देशं यत्र सो ऋषिकुमारो ।
अप्य् एव नाम जीवे युवा स निहतो मृगविषेहि ॥
स काशिराजा . . . मार्गेण यथागतेन गच्छन्तो ।
[_म्वु_2.229_] नचिरस्य तं प्रदेशं अगमि यहिं सो ऋषिकुमारो ॥
तं पश्यियान पतितं शयमानं मूर्छितं नदीतीरे ।
मुखरतनम् अस्य माता करेण परिमार्जति रुदन्ती ॥
हा दयित एकपुत्र अकिंचनानां तुवं दरिद्राणां ।
बन्धु अबन्धूनां त्वं कथं असि विहेठितो वत्स ॥
वनदेवता पि सत्ये न किंचिद् अर्थो यममनुष्यभूतेषु ।
पश्यन्ति किंचित्* श्यामो स्तोकं पि न वारितो वत्सो ॥
दुःसोढं यात्रान्नं विद्यते . . . . . बहुदलशतानि ।
भव्येन धार्मिकेन यहिं विहीना प्रियपुत्रेण ॥
ते नूनं करुणकरुणं मृगा च पक्षी च आश्रमपदस्मिं ।
श्यामकशिरिम् अपश्यन्ता गर्जन्ति रतिं अलभमाना ॥
मा शोच पारगे त्वं न पि रुण्डशोचितेन कोचार्थो ।
जातेन जीवलोके सर्वेण अवश्यं मर्तव्यं ॥
वयभपि च ब्रह्मचारी चिरविरता मैथुनेहि योगेहि । {वयम् अपि?}
काहाम सत्यवाक्यं तेनास्य विषं हनिष्यामः ॥
यथ तुह्य स्याम सुन्दर पापे चित्तं न सज्जति कदाचित्* ।
तथ तव हतं मृगविषं उत्थेहि च सत्यवचनेन ॥
यथ तव मातापितरौ शीलं रक्षन्ति नित्यपरिशुद्धं ।
तथ तव हतं मृगविषं उत्थेहि च सत्यवचनेन ॥
यथा तव भवनेत्ती मानो च मदो च नास्ति म्रक्षो वा ।
तथ तव हतं मृगविषं उत्थेहि च सत्यवचनेन ॥
[_म्वु_2.230_] अथ सो विजृम्भमाणो समुत्थितो अपगते मृगविषस्मिं ।
मातापितृतेजेन च सुचरिततेजेन च स्वकेन ॥
तं पश्यियान राजा समुत्थितं तेन सत्यवचनेन ।
संहृष्टरोमकूपो निपति चरणेषु क्षमापयसि ॥
तं अवच बोधिसत्वो सयुग्यबलवाहनो सदेवीको ।
सनगरनिगमजनपदो सुखी भवाहि महाराज ॥
पश्याहि काशिवर्धन मातापितुगारवस्य निष्यन्दं ।
यथा समूहतं मृगविषं सुचरिततेजेन सुवकेन ॥
येषां मातापितरौ सुश्रूषा अंजलिं प्रणामः च ।
कर्तव्यं काशिवर्धन यदि इच्छन्ति स्वर्गं गन्तुं ॥ {सेनर्त्: स्वगं गन्तुं}
अस्मिं जम्बुद्वीपे रत्नानि आहरित्वा सर्वाणि ।
पूजय मातापितरं मातापितॄषु न प्रतिकुर्यात्* ॥
एवं न सुप्रतिकरं भणामि मातापितुं महाराज ।
अनुकम्पाहि एते पूर्वाचार्या व लोकस्य ॥
देवानाम् इव तेषां सन्नमितव्यं मनुष्यदेवानां ।
येषां मातापिरौ लभन्ति पूजां न ते शोच्या ॥
या सा अभूषि माता तं कालं सा अभूत् तदा माया ।
शुद्धोदनो स राजा पिता भगवतो तदा आसि ॥
यो सो महानुभावो समुत्थितो तेन सत्यवाक्येन ।
[_म्वु_2.231_] सो आसि बोधिसत्वो भगवां श्यामो हि तं कालं ॥
यो सो अभूषि राजा तं कालं सो अभूषि आनन्दो ।
भगवतो ज्ञाति प्रेष्यो बहूनि जातीसहस्राणि ॥
नायं क्व पि संबुद्धो नापि च स्वयंप्रतिभञ्जितग्रन्थो ।
भूतं हि तद्* भगवतो पूर्वचरिधर्मनिष्पत्तिः ॥
_____समाप्तं श्यामकजातकं
बोधिसत्वो उरुविल्वाये तपोवने दुष्करं चरति । एकेन कोलेन दिवसं यापेन्तो अष्टादश मासां कोलाहरताये प्रतिपन्नः । एकेन तिलेन दिवसं यापेन्तो अष्टादश मासां तिलाहरताये प्रतिपन्नो । एकेन तण्डुलेन दिवसं यापेन्तो अष्टादश मासां तण्डुलम् आहरताये प्रतिपन्नो । अष्टादश मासा सर्वशो अनाहरताये प्रतिपन्नः ॥
एकं कोलं तस्य भक्षं एकं तिलकतण्डुलं ॥
क्वचि स्य सम्बुद्धज्ञानं न वीर्यवन्ते संश्रये ॥
कालाशीतको सर्वो व एवं अंगानि से अभूत्* ॥
विष्कम्भे यथोष्ट्रपदं हनुका से तदा अभू ॥
जीर्णगोपानस्यान्तरिका ओशीर्णा पार्श्वके यथा ॥
एवं कायं महर्षिस्य तपेन परिशोषितं ॥
वेष्टनवेणीव दीर्घा उन्नतावनता यथा ॥
एवम् अस्य पृष्ठि कण्ठश् च उन्नतावनता अभूत्* ॥
[_म्वु_2.232_] तस्य नेत्रा प्रकाशन्ति उदुपाने व तारका ॥
मूल पाठ: Mahāvastu-avādana · Edition: Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)) · Data entry Emmanuel Fauré · GRETIL (Göttingen) · CC BY-NC-SA 4.0