महावस्तु-अवादन · भाग 121140
गते यथा प्रावृषि अत्र सारदे
अलंकृता लोहितमालिनी . . . . ।
पृच्छामि त्वां कांचनवेदिविग्रहे
आचिक्ष मे त्वं कतमासि देवता ॥
हिरीयमस्मि मनुजान सम्मता
अक्षुद्रसत्त्वप्रतिसेविनी सदा ।
[_म्वु_2.60_] सुखेषिणी तुह्य सकाशम् आगता
न तु त्वां शक्रोमि महर्षि याचितुं ॥
कावर्णधातु इह स्त्री न विद्यति
जानामि धर्मेण सुगात्रि लक्षसे ।
ते तां अयाचन्तिये प्रसवाम्य् अहं
सुधामहं जीवितं तं ददामि ते ॥
त्वाम् एवहं कांचनवेदिविग्रहे
आमन्त्रयित्वान प्रवेक्ष्यि आश्रमं ।
त्वाम् एवहं सर्वगुणेन पूजये
तव अदत्त्वा अमृतं पि नो अलं ॥
तं आश्रमं पुष्पविचित्रसंस्तृतं
द्विजेहि घुष्टं रुचिरस्वरेहि ।
सा सुच्छवी तं च प्रविष्टा आश्रम
उदकुपेतं फलमूलशोभितं ॥
वृक्षाग्रणीनां बहवो नुपुष्पिता
साला पियाला पनसा च तिन्दुका ।
शोभांजना लोघ्र . . . . . पाटला
सुपुण्यगन्धा मुचिलिन्दका च ॥
कुवला तमाला बहवो नुवेशनं
अश्वत्थन्यग्रोध तथैवुदुम्बरा ।
तिलका कदम्बा च तथैव चम्पका
प्रसातिका श्यामक तत्र तण्डुला ॥
[_म्वु_2.61_] तत्रापिनद्धप्रावृतो कुशामयो
सुपुण्यगन्धो अजिनोपसेवितो ।
आशीतकुर्वी हरते निषण्णो
निषीद कल्याणसुखेन आसने ॥
तस्येतवाये कुषिचाय कौशिकः
जयेत्तमानये जटायन्तं धनेन ।
नेहि पात्रेहि सुधां स्वयं ददे
सा अध्यभाषि त्वरिता महामुनिं ॥
तं संप्रति गृह्याण प्रीतमानसा
इत्यब्रवी आत्तमना जटाधरं ।
कृता त्वया कौशिक मह्य पूजा
गच्छामि दानि त्रिदशान सेवितुं ॥
सा कौशिकेनानुमता द्युतीमता
जिगीषमाणा त्रिदशां उपागमि ।
गत्वान सा अवच सहस्रदर्शनं
इयं सुधा वासव यो हि मे जयो ॥
सो तत्र यो प्रेषित एव मातलि
परिवृत्तो देवसभाय अग्रतो ।
हिरी सुधां केनभिलब्धे हेतुना
इत्यब्रवी त्वं पुनर् एवम् आहूय ॥
तं सो वताराद् विनिवर्तयेद् रथं
[_म्वु_2.62_] जाम्बूनदं सन्तपनीयसन्निभं ।
प्रज्वाल्यमानं रविकरसंनिभं
अलंकृतं सुवर्णबिम्बविचित्रं ॥
गताश् च हस्तिकपिव्याघ्रद्वीपियो
मृगा च वैडूर्यमया उपागता ।
तं पुष्कला ज्योतीरसमया शुभा
मणीवैडूर्यमया च ईदृशा ॥
हेष्टा मनेसी उपरिं च कुप्सरं
सुवर्णचन्द्रा च रथे उपागता ।
तं यानश्रेष्ठं अभिरुह्य मातलि
दश दिशायो अभिनन्दयेत्* महीं ॥
नगांश् च शैलांश् च वनस्पतीं च
ससागरां कम्पमानां वसुन्धरां ।
सो क्षिप्रम् एव त्वरितं उपागमि
तम् आश्रमं यत्र अभूषि कौशिको ॥
सो मातलि . . . . . . . .
दूतो अहं पृच्छति ते पुरंदरो ।
शिरीय श्रद्धाय च आशायापि च
हिरी श्रेया केन गुणेन मन्यसि ॥
. . . . . . . . . . . .
. . . शिरी मे प्रतिभाति मातलि ।
श्रद्धा अनित्या पुन देवसारथि
[_म्वु_2.63_] आशा विसंवादिकसंयता मम ॥
हिरी मनापा परिशुद्धकेवला
संग्रामशीर्षे न रता प्रवर्जिता ।
विपश्यमाना सुरभी उपद्रुता
हिरिर् निवारेति स्वचित्तमात्मनो ॥
हिरीह श्रेष्ठा मनुजेषु मातलि
दहरे कांक्ष्यति महल्लिके च ।
प्रियं च भ्रातृव्यं करोति चण्डं
हिरिर् निवारेति स्वचित्तमात्मनो ॥
को ते इमां कौशिक दृष्टम्* . . . .
उग्रो हि इन्द्रो अथवा सहांपति ।
इन्द्रो तव इन्द्रसगोत्र कांक्षति
तस्यैव भावसहव्रतानुज ॥
स कौशिकः तं जहियान उच्छ्रयं
शीलोपपेतो असधुर्यभूतो ।
पुण्यानि कृत्वा विपुलानि आश्रमे
कायस्य भेदात् स्वर्गेषु मोदति ॥
स्यात् खलु पुनः भिक्षवो युष्माकम् एवं अन्यो सो तेन कालेन तेव समयेन नारदो नाम ऋषि कौशिकसगोत्रो । न खल्व् एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । अहं
[_म्वु_2.64_] सो भिक्षवस् तेन कालेन तेन समयेन नारदो नाम ऋषिर् अभूषि कौशिकगोत्रो ॥ स्यात् खलु पुनर् भिक्षवो एवम् अस्या अन्या सा तेन कालेन तेन समयेन शक्रस्य देवानाम् इन्द्रस्य हिरी नाम धीता आसि । न खल्व् एतद् एवं द्रष्टव्यं । तत् कस्य हेतोर् भिक्षवो । एषा एव यशोधरा तेन कालेन तेन समयेन शक्रस्य देवानाम् इन्द्रस्य हिरी नाम धीता अभूषि । तदापि एषा मम ह्रीयायन्ती अल्लीना । एतरहिं पि मम एषा ह्रीयायन्ती अल्लीना ॥
_____समाप्तं मंजरीजातकं ॥
भिक्षू भगवन्तम् आहन्सुः । कथं भगवं यशोधरा न शक्यति तोषयितुं ॥ भगवता कुमारभूतेन कन्यानाम् अलंकारां पि विश्राणयन्तेन यशोधराये शतसहस्रमूल्यं हारं दिन्नं । सा च आह । एत्तकमात्रं अर्हामि ॥ कुमारेण भूयो शतसहस्रमूल्यं अंगुलीयकं दिन्नं तथापि न सन्तुष्यति ॥ कथं यशोधरा अतृप्ता न शक्यति राधयितुं ॥ भगवान् आह ॥ एषा भिक्षवो यशोधरा न इदानीम् एव अतृप्ता अन्यदापि एषा अतृप्ता ॥
___भूतपूर्वं भिक्षवो अतीतम् अध्वाने नगरे वाराणसी काशिजनपदे राजा सुप्रभो नाम राज्यं कारयेसि । तस्य कुमारो सुतेजो नाम कृतपुण्यो महेशाख्यो निवातो सुखसंस्पर्शो पूर्वालापी प्रियभाषी अमात्यानां भट्टबलाग्रस्य श्रेष्ठिस्य नैगमस्थानां सर्वस्य इष्टो बहुमतश् च ॥ राज्ञो उत्पन्नो । इमो सर्वजनकायो कुमारस्य गुणगृहीतो कदाचिद् एते मम जीविताद् व्यपरोपयित्वा कुमारं राज्ये प्रतिष्टापयेन्सुः । तेन राज्ञा सो कुमारो विप्रवासितो ॥ सो दानि कुमारो भार्याय सार्धं अनुहिमवन्ते
[_म्वु_2.65_] अन्यतरस्मिं वनखण्डे तृणकुटिं च पर्णकुटिं च कृत्वा प्रतिवसति मूलपत्रफलोदकेन यापेन्तो सुखोपपन्नानि च मृगवराहमान्सानि परिभुंजन्तो ॥ तस्य दानि आश्रमातो [निर्गतस्य] मार्जारेण वठरां गोधां मारेत्वा तस्य भार्याये अग्रतो निक्षिपित्वा गतं ॥ सा तां गोधां पाणिनापि च न स्पृशति ॥ कुमारो मूलपत्रफलानि आदाय आश्रमं गतो पश्यति च आश्रमे तां गोधां रौद्रां वठरां । सो तां राजधीतां पृच्छति कुतो इमा गोधा ॥ सा आह ॥ एषा मार्जारेण आनीता ॥ कुमारो आह ॥ किं दानि एषा गोधा सिद्धा ॥ सा नं आह ॥ गोमयो ति कृत्वा न सिद्धा ॥ कुमारो आह ॥ न एषा गोधा अभक्ष्या भक्ष्या एषा मनुष्याणां ॥ सा दानि गोधा तेन कुमारेण निर्छविकृत्वा पक्वा । पचित्वा द्रुमशाखायाम् ओलंबिता ॥ सा चास्य भार्या घटम् आदाय उदकहारिं गता । गच्छामि अहं उदकम् आहरिष्यामि । ततः आहारं करिष्यामि ॥
___तायो तां गोधां पक्वां समानां दृष्टा वर्णसंपन्नां च गन्धसंपन्नां च अलूहां च प्रत्यग्रां च अभिलाषम् उत्पन्नं । कुमारस्यापि ताये भार्याये एतद् अभूषि । एषा राजधीता इमां गोधां असिद्धां हस्तेनापि न इच्छति स्पृशयितुं । यत्र च वेलां पक्वा ततः अभिनन्दति भोक्तुं । यदि एताय मम मूले प्रेमा भवे तद् एषा गोधा मया फलहारगतेन सिद्धा भवेया । नास्या अतो गोधाये किंचित् संविभजिष्यं गोधां परिभुंजिष्यामि ॥ तेन सा गोधा ताये राजधीतरे उदकहारिं गताये खादिता राजधीता च उदकघटम् आदाय आगता ॥ सा दानि कुमारस्याह ॥ आर्यपुत्र कहिं सा गोधा ॥ कुमार आह ॥ पलायिता ॥ सा चिन्तेति । कथं पक्वा गोधा वृक्षशाखायाम्
[_म्वु_2.66_] आलग्ना पलायिता ति ॥ तस्या राजधीताये एतद् अभूषि । नाहं कुमारस्य इष्टा ॥ तस्या तं दौर्मनस्यं हृदयं प्रविष्टं ॥
सर्वसत्वा मरिष्यन्ति मरणान्तं हि जीवितं ।
यथाकर्म करिष्यन्ति पुण्यपापफलोपगा ॥
नरकं च पापकर्माणो कृतपुण्या च स्वर्गतिं ।
अपरे च मार्गं भावेत्वा निर्वास्यन्ति अनाश्रवाः ॥
सो दानि राजा सुप्रभो कालधर्मेण संयुक्तो । अमात्येहि सुतेजो कुमारो वनातो आनेत्वा राज्ये वाराणसीयं अभिषिक्तो ॥ राज्ञो सुतेजस्य देवीय मूले न किंचिद् अपरित्यक्तं । न किंचित् तत्र राज्ये रत्नसंमतं । सर्वं देवीये उपनामेति यानि वस्त्राणि उदाराणि आभरणानि हारार्धहाराणि तानि देवीये उपनामयति न च शक्नोति आराधयितुं । ताये च नं गोधा हृदयं गता ॥ तस्य राज्ञो सुतेजस्य भवति । अहं देवीये न सा किंचिद् गुणजाती यां न करोमि न सा किंचित् प्रियता यां न दर्शेमि न च शक्नोमि तोषयितुं ॥ सो ताम् आह ॥ देवि अहं तव न किंचिद् गुणजाती यां न करोमि न सा च प्रियता यां न दर्शेमि न च शक्नोमि तोषितुं न परिबुद्ध्यामि किम् अत्र अन्तरं । जल्पतु देवी ॥ सा दानि देवी तं सुतेजं राजानं गाथया वाध्यभाषति ॥
अद्यापि ते तं वनस्मिं अवबुद्ध्यामि क्षत्रिया
यस्य ते धनुहस्तस्य सानुबद्धकलापिनो ।
ओलग्ना द्रुमशाखायां पक्वा गोधा पलायिता ॥
राजा आह ॥
नमे नमन्तस्य भजे भजन्तं
[_म्वु_2.67_] कृतानुकार्यस्य करेय अर्थं ।
असंभजन्तं च न संभजेय
नानर्थकामस्य करेय अर्थं ॥
त्यजे त्यजन्तं सततं न गच्छे
अपेतभावेन न संवसेया ।
द्विजो द्रुमं क्षीणफलं विन्दित्वा
अन्यं परीक्षेय महां हि लोको ॥
स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्यो सो तेन कालेन तेन समयेन सुतेजो नाम राजा अभूषि । न खल्व् एवं द्रष्टव्यं ॥ तत् कस्य हेतोः ॥ अहं सो तेन कालेन तेन समयेन वाराणसीयं सुतेजो नाम राजा अभूषि ॥ अन्या सा राज्ञो सुतेजस्य देवी अभूषि अग्रमहिषी । न खल्व् एतद् एवं द्रष्टव्यं । एषा सा भिक्षवः यशोधरा राज्ञो सुतेजस्य देवी अग्रमहिषी अभूषि । तदापि एषा अतृप्ता न शक्यति तोषयितुं । एतरहिं पि एषा अतृप्ता न शक्यति तोषयितुं ॥
_____इति श्रीगोधाजातकं समाप्तं ॥
भिक्षू भगवन्तम् आहन्सुः । भगवता कुमारबूतेन उद्याने कन्यानाम् आभरणानि विश्राणयन् तेन यशोधराये एव बहुकं दिन्नं ॥ भगवान् आह ॥ न भिक्षवो इदानीम् एव मया यशोधराये बहुकं दिन्नं ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन् ॥ भगवान् आह ॥ अन्यदापि भिक्षवः ॥
___भूतपूर्वं भिक्षवो अतीतमध्वाने नगरे वाराणसी काशिजनपदे राजा राज्यं कारयति कृतपुण्यो महेशाखो संगृहीतपरिजनो दानसंविभागशीलो महाबलो महाकोशो महावाहनो । तस्य तं राज्यं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णजनमनुष्यं
[_म्वु_2.68_] च सुखिबहुजनमनुष्यं च प्रशान्तदण्डडमरं सुनिगृहीततस्करं व्यवहारसंपन्नं ॥ तस्य दानि राज्ञो पञ्चशतम् अन्तःपुरं । तस्य या अग्रमहिषी सा सर्वस्यान्तःपुरस्यातीव प्रासादिका च दर्शनीया च पण्डिता च विधिज्ञा च सर्वकलासमन्वागता च ॥ सो राजा अभीक्ष्णं अन्तःपुरस्य वस्त्राणि च आभरणानि च विश्राणेति । तस्यापि राज्ञो शतसहस्रमूल्यो हारो आबद्धको तस्य च हारस्य मध्ये मणिरत्नं यत्र चत्वारि महाद्वीपा दृश्यन्ति जम्बुद्वीपो पूर्वविदेहो अपरगोदानीयो उत्तरकुरुः सुमेरुश् च पर्वराजा । अनेकशतसहस्रमूल्यं तं मणिरत्नं तस्य महाहारस्य मध्ये ॥ तां देवीं पृच्छति आभरणानि विश्राणेन्तो ॥ देवि अतीव त्वं मे मनं हरसि । को त्र उपायो येन देवी मे मनं हरति ॥ सा दानि हेवी तं राजानं गाथयाध्यभाषति ।
चेष्टालीलासमाचारा निमित्तस्य च ग्राहणं ।
कौतूहालेन चपलास्त्रिभिर् आरज्यन्ति पार्थिव ॥
स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन काशिराजा अभूषि । न खाल्व् एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । अहं स भिक्षवस् तेन कालेन तेन समयेन काशिराजा अभूषि । अन्या सा तेन कालेन तेन समयेन काशिराजस्याग्रमहिषी । न खल्व् एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एषा सा भगवती यशोधरा तेन कालेन तेन समयेन काशिराजस्याग्रमहिषी अभूषि । तदापि एतस्या मया बहुं दिन्नं ॥
_____इति श्रीयशोधराये हारप्रदानजातकं समाप्तं ॥
यदा बोधिसत्वो अकामकानां मातापितॄणाम् अश्रुकण्टानां रुदन् मुखानां हस्तोक्तं
[_म्वु_2.69_] च चक्रवर्तिराज्यम् अपहाय अलूहं च गृहवासम् अपहाय अगाराद् अनगारिकां प्रव्रजितो तदा यशोधरा देवदत्तेनोच्यते ॥ मम भ्राता प्रव्रजितो आगच्छ मम अग्रमहिषी भविस्यसि ॥ सा दानि न इच्छति बोधिसत्वम् एव अभिकांक्षति । सुन्दरनन्देनापि वुच्चति । मम भ्राता प्रव्रजितो आगच्छ मम अग्रमहिषी भविष्यसि । तस्यापि न इच्छति बोधिसत्वम् एवाभिकांक्षति ॥ यदा भगवां प्रवृत्तधर्मचक्रो तदाहिं एतं भिक्षुभि श्रुतं । भिक्षू भगवन्तं पृच्छन्ति । कथं भगवं यशोधरा सुन्दरनन्देन च देवदत्तेन च प्रार्थयन्ती न इच्छति भगवन्तम् एव प्रार्थेति ॥ भगवान् आह ॥ न भिक्षवो इदानीम् एव यशोधराये सुन्दरनन्देन च देवदत्तेन च प्रार्थयमाना न इच्छति मम एवाभिकांक्षति । अन्यदापि एषा एतेहि प्रार्थयन्ती न इच्छति मम एवाभिकांक्षति ॥
___भूतपूर्वं भिक्षवो अतीतमध्वाने हिमवन्तपादमूले सर्वेषां चतुष्पडानां समागमो अभूषि ॥ अस्माकं राजा नास्ति चतुष्पदानां राजा स्थपीयतु ॥ तहिं तेषाम् उत्पन्नं थपीयतु चतुष्पदानां राजा त्ति प्रवरं ॥ ते आहन्सुः ॥ को दानि चतुष्पदानां राजा स्थपीष्यतीति ॥ तेषां दानि उत्पन्नं । यो अस्माकम् इतो सप्तमं दिवसं सर्वप्रथमं हिमवन्तं पर्वतराजं गमिष्यति सो चतुष्पदानां राजा भविष्यति ॥ ते एवं समयं कृत्वा ततो प्रदेशातो येन हिमवन्तो पर्वतराजा तेन प्रधाविता ॥ तेषां सर्वेषां पृष्ठतो कृत्वा व्याघ्री हिमवन्तं पर्वतराजानं अनुप्राप्ता ॥ व्याघ्री हिमवन्तं पर्वतराजानं गत्वा चतुष्पदानां प्रति।आलेति ॥ चतुष्पदा च सर्वे हिमवन्तं पर्वतराजम् अनुप्राप्ता । तत्र च तां व्याघ्रीं पश्यन्ति प्रतिपालेन्तीं ॥ ते दानि चतुष्पदा तां
[_म्वु_2.70_] व्याघ्रीं दृस्ट्वा आर्तसंजाता दुर्मना । इस्त्रिया स्म पराजिता न च कहिंचित्* इस्त्रियो राजा सर्वत्र पुरुषा राजा । यथा अस्माकं न अलिकं भवेय पुरुषो च राजा भवेय ॥ तेहि सा व्याघ्री उक्ता ॥ भद्रे यं तुवं पतिम् इच्छसि सो चतुष्पडानां राजा भविष्यतीति ॥ तां व्याघ्रीं ऋषभो अल्लीनो ॥ भद्रे मम पतिं वरेहि । अहं लोके मंगलभूतो मम गोमयेन देवकुलानि उपलिष्यन्ति देवकार्याणि च क्रियन्ति ॥ सा दानि वाघ्री आह ॥ नाहं तव पतिं इच्छेय त्वं फालेहि च शकटेहि च नित्यभग्नप्रलग्नो ॥ हस्तिनागो पि तां व्याघ्रीं उपसंक्रान्तो आह ॥ भद्रे अहं बलवांश् च संवृद्धकायो च संग्रामेहि च अपराजितो मम गृह्णाहि ॥ व्याघ्री आह ॥ न हि त्वं सिंहे नदमाने न उच्चारप्रस्रावं मुंचमानो पलायसि ॥ सिंहो पि मृगराजो अल्लीनो ॥ भद्रे मम पतिं वरेहि मम सर्वे मृगसंघा त्रसन्ति ॥ व्याघ्री आह ॥ मृगराज मूर्ध्ने पि पतिता प्रतीच्छामि ॥
चतुष्पदानां सर्वेषां महा आसि समागमो ।
आराजकम् इदम् अस्माकं को त्र राजा भविष्यति ॥
हिमवन्तं पर्वतराजं यो मो प्रथमो गमिष्यति ।
इतो सप्तमे दिवसे सो यं राजा भविष्यति ॥
सिंहा वाघ्रा मृगा चैव हस्तिनो वृषभा वृका ।
न शक्नुवन्ति अन्वेतुं गता प्रथमा पर्वतं ॥
प्रासादिकं दर्शनीयं हिमवन्तं नगोत्तमं ।
गत्वान व्याघ्री प्रथमं प्रविचारेति चतुष्पदां ॥
गत्वा चतुष्पदा सर्वे व्याघ्रीं पश्यन्ति ते तहिं ।
[_म्वु_2.71_] दृष्ट्वा च अर्द्दिता अभूषि इस्त्रिये स्म पराजिता ॥
न अस्ति स्त्रियो राजानो न च मो अलिकं भवेत्* ।
यं व्याघ्री पतिम् इच्छेय सो यं राजा भविष्यति ॥
मम गोमयेन कल्पानि देवकार्याणि क्रियन्ति ।
ऋषभो अवच तत्र मम भद्रे पतिं वरेत्* ॥
व्याघ्री आह ॥
नित्युत्थितं सदा किलान्तं शकटेहि लांगलेहि च ।
नो तादृशं पतिम् इच्छे मनुष्ये यदि भवेल् लोके ॥
हस्तिनागो आह ॥
अहम् अनुचरोपेतो संग्रामे अपराजितो ।
हस्तिनागो बली तत्र मम भद्रे पतिं वरेत्* ॥
व्याघ्री आह ॥
सिंहस्मिं नदमानस्मिं तुवं भीतो पलायसि ।
छर्दगूथम् एव सृजं नेच्छेयं तादृशं पतिं ॥
सिंहो आह ॥
अनुपूर्वसुजातस्कन्धो
सिंहो पर्वतगोचरो हमस्मि ।
मृगसंघा त्रसन्ति सर्वे
त्वं भद्रे मम भर्तारं वरेहि ॥
[_म्वु_2.72_] व्याघ्री आह ॥
सरवाकारवरोपेतं गिरिं वा स्वयम् आगतं ।
एतादृशं पतिम् इच्छे मूर्ध्नेनापि प्रतीच्छितं ॥
स्यात् खलु पुनर् भिक्षवो युष्माकम् एवं स्याद् अन्यः स तेन कालेन तेन समयेन सिंहो मृगराजा अभूषि । नैतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । अहं सो भिक्षवो तेन कालेन तेन समयेन सिंहो मृगराजा अभूषि ॥ अन्यो सो तेन कालेन तेन समयेन ऋषभो अभूषि । न खल्व् एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एष भिक्षवः सुन्दरनन्दो तेन कालेन तेन समयेन ऋषभो अभूषि ॥ स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन हस्तिनागो अभूषि । न खल्व् एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एष भिक्षवो देवदत्तो तेन कालेन तेन समयेन हस्तिनागो अभूषि ॥ स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्या सा कालेन तेन समयेन व्याघ्री अभूषि । एषा सा यशोधरा ॥ तदापि एषा एतेहि प्रार्थयन्ती न इच्छति मम एवाभिकांक्षति । एतरहिं पि एषा एतेहि प्रार्थियन्ती न इच्छति मम एवाभिकांक्षति ॥
_____इति श्रीयशोधराये व्याघ्रीभूताये जातकं समाप्तं ॥
बोधिसत्वस्य उद्याने कन्यानां रत्ना विश्राणयन्तस्य यशोधरा सर्वपश्चा आगता सर्वेहि अलंकारेहि विश्राणियन्तेहि ॥ [राज्ञा शुद्धोदनेन अमात्या आणत्ता । कतम् अत्र कन्याये कुमारस्य चक्षु निपतन्ति ॥] कुमारस्य यशोधरां दृष्ट्वा ताये चक्षु निपतितं ॥ यो कुमारस्य हारो आबद्धको महारहो शतसहस्रमूल्यो सो हारो कुमारेण ओमुञ्चिय यशोधराये दिन्नो ॥ सार्धप्रहिसन्ती आह ॥ इयम् अहं एत्तकं
[_म्वु_2.73_] अरहामीति ॥ कुमारेण प्रहसन्तेन शतसहस्रमूल्या अंगुलिका अंगुलीतो ओभुंचियान दिन्ना ॥ एवं कुमारो रतनानि कन्यानां विश्राणेत्वा राजकुलं प्रविष्टो ॥
___राजा अमात्यान् पृच्छति ॥ कतमायां कन्यायां कुमारस्य चक्षु निपतितं ॥ अमात्या आहन्सुः ॥ सा महाराज महानामस्य शाक्यस्य यशोधरा नाम धीता । तत्र कुमारस्य चक्षु निपतितं ॥ राज्ञा महानामस्य प्रेषितं । यशोधरां धीतां मम पुत्रस्य देहि सर्वार्थसिद्धस्य कुमारस्य ॥ महानामो संदिशति राज्ञो शुद्धोदनस्य ॥ न शक्यामि यशोधरां कुमारस्य दातुं । यत् कारणं कुमारो अन्तःपुरे संवृद्धो न कहिंचिद् आगतो शिल्पे वा इष्वस्त्रे वा हस्तिस्मिं वा धनुत्सरुस्मिं वा राजशास्त्रेषु वा न कहिंचित् कुमारो गतिंगतः ॥ राज्ञो शुद्धोदनस्य श्रुत्वा दौर्मनस्यं जातं । एवम् एतं यथा महानामो जल्पति । न मया कुमारो कहिंचि शिल्पे शेषितो अतिप्रेम्नेन ॥ सो दानिं राजा दुर्मना गृहं प्रविष्टो । कुमारेण दृष्टो पिता ॥ कुमारो पितरं पृच्छति । किं तातो दुर्मणा ॥ राजा आह । भवतु पुत्र किं तवैतेन ॥ कुमारो आह ॥ न हि तात अवश्यं आचिक्षितव्यं ॥ राज्ञा कुमारं गुरुकं प्रेक्ष्य तेन भूयो भूयः पृच्छमानेन आचिक्षितं ॥ एवं चैवं च महानामेन शाक्येन आचिक्षितो तव अर्थेन यशोधरां याचयमानेन । तव पुत्रो अन्तेपुरसंवृद्धो न कहिंचि शेषितो शिल्पे वा इष्वस्त्रज्ञाने वा हस्तिस्मिं वा रथस्मिं वा धनुस्मिं वा । नाहं तस्य धीतां दद्येहं ॥ कुमारो पि श्रुत्वा पितरम् आह ॥ मा तातो उत्कण्ठतु । नगरजनपदे घोषणां कारापेहि कुमारो सप्तमं दिवसं दर्शनं दास्यतीति । यो तत्र
[_म्वु_2.74_] शिक्षितो सो आगच्छतु यदि शिल्पज्ञाने यदि इष्वस्त्रज्ञाने युद्धे वा नियुद्धे वा छेदे वा भेदे वा जवे वा बलाहुक्के वा हस्तिस्मिं वा अश्वस्मिं वा रथस्मिं वा धनुस्मिं वा थरुस्मिं वा उपवितर्केषु वा ॥ राजा शुद्धोदनो श्रुत्वा प्रीतो संवृत्तो ॥ तेन नगरे कपिलवस्तुस्मिं जनपदे घोषणा कारापिता यथा कुमारो सप्तमं दिवसं दर्शनं दास्यतीति । यो तत्र शिक्षितो सो आगच्छतु यदि शिल्पज्ञाने यदि इष्वस्त्रज्ञाने ॥ अन्येहि पि अधिष्ठानेहि दूता प्रेषिता । शुद्धोदनस्य सर्वार्थसिद्धो कुमारो सप्तमं दिवसं दर्शनं दास्यति । यो तत्र शिक्षितो सो आगच्छतु ॥
___तहिं कपिलवस्तुतो जनकायो निर्धावति जनपदेष्व् अपि जनो आगच्छति । अन्येहि पि अधिष्ठानेहि कौतूहलजातः आगच्छति । शाक्यकुमाराणां विभवं पश्यिष्यामः बलपराक्रमं च कुमारस्य सर्वार्थसिद्धस्य पश्यिष्यामः ॥ तहिं अनेकायो जनसहस्रियो समागतायो कुमारा कपिलवस्तुतो निर्धावन्ति च ॥ अपरो पि भ्रान्तो हस्तिनागो बहिर्नगरातो कपिलवस्तुं प्रविशति षष्टिहायनो परमेन स्थामेन च समन्वागतो । देवदत्तो च कपिलवस्तुतो तं दर्शनस्थानं निर्धावति हस्तिस्कन्धवरगतो । तस्य सो हस्तिनागः भ्रान्तो अभिमुखो आपतितो । तेन रुषितेन देवदत्तेन सो हस्तिनागो षष्टिहायनो तलप्रहाराय एकाहत्यं कृत्वा तत्रैव नगरद्वारे निहतो । सो तं हस्तिनागं हत्वा निर्धावितो तं द्वारं ॥ तत्र महाजनकायस्य संपिण्डा सुन्दरनन्दो च कुमारो अनुप्राप्तो ॥ सो पृच्छति भो भणे किस्येदं नगरद्वारे जनसंपिण्डा ॥ जनो आह ॥ देवदत्तेन निर्धावन्तेन एषो हस्तिनागो एकाये तलप्रहाराये
[_म्वु_2.75_] हतो । तेन हस्तिनागेन एवं नगरद्वारम् ओरुद्धं न च तं देवदत्तो शक्नोति अतः नगरद्वारतो अपकर्षयितुं लंघयित्वा अतिक्रान्तो ॥ सो दानि हस्तिनागो सुन्दरनन्देन यानातो अवतरित्वा ततो द्वारतो सप्त पदां कड्ढितो । दृष्ट्वा महाजनकायेन हक्कारो मुक्तो । अहो कुमारस्य सुन्दरनन्दस्य उत्साहो ॥ सुन्दरनन्दो पि तं हस्तिनागं द्वारतो सप्त पदानि अपकर्षित्वा अतिक्रान्तो ॥ बोधिसत्वो महता समृद्धीये अनुप्राप्तः ॥ बोधिसत्वो पृच्छति । किस्य एष नगरद्वारे महां जनकायसमागमो ॥ ते आहन्सुः ॥ कुमार देवदत्तो च कपिलवस्तुतो निर्धावति भ्रान्तो च हस्तिनागो प्रविशति नगरद्वारं अभिमुखो देवदत्तस्य आपतितो । तेन रुषितेन सो हस्तिनागो एकाय तलप्रहाराये निहतो सो एषो हस्तिनागो नगरद्वारं ओरुन्धित्वा पतितो च । देवदत्तो न शक्नोति अतः नगरद्वारतो अपकर्षितुं लंघित्वा अतिक्रान्तो । सुन्दरनन्देन सप्त पदानि कड्ढितो । तद् एष जनकायो संपिण्डाये कथं पि निर्धावति ॥ तेन कालेन तेन समयेन कपिलवस्तु सप्तहि प्राकारेहि परिक्षिप्तो अभूषि । बोधिसत्वेन यानातो अवतरित्वा मातापितृकेन बलेन तं हस्तिनागं अतो नगरातो तेषां सप्तानां प्राकाराणां परतरेण क्षिप्तो ॥ तं बोधिसत्वस्य उत्साहं दृष्ट्वा अनेकेहि देवमनुष्यसहस्रेहि हक्कारा मुक्ताः बोधिसत्वो पि निर्धावितो ॥ राजापि शुद्धोदनो शाक्यमण्डलपरिवृतो महानामो पि शाक्यो निर्धावतो ॥
___तहिं कुमारेण सर्वार्थसिद्धेन दर्शनो दिन्नं सर्वशिल्पकर्मायतनानि कुमारेण संदर्शिता ॥ सिद्धार्थकुमारस्य न कोचित् समसमो तथा युद्धे वा निर्युद्धे वा न कोचित् कुमारस्य समसमो ॥ पश्चिमे निदर्शने बाणा विध्यन्ति ॥ एते दश क्रोशा तत्र सप्त तालां । सप्त ताला क्रोशान्तरेण निखता सप्तानां पुरितो भेरी ओच्छ्रिता ॥
[_म्वु_2.76_] तत्र कोचित्* एकतालस्कन्धं निस्ताडेति कोचि द्वे तालस्कन्धान् निस्ताडेति । देवदत्तस्य शरो द्वे तालस्कन्धा निस्ताडित्वा तृतीये तालस्कन्धे लग्नो । सुन्दरनन्दस्य शरो त्रयस् तालस्कन्धां निस्ताडेत्वा चतुर्थस्य तालस्कन्धस्य अन्तरभूम्यां निपतितो ॥ बोधिसत्वेन देवकुलातो पितामहस्य सिंहहनुष्य राज्ञो धनुस् तत्र आनापितं ॥ सो धनु तत्र रंगमध्ये निक्षिप्तो ॥ यो शक्नोति एतं धनु पूरयितुं धारेतु ॥ तं धनु हस्तातो जनकायेन जिज्ञासितो न च शक्नोति कोचित् पूरयितुं । शाक्यकुमारेहि पि सर्वेहि जिज्ञासितं न कोचिश् शक्नोति पूरयितुं । कोलियकुमारेहि पि जिज्ञासितुं लिच्छविकुमारेहि पि जिज्ञासितुं अन्येहि पि कुमारेहि जिज्ञासितुं न कोचि शक्नोति पूरयितुं ॥ पश्चाद् बोधिसत्वेन गृहीतं । पितामहस्य गौरवेण तं धनुं बोधिसत्वेन गन्धमाल्येन पूजेत्वा पूरितं ॥ तस्य धनुष्य पूरियन्तस्य सर्वकपिलवस्तुं शब्देन विज्ञापितुं देवमनुष्येहि च हक्कारं मुक्तं ॥ एवं सप्ततालं बोधिसत्वेनैकशरेण निस्ताडेत्वा सापि भेरी निस्ताडिता भेरीं निस्ताडेत्वा रसातलं प्रविष्टो ॥ देवमनुष्येहि हक्कारं मुक्तं । देवतानां सहस्रेहि च अन्तरीक्षातो दिव्यं कुसुमवर्षं ओसृष्टं ॥ कुमारस्य बलपराक्रमं बुद्धिबलं च दृष्ट्वा सर्वत्र गतिंगतो बलेन च ऋद्धीयेन च ज्ञानेन च सर्वशाक्यराष्ट्रं तथान्ये पि राजानो प्रीतो संवृत्ताः । सुलब्धा लाभा शाक्यानां राज्ञो च शुद्धोदनस्य यस्य अयम् एदृशो महापुरुषो उत्पन्नो ॥
___यदा बोधिसत्वो अभिनिष्क्रान्तो अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो प्रवृत्तप्रवरधर्मचक्रो
[_म्वु_2.77_] तदा एतं प्रकरणं भिक्षुभि श्रुतं ॥ भिक्षु भगवन्तम् आहन्सुः ॥ भगवता चिरप्रणष्टा शाकियमुष्टि ज्ञाता ॥ भगवान् आह ॥ न भिक्षवो एतरहिं येव मये चिरप्रणष्टा शाक्यमुष्टि ज्ञाता ॥ अन्यदापि मये चिरप्रणष्टा शाक्यमुष्टि ज्ञाता ॥ भगवान् आह ॥
___भूतपूर्वं भिक्षवो अतीतमध्वाने नगरे वाराणसी काशिजनपदे ब्रह्मदत्तो नाम राजा राज्यं कारयति । निहतप्रत्यर्थिको निहतप्रत्यमित्रो सुनिगृहीतजनपदो दानसंविभागशीलो कृतपुण्यो महेशाख्यो महाबलो महाकोशो महावाहनो । तस्य तं राज्यं ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णजनमनुष्यं च ॥ तस्य राज्ञो पुरोहितो ब्रह्मायुः नाम त्रयाणां वेदानां पारगो सनिर्घण्ठकैटभानां इतिहासपंचमानां अक्षरपदव्याकरणे अनल्पको । सो यम् आचार्यः कुशलो ब्राह्मणवेदेषु पि शास्त्रेषु दानसंविभागशीलो दश कुशलकर्मपथां समादाय वर्तति ॥ तस्य पुत्रो धर्मपालो नाम माणवको ॥ तस्य ब्रह्मायुस्य भवति । समयो मम पुत्रस्य धर्मपालस्य वेदानि अधीयितुं न चैष युक्तो मम सकाशातो वेदानि अधीतुं । पितृविश्रम्भेणापि नाधीष्यति गुरुकुले नं दास्यामि ॥ अयम् अपि ब्राह्मणो वेदपारगो अनुहिमवन्ते आश्रमे पंच वटुकशतानि वेदां वाचेति । तेन सो धर्मपालो तस्य ब्राह्मणस्य अनुपरीत्तो वेदान् अध्यापेहीति ॥
___तस्यापि दानि आश्रमस्य अविदूरे महान् उदकह्रदो तत्र च उदकह्रदे उदकराक्षसो प्रतिवसति पुनर्पुनः जनं स्नपयन्तं मारेति ॥ सो धर्मपालो माणवको तहिं उदकह्रदे पुनर्पुनः स्नापयति ॥ तस्य ब्राह्मणस्य भवति ॥ अत्र उदकह्रदे उदकराक्षसो प्रतिवसति पुनःपुनर् मनुष्यां मारेति एषो च धर्मपालो पुरोहितपुत्रो तत्र उदकह्रदे
[_म्वु_2.78_] स्नापयति । सचे दानि तत्र स्नायन्तो उदकराक्षसेन खज्जेय पुरोहितो अस्ंआकं अपरितुष्टो भवेय किं तुम्हेहि उदकह्रदातो न वारितो ॥ सो दानि तेन उपाध्यायेन धर्मपालको माणवको शब्दापितो उच्यति ॥ मा अत्र उदकह्रदे स्नायाहि अत्र उदकह्रदे राक्षसो दारुणो प्रतिवसति । मा तेन उदकराक्षसेन खज्जिष्यसि ॥ तत्र च उदकह्रदे महेशाख्यो नागो प्रतिवसति महापरिवारो तस्य च नागराज्ञो पुत्रो धर्मपालेन माणवकेन सार्धं प्रीणयति कथासमुल्लापेन रमति । तेन सो माणवको नागभवनान्तः तारितो ॥ तेन माणवकेन सार्धं सो नागकुमारो कथासमुल्लापेन रमति तत्र च नागभवने धर्मपालो माणवको दश कुशलां कर्मपथां देशयति ॥ अपरो च माणवको धर्मपालस्य समवयो सदृशो च ग्रामान्तरं तेन मार्गेण गच्छन्तो तहिं उदकह्रदे उदके स्नायते ॥ सो तेन उदकराक्षसेन मारितो तहिं उदकह्रदे अर्धखादितको प्लवन्तो अपरेण माणवकेन दृष्टो ॥ तेन आश्रमं गत्वा उपाध्यायस्य आरोचितं धर्मपालो उदकराक्षसेन खायितो ति ॥ सो ब्राह्मणो सर्वेहि तेहि पंचहि वटुकशतेहि सार्धं तं उदकह्रदं गतो पश्यति च तं माणवकं उदकराक्षसेन अर्धखादितकं प्लवन्तं । तेहि तं दृष्ट्वा सर्वेहि रावो मुक्तो ॥ तेहि ततो उदकातो उत्क्षिपित्वा काष्ठानि समावर्तयित्वा ध्यायितो ॥ तानि अस्थीनि घटके कृत्वा सपरिवारो वाराणसीं गतो ब्रह्मायुस्य मूले । अश्रुकण्ठो रुदन्मुखो ब्रह्मायुष्य उपसंक्रमित्वा आह ॥ स धर्मपालो उदकराक्षसेन मारितो । इभानि अस्थीनि ॥ ब्रह्मायु ब्राह्मणं आह ॥ नास्ति एतन् ति धर्मपालो दहरो कुमारो नापि अस्माकं कुले दहरा मृतपूर्वा ॥ सो दानि ब्रह्मायुर् ब्राह्मणो तं धर्मपालस्य उपाध्यायं गाथाय अध्यभाषसि ॥
[_म्वु_2.79_] प्राणं न हिंसेय नदिन्नमादिये
पापं च कर्मं मनसापि न चरेत्* ।
सर्वे अनार्जं परिवर्जेयामः
तस्मा हि अस्माद् दहरो न मृय्यति ॥
न च मो कदाचिद् अस्ति क्रोधो
न चापि क्रुध्याम वयं कदाचित्* ।
क्रुद्धे पि नो चापि करोम कोपं
तस्मा हि अस्माद् दहरो न मृय्यति ॥
शृणोम धर्मं असतां सतां च
नो चापि धर्मं असतां रोचयाम ।
असतां हि त्वसतां रोचयामः
तस्मा हि अस्माद् दहरो न मृय्यति ॥
ददाम दाना बहुशो बहूनि
नो चापि नो अप्रियो याचमानो ।
दत्त्वा च दाना ननुतप्यमाना
तस्मा हि अस्माद् दहरो न मृय्यति ॥
ये ब्राह्मणा श्रवणशीलवन्तो
घोषेषिणो याचनका उपेन्ति ।
प्रियं मो तेषां श्रवणदर्शनं च
तस्मा हि अस्माद् दहरो न मृय्यति ॥
ये ब्राह्मणा श्रवणशीलवन्तो
[_म्वु_2.80_] घोषेषिणो याचनका चरन्ति ।
तान् अन्नपानैर् अभितर्पयामः
तस्मा हि अस्माद् दहरो न मृय्यते ॥
ये चापि मो याचनका उपेन्ति
अन्धा अनाथा कृपणा अनायकाः ।
तान् अन्नपानैर् अभितर्पयामः
तस्मा हि अस्माद् दहरो न मृय्यते ॥
वयं च भार्यां अनतिक्रमामो
भार्या पि अस्मान् न अतिक्रमाति ।
ततो वयं धर्मचर्यं चरामः
तस्मा हि अस्माद् दहरो न मृय्यति ॥
यो जायते सो भवते सुशीलो
सुसंयतो सुव्रतो ऋजुभूतः ।
अध्यापको भोति समाप्तपादः
तस्मा हि अस्माद् दहरो न मृय्यति ॥
माता पिता भगिनी भ्रातरो च
ये चापि ज्ञातयो अनन्यपक्षिका ।
चराम धर्मं परलोकहेतोः
तस्मा हि अस्माद् दहरो न मृय्यति ॥
माता पिता भगिनी भ्रातरो च
ये च कुलप्रेष्यकरा भवन्ति ।
चराम धर्मं परलोकदर्शी
तस्मा हि अस्माद् दहरो न मृय्यति ॥
धर्मो हि वै रक्षति धर्मचारिं
[_म्वु_2.81_] छत्रं महन्तं यथ वर्षकाले ।
एषो नुशंसो धर्मे सुचीर्णे
न दुर्गतिं गच्छति धर्मचारी ॥
अधर्मचारी हि नरो प्रमत्तो
यां यां गतिं गच्छति अधर्मचारी ।
सो नं अधर्मो चरितो हनाति
सामं गृहीतो यथ कृष्णसर्पो ॥
न हि धर्मो अधर्मो च उभौ समविपाकिनौ ।
अधर्मो निरयं नेति धर्मो प्रापेति स्वर्गतिं ॥
धर्मो हि वै रक्षति धर्मचारिं
छत्रं महन्तं यथ वर्षकाले ।
धर्मेण गुप्तो मम धर्मपालो
अन्यस्य अस्थीनि सुखी कुमारो ॥
सो ब्राह्मणो सपरिवारो भोजयित्वा ब्रह्मायुना ब्राह्मणेन विसर्जितो सो च ब्राह्मणो आश्रमं गतो धर्मपालं च माणवकं तहिं आश्रमे पश्यति । ते दानि सर्वे विस्मिता सुष्टु पुरोहितेन ज्ञातं ॥
___भगवान् आह ॥ स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन ब्रह्मायुर् नाम ब्राह्मणो अभूषि । न खल्व् एत देवं द्रष्टव्यं । तत् कस्य हेतोः । अहं भिक्षवः तेन कालेन तेन समयेन ब्रह्मायुर् नाम ब्राह्मणः ॥ स्यात् खलु पुनर् भिक्षवो युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन ब्रह्मायुस्य ब्राह्मणस्य धर्मपालो नाम पुत्रो अभूषि । नैतद् एवं द्रष्टव्यं । एष राहुलो तेन कालेन तेन समयेन ब्रह्मायुस्य
[_म्वु_2.82_] धर्मपालो नाम पुत्रो अभुषि । तदापि एषो मया ज्ञातो एतरहिं पि मया चिरप्रनष्टा शाकियमुष्टिः ज्ञाता ॥
_____इति श्रीधर्मपालस्य जातकं समाप्तं ॥
भिक्षू भगवन्तं आहन्सुः ॥ दूरं भगवतो इषु क्षिप्तं ॥ बह्गवान् आह ॥ न भिक्षवः एतरहिं एव मये दूरं इषु क्षिप्तं ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि हि भिक्षवो ॥
___भूतपूर्वं भिक्षवो अतीतम् अध्वानं नगरे वाराणसी काशिजनपदे राजा राज्यं कारयति महाबलो महाकोशो महावाहनो कृतपुण्यो महेशाखो । तस्य दानि विस्तीर्णं राज्यं यावत् तक्षशिलां समाज्ञापयति ॥ सो कनीयसं भ्रातरं राज्ये प्रतिष्ठापयित्वा वाराणस्या तक्षशिलायां आगतो ॥ सो दानि तक्षशिलायां वसति । अन्येन च राज्ञा वाराणसेयो चतुरङ्गेन बलकायेन वेष्टितो ॥ तस्य तेन भ्रातरेण वाराणसीतो तक्षशिलां दूतो प्रेषितो । आगच्छाहि इमो हं परचक्रेण उपरुद्धो ॥ तेन राज्ञा तक्षशिलायां स्थितेन दूतानां सकाशातो श्रुत्वा भूर्जस्मिं तस्य राज्ञो येन वाराणसेयो वेठितो नामं लिखित्वा तं भूर्जं काण्डे परिवेठित्वा सूत्रेण सुनद्धं कृत्वा वाराणसीं क्षिप्तं ॥ सो काण्डो तस्य राज्ञो पादमूले स्थित्वा पादफलकं खण्डखण्डीकृतं । सो राजा तस्य पुरुषस्य च विस्मितो । अहो उत्साहो च मुष्टिसंबन्धो च यत्र नाम वाराणस्यां स्थितेन काण्डं क्षिप्तं । इमं एवं दूरम् आगतो मम पादमूले फलके निपतितो इत्थं तेन अहं न हतो ॥ तेन राज्ञा ततः काण्डातो मुंचित्वा तं भूर्जं वाचितं तत्र च भूर्जे एवं लिखितं ॥
[_म्वु_2.83_] एषो ते तक्षशिलायां स्थितो पादफलखण्डणो ।
यदि सि न मरितुकामो ओसक्क मम राज्यतो ॥
सो दानि भूयस्या मात्रया भीतो त्रस्तो । अहं जानामि वाराणसीतो अयं शरो आगतो ति । तेनाहं विस्मयं प्राप्तो । अयं च तक्षशिलायां स्थितेन क्षिप्तो ॥ सो तत्रैव स्थाने देवशरस्य देवकुलं कृत्वा तं शरं देवकुले प्रतिष्ठापेत्वा पुजासत्कारं कृत्वा सो प्रक्रान्तो ॥
___भगवान् आह ॥ स्यात् खलु पुनर् भिक्षवः युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन काशिराजा अभूषि येन तक्षशिलायां स्थितेन वाराणसीं काण्डं क्षिप्तं । न खल्व् एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । अहं सो भिक्षवो तेन कालेन तेन समयेन काशिराजा अभूषि । तदापि मया दूरं शरो क्षिप्तो एतरहिं पि मया शरो दूरं क्षिप्तो ॥
_____इति श्रीशरक्षेपणं जातकं समाप्तं ॥
भिक्षू भगवन्तम् आहन्सुः ॥ कथं भगवता यशोधरा शिल्पेन लब्धा ॥ भगवान् आह ॥ न भिक्षवो इदानिं एव मया यशोधरा शिल्पेन लब्धा अन्यदापि मया यशोधरा शिल्पेन लब्धा ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि भिक्षवः ॥
___भूतपूर्वं भिक्षवो अतीतम् अध्वावं मिथिलाया अर्धयोजनं यवकच्छकं नाम ग्रामं । तस्य यवकच्छकस्य वाह्येन एकं कर्मारग्रामं ॥ तहिं कर्मारग्रामिकस्य धीता अमरा नाम प्रासादिका दर्शनीया च पण्डिता प्रतिभानसंपन्ना च ॥ यवकच्छकग्रामिकस्य महौषधो नाम पुत्रो प्रासादिको दर्शनीयो कृतपुण्यो महेशाख्यो । तेन क्षेत्रारण्यं अण्वन्तेन अमरा कर्मारदारिका दृष्टा भक्तम् आदाय गच्छन्ती ॥ तां
[_म्वु_2.84_] महौषधो पृच्छति ॥ भद्रे का नाम त्वं किन् ते नाम ॥ अमरा आह ॥ येनतथागतं नाम ॥ महौषधो आह ॥ भद्रे केषां त्वं ॥ सा आह ॥ येहि ओषिणो तेषाम् अहं ॥ महौषधो आह ॥ भद्रे केन गच्छसि ॥ सा आह ॥ यच्छत्रं तन गच्छामि ॥ महौषधो आह ॥ भद्रे कहिंगमि ॥ अमरा आह ॥ संश्रितायान्तं तहिंगमि ॥ अथ खलु महौषधो अग्रपण्डितो अमरां कर्मारदारिकां गाथया अध्यभाषे ॥
अमरा नूनं ते नाम कर्मारस्यासि दारिका ।
चित्तेन भूतं प्रजानासि क्षेत्रं वो दक्षिणादिशि ॥
तस्या दानि दारिकाये च त्रयो व शीर्षो अक्षी च अंजिता वस्त्रा च शुद्धा क्षुद्राये च य्वागूये घटिका हस्ते ॥ अथ खलु महौषधो अग्रपण्डितो अमरां कर्मारदारिकां गाथाये अध्यमाषे ॥
केन ते अंजितं शीर्षं केनं अक्षी अंजिता च ते ।
वस्त्रा च केन ते शुद्धा य्वागु क्षुद्रा च केन ते ॥
अथ खलु अमरा कर्मारदारिका महौषधं महाप्राज्ञं गाथाये अध्यभाषे ॥
सुतैला . . . . . शीर्षं अभ्यंजनं च लासकं ।
वस्त्र-अवस्त्रता शुद्धा य्वागू क्षुद्रा च नोदको ॥
अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथया अध्यभाषति ॥
यदि तं नूनं ते तैलं अंजनं चापि लोलिका ।
वस्त्रा च उत्सविका ते अल्पे देवेन वर्षिता ॥
[_म्वु_2.85_] सा दानि कर्मारदारिका भक्तस्य रसकुण्डं पाण्डराये शाटिकाये ओछन्नं वर्षेण आदाय गच्छति ॥ अथ खलु महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथाये अध्यभाषति ॥
तुवं यम् एतं हिमपाण्डरेण
छन्नं कुण्डं हरसि जीवनाये ।
पृच्छामि ते अभरे एतम् अर्थं
कस्य तं भक्तं हरसि मनोज्ञे ॥
अथ खलु भिक्षवो अमरा कर्मारदारिका महौषधं महाप्राज्ञं गाथाये प्रत्यभाषे ॥
. . . . . . . . . . . . . . . .
. . . . . . . . भक्तं हरामि पादपे ॥
अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथायां प्रत्यभाषे ॥
पिता ते वर्षत्रिंशत्को नेलायको पितामहो ।
दशवर्षासि जातीये एवं धारेमि दारिके ॥
महौषधो आह ॥
यस्मिं प्रवुत्थे दुःखिता ते माता भवति दुर्मना ।
ते तं माता च मार्गते कहिं सो अमरे गतो ॥
अथ खलु भिक्षवः अमरा कर्मारदारिका महौषधं महाप्राज्ञं गाथया प्रत्यभाषे ॥
यत्र मृताश् च श्वसन्ति दग्धो च पुन दह्यति ।
ज्ञातिभिर् वध्यते ज्ञातिस् तत्र मह्यं पिता गतो ॥
[_म्वु_2.86_] अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथया प्रत्यभाषे ॥
कर्मारभस्त्राः श्वसन्ति अंगारं पुन दह्यति ।
लोहं लोहेन पीडेति कर्मारशालां पिता गतो ॥
मार्गं पृच्छिता आख्याहि क्षेमं अकुटिलं ऋजुं ।
अकण्टकं च नो भद्रे गंसामि यवकच्छकं ॥
अथ खलु भिक्षवो कर्मारदारिका महौषधं महाप्राज्ञं गाथया प्रत्यभाषे ॥
येन सप्ताभिरंगा च द्विगुणप्लाशा च पादपाः ।
येन अशेशि न तेन व्रजेसि न तेन अशेसि ॥
एषो मार्गो यवकच्छकस्य यदि पण्डितो सि जानाहि ॥ अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथाये प्रत्यभाषे ॥
यतो यवा कदाख्या च कोविदारा च फुल्लिता ।
वामं मार्गं ग्रहेत्वान गच्छामि यवकच्छकं ॥
अथ खलु भिक्षवो अमरा कर्मारदारिका महौषधं महाप्राज्ञं गाथया प्रत्यभाषति ॥
गच्छ ब्राह्मण मार्गेण भक्तो तं भक्षयिष्यसि ।
पितॄहि पुत्रा सिध्यन्ति तेषां मासेन भोक्ष्यसि ॥
अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथया प्रत्यभाषे ॥
शुष्कं इन्धनं वेणूहि करीरं तत्र सिध्यति ।
तेषां मासेन भोक्ष्यामि एष गंसामि वो गृहं ॥
[_म्वु_2.87_] अथ खलु भिक्षवो अमरा कर्मारदारिका महौषधं मःआप्राज्ञं गाथया प्रत्यभाषति ॥
वस ब्राह्मण मो गृहे यज्ञो यम् अत्र भेष्यति ।
माता मे देवराजेन महायज्ञं यजिष्यति ॥
अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथया प्रत्यभाषति ॥
मातु ते देवराजस्य यं यजितं यजिष्यति ।
तं यज्ञम् अनुभेष्यामि एष गंसामि ते गृहं ॥
अथ खलु भिक्षवो महौषधो महाप्राज्ञो अमरां कर्मारदारिकां मातापितॄणां सकाशातो भार्यार्थं याचयति ॥ ते अमराये मातापितरा आहंसु ॥ न वयं दारिकाम् अकर्मारस्य ददाम ॥
___महौषधो च भिक्षवो महाप्राज्ञो सर्वशिल्पेहि अभिज्ञो । तस्य भवति ॥ किं कर्माराणां सर्वचूर्णकर्मं । सूचीयो । कर्मारो यो शक्नोति सूची पि कर्तुं सो आचरियो ॥ महौषधेन कोशप्रक्षिप्ता सूची कृता एकत्र कोशके सप्त सूचीयो प्रक्षिप्यन्ति । ते सर्वे अष्ट सूचीयो एका सूची भवन्ति । सापि एका अष्ट सूचीयो भवति ॥ महौषधो तां सूचीम् आदाय तं कर्मारग्रामं गतो विक्रिणितुं ॥ कर्मारग्रामिकस्य पथा गत्वा घोषेति ॥ सूची विक्रेया यस्य कार्यं स क्रिणातु ॥
निक्कट्टकच्छा सुकृता तीक्ष्णाग्रा वट्टयासिका ।
सूची कर्मारग्रामस्मिं विक्रीणामि विक्रीथ मे ॥
[_म्वु_2.88_] सा दारिका महौषधस्य शब्दं श्रुत्वा निर्धाविता । सा महौषधं गाथया अध्यभाषे ॥
अत्र शक्तीयो क्रियन्ति नाराचा अथ तोमरा ।
इहैव तानि क्रियन्ति सूचीयो वडिशानि च ॥
उन्मत्तको सि पुरुष अथवासि विचित्तको ।
यो त्वं कर्मारग्रामस्मिं सूची क्रिणितुम् इच्छसि ॥
अथ खलु महौषधो महाप्राज्ञो अमरां कर्मारदारिकां गाथया प्रत्यभाषि ॥
सूची कर्मारग्रामस्मिं विक्रेतव्या प्रजानता ।
आचार्या एव जानन्ति कर्मं सुकरदुष्करं ॥
सचेत् ते भद्रे जानेया पिता सूची मया कृता ।
स्वयं व मे प्रवारेया प्रत्तं ते च पितु वरं ॥
अथ खलु भिक्षवो अमरा कर्मारदारिका पितरं गाथया अध्यभाषति ॥
इमं तात निशामेहि शिल्पको यथ भाषति ।
कर्मारपुत्रो निपुणो कुशलो सूचिकारको ॥
अथ खलु भिक्षवो अमराये कर्मारधीताये पिता तां सूचिं दृष्ट्वा विस्मयमापन्नो ॥ सो तां धीतरम् आदाय महौषधं महाप्राज्ञं गाथाये अध्यभाषति ॥
न मे श्रुता वा दृष्टा वा सूची एतादृशा मया ।
तुष्टो स्मि एतेन कर्मेण इमां कन्यां ददामि ते ॥
[_म्वु_2.89_] भगवान् आह ॥ स्यात् खलु पुनर् भिक्षवः युष्ंआकम् एवं अस्याद् अन्यः स तेन कालेन तेन समयेन महौषधो महाप्राज्ञो । न खल्व् एवं द्रष्टव्यं । तत् कस्य हेतोः । अहं सो भिक्षवः तेन कालेन तेन समयेन महौषधो नाम अभूषि ॥ स्यात् खलु पुनः भिक्षवो युष्माकम् एवम् अस्याद् अन्यस् स तेन कालेन तेन समयेन कर्मारग्रामिको अभूषि । न खलु एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एष भिक्षवः महानामशाक्यो तेन कालेन तेन समयेन सो कर्मारग्रामिको अभूषि ॥ स्यात् खलु पुनर् भिक्षवर् युष्माकम् एवम् अस्याद् अन्या सा तेन कालेन तेन समयेन अमरा नाम कर्मारग्रामिकधीता अभूषि । न खल्व् एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एषा सा भिक्षवो यशोधरा तेन कालेन तेन समयेन कर्मारधीता अभूषि ॥ तदापि एषा मया शिल्पेन लब्धा एतरहिं पि मया शिल्पेन लब्धा ॥
_____समाप्तं अमराये कर्मारधीताये जातकं ॥
भिक्षू भगवन्तम् आहन्सुः ॥ वीर्येण भगवता यशोधरा लब्धा ॥ भगवान् आह ॥ न भिक्षवो एतरहिं एव मया यशोधरा वीर्येण लब्धा अन्यदापि मया एषा वीर्येण लब्धा ॥ भिक्षू भगवन्तम् आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि भिक्षवः ॥
___भूतपूर्वं भिक्षवः अतीतमध्वाने वारवालिनगरे ब्राह्मणः त्रयाणां वेदानां पारगो सनिर्घण्ठकैठभानां इतिहासपंचमानां अक्षरपदव्याकरणे कुशलो सो यं आचार्यो ब्राह्मणवेदेषु पंच माणवकशतानि वेदां मन्त्रां वाचयति ॥ तस्य दानि ब्राह्मणस्य शिरिर् नाम धीता प्रासादिका दर्शनीया परमाये शुभाये वर्णपुष्करताये समन्वागता ॥
[_म्वु_2.90_] तस्येदानि ब्राह्मणस्य समुद्रपट्टने यज्ञं कारयन्तेन याज्येन तस्य उषाध्यायस्य प्रेषितं । स्वयं वागच्छे कंचिद् वा प्रेषेहि अर्थमात्रं ते दास्यामि ॥ सो तेषां पंचानां वटुकशतानाम् आह ॥ को वो त्र उत्सहति समुद्रपट्टनं गन्तुं अमुकस्य सार्थवाहस्य मूलं । यो गमिष्यति तस्य शिरिकां माणविकां दास्यामि ॥ तत्र माणवको पण्डितो च उत्थानवन्तो च वीरियवन्तो च । तस्य तहिं शिरिये अधिमात्रं प्रेमं । सो उत्सहितो उपाध्याय अहं गमिष्यामि ॥ सो तेन उपाध्यायेन लेखं दत्त्वा यानपात्रम् अरुहिय विसर्जितो ॥
___सो अनुपूर्वेण समुद्रपट्टनं गतः । तेन तं लेखं तस्य सार्थवाहस्य उपनामितं ॥ तेन सार्थवाहेन तम् उपाध्यायस्य लेखं वाचेत्वा रत्नानि च हिरण्यसुवर्णं दत्त्वा विसर्जितो ॥ सो ततो पि समुद्रपट्टनातो यत्र काले यानपात्रे वारवालिं प्रस्थितो सो तेन यानपात्रेण अनुपूवेण वारवालिं आगतो । सो दानि ततः यानपात्रातो प्रतिनावं आरुहिष्यतीति । संमर्दे च समाने सा पोटलिका समुद्रे पतिता ॥ तस्य माणवस्य भवति । इयं मया ईदृशेन यत्नेन समुद्रपट्टनातो आनेत्वा इह प्रतिनावं आरुहन्तेन समुद्रे पतिता ति । को अत्र उपायो भवेय येन एतं धनं लभेयं । नास्ति अन्यो उपायो नान्यत्र एतं समुद्रं उत्सिञ्चामि ॥ सो लोहवद्धकं तत्तकं आदाय समुद्रकूलम् आगतः । सो समुद्रकूले वद्धकं निक्षिपित्वा कच्छां बन्धति समुद्रदेवता च ब्राह्मणवेषेण उपसंक्रमित्वा आहन्सुः ॥ किम् इदं ॥ माणव आह ॥ उत्सिचामि
[_म्वु_2.91_] महोदधिं ॥ ब्राह्मण आह ॥ महोदको न शक्ष्यति उत्संचितुं ॥ माणवो आह ॥
दीर्घा ब्रह्मा अहोरात्रा लोहवर्धं च तत्तकं ।
दक्षस्य अप्रमत्तस्य न शिरी भवति दुर्लभा ॥
शृणोथ वीर्यं पुरुषोत्तमस्य
बलं च स्थामं च पराक्रमं च ।
यं माणवो पि पुरिमासु जातिषु
एतस्य अर्थे अवतीर्णो सागरं ॥
तदा मणि तस्य प्रणष्टम् आसीत्*
सो व बभाषे क्षपयिष्य सागरं ।
करोथ यत्नं यं मणिं लभेयं
मा अनपेक्षी दुःखिता भविष्यथ ॥
सुवर्णनागासुरयक्षराक्षसा
त्रस्ता अभू यानि समुद्रमध्ये ।
यथा च मेघानि समाकुलानि
निनादनिर्घोषं विनिश्चरन्ति ॥
अथ देवता उग्गमि सागरातो
संत्रस्ता व्यवलोकयति चतुर्दिशं ।
सा अद्दसासि माणवम् उत्सहन्तं
उत्सिञ्चितुं क्षपयितुं च सागरं ॥
सा उत्तरित्वा पुरतो तम् अब्रवीत्*
किं माणव मार्गसि सागरातो ।
[_म्वु_2.92_] आख्याहि अस्माकं वयं अपि अनु-
दास्याम मापद्य विहन्यमानः ॥
मणी मम देवते अत्र नष्टो
सो हं गवेषामि महासमुद्रे ।
आपं क्षपित्वान मणिं लभेयं
तस्यार्थम् उत्सिंचि महासमुद्रं ॥
बहूनि बालानि चरन्ति लोके
अर्थे च धर्मेषु च विप्रमूढा ।
तुवं पि भो परमबुद्धि माणव
यं दुर्लभं लोकि तुवं गवेषसि ॥
अशीति पूगा चतुरो च वारिणो
निर्याति यस्यापि न तेन ज्ञायति ।
हेष्टा च तोयस्य अनन्तपाणी
कथं तुवं उत्सहसे क्षपेतुं ॥
उपेन्ति यत्र बहवो स्रवन्तियो
वृष्टि अनन्ता प्रपतन्ति सागरो ।
आवासभूतो च महर्द्धिकानां
कथं तु उत्सर्यति धर्मशास्त्रं ॥
यस् त्वं अकर्मं कुरुषे दुर्बुद्धिः
सखिन्नगात्रो नचिरेण भेष्यसि ।
तडागमात्रं न प्रभोसि शोषितुं
नैव तुह्यं प्रतिरूपं माणवा ॥
[_म्वु_2.93_] यं चोदयित्वा परिभाषि देवते
तत्रार्थं पशामि ते छिन्नसागरं ।
श्रोतं न खनेय न मूलम् उद्धरेत्*
न त्व् अन्तरं यस्य न पारम् उत्तरेत्* ॥
नाहं कुशीदो स्वमणिं त्यजेयं
धनं हरित्वाहं शमेयं वीर्यं ।
करोन्तु भूता वचनं ममेह
तथा भणेयं न तथा भणेयं ।
हुताशनं प्रज्वलितं न संनमे
सचन्द्रतारां परिवर्तये महीं ॥
[सा देवता तत्र विचिन्तयन्ति]
दातव्यं मे तं मणि माणवस्य
यथा न एषो क्षपये समुद्रं ।
एषो च गृह्यान मणिं प्रणीतं
गच्छे माणव सिद्धयानपात्रो ॥
सर्वत्र वीर्यवान् साधु कुशीदो दुःखं जीवति ।
सो यं वीर्यप्रभावेन धनम् आदाय गच्छति ॥
पूर्वेनिवासं भगवान् पूर्वेजातिम् अनुस्मरन्* ।
जातकम् इदम् आख्यासि शास्ता भिक्षुणम् अन्तिके ॥
ते स्कन्धा तानि धातूनि तानि आयतनानि च ।
आत्मानं च अधिकृत्य भगवान् तम् अर्थं व्याकरे ॥
[_म्वु_2.94_] अनवराग्रस्मिं संसारे यत्र मे उषितं पुरा ।
माणवको तदा आसि शिरि आसी यशोधरा ।
एतम् अर्थं विजानेत्वा एवं धारेथ जातकं ॥
एवम् इमं अपरिमितं बहुदुःखं उच्चनीचचरितं पुराणं विगतज्वरो विगतभयो अशोको स्वजातकं भगवां भाषति भिक्षुसंघमध्ये ॥ भगवान् आह ॥ स्यात् खलु पुन भिक्षवो युष्माकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन माणवको भवति यस्य तं महासमुद्रे धनं पतितं । न खल्व् एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । अहं सो भिक्षवो तेन कालेन तेन समयेन माणवको अभूषि ॥ स्यात् खलु पुनर् भिक्षवो युष्माकम् एवम् अस्याद् अन्या सा तेन कालेन तेन समयेन वारवालीनगरे ब्राह्मणस्य शिरि नाम सा मानवकधीता अभूषि । न खल्व् एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एषा सा भिक्षवः यशोधरा तेन कालेन तेन समयेन वारवालिये नगरे ब्राह्मणस्य शिरि नाम धीता अभूषि । तदापि मया एषा वीर्येण लब्धा एतरहिं पि एषा मया वीर्येण लब्धा ॥
_____इति श्रीशिरिजातकं समाप्तं ॥
भिक्षू भगवन्तम् आहन्सुः ॥ भगवता यशोधरा खेदेन लब्धा ॥ भगवान् आह ॥ न भिक्षवो इदानीम् एव यशोधरा खेदेन लब्धा अन्यदापि एषा मया महता खेदेन महता श्रमेण महता वीर्येण लब्धा ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि भिक्षवो ॥
___भूतपूर्वं भिक्षवो अतीतम् अध्वानं हस्तिनापुरे राजा सुबाहुर् नाम राज्यं कारयति कृतपुण्यो महेशाख्यो महाबलो महाकोशो महावाहनो षष्टिनगरसहस्राणाम् ईश्वरो ॥
[_म्वु_2.95_] तस्य सुधनुर् नाम कुमारो एकपुत्रो प्रासादिको दर्शनीयो रूपवान् कृतपुण्यो महेशाख्यो गुणवान् मातृज्ञो पितृज्ञो पित्रा सुबाहुना युवराज्ये प्रतिष्ठापितो ॥ सो अमात्येहि सार्धं तानि पैतृकानि नगरसहस्राणि परिपालेति ॥ राजा सुबाहुः राजकृत्यतो ओधृतभारो राजकुले उपरिप्रासादवरगतो निर्वृतो आसति । तस्य दानि राज्ञो सुबाहुस्य आसन्नराजा सुचन्द्रिमो नाम वयस्यो सन्निकृष्टो सिंहपुरे नगरे राज्यं कारयति कृतपुण्यो महेशाख्यो महाबलो महाकोशो महावाहनो ॥ तस्य दानि राज्ञो सुचन्द्रिमस्य महायज्ञो प्रत्युपस्थितो । सर्वभूतेहि यज्ञं यजिष्यामि । तेन यत्तका विजितवासिनो लुब्धकाः तेषाम् आणत्ती दिन्ना । सर्वभूतेहि यज्ञं यजिष्यामि । ये ते स्थलचराः प्राणा अपदा वा द्विपदा वा चतुर्पदा वा बहुपदा वा तानि सर्वाणि प्राणकजातीनि समानेथ ॥ निषादा पि उद्दिष्टाः । ये केचिज् जलचरा प्राणाः तेन उपस्थपेथ सर्वभूतेहि यज्ञं यजिष्यामि ॥
मनसा देवानां वचसा पार्थिवानां ।
नचिरेणाढ्यानां कर्मणा दरिद्राणाम् इति ॥
राज्ञो वचनमात्रेण लुब्धकेहि च निषादेहि च जलचरा च स्थलचरा च प्राणकजातीयो समानीता महं च वाटं मापेत्वा तत्र तानि स्थलचराणि प्राणकजातीनि उपरुद्धानि । यानि पि जलचराणि तानि समानेत्वा पुष्करिणीयं ओरुद्धानि । किन्नरीवर्जितं सर्वप्राणकजातीयो समानीताः ॥
___अथ खलु राज्ञो सुचन्द्रिमस्य यं कालं यज्ञवाटो सर्वोपकरणेहि सज्जीकृतो ततो शीर्षस्नातो आहतवस्त्रनिवस्त्रो उपरिप्रासादवरगतो गन्धपुष्पधूपैर् अर्चनं कृत्वा चतुर्दिशम् अंजलिं प्रणामेत्वा येन भगवन्तः पुरस्तिमदक्षिणपश्चिमोत्तराये दिशाये
[_म्वु_2.96_] ऋषयो चतुर्ध्यानलाभिनो पंचाभिज्ञा महर्द्धिका महानुभावा अन्तरीक्षचरास् तान् अहं यज्ञवाटे निमन्त्रयामि ॥ तत्र दानि ये ऋषयो चतुर्ध्यानलाभिनः पंचाभिज्ञा महर्द्धिका महानुभावा ते समन्वाहरित्वा वैःआयसेन ऋद्ध्या यज्ञवाटं गताः ॥ सो दानिं राजा सुचन्द्रिमो तान् ऋषीं यज्ञवाटे आगतां दृष्ट्वा प्रमुदितो प्रीतिसौमनस्यजातो पादाभिवन्दनं कृत्वा एतद् उवाच ॥ प्रत्यवेक्षन्तु भगवन्तो यज्ञवाटं किं परिपूर्णं न वेति ॥ ते दानि ऋषयः प्रत्यवेक्षित्वा राजानं सुचन्द्रिमम् एतद् उवाच ॥ महाराज सर्वो परिपूर्णो यज्ञवाटो एकेन अङ्गेन ऊनो ॥ राजा आह ॥ कतमेन अङ्गेन ऊनो ॥ ऋषयो आहु ॥ देव किन्नरीये ऊनो ॥ अथ खलु राजा सुचन्द्रिमो लुब्धकान् आह ॥ तेषाम् ऋषीणां भगवतां यज्ञवाटे किन्नरीये अर्थो तं गच्छथ यत्नं करोथ यथा मम किन्नरीं आनेथ ॥ तहिं दानि यो तेषां लुब्धकसहस्राणां सर्वप्रधानो लुब्धको वीर्येण च लबेन च पौरुषेण च सो तेहि लुब्धकेहि सर्वगणेन उत्साहितो । त्वं प्रतिबलो किन्नरीं समर्थो आनयितुं ॥ स लुब्धको गणेन उत्साहितो समानो राज्ञा च सुचन्द्रिमेन धनुकलापम् आदाय अनुहिमवन्तं प्रविष्टः ॥
___तहिं अन्यतरं हिमवन्ते पश्यति ऋषिस्य आश्रमं रमणीयं मूलपत्रफलोपेतं ॥ सो तं ऋषिम् उपसंक्रान्तो ऋषिस्य पादवन्दनं कृत्वा स्थितः ऋषिणा एहि स्वागतवान् इति आचष्टो स्वागतन् ते एतां शिविकां निषीदाहि ॥ ऋषिणा तस्य लुब्धकस्य सारायणीयं कृतं । यथा ऋषिधर्मो फलोदकम् उपनामितं ॥ सो दानि फलानि परिभुंजिय पानीयं पिबित्वा तत्र आसति । तत्र च ऋषिस्य मूले अश्रुतपूर्वं च मधुरं गीतशब्दं शृणोति ॥ सो तं ऋषिं पृच्छति ॥ भगवं कस्य एतं एवं मनोज्ञं गीतशब्दं
[_म्वु_2.97_] देवकन्यानां नागकन्यानां ॥ ऋषि आह ॥ न एतं देवकन्यानां गीतशब्दं न नागकन्यानां किन्नरीनां एतं गीतशब्दं ॥ सो दानि तम् ऋषिं पृच्छति ॥ भगवन् इमं गीतशब्दं श्रूयते न च दृश्यन्ति । कहिं वा गायन्ति ॥ ऋषि आह ॥ इमस्य आश्रमस्य उत्तरे पार्श्वे महापद्मिनी तहिं सर्वार्तुकानि सर्वकालिकानि उत्पलकुमुदपदुमपुण्डरीकसौगन्धिकानि । तत्र कैलासातो पर्वतातो द्रुमस्य किन्नरराज्ञो मनोहरा नाम धीता बहूहि किन्नरेहि किन्नरीहि च परिवृता एतां पद्मिनीं क्रीडार्थम् आगच्छति ॥ सो पण्डितो लुब्धको तम् ऋषिं उपायेन पृच्छति ॥ आह ॥ भगवं श्रुणीयति अस्ति केचित्* मनुष्या किन्नरीहि सार्धं क्रीडन्ति परिचारेन्ति । कथन् ते मनुष्याणां किन्नरीयो वशगता भवन्ति ॥ ऋषि आह ॥ सत्यवाक्येन एता बध्यन्ति न शक्नोन्ति अन्तरहायितुं ॥ माधुर्येण च ऋषिणा असमन्वाहरित्वा ऋजुभावेन आचक्षितं न जानाति किन्नरीये एतस्य अर्थो ति ॥
___सो दानि लुब्धको तस्य ऋषिस्य अभिवादनं कृत्वा तं पद्मसरं गतो यत्र सा द्रुमस्य किन्नरराज्ञो धीता क्रीडति ॥ ता दानि किन्नरीयो गीतकृत्ये प्रमत्ता जलदर्दरके च तं लुब्धकं न पश्यन्ति । सा च तत्र मनोहरा सर्वप्रधाना रूपेण च स्वरेण च ॥ तेन लुब्धकेन श्रवणपथे स्थितेन सा मनोहरा सत्यवाक्येन बद्धा ॥
धीता त्वं किन्नरराजस्य द्रुमराज्ञो यशस्विनी ।
एतेन सत्यवाक्येन तिष्ठ बद्धासि किन्नरी ॥
यथा त्वं द्रुमराजस्य धीता द्रुमेण राज्ञा संवृद्धा ।
सत्यवचनेन भद्रे मनोहरे मा पदं गच्छ ॥
सा दानि मनोहरा तेन लुब्धकेन सत्यवाक्येन बद्धा न शक्नोति अन्तरहायितुं । ते अन्ये हि किन्नरा च किन्नरी च सर्वे समन्तरहिता ॥
[_म्वु_2.98_] सा दानि मनोहरा तेन लुब्धकेन सिंहपुरम् आनीता । तहिं यज्ञवाटं प्रवेशिता ॥ किन्नरीं दृष्ट्वा राजा सुचन्द्रिमो महां च जनकायो तस्य लुब्धकस्य प्रीतो संवृत्तो ॥ लुब्धकेन विपुलो आच्छादो लुब्धो ॥ सा बद्धा पाशेहि आनीता सुचन्द्रिमस्य सिंहपुरं ब्राह्मणपुरं संवृत्तं यज्ञवाटं समभिनीता ॥ राज्ञा सुचन्द्रिमेण यज्ञस्य समुपकरणं सज्जेत्वा राज्ञो सुबाहुस्य हस्तिनापुरं दूतो प्रेषितो । सर्वभूतेहि महायज्ञं यजिष्यामि आगच्छ । इह अनुमोदाहि ॥ राज्ञा सुबाहुना पुत्रो सुधनुकुमारो विसर्जितो । गच्छ सिंहपुरं सुचन्द्रिमो राजा यज्ञं यजिष्यति तं अनुमोदाहि ॥
___सुधनुकुमारो सिंह्पुरम् आगतो अन्यान् अपि बहूनि राजान शतानि । सर्वेषां च सुधनुकुमारो सर्वप्रधानो रूपेणापि तेजेनापि परिवारेणापि गन्धेनापि ॥ सुधनुकुमारो तं यज्ञवाटं प्रविष्टः बहूहि राजान शतेहि परिवृतो ॥ तेन तत्र यज्ञवाटे तानि बहूनि प्राणिसहस्राणि दुष्टानि स्थलचरजलचराणि । सापि किन्नरी दृष्टा ॥ पश्यन्तस्यैव सुधनुस्य कुमारस्य किन्नरीये उदारं प्रेमं निपतितं किन्नरीये पि सुधनुस्य प्रेमं निपतितं ॥ यथोक्तं भगवता सूत्रपदे ॥
पूर्वे वा संनिवासेन प्रत्युत्पन्ने हितेन वा ।
सर्वातं जायते प्रेमं उत्पलं वा यथोदके ॥
एवन् तेषां परस्परं दर्शनमात्रेण प्रेमं संजातं ॥ सुधनुकुमारो राज्ञो सुचन्द्रिमस्य पृच्छति ॥ किस्य इमे एत्तका प्राणसहस्रियो यज्ञवाटे उपरुद्धायो ॥ सो राजा आह ॥ एतेहि यज्ञं यजिष्यामि एतेन च प्रभूतेन खादनीयभोनीयेन ॥ कुमारो
[_म्वु_2.99_] पृच्छति ॥ एतस्य यज्ञस्य किं फलं किं गुणनिर्वृत्ति । केदृशम् एतेन यज्ञगुणं निर्वर्तयिष्यति इमं एत्तकं प्राणवधं कृत्वा ॥ राजा आह ॥ एते यत्तका प्राणजाती अत्र यज्ञे हनिष्यन्ति सर्वे स्वर्गं गमिष्यन्ति । अहं च यत्तका एते प्राणा एत्थ यज्ञे हनिष्यन्ति तत्तकां वारां स्वर्गे उपपद्यामि ॥ कुमारो आह ॥ महाराज न एवं एतं मिथ्यादृष्टि एषा अहिंसा परमं धर्मं ॥ प्राणातिपातो अधर्मो प्राणातिपातवैरमणो धर्मो । अदिन्नादानो अधर्मो अदत्तादानवैरमणो धर्मो । कामेषु मिथ्याचारो अधर्मो कामेषु मिथ्याचारवैरमणो धर्मो । सुरामैरेयमद्यपानं अधर्मो सुरामैरेयमद्यपानातो वैरमणो धर्मो । मृषावादो अधर्मो मृषावादातो वैरमणो धर्मो । पिशुनवाचा अधर्मो पिशुनवाचातो वैरमणो धर्मो । संभिन्नप्रलापो अधर्मो संभिन्नप्रलापातो वैरमणो धर्मो । अविद्या अधर्मो अविद्यातो वैरमणो धर्मो । व्यापादो अधर्मो व्यापादातो वैरमणो धर्मो । मिथ्यादृष्टि अधर्मो सम्यग्दृष्टि धर्मो ॥ दश कुशला कर्मपथा धर्मो ॥ दशहि महाराज अकुशलेहि कर्मपथेहि समन्वागताः सत्वा नरकेषूपपद्यन्ति । दशहि कुशलेहि कर्मपथेहि समन्वागताः सत्वा स्वर्गेषूपपद्यन्ति ॥ तद् एवं महाराजेन न एष स्वर्गाणां पथो गृहीतो नरकेषु गमनाय एष पथो गृहीतो ॥ एवं सुधनुस्य कुमारस्य धर्मदेशनां श्रुत्वा राजा सुचन्द्रिमो ते च सर्वे राजानो सर्वो मःआजनकायो प्रीतो । तेन राज्ञा सुचन्द्रिमेण सुधनुस्य कुमारस्य धर्मदेशनां श्रुत्वा ते सर्वे प्राणकजातीयो जलचरा च स्थलचरा च ओसृष्टा ॥
[_म्वु_2.100_]___मनोहरा किन्नरी सुधनुस्य कुमारस्य अल्लीना । सर्वं च किन्नरभवनं मनसि न वर्तति सुधनस्य प्रेमेन ॥ सुधनुस्यापि अन्या क्रीडातीयो मनसि न वर्तन्ति मनोहराये प्रेमेन ॥ राज्ञापि सुचन्द्रिमेण यथा सुधनुना कुमारेण संदिष्टं तथा निर्गडं यज्ञं अनवद्यं ॥ अनेकानि श्रमणब्राह्मणकृपणवणीपकसहस्राणि अन्नपानेन सन्तर्पिताः आच्छादनेहि आच्छादिताः ॥ वृत्ते यज्ञे सुधनुकुमारो मनोहराये सार्धं हस्तिस्कन्धवरगतो महता परिवारेण महता समृद्धीये महता समुदयेन महता विभूषाये सिंहपुरातो हस्तिनापुरं गतो ॥
___कुमारस्य हस्तिनापुरं प्रविशन्तस्य नगरं हस्तिनापुरं अलंकृतं विततवितानं चित्रदुष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं सिक्तसंमृष्टं धूपितधूपनं मुक्तपुष्पावकीर्णं देशेदेशेषु नटनर्तक-ऋल्लमल्लपाणिस्वर्याकुम्भथूनिका ॥ एवं सुधनुकुमारो महता समृद्धीये महता समुदयेन मनोहराये सार्धं हस्तिस्कन्धवरगतो हस्तिनापुरं प्रविष्टो ॥ तेन कुमारेण सर्वा राजकन्या ओसृष्टा मनोहराये सार्धं क्रीडते व ॥ राज्ञो सुबाहुस्य षष्टीहि नगरसहस्रेहि कार्यसहस्राणि परिहायन्ति अनेकसहस्राणि निवर्तन्ति ॥ नैगमजानपदेहि राजा सुबाहु विज्ञप्तो । महाराज सुधनुकुमारो मनोहराये किन्नरीये प्रमत्तो अर्थार्थानि न समनुशासति राजकार्याणि परिहायन्ति षष्टीहि नगरसहस्रेहि अनेकसहस्राणि निवर्तन्ति ॥ राज्ञा सुबाहुना सुधनुकुमारो शब्दापितो ॥ पुत्र जान्पदा ओरवन्ति । अर्थार्थानि न समनुशाससि यथापुर्वं मनोहराये किन्नरीये प्रमत्तो विहरसि विसर्जेहि पुत्र एतां किन्नरीं अनुजानाहि
[_म्वु_2.101_] तां गमनाये ॥ सो कुमारो मनोहराये तृष्णाजालेन बद्धको न ताम् अनुजानाति । पितरे पुनः पुनर् उच्चति । पुत्र विसर्जेहि एतां किन्नरीं अन्यानि ते राजकन्यानि यत्तकानि जल्पसि तत्तकानि आनयिष्यामि ॥ सो कुमारो पुनर् पुनः तेन पितुना उच्यन्तो न विवर्जयति ॥ अमात्या च पुनः पुनः राज्ञो सुबाहुस्य निवेदेन्ति ॥ महाराज सुधनुकुमारो मनोहराये किन्नरीये प्रमत्तो राजकार्याणि न करोति बहूनि राजकार्याणि परिहायन्ति ॥ राज्ञा च अमात्या आणत्ता उपरुन्धथ कुमारं ॥ सो अमात्येहि राजाणत्तीये उपरुद्धो ॥ उपरुद्धेन कुमारेण गृहं निःश्रेयं संवृत्तं सर्वा लक्ष्मी अन्तरहिता । मनोहरा स्वयं सुबाहुना अनुज्ञाता निरतिं किन्नरनगरं गमनाय । मनोहरे गच्छ अनुज्ञातासि येन सुखानि शीतलानि वनानि मातापितॄणां सकाशं ॥
___सा दानि सर्वालंकारविभूषिता ततः प्रासादतो ओतरिता । ताये ओतरन्तीये बहूनि स्त्रीसहस्राणि सुधनुस्य रोदन्ति मनोहराये शोकेन । हस्तिनापुरे जनपदस्य अन्तरं नास्ति वामदक्षिणेन हस्तेन मनोहराये हस्तिनापुरातो निष्क्रमन्तिये । वामदक्षिणातो अंजलिसहस्राणि प्रतीच्छमाना गन्धमाल्येन पूजियमाना स्त्रीसहस्रेहि बहुना च जनकायेन अनुगच्छियमाना सा दानि हस्तिनापुरातो निर्यात्वा जनकायस्य विसर्जनं कृत्वा उत्तरामुखं येन हिमवां पर्वतराजा तेन प्रणता उपगच्छति च उत्तरामुखं येन च हस्तिनापुरं तेन सुधनुं अवलोकेति ॥ तहिं च अनुहिमवन्ते शतद्रुनदीकूले दुवे लुब्धकपुत्रा मृगव्यां अण्वन्ति । एको लुब्धकपुत्रो
[_म्वु_2.102_] उत्पलको नाम द्वितीयो लुब्धकपुत्रो मालको नाम ॥ तेहि दृष्टा मनोहरा किन्नरी दूरतो आगच्छन्ती सर्वालंकारविभूषिता अक्षुद्रानुलेपना अमिलानगन्धमाल्या पुनर् पुनः पृष्ठतोमुखी अवलोकयन्ती आगच्छन्ती ॥ तेहि सा किन्नरी प्रत्यभिज्ञाता ॥ ते कृतांजलिपुटा प्रनिपतिता पृच्छन्ति ॥
गच्छन्ति अवलोकेसि अवलोकेन्ति गच्छसि ।
किं भद्रे अवलोकेसि कहिं वा त्वं गमिष्यसि ॥
मनोहरा आह ॥
उभयं अभिप्रार्थेमि . . . . किंपुरुषनगरं ।
सुधनुं चावलोकेमि निरतिं चाभिप्रार्थये ॥
ते दानि लुब्धकपुत्रा आहंसुः ॥
सुधनुस्य कुमारस्य कुरुपंचालेषु नारियो ।
ताहि सार्धं रममाणो न सो तुभ्यं स्मरिष्यति ॥
मनोहरा आह ॥
आनयिष्याम्य् अहं सुधनुं प्रेक्षितेन स्मितेन च ।
कोचिद् दृद्धो व मातंगो वशे एषो भविष्यति ॥
ताये तेषां लुब्धकपुत्राणां हस्ते शतसहस्रमूल्या च अंगुलिका दिन्ना तालीसमाला च । यदि मम पृष्ठतो सुधनुकुमारो आगच्छेय मम मार्गमाणो इमं अभिज्ञानं दास्यथ मम वचना अभिवादनं पृच्छेयाथ । वक्तव्यो । इतो एवं निवर्ताहि दुर्गमो
[_म्वु_2.103_] परतरेण मनुष्याणां । नियतो मे मनुष्याणां विनाभावः ॥ एवं लुब्धकपुत्राणां संदिशित्वा मनोहरा अस्पृशन्ती पादतलेहि उदकं शतद्रुनदीं तीर्णा ॥
___राज्ञा सुबाहुना यं कालं जानाति गता मनोहरा इति ततो सुधनुकुमारो आनापितो उत्संगे उपविसापितो पितरे मातरे पि ॥ मा पुत्र किन्नरीम् अनुस्मराहि विस्तीर्णो ते अन्तःपुरो बहूनि कन्यासहस्राणि अपराणि ते आनापेष्यं । ताहि सार्धं क्रीडाहि रमाहि परिचारेहि किन् ते किन्नरीये त्वं मानुषो ॥ राजा कुमारं चाश्वासयति अमात्या च आणत्ता । कुमारस्य गृहं अलंकारायेथ ॥ अन्तःपुरस्य संदिष्टं । सुष्टु कुमारं अभिरमापेथ यथा कुमारो मनोहरां न समनुस्मरेय ॥ राज्ञो वचनमात्रेण कुमारस्य गृहं यथा दिव्यं विमानं तथा अलंकृतं सर्वसंज्ञितं ॥ सप्तसु द्वारशालासु सुचूर्णघटानि स्थापितानि अक्षतानि स्थापितानि यानि अन्यान्यपि लोकस्य मंगलसंमतानि सर्वाणि स्थापितानि ॥ ब्राह्मणसहस्रियो कुमारस्य द्वारे उपस्थापितानि तथान्यो पि जनकायो कुमारं प्रतिपालयन्तो ॥ कुमारो पि पितरा समाश्वासित्वा विसर्जितो । गच्छ गृहं उपसेवेहि स्नाहि विलिम्पाहि आसक्तमाल्यभरणो क्रीडाहि रमाहि प्रविचारेहि राजकार्याणि च समनुशासेहि ॥ एवं संदिशित्वा पितरे कुमारो सुधनु विसर्जितः ॥
___सो दानि राजकुलातो निर्यात्वा सार्धं वसन्तकेन एकिना परिचारकेन भावानुरक्तेन हस्तिनापुरातो नगरातो निर्यात्वा येन हिमवन्तपर्वतराजा तेन प्रणतो मनोहराये अर्थाये ॥ कुमारस्य तानि पैतृकानि षष्टिनगरसहस्राणि स्फीतानि
[_म्वु_2.104_] सनिगमजनपदानि विस्तीर्णं च अन्तःपुरं मनसि न वर्तति । मनोहराम् एव किन्नरीं शोचति समनुस्मरति ।
राज्यं राजपरिदेववीक्षणकालेन तन् ददा सर्वं ।
अपविज्झियान प्रक्रमि अधौतमलिनं पटं गृह्य ॥
अनुरक्तभक्तिभावं चैकं परिचारकं ग्रहेत्वान ।
पर्वतराजाभिमुखो सो हिमवन्तम् अभिप्रसरेसि ॥
अचिरेण गतो सुधनू हिमवन्तं रम्यपर्वतनितम्बं ।
तत्राद्दशासि लुब्धकौ उप्पलकं मालकं चैव ॥
पश्यति च शतद्रुनदीं शुचिविमलस्फटिकविकाशां सततं ।
. . . . . . . . . . . . . . . . . . . . . . .
शुभा सुशीतलतोया प्रस्यन्दमाना मृदुतरुणसुजाता ।
सा शाद्वला प्रलुलिता वहन्ति अक्षौहिन्यो शतद्रू ॥
सुधनू उवाच कांचिल् लुब्धका श्यामां अक्षुद्रानुलेपनां ।
नारीं अमिलानगन्धमाल्यां विक्रमन्तिं अपश्यथ ॥
अवोच लुब्धकपुत्र यादृशीं त्वं पृच्छसि सा इतो चिरं ।
उत्तीर्य नदीं गता सा इमेन कालेन हिमवन्तं ॥
प्रव्याहृतं हि ताये सुधनुर् नामेन पृष्ठतो मह्यं ।
[_म्वु_2.105_] यदि एष्यति लुब्धकपुत्रा दास्याथ इमं अभिज्ञानं ॥
इमम् अङ्गुलीयकं इमां च तालीसगन्धीकां मालां ।
दास्याथ लुब्धकपुत्रा भर्ता मम स्वामिकस्वामि ॥
अभिवादनं च लुब्धका मम वचना स्वामिकं भणेयाथ ।
प्रतिगच्छ हस्तिनापुरं नियतो नियमो विनाभावो ॥
प्रत्यग्रहेसि मालां आलम्बेसि मुद्रिकां प्रमोदन्तो ।
अपि मरणं अभ्युपेमि मनोहराये व समागमं ॥
ते तं भणन्ति लुब्धका सुधनुं इतो एव त्वं निवर्तेहि ।
हस्तिनापुरस्मिं नगरे का तुह्यम् अभुक्त वर्तेया ॥
तं तस्य नैव हृदये नापि च तेषां शृणोति सो वचनं ।
गन्तुं येवाध्यवसितो शतद्रुं च महानदीं तीर्णो ॥
लुब्धका पि ते व्यवस्थिता राजामर्षो भवेया अस्माकं ।
यदि सुधनुम् एवंरूपे अत्ययस्मिं परित्यजेयामः ॥
अवतीर्णा ते पि नदिं व्याघ्रगणसिंहवारणसंघोषां ।
मृगविहंगमानुयातां मनोरमां च चक्रवाकरुतां ॥
तान् तत्क्षणेन तीर्णा महानदीं हन्ससारसाभिरुतां ।
व्याडेहि किन्नरेहि च प्रपातजालां सुरमणीयां ॥
तत्र दानि कुमारो च वसन्तको च परिचारको उत्पलको च लुब्धकपुत्रो मालको च लुब्धकपुत्रो एवंकृताध्यवसाया मनोहराये पदेहि हिमवन्तं पर्वतराजं प्रविशन्ति ।
[_म्वु_2.106_] मनोहरापि नानावर्णनि वरकुसुमानि ओलम्बमानानि आबन्धमाना गच्छति ॥ ते दानि कुसुमानि पच्छा दृष्टा अनुगच्छन्ति । इह विश्रमित्वा श्यामा इतो गता ॥ इह मुहूर्तम् आसि अयम् अस्या पुष्पनिकरं इह कृतानि शुभमालानि निर्माल्यकानि चास्या वरकुसुमकर्णपूरधारिणीये देशेदेशे पश्यन्ति जानन्ति इतो गता श्यामा एवन् ते गच्छन्ति । आभरणानि नानाप्रकाराणि पन्थे पतितानि पश्यन्ति वनशाखेषु लग्नानि पश्यन्ति अन्यानि च चिह्नानि पश्यन्ति ॥ यथायथा च हिमवन्तं अनुप्रविशन्ति तथातथा बहूनि रत्नरत्नानि पश्यन्ति ॥ सुवर्णशृंगानि पर्वतानि पश्यन्ति रूप्यशृंगानि पश्यन्ति लोहकाराणि पश्यन्ति ताम्रकाराणि पश्यन्ति आरकूटकाराणि पश्यन्ति यशदशृंगानि पश्यन्ति अंजनपर्वतानि पश्यन्ति मनशिलपर्वतानि पश्यन्ति । किन्नरमिथुनानि क्रीडन्तानि पश्यन्ति । अन्यानि बहूनि आश्चर्याद्भुतशतानि पश्यन्ति । देशेदेशे किन्नरीगीतश्ब्दानि शृण्वन्ति सिंहनादशब्दानि च शृण्वन्ति शार्दूलनादशब्दानि च शृण्वन्ति । अच्छभल्लनादानि च शृण्वन्ति । मृगरुतानि च नानावर्णानि शृण्वन्ति । यक्षराक्षसरुतानि च शृण्वन्ति । पिशाचकुम्भाण्डरुतानि शृण्वन्ति ॥ नानाप्रकाराणी च औषधीसहस्राणि पश्यन्ति विद्याधराणि च पश्यन्ति ॥
___तेहि गच्छन्तेहि काश्यपस्य ऋषिस्य आश्रमं दृष्टं बहुमूलपत्रपुष्पफलोपेतं वृक्षसहस्रसंछन्नं पानीयसंपन्नं च ॥ ते दानि तहिं आश्रमे प्रविष्टाः पश्यन्ति च तत्र आश्रमे काश्यपं ऋषिं वृद्धं महाभागं सपरिवारं आसन्नं ॥ ते दानि ऋषिस्य अभिवादनं
[_म्वु_2.107_] कृत्वा सपरिवारस्य अग्रतो स्थिता ॥ ऋषिस्य भवति ॥ महात्मना इमेन कुमारेण भवितव्यं कृतपुण्येन पुण्यवन्तेन यो एषो इमं आश्रमं प्रविष्टः । प्रदेशो न क्षेमेणानुप्राप्तो ॥ तेन कुमारो अभिनन्दितो ॥ स्वागतं कुमारस्य निषीदाहि । एतानि शिविकानि ॥ कुमारो निषण्णो सपरिवारो । ऋषिणा क्षुद्रमधुसदृशानि फलानि अल्लीपितानि पानीयं च ॥ यत्र वेलां कुमारेण फला परिभुक्तानि पानीयं च पीतं ततो नं सो ऋषि पृच्छति ॥ किं कुमारस्य सुखसंवृद्धस्य इमहिं आगमनप्रयोजनं ॥ कुमारो आह ॥ काचित् ते भगवं एवंरूपा नारी अतिक्रमन्ती दृष्टेति ॥ ऋषि आह ॥ आम दृष्टा अल्लीना सा इमं आश्रमं मम पादौ वन्दित्वा गिरिवरस्य अनुतटेहि गता । तत् कुमारो इतो एवं आश्रमातो निवर्ततु । दुष्करं कुमारेण कृतं इमं तावत् प्रदेशं गच्छन्तेन किं पुन अतो परतरेण गतेन अगमनं मनुष्याणां इतो एवं निवर्ताहि ॥ कुमारो आह ॥ न शक्यामि भगवन् निवर्तितुं । या तस्या मनोहराये गति सा मम येनैव मार्गेण गता तेनैवाहं गमिष्यामि ॥ ऋषि आह ॥ अन्या किन्नरीणां गतिः अन्या मनुष्याणां । पक्षी पि किन्नराणां गतिं न संभुणन्ति कृतो मनुष्या । पक्षी पि तं प्रदेशं कथं चिद् गच्छन्ति । किन्नरा यत्र गच्छन्ति मोदमाना रतिविहारं समनुभोन्तो अगम्यन् तं कुमार मनुष्याणां पथेहि । इतो एवम् आश्रमातो निवर्ताहि ॥ पिता ते षष्टीणां नगरहस्राणां ईश्वरो ननु उदारेहि परिभोगेहि कुमारेण क्रीडितव्यं रमितव्यं अनुभवितव्यं एतं अगम्यं देशं न शक्यसि गन्तुं ॥ कुमारो आह ॥ भगवं मरणं वा सा वा पश्यितव्या ॥
[_म्वु_2.108_] ऋषि महाभागो महामैत्रीविहारी कारुणिको । तस्य भवति ॥ से कुमारस्य अगम्यं देशं गच्छन्तस्य शरीरविनाशो भवेया ॥ सो ऋषि आह ॥ कुमार इमां रात्रिं इह आश्रमे वीतिनामेहि याव इह उद्देशे वानरा प्रतिवसन्ति । यो तेषां यूथपति सो मम अभिप्रसन्नो नित्यकालं मम पादवन्तो आगच्छति क्षुद्रमधुसदृशानि फलानि आदाय । तम् अहं वानरराजं अध्येषिष्यं । सो तव द्रुमस्य किन्नरराज्ञो निरतिं नाम किन्नरनगरं नेष्यति ॥ कुमारो ऋषिस्य वचनेन तहिं आश्रमे तां रात्रिं स्थितो रात्रिये च प्रभाताये कुमारो सिंहस्य च ओसरन्तस्य शब्दं शृण्वति । कुमारो ऋषिकुमाराणां पृच्छति । कस्य एष ओसरणशब्दो ॥ ऋषिकुंआरो आह ॥ एवं वानराधिपतिस्य ओसरन्तस्य शब्दो नित्यं एषो इह वेलाये क्षुद्रमधुसदृशानि फलानि आदाय तं ओसरन्तो द्रुमात्* द्रुमं संक्रमन्तो अस्माकम् उपाध्यायस्य पादवन्तो आगच्छति ॥ तदानि कौतूहलेव उत्थाय यतो तं वानरस्य ओसरन्तस्य शब्दं ततः निध्यायति ॥ तेन सो वानरराजा दृष्टो द्रुमातो द्रुमं संक्रमन्तो आगच्छन्तो ॥ सो वानरराजा तं आश्रमम् आगत्वा क्षुद्रमधुसदृशानि फलानि ऋषिस्य पुरतो निक्षिपित्वा निषण्णो ॥ ऋषि आह ॥ वानरराज करोहि मे व्यापारं ॥ वानरराजा आह ॥ भगवं करिष्यामि । आणपेहि ॥ ऋषि आह ॥ इमं कुमारं आत्मना चतुर्थं द्रुमस्य किन्नरराज्ञो निरतिं नाम किन्नरनगरं तहिं तेहि ॥ वानरो आह ॥ भगवन् नेमि ॥
___सो दानि वानराधिपति ततो एव आश्रमातो आत्मना चतुर्थं कुमारं पृष्ठं आरोहयित्वा पर्वतानां शृंगतो शृंगं संक्रमन्तो द्रुमातो द्रुमं नचिरस्यैव द्रुमस्य किन्नरराज्ञो
[_म्वु_2.109_] नगरं कैलासस्य पर्वतस्य मूर्ध्ने अनुप्राप्तो । पश्यति च कैलासस्य पर्वतस्य मूर्ध्ने द्रुमस्य किन्नरराज्ञो निरतिं नाम नगरं सर्वसौवर्णशुभकर्मनिर्मितं उद्यानसहस्रमण्डितं सर्वरत्नामयेहि पुष्करिणीतडागेहि मण्डितं सर्वरत्नामयेहि वैडूर्यफलसोपानेहि सप्तरत्नवेदिकापरिक्षिप्तेहि उत्पलपदुमकुमुदपुण्डरीकसौगन्धिकसंछन्नेहि रतनामयेहि रतनामयेहि तटकेहि आयुक्तेहि नानारत्नविचित्राहि नावाहि प्लवन्तीहि वसन्तचित्राहि च नानाप्रकारेहि प्लवेहि प्लवन्तेहि । नानाप्रकारेहि पुष्पपत्रफलोपेतेहि द्रुमसहस्रेहि संछन्नं च अतिमुक्तकचम्पकवार्षिकमल्लिकासुमननवमालिकायूथिकोपशोभितं ॥ ते तहिन्तहिं पश्यन्ति किन्नरमिथुनसहस्राणि क्रीडन्तानि । काचिज् जलदर्दरकानि वादेन्ति काचित्* नानाप्रकाराणि वाद्यानि वादेन्ति मधुरेण च स्वरेण मनोहरां परिगायन्ति ॥ अभ्यन्तरनगरे च तूर्यशतशब्दानि शृण्वन्ति मधुराणि च गीतशब्दानि शृण्वन्ति ॥
___अथ नु दानि तहिं किन्नरनगरस्य वाह्यतो उपवने स्थिता पश्यन्ति संबहुला किन्नरीयो प्रासादिका दर्शनीया अलंकृता आभूषिताः सौवर्णघटकहस्ता आगच्छन्ति तां पुष्करिणीं यत्र सुधनुः स्थितो उदकहारिं ॥ सुधनुर् एता पृच्छति ॥ किं अत्र नगरे पर्वो यं । सो ईदृशो आमोदो ॥ ता दानि आहन्सुः ॥ न अद्य किंचित् पर्वो न उत्सवो । अपि द्रुमस्य किन्नरराज्ञो नाम धीता मानुषेहि नीता आसी सा बहूहि वर्षेहि आगता ताये आगताये द्रुमो च किन्नरराजो सर्वं
[_म्वु_2.110_] च नगरं प्रीतं तत्रैष एदृशो आमोदः ॥ सुधनु पृच्छति ॥ कहिं उदकं इमं नीष्यति ॥ आहन्सु ॥ सा मनोहरा स्नापयिष्यति । तस्या मनुष्यगन्धम् अपनयिष्यति ॥ तेन कुमारेण अंगुलीयका पश्चिमे उदकघटे प्रक्षिप्ता यथा ताहि किन्नरीहि न दृष्टा ॥ मनोहरा स्नायति च अंगुलीयका स्नायन्तीये ततो घटकातो उत्संगे पतिता ॥ मनोहराये सा अंगुलीयका दृष्ट्वा परिज्ञाता । ताये एतद् अभूषि । सुधनुकुमारः आगतो मम अर्थाय । सुकुमारो राजपुत्रो कथं सो इमाम् अगम्यां दिशम् आगतो ॥ सा दानि त्वरितत्वरिता वस्त्राणि प्रावरित्वा अश्रुकण्ठा रुदन्मुखा मातापितॄणां प्रणिपतित्वा आह ॥ यो मम जम्बुद्वीपे भर्ता सो आगतो सुधनु नाम राजपुत्रो सुबाहुस्य राज्ञो एकपुत्रो ॥ द्रुमो किन्नरराजा न पत्तीयति । पुत्रि न शक्यं मानुषेहि इमां दिशाम् आगन्तुं ॥ मनोहरा आह ॥ न हि तात व्यक्तम् आगतो ॥ द्रुमो किन्नरराजा पृच्छति ॥ किं त्वया स्वयं दृष्टो उताहो परतो श्रुतो ति ॥ सा आह ॥ न मे स्वयं दृष्टो नापि परतो श्रुतो अपि मे स्नापयन्तीये सुधनुस्य अंगुलीयका उत्संगे पतिता ॥
___द्रुमेण किन्नरराज्ञा उदकहारीयो शब्दापितायो । ता दानि शब्दापिय पृच्छीयन्ति ॥ क्वचिद् वो उदकहारिं गताहि पुरुषो दृष्टो ॥ ता आहन्सुः ॥ महाराज दृष्टो किन्नरकुमारः प्रासादिको दर्शनीयो आत्मना चतुर्थो पुष्करिणीये कूले ॥ तस्य भवति ॥ सो एवम् एषो कुमारो मनोहराये ति ॥ कथं सो शक्यति इमां दिशाम् आगन्तुं ॥ सो दानि तां धीतरं पृच्छति ॥ मनोहरे प्रविशतु सुधनु राजकुमारो इमं राजकुलं ॥ सा आह ॥ तात प्रविशतु ॥ सो इह मम प्रेमेन आगतो
[_म्वु_2.111_] बहु च तेन मम निदानं पितृसकाशातो अप्रियो असत्कारो । तेन बन्धनवधदुःखो अनुभूतो न च तेन अहं कदाचित् परित्यक्ता । ततो सुधनु कुमारो पितरेण सुबाहुना बन्धनागरे बन्धित्वा अहं विसर्जिता । सो एष मुक्तो समानो मम पृष्ठतो आगतो ॥ द्रुमेण किन्नरराज्ञा अमात्या आणत्ता ॥ शीघ्रं नगरं अलंकारापेथ यावच् च राजकुलं यावच् च असुरका पुष्करिणी विततवितानं कारापेथ चित्रपुष्पपरिक्षिप्तं अवसक्तपट्टदामकलापं सिक्तसंमृष्टं मुक्तपुष्पावकीर्णं सर्वगन्धोदकसिक्तं ॥ ये मम नगरे प्रधानपुरुषाश् चतुरंगबलकायो सर्वे ते मम जामातुः प्रत्युद्गच्छन्तु छत्रध्वजपताकानि च आदाय ॥ अमात्येहि वचनमात्रेण सर्वं प्रतिजागृतं महता समृद्धीये प्रत्युद्गमनं कृतं ॥ मनोहरापि महारहेन अंशुकेन प्रावृता सर्वालंकारविभूषिता बहूहि किन्नरसहस्रेहि परिवृता तूर्यसहस्रेहि वाद्यमानेहि प्रत्युद्गता ॥ सा दानि सुधनुं दृष्ट्वा मूर्ध्नेन पादेहि पतिता मुखेन च केशेन च पादानि संपरिमार्जति ॥ एवं सुधनु महता विभूषाये महता समृद्धीये द्रुमस्य किन्नरराज्ञो नगरं प्रवेशितो यावद् राजकुलं द्रुमेण च किन्नरराज्ञा अभिनन्दितो उत्सङ्गे संवेशितो आश्वासितो च ॥ एषो ते नगरो सर्वसौवर्ण उद्यानसहस्रमण्डितो अनन्तकल्याणो इह मम धीतराये मनोहराये सह क्रीडाहि रमाहि प्रविचारेहि ॥
___सुधनु दानि किन्नरनगरे बहूनि वर्षाणि प्रतिवसित्वा क्रीडित्वा रमित्वा प्रविचारेत्वा सर्वोद्यानेषु संवर्तनीयं अनुभवित्वा मनोहराम् आमन्त्रेसि ॥ मनोहरे जानसि त्वं यथा अहं मातापितॄणां एकपुत्रको प्रियो मनापो । अहं तव प्रेमेन अनापृच्छित्वा
[_म्वु_2.112_] मातापितॄणां सर्वकानि उज्झित्वा आत्मना परित्यागं कृत्वा इह आगतो इह मे अद्य बहूनि वर्षाणि प्रतिवसन्तस्य । ततो आमन्त्रेहि मातापितरं गमिष्यामि हस्तिनापुरं ॥ ताये मनोहराये मातापितॄणां आरोचितं ॥ द्रुमेण किन्नरराज्ञा सुधनु पृच्छीयति ॥ कुमार गमिष्यसि मातापितॄणां सकाशं ॥ कुमारो आह ॥ यदि तात अभिप्रेतं ततो गमिष्यामि ॥ द्रुमो आह ॥ विसर्जयिष्यामि इति ॥ यम्भका नाम यक्षा किन्नराणाम् आणत्तिकराः ॥ राज्ञा यम्भका यक्षा आणत्ता ॥ मम जामातारं सपरिवारं मनोहरासहितं येन हस्तिनापुरं नेथ प्रभूतं च रत्नरतनं ॥ तेहि सुधनु कुमारो सपरिवारो मनोहरा च किन्नरनगरातो शयनगता एवम् उत्क्षिपित्वा प्रभूतं च रत्नरतनं हस्तिनापुरम् आनेत्वा राजक्ये उद्याने स्थपिता ॥ प्रभाताये रात्रीये कुमारो सुधनु विबुद्धो हस्तिनापुरे व भेरीघोषं शृणोति जनशब्दं च ॥ तस्य भवति ॥ कहिं अहं हस्तिनापुरं आनीतो ॥ इमं राजक्यं उद्यानं पश्यति । तानि रत्नमयानि पर्यंकानि यथा प्रज्ञप्ताति मनोहरां तं त्रिवर्गं परिवारं प्रभूतं च रत्नं । कुमारो प्रीतो संवृत्तो यथाभिप्रेतं स्वकं नगरम् आगतो ॥
___कुमारस्य हस्तिनापुरा गतस्य राज्ञा सुबाहुना मार्गणा कारिता महता उद्योगेन । यं कालं राजा कुमारस्य प्रवृत्तिं न उपलभति तस्य भवति । मृतो भविष्यति कुमारो मनोहरां मार्गन्तो ॥ तेन राज्ञा कुमारस्य सुधनुस्य मृतस्य कार्याणि कारितानि ॥ सर्वस्य अधिष्ठानस्य भवति । मृतो सुधनु ॥ तहिं दानि राजक्ये उद्याने अग्रद्वारेण उद्यानपाला निर्धाविता उद्याने पताकान् उच्छ्रापयन्ति
[_म्वु_2.113_] आगता च उद्यानं पश्यन्ति तं च सुधनुं मनोहरां च तं च त्रिवर्गं परिवारं रत्नमयानि च पर्यंकानि महान्तं च रत्नराशिं दृष्टा च पुनः धावन्तो हस्तिनापुरं प्रविष्टा ॥ महाजनकायो पृच्छति क्षेमं । ते आहन्सुः । क्षेमं सुधनु कुमारो आगतो हि । सो एव प्रीतो भवति ॥ तेहि राजकुलं गत्वा उद्यानपालेहि राज्ञो सुबाहुस्य आरोचितं ॥ महाराज दिष्ट्या वृद्धि सुधनु कुमारो आगतो ॥ राजा श्रवणमात्रेण प्रीतो संवृत्तो सर्वं च राजकुल्ं । तेषां उद्यानपालानां विपुलो दायो दिन्नो ॥ राजा सुबाहु सामात्यपरिजनो देवी च सुधनुस्य माता सर्वं च अन्तःपुरं उद्यानं निर्धावितं कुमारं द्रष्टुं सर्वं च नगरं कुमारस्य सुधनुस्य आगमनशब्दं श्रुत्वा मनोहराये च । अन्तरो जनस्य नास्ति हस्तिनापुरातो राजकृत्यं उद्यानं निर्धावन्तस्य कुमारं द्रष्टुं मनोहरां च ॥ सुधनु मातापितरं दृष्ट्वा मूर्ध्नेन निपतितो मनोहरा च श्वश्रूश्वशुरं च दृष्ट्वा मूर्ध्नेन निपतिता ॥ कुमारो पितरेण सुबाहुना सार्धं सुवर्णालंकृतं हस्तिनागम् आरुहित्वा हेमजालसंछन्नं महता राजानुभावेन महता राज-ऋद्धीये महतीये वियूहाये महतीये विभूषाये हस्तिनापुरं प्रवेशितो ॥
एवं समेन्तु सत्वा सर्वेहि प्रियेहि अबोधिप्रहीणा ॥
यथ तस्मिं समयस्मिं समागतः किन्नरिये सुधनुः ॥
भगवान् आह ॥ स्यात् खलु पुनर् भिक्षवः युष्ंआकम् एवम् अस्याद् अन्यः स तेन कालेन तेन समयेन सुधनु नाम कुमारो अभूषि । न एतद् एवं द्रष्टव्यं ॥ तत् कस्य हेतोः ॥ अहं सो भिक्षवः तेन कालेन तेन समयेन सुधनुर् नाम कुमारो अभूषि । अन्यः स तेन कालेन तेन समयेन सुबाहुर् नाम राजा अभूषि । नैतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एषो भिक्षवो राजा शुद्धोदनो तेन कालेन तेन समयेन सुबाहुर् नाम राजा अभूषि ॥
[_म्वु_2.114_] अन्या सा तेन कालेन तेन समयेन सुधनुस्य माता अभूषि । न एतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एषा भिक्षवो माया देवी तेन कालेन तेन समयेन सुधनुस्य माता अभूषि ॥ स्यात् खलु पुनर् भिक्षवः युष्माकम् एवं अस्याद् अन्यः स तेन कालेन तेन समयेन सुधनुस्य परिचारको वसन्तको नाम अभूषि । न एतद् एवं द्रष्तव्यं । तत् कस्य हेतोः । एष भिक्षवश् छन्दको तेन कालेन तेन समयेन सुधनुस्य परिचारको ॥ अन्यो सो तेन कालेन तेन समयेन उप्पलको नाम लुब्धपुत्रो अभूषि । नैतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एष भिक्षवो राहुलो उप्पलको नाम लुब्धकपुत्रो अभूषि ॥ अन्यो सो तेन कालेन तेन समयेन मालको नाम लुब्धकपुत्रो अभूषि । नैतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एष भिक्षवो आनन्दस्थविरो तेन कालेन तेन समयेन मालको नाम लुब्धकपुत्रो अभूषि ॥ अन्यो सो तेन कालेन तेन समयेन काश्यपो नाम ऋषि अभूषि । नैतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एष भिक्षवः महाकाश्यपः स्थविरः तेन कालेन तेन समयेन अनुहिमवन्ते काश्यपगोत्रो ऋषि अभूषि ॥ अन्यो स तेन कालेन तेन समयेन अनुहिमवन्ते वानरराजा अभूषि । नैतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एष भिक्षवो कण्ठको अश्वराजा तेन कालेन तेन समयेन अनुहिमवन्ते वानरराजा अभूषि ॥ अन्यो स तेन कालेन तेन समयेन कैलासमूर्ध्नि द्रुमो नाम किन्नरराजा अभूषि । नैतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एष भिक्षवो महानामो शाक्यो तेन कालेन तेन समयेन द्रुमो किन्नरराजा अभूषि ॥ अन्या सा तेन कालेन तेन समयेन मनोहराये माता अभूषि । नैतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एषा भिक्षवः यशोधराये माता तेन कालेन तेन समयेन मनोहराये माता अभूषि ॥ अन्या सा तेन कालेन तेन समयेन मनोहरा किन्नरी अभूषि । नैतद् एवं द्रष्टव्यं । तत् कस्य हेतोः । एषा भिक्षवो यशोधरा तेन कालेन तेन समयेन मनोहरा किन्नरी अभूषि । तदापि एषा मया खेदेन लब्धा ॥
[_म्वु_2.115_] विचित्रगम्भीरकथो बहुश्रुतो
किलेशघाती परवादिमर्दनो ॥
स भिक्षु शोभेत स्वयंभुशासने
नभे व चन्द्रो परिपूर्णमण्डलो ॥
_____इति श्रीकिन्नरीजातकं समाप्तं ॥
भगवान् सम्यक्संबुद्धो यद् अर्थं समुदागतो तद् अर्थं अभिसंभावयित्वा श्रावस्त्यां विहरति शास्ता देवानां मनुष्याणां च विस्तरेण निदानं कृत्वा भिक्षून् आमन्त्रयति ॥ सुकुमारो हं भिक्षवो परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य पिता शाक्यो त्रयो प्रासादा कारयत्* हेमन्तिकं ग्रीष्मिकं वार्षिकं मम येव क्रीडार्थं रत्यर्थं परिचारणार्थं ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य भिक्षवः पिता शाक्यो तेहि प्रासादेहि कूटागाराणि कारयेत्* उल्लिप्तावलिप्तानि वातास्पर्शार्गडानि पिहितवातायनानि धूपनधूपितानि ओसक्तपट्टदामकलापानि मुक्तपुष्पावकीर्णानि मम एव क्रीडार्थं रत्यर्थं प्रविचारार्थं ॥ सुकुमारो हं भिक्षवः परमसुकुमारो ॥ तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो तेहि कूटागारेहि पर्यंका कारयेत् सुवर्णमयानि रूप्यमयानि रतनमयानि षोडशगोणिकास्तृतां पत्तिकास्तरणां चित्रास्तरणां फलिकास्तरणां उभयतो बिम्बोपधानां लोहितकोपधानां अवदातप्रत्यास्तरनां मम एव क्रीडार्थं रत्यर्थं प्रविचारार्थं ॥ सुकुमारो हं भिक्षवः परमसुकुमारो ॥ तस्य मे भिक्षवः सुकुमारस्य
[_म्वु_2.116_] परमसुकुमारस्य पिता शाक्यो तेहि पर्यंकेहि वितानानि कारापयेत्* रजोशुक्रं उपनियमे मम क्रीडार्थं रत्यर्थं परिचारणार्थं ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो विविधम् अनुलेपनम् उपस्थापये सय्यथीदं अगुरुचन्दनं कालानुसारिं तमालपत्रं मम एव क्रीडार्थं रत्यर्थं परिचारणार्थं ॥ सुकुमारो हं भिक्षवो परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो विविधानि वस्त्राणि उपस्थापये । सय्यथीदं काशिकसूक्ष्माणि कम्बलसूक्ष्माणि मम क्रीडार्थं रत्यर्थं परिचारणार्थं ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवो सुकुमारस्य परमसुकुमारस्य पिता शाक्यो विविधां मालां उपस्थापये । सय्यथीदं अतिमुक्तकचम्पकवार्षिकां वातुष्कारी इन्दीवरं दमनकं देवोपसंहितं मम एव क्रीडार्थं रत्यर्थं परिचारणार्थं ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवः पिता शाक्यो विविधं भोजनं उपस्थापये । शालिं विचित्रकालकं अनेकसूपरसव्यंजनं मम एव क्रीडार्थं रत्यर्थं परिचारणार्थं ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो ममानन्तरेण भुक्ताविस्य चक्रवर्त्तियोग्यां मालाम् उपनामयेत्* मम एव क्रीडार्थं रत्यर्थं परिचारणार्थं ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो पंच कामगुनां उपस्थापयेत्* । सय्यथीदं नाट्यं गीतं वादितं तूर्यं स्त्रियो च मम एव क्रीडार्थं रत्यर्थं परिचारणार्थं ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो विविधानि यानानि उपस्थापयेत्* । सय्यथीदं हस्तियानानि अश्वयानानि नावायानानि शिविकायानानि मम एव क्रीडार्थं परिचारणार्थं ॥ सुकुमारो हं भिक्षवः परमसुकुमारो ।
[_म्वु_2.117_] तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो विचित्रा कुथां उपस्थापयेत्* सिंहचर्मपरिवाराणां व्याघ्रचर्मपरिचाराणां द्वीपिचर्मपरिवाराणां पाण्डुकम्बलप्रतिच्छन्नानां सनन्दिघोषाणां वैजयन्तिकानां ममैव क्रीडार्थं रत्यर्थं प्रविचारणार्थं ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो निर्यान्तस्य छत्रं धारापयेत्* मा कुमारस्य कायं आतपो रजो शुक्रो वा परिदहे मम एव क्रीडार्थं रत्यर्थं प्रविचारणार्थं ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य चतुर्दिशम् उद्यानानि कारापयेत्* मम एव क्रीडार्थं रत्यर्थं प्रविचारणार्थं ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो तेहि उद्यानेहि चतुर्दिशं पुष्करिणीं कारापयेत्* उत्पलपदुमनलिनीसौगन्धिकप्रच्छन्नां मम एव क्रीडार्थं रत्यर्थं प्रविचारणार्थं ॥ सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य पिता शाक्यो तेहि उद्यानेहि चतुर्दिशं प्रासादां कारापये उच्चां महन्तां प्रगृहीतां मम एव क्रीडार्थं रत्यर्थं प्रविचारणार्थं ॥
___सुकुमारो हं भिक्षवः परमसुकुमारो । तस्य मे भिक्षवः सुकुमारस्य परमसुकुमारस्य एतद् अभूषि ॥ संबाधो पुनर् अयं गृहवासो अभ्यवकाशं प्रव्रज्या तु । न शक्यं अगारम् अध्यावसता एकान्तसंलिखितं एकान्तानवद्यं परिशुद्धं पर्यवदातं ब्रह्मचर्यं चरितुं यं नूनाहं अगारस्यानगारियं प्रव्रजेयं ॥ स खल्व् अहं भिक्षवः अकामकानां मातापितॄणां अश्रुकण्ठानां रुदन्मुखाणां अलूहं गृहवासं हस्तोक्तं चक्रवर्तिराज्यम् अपहाय अगारस्यानगारियं प्रव्रजितो पुनस् समानो येन वैशाली नगरी तदवसारि तदनुप्राप्तो ॥
[_म्वु_2.118_] ॥ तेन खलु पुनः समयेन वैशाल्यां महानगर्यां आराडो कालामो प्रतिवसति त्रयाणां श्रावकशतानां सत्कृतो गुरुकृतो मानितो अर्चितो । सो जिनश्रावकाणां आशंकितव्यसहव्रतायै धर्मं देशयति । सो जिनश्रावकाणाम् एवम् आह । पश्यथ पश्यथ प्रजहथ प्रजहथ ॥ ते पि तं श्रावका एवम् आहन्सुः ॥ पश्यामः पश्यामः प्रजहामः प्रजहामः वयं चान्ये च ॥ तस्य मे भिक्षवो एतद् अभूषि ॥ यं नूनाहं आराडे ब्रह्मचर्यं चरेयं ॥ स खल्व् अहं भिक्षवः येन आराडो कालामो तेनोपसंक्रमित्वा आदाटं कालामम् एतद् अवोचत्* ॥ इच्छेयम् अहं भगवतो आराडस्य ब्रह्मचर्यं चरितुं ॥ एवम् उक्ते भिक्षवः आराडो कालामो एतद् अवोचत्* ॥ चर भो गौतम तथारूपो अयं धर्मविनयो यत्र श्राद्धो कुलपुत्रो ब्रह्मचर्यं चरे चरं च पुनः आराधयेत् कुशलां धर्मां ॥ तस्य मे भिक्षवः एतद् अभूषि ॥ मह्यं पि खलु अस्ति च्छन्दो अस्ति बलं अस्ति वीर्यं यं नूनाहं एतस्यैव धर्मस्य प्राप्तये साक्षात्क्रियायै । एको प्रमत्तो आतापी प्रहितात्मो व्यपकृष्टो विहरन्तो नचिरस्यैवं धर्मं अधिगमि साक्षाकरि ॥ स खल्व् अहं भिक्षवः येन आराडो कालामो तेनोपसंक्रमित्वा आराडं कालामम् एतद् अवोचत्* ॥ एत्तको यं भगवता आराडेन धर्मो अधिगतो साक्षात्कृतः देशितो प्रज्ञप्तो ॥ एवम् उक्ते भिक्षवः आराडो कालामो एतद् अवोचत्* ॥ एवम् एतं गौतम एत्तको यं मया धर्मो अधिगतो साक्षात्कृतः देशितो प्रज्ञप्तः ॥ एवम् उक्ते हं भिक्षवः आराडं कालामम् एतद् अवोचत्* ॥ तेन हि भो आराड मयाप्य् अयं धर्मो अधिगतो साक्षात्कृतो ॥ एवम् उक्ते मे भिक्षवः आराडो कालामो एतद् अवोचत्* ॥ तेन भो गौतम
[_म्वु_2.119_] यं धर्मं जानामि तं भवां गौतमः धर्मं जानाति यं भवां गौतमो धर्मं जानाति तम् अहं जानामि । तेन हि उभये एवं श्रावकसंघं परिहरावः ॥ इति तस्य मे भिक्षवः सो आराडो कालामो परमया पूजया पूजयेत् परमया च प्रशंसया प्रशंसे ॥ एवंदर्शनं च समानं समानार्थताये स्थापयेत्* ॥ तस्य मे भिक्षवः एतद् अभूषि । नायं आराडस्य धर्मो निर्याति तत्करस्य सम्यग्दुःखक्षयाये । यन् नूनाहं उत्तरि पर्येषयेयं ॥ स खल्व् अहं भिक्षवो तथादर्शनायैव समानो येन राजगृहं नगरं तदवसारिं तदनुप्राप्तः तत्रैव विहरामि राजगृहे नगरे ॥
___तेन खलु पुनस् समयेन उद्रको रामपुत्रो राजगृहे प्रतिवसति । सप्तानां श्रावकशतानां सत्कृतो गुरुकृतो मानितो पूजितो ॥ सो जिनश्रावकाणां नैवसंज्ञानासंज्ञायतनसहव्रतायै धर्मं देशयति ॥ सो जिनश्रावकाणाम् एवम् आह ॥ पश्यथ पश्यथ प्रजहथ प्रजहथ ॥ ते पि च श्रावका एवम् आहन्सुः ॥ पश्याम पश्यामः प्रजहाम प्रजहामः वयं चान्ये च ॥ तस्य मे भिक्षवः एतद् अभूषि । यं नूनाहं उद्रके रामपुत्रे ब्रह्मचर्यं चरे ॥ स खल्व् अहं भिक्षवो येन उद्रको रामपुत्रः तेनोपसंक्रमित्वा उद्रकं रामपुत्रम् एतद् अवोचत्* ॥ इच्छेयम् अहं भो उद्रक भवतो ब्रह्मचर्यं चरेयं । स च मे भवां उद्रको अनुजानेया ॥ एवम् उक्ते भिक्षवः उद्रको रामपुत्रो एतद् अवोचत्* ॥ तेन हि चर भो गौतम वस भो गौतम तथारूपो अयं धर्मविनयो यत्र श्राद्धो कुलपुत्रो
[_म्वु_2.120_] ब्रह्मचर्यं चरे चरं च पुनः आराधये कुशलां धर्मान्* ॥ तस्य भिक्षवः एतद् अभूषि ॥ मह्यं पि खलु अस्ति च्छन्दो अस्ति बलं अस्ति वीर्यं । यं नूनाहं एतस्यैव धर्मस्य प्राप्तये साक्षात्कियायै एको अप्रमत्तो आतापी प्रहितात्मा व्यपकृष्टो विहरेयं ॥ स खल्व् अहं भिक्षवः तस्यैव धर्मस्य प्राप्तये साक्षात्क्रियायै एको प्रमत्तो आतापी प्रहितात्मा व्यपकृष्टो विहरन्तो नचिरस्यैव तं धर्मं अधिगमि साक्षीकरि ॥ स खल्व् अहं भिक्षवः येन उद्रको रामपुत्र एतद् अवोचत्* ॥ एत्तको यं भो उद्रकेन भवता रामेण धर्मो अधिगतो साक्षात्कृतो देशितो प्रज्ञप्तो यम् इदं नैवसंज्ञानासंज्ञायतनं ॥ एवम् उक्ते भिक्षवः उद्रको रामपुत्रो एतद् अवोचत्* ॥ एत्तकम् इदं भो गौतम भवता रामेण अधिगतो साक्षीकृतो प्रज्ञप्तो यम् इहैव संज्ञानासंज्ञायतनं ॥ स खल्व् अहं भिक्षवः उद्रकं रामपुत्रम् एतद् अवोचत्* ॥ तेन हि उद्दक मयापि अयं धर्मो धिगतो साक्षात्कृतो ॥ एतम् उक्ते भिक्षवः उद्दको रामपुत्रो एतद् अवोचत्* ॥ तेन हि गौतम यं भवां रामो धर्मं जानापि तं भवां गौतमो धर्मं जानापि । तेन हि भवां एव दानि गौतमो श्रावकसंघं परिहरतु ॥ इति स खलु मे भिक्षवो उद्रको रामपुत्रो परमया पूजया पूजयति परमया प्रशंसया प्रशंसे तथादर्शनं च समानम् आचार्यस्थाने स्थापये ॥ तस्य मे भिक्षव एतद् अभूषि ॥ न चायं तस्य रामस्य धर्मो निर्याति तत्करस्य सम्यग्दुःखक्षयाय । यन् नूनाहं उत्तरि पर्येष्टिम् आपद्येहं । स चाहं भिक्षवो तथादर्शनतो एवं व समानो येन गयानगरं तदवसारि । तदनुप्राप्तः तत्रैव विहरामि ॥
[_म्वु_2.121_] गयाशीर्षे पर्वते विहरन्तस्य तिस्रो उपमा प्रतिभायेन्सुः पूर्वे अश्रुता चैव अश्रुतपूर्वा च अविज्ञाता चैवाविज्ञातपूर्वा च । कतमा तिस्रो ॥ ये हि केचिद् भवन्तो श्रमणा वा ब्राह्मणा वा कामेहि अव्यपकृष्टकाया विहरन्ति अव्यपकृष्टचित्ता ये पि चेमे कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि सानं भवन्ति अप्रतिविनीता किंचापिमे भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकान् ते वेदनां वेदयन्ति ॥ अथ खलु अभव्या एव ते उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये ॥ सय्यथापि नाम इह पुरुषो आगच्छे ज्योति-अर्थिको ज्योतिगवेषी ज्योतिं पर्येषमाणो सो आर्द्रे काष्ठे सस्नेहि आर्द्राये उत्तरारणीये अन्तोदके अभिमन्थन्तो अभव्या तेजस्य अभिनिर्वर्तनाये ज्योतिस्य प्रदुर्कर्माय एवम् एव भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयन्ति ॥ अथ खलु अभव्या एव ते उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये ॥ अयं खलु मे भिक्षवः गयाशीर्षे पर्वते विहरन्तस्य प्रथमा उपमा प्रतिभाति पूर्वे अश्रुता चैव अश्रुतपूर्वा च अविज्ञाता चैव अविज्ञातपूर्वा च ॥
___तस्य मे भिक्षवः एतद् अभूषि ॥ ये हि केचिद् भवन्तो श्रमणा वा ब्राह्मणा वा कामेहि व्यपकृष्टकाया विहरन्ति अव्यपकृष्टचित्ता एवम् इमे कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि सानं भवन्ति अप्रतिविनीता किं चापि ते
[_म्वु_2.122_] भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदना वेदयन्ति ॥ अथ खलु अभव्या एवन् ते उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये । सय्यथापि नाम इह पुरुषो आगच्छेया ज्योत्यर्थो ज्योतिगवेषी ज्योति पर्येषमाणो सो आर्द्रे काष्ठे सस्नेहे आर्द्राये उत्तरारणीये स्थले पि अभिमन्थन्तो अभव्या तेजस्य अभिनिर्वर्तनाये ज्योतिप्रादुःकर्माये एवम् एव ये हि केचि श्रमणा वा ब्राह्मणा वा कामेहि व्यपकृष्टकाया विहरन्ति अव्यपकृष्टचित्ता ये पि चिमे कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि सानं भवन्ति अप्रतिविनीता किंचापि ते भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयन्ति ॥ अथ खलु अभव्या एवं उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये ॥ अयं खलु भिक्षवो गयाशीर्षे पर्वते विहरन्तस्य द्वितीया उपमा प्रतिभाये पूर्वे अश्रुता चैव अश्रुतपूर्वा च अविज्ञाता च अविज्ञातपूर्वा च ॥
___तस्य मे भिक्षवः एतद् अभुषि ॥ ये केचिद् भवन्तो श्रमणा वा ब्राह्मणा वा कामेहि व्यपकृष्टकाया विहरन्ति व्यपकृष्टचित्ता ये पि चिमे कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि सानं भवन्ति प्रतिविनीता किं चापि ते भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयन्ति ॥ अथ खलु भव्या एवन् ते उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये ॥ सय्यथापि नाम इह पुरुषो आगच्छे ज्योत्यर्थिको ज्योतिगवेषी
[_म्वु_2.123_] ज्योतिपर्येषमाणो सो शुष्ककाष्ठे विगतस्नेहे शुष्काये उत्तरारणीये स्थले अभिमन्थन्तो भव्या तेजस्य अभिनिर्वर्तनाये ज्योतिस्य प्रादुःकर्माये एवम् एव ये केचिद् भवन्तो श्रमणा वा ब्राह्मणा वा कामेषु व्यपकृष्टकाया विहरन्ति व्यपकृष्टचित्ता ये पि ते कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि सानं भवन्ति प्रतिविनीता किंचापि ते भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदना वेदयन्ति ॥ अथ खलु भव्या च ते उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये ॥ अयं खलु भिक्षवो गयाशीर्षे पर्वते विहरन्तस्य तृतीया उपमा प्रतिभाये पूर्वे अश्रुता चैव अश्रुतपूर्वा च ॥ इमा खलु भिक्षवः गयाशीर्षे पर्वते विहरन्तस्य तिस्रो उपमा प्रतिभायेन्सुः पूर्वे अश्रुता चैव अश्रुतपूर्वा च अविज्ञाता चैव अविज्ञातपूर्वा च ॥
___तस्य मे भिक्षवः एतद् अभूषि ॥ अहं खलु कामेहि व्यपकृष्टकायो विहरेयं व्यपकृष्ट्चित्तो ये पि चिमे कामवितर्का कामस्नेहा कामपरिदाघा कामाध्यवसाना ते पि मह्यं प्रतिविनीता किंचाप्य् अहं आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयामि । अथ खलु भव्या एवम् अहं उत्तरिमनुष्यधर्मस्य ज्ञानाये दर्शनाये संबोधाये ॥
___स खल्व् अहं भिक्षवः तथादर्शनसमानो येन उरुविल्वा सेनापतिग्रामस् तदवसारिं तदनुप्राप्तः ॥ तत्राद्राक्षीत्* वृक्षमूलानि प्रासादिकानि दर्शनीयानि प्रान्तानि विविक्तानि विगतव्यसनानि विगतजनपदानि मनोज्ञह्रदसय्यकानि प्रतिसंलयने आरूप्याणि ॥ समन्तेन च गोचरग्रामाणि नातिदूराणि नात्यासन्नानि आगमनगमनसंपन्नानि समं च भूमिभागं नदीं च नैरंजनां समां सेतकां सम्पन्नार्थां शुचिसम्पन्नतोयां स्यन्दमानां दृष्ट्वा च पुनः मे अतीव मनः प्रसादे ॥ अलं पुनः मे श्रद्धाय प्रव्रजितस्य
[_म्वु_2.124_] कुलपुत्रस्य प्रहाणाये यं नूनाहं इहैव प्रहाणं प्रहरेयं ॥ स खल्व् अहं भिक्षव इदम् एव कायं चेतसा एवं चेत अभिनिगृह्णे अभिनिपीडे ॥ तस्य मे भिक्षवः इदम् एव कायं चेतसा एवं चेत अभिनिगृह्णतो अभिनिपीडतो कच्छेहि स्वेदा मुक्ता भूम्यां निपतिता ऊष्मायेन्सु वाष्पायेन्सु मुखतो ललाटातो स्वेदा मुक्ता भूम्यां निपतिता उष्मायेन्सु वाष्पायेन्सुः ॥ सय्यथापि नाम भिक्षवो बलवां पुरुषो दुर्बलं पुरुषं ग्रीवायां गृहीत्वा अभिनिगृह्णे अभिनिपीडे एवम् एव भिक्षव इदम् एव कायं चेतसा एवं चेत अभिनिगृह्णतो अभिनिपीडयतो कच्छेहि स्वेदा भूम्यां निपतिता ऊष्मायेन्सुः मुखललाटातो स्वेदा मुक्ता भूम्यां निपतिता ऊष्मायेन्सुः वाष्पायेन्सुः ॥
___तस्य मे भिक्षव एतद् अभूषि ॥ यं नूनाहं आस्फानकं ध्यायेयं ॥ स खल्व् अहं भिक्षवो मुखतो नासिकाश्रोत्रेहि च आश्वासप्रश्वासा उपरुन्धि ॥ तस्य मे भिक्षवः मुखतो च नासिकाश्रोत्रेहि च आश्वासप्रश्वासा उपरुध्वा उभयतो कर्णश्रोत्रविवरान्तरेहि उच्चशब्दो महाशब्दो वीतिसंचरेन्सुः । सय्यथापि कर्मारगर्गरी धम्यमाना उच्चशब्दमहाशब्दा भवति एवम् एव भिक्षवः मुखतो च नासिकाश्रोत्रेहि च आश्वासप्रश्वासेहि उपरुद्धेहि उभयतो कर्णश्रोत्रविवरान्तरेहि उच्चशब्दमहाशब्दा वीतिसंचरेन्सु ॥ तस्य मे भिक्षवः एतद् अभूषि । यं नूनाहं भूयस्या मात्रया आस्फानकं ध्यायेयं ॥ स खल्व् अहं भिक्षवः मुखतो च नासिकाश्रोत्रेहि च उभयतो च कर्णश्रोत्रविवरान्तरेहि
[_म्वु_2.125_] आश्वासप्रश्वासानुपरुन्धे । तस्य मे भिक्षवः मुखतो च नासिकाश्रोत्रेहि च उभयतो च कर्णश्रोत्रविवरान्तरेहि आश्वासप्रश्वासा ओरुध्वा ऊर्ध्वं शीर्षकपालं वाता प्रहरेन्सुः समुत्तरेन्सुः । सय्यथापि नाम भिक्षवः गोघातको वा गोघातकान्तेवासी वा तीक्ष्णेन गोविकर्तनेन गावीये शीर्षकपालं दालेय संप्रदालेय च्छिन्देय परिकर्तये संपरिकर्तये एवम् एव मुखतो च नासिकाश्रोत्रेहि च उभयतो कर्णश्रोत्रविवरेहि आश्वासप्रश्वासा उपरुध्वा ऊर्ध्वं शीर्षकपालं वाता प्रहरेन्सु समूहेन्सुः ॥ तस्य मे भिक्षवः एतद् अभूषि ॥ सन्ति इहैव केचि शुद्धिं प्रज्ञपयन्ति ते कोलं पि आहारम् आहरन्ति कोलच्छल्लं पि आहारं आहरन्ति कोलोदकं पि पिबन्ति विविधाहि पि कोलविकृतीहि यापेन्ति । यं नूनाहं एकं कोलकम् अद्वितीयं आहारम् आहरेयं ॥ स खल्व् अहं भिक्षवः एकं कोलम् अद्वितीयम् आहारं आहरे ॥ तस्य मे अयं कायो अधिमात्रकृशताम् अनुप्राप्तो अभूषि अधिमात्रकृशताम् अनुप्राप्तो अभूषि ॥ सय्यथापि नाम कालपर्वाणि वा एवम् एव मे अंगानि अभून्सुः सय्यथापि नाम अजपदं वा उष्ट्रपदं वा एवम् एव मे पर्शुका अभून्सुः । सय्यथापि नाम उभयतो पार्श्वे विवृतायां वाहनागारशालायां गोपानसीये अन्तराणि विवटानि वीतिलोकेन्सुः वीतिकासेन्सु एवम् एव पार्शुलिकानि पार्शुलिकान्तराणि विबद्धानि वीतिलोकेन्सुः वीतिकासेन्सुः । सय्यथापि नाम वट्टनवेणी उन्नतावनता एवम् एव पृष्ठकण्ठकानि
[_म्वु_2.126_] अभूषि उन्नतावनतानि । सय्यथापि नाम ग्रीष्माणां पश्चिमे मासे उदुपाने उदकतारका दूरगता गम्भीरगता कृच्छ्रदर्शनाय प्रकाशेन्ति एवम् एव मे अक्षिषु अक्षितारका अभून्सुः दूरगता गम्भीरगता कृच्छ्रदर्शनाय प्रकाशेन्सुः । सय्यथापि नाम सारदिकन्तिक्तालाबु हरितच्छिन्नं आमिलातं भवति संमिलातं संपुटजातं एवम् एव शीर्षकपालं अभूषि आमिलातं संमिलातं संपुटजातं ॥ स खल्व् अहं भिक्षवः पुरिमं कायं परिगृह्णीष्यामीति पृष्ठिमकं अभिनिगृह्णे उच्छ्रेष्यन्ति तत्रैव अपकुब्जको प्रपतामि ॥ स खल्व् अहं भिक्षवः साधु च सुष्टु च अभिसंस्कारेण उच्छ्रेत्वा पांशुकृतानि गात्राणि पाणिना परिमार्जेहं ॥ तस्य मे भिक्षवः पांशुकृतानि गात्राणि पाणिना प्रमार्जतो पूतिमूलानि रोमाणि काये शीर्येन्सुः ॥ अपि हि जितं जनपदग्रामेहि स्त्रीयो पुरुषा चैवम् आहन्सुः ॥ कालको दानि श्रमणो गौतमो श्यामको दानि श्रमणो गौतमो मद्गुरच्छवि दानि श्रमणो गौतमो ॥ यापि चेषा शुभतनुवर्णनिभा सापि मे अन्तर्हिता एतिना एवं लूहप्रहाणेन ॥
___तस्य मे भिक्षवः एतद् अभूषि ॥ सन्ति एके भवन्तो श्रमणब्राह्मणाः तण्डुलाहारताये शुद्धिं प्रज्ञपेन्ति ते तण्डुलं पि आहारं आहरन्ति तण्डुलचूर्णं पि तण्डुलोदकं पिबन्ति विविधाहि पि तण्डुलविकृतीहि यापेन्ति । यं नूनाहं एकं तण्डुलम् अद्वितीयम् आहारम् आहरेयं ॥ स खल्व् अहं भिक्षवः एकं तण्डुलम् अद्वितीयं आहारं आहरन्तो अयं मे कायो अधिमात्रं कृशताम् अनुप्राप्तः अभूषि ॥ सय्यथापि नाम कालपर्वाणि वा अशीतकपर्वाणि एवंरूपाणी मे अंगप्रत्यंगानि अभून्सुः । सय्यथापि
[_म्वु_2.127_] नाम उभयतो पार्श्वे विवटायां वाहनागारशालायां गोपानसी-अन्तराणि विवटानि वीतिलोकेन्ति वीतिकाशेन्ति एवम् एव च पार्शुलिकानि पार्शुलिकान्तराणि विवटानि वीतिलोकेन्सुः वीतिकाशेन्सुः । सय्यथापि नाम अजपदं वा उष्ट्रपदं वा एवम् एव कक्षवक्षा अभून्सुः सर्वासाम् अनुत्तरं कार्कश्यं । सय्यथापि नाम वट्टनवेणी उन्नतावनता एवम् एव मे पृष्ठिकण्ठकास्थिकानि अभून्सुः । सय्यथापि नाम ग्रीष्माणां पश्चिमे मासे उदुपाने उदकतारका दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्ति एवम् एव अक्षिषु अक्षितारका अभून्सुः दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्सुः । सय्यथापि नाम तिक्तालाबु शारदिकं हरितच्छिन्नं आमिलातं भवति संमिलातं संपुटकजातं एवम् एव शीर्षकपालं अभूषि आमिलातं संमिलातं संपुटकजातं ॥ स खल्व् अहं भिक्षवः पुरिमं कायं निगृह्णीष्यामीति पृष्ठिकण्ठकम् एव परिगृह्णामि उच्छ्रेष्यन्ति तत्रैव अवकुब्जको प्रपतामि ॥ स खल्व् अहं भिक्षवः साधु च सष्टु च अभिसंस्कारेण उच्छिहित्वा पांशुकृतानि गात्राणि पाणिना परिमार्जेयं । तस्य मे भिक्षवः पांशुकृतानि गात्राणि परिमार्जतो पूतिमूलानि काये रोमाणि शीर्येन्सुः ॥ अपि हि जितं सामन्तेहि गोचरग्रामेहि स्त्रियो च पुरुषा च एवम् आहन्सुः । कालको दानि श्रमणो गौतमो श्यामको दानि श्रमणो गौतमो मद्गुरच्छवि दानि श्रमणो गौतमो । यापि मे सा शुभवर्णनिभा सापि अन्तर्हिता एतिना एवं लूहप्रहाणेन ॥
___तस्य मे भिक्षव एतद् अभूषि ॥ सन्ति हि इहैके भवन्तः श्रमणब्राह्मणा तिलाहारताये
[_म्वु_2.128_] शुद्धिं प्रज्ञपयन्ति । ते तिलं पि आहारं आहरन्ति तिलचूर्णं पि तिलोदकं पि पिबन्ति विविधाहि पि तिलविकृतीहि यापेन्ति । यं नूनाहं एकं तिलम् अद्वितीयम् आहारम् आहरेयं ॥ स खल्व् अहं भिक्षवः एकं तिलम् अद्वितीयम् आहारम् आहरेयं ॥ तस्य मे भिक्षवः एकं तिलम् अद्वितीयम् आहारम् आहरतो अयं कायो अधिमात्रं कृशताप्राप्तो अभूषि । सय्यथापि नाम कालपर्वाणि अशीतकपर्वाणि एवंरूपाणि मे अङ्गप्रत्यंगानि अभून्सुः । सय्यथापि नाम अजपदं वा उष्ट्रपदं वा एवम् एव मे हनुका अभूषि । सय्यथापि नाम उभयतो पार्श्वे विवटाये वा वाहनागारशालाया गोपानसी-अन्तराणि विवटानि वीतिलोकेन्ति वीतिकाशेन्ति एवम् एव मे पार्शुलिकानि पार्शुलिकान्तराणि विवटानि वीतिलोकेन्सुः । सय्यथापि नाम वट्टनवेणी उन्नतावनता एवम् एव मे पृष्ठिकण्ठकानि अभून्सुः । सय्यथापि नाम ग्रीष्माणां पश्चिमे मासे उदुपाने उदकतारा दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्ति एवम् एव मे अक्षिषु अक्षितारका अभून्सुः दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्सुः । सय्यथापि सारदिकं तिक्तालाबु हरितच्छिन्नं आमिलातं भवति संमिलातं संपुटजातं एवम् एव मे शीर्षकपालं अभूषि आमिलातं संमिलातं संपुटजातं ॥ स खल्व् अहं भिक्षवः पुरिमं कायं परिगृह्णीष्यामीति पृष्ठिकण्ठकम् एव परिगृह्णामि उच्छ्रेष्यन्ति तत्रैव अवकुब्जको प्रपतामि ॥ स खल्व् अहं भिक्षवः साधु च सुष्टु च अभिसंस्कारेण उच्छिहित्वा पांशुकृतानि गात्राणि पाणिना परिमार्जेयं । तस्य मे भिक्षवः पांशुकृतानि गात्राणि पाणिना परिमार्जतो पूतिमूलानि काये रोमाणि शीर्येन्सुः । अपि हि
[_म्वु_2.129_] जितं सामन्तेहि गोचरग्रामेहि स्त्रियो च पुरुषा च एवम् आहन्सुः । कालको दानि श्रमणो गौतमो श्यामको दानि श्रमणो गौतमो मद्गुरच्छवि दानि श्रमणो गौतमो । यापि मे सा शुभवर्णनिभा सापि अन्तर्हिता एतिना एवंलूहप्रहाणेन ॥
___तस्य मे भिक्षवः एतद् अभूषि ॥ सन्ति खलु इहैके भवन्तः श्रमणब्राह्मणाः सर्वशो अनाहारतायै शुद्धिं प्रज्ञपयन्ति । यं नूनाहं सर्वशो अनाहारयाये प्रतिपद्येयं ॥ तस्य मे भिक्षवः सर्वशो अनाहारतायै प्रतिपन्नस्य अयं काय अधिमात्रं कृशताप्राप्तः अभूषि । सय्यथापि नाम कालपर्वाणि वा अशीतपर्वाणि वा एवरूपाणि मे अंगप्रत्यंगाणि अभून्सुः । सय्यथापि नाम अजपदं वा उष्ट्रपदं वा एवम् एव मे हनुका अभून्सुः । सय्यथापि नाम उभयतो पार्श्वे विवटाये वाहनागारशालाये गोपानसीये अन्तराणि विवटानि वीतिलोकेन्ति वीतिकासेन्ति एवम् एव मे पार्शुलिकानि पार्शुलिकान्तराणि विवटानि वीतिलोकेन्सुः वीतिकासेन्सुः । सय्यथापि नाम वट्टनवेणी उन्नतावनता एवम् एव मे पृष्ठकण्ठका अभून्सुः । सय्यथापि नाम ग्रीष्माणां पश्चिमे सासे उदुपाने उदकतारका दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्ति एवम् एव मे अक्षिषु अक्षितारका अभून्सुः दूरगता गम्भीरगता कृच्छ्रदर्शनाये संप्रकाशेन्सुः । सय्यथापि नाम शारदिकं तिक्तालाबु हरितच्छिन्नं आमिलातं भवति संमिलातं संपुटजातं एवम् एव मे शीर्षकपालम् अभूषि आमिलातं संमिलातं संपुटकजातं ॥ स खल्व् अहं भिक्षवः पुरिमं कायं परिगृह्णीष्यामीति पृष्ठिकण्ठकम् एव परिगृह्णामि
[_म्वु_2.130_] उच्छ्रेष्यन्ति तत्रैव अवकुब्जको प्रपतामि ॥ स खल्व् अहं भिक्षवः साधु च सुष्टु च अभिसंस्कारेण उच्छिहित्वा पांशुकृतानि गात्राणि पाणिना परिमार्जेयं । तस्य मे भिक्षवः पांशुकृतानि गात्राणि परिमार्जतो पूतिमूलानि रोमाणि शीर्येन्सुः । अपि हि जितं सामन्तेहि गोचरग्रामेहि स्त्रीयो च पुरुषा च एवम् आहन्सुः । कालको दानि श्रमणो गौतमो श्यामको दानि श्रमणो गौतमो मद्गुरच्छविको दानि श्रमणो गौतमो । यापि मे सा शुभवर्णनिभा सापि मे अन्तर्हिता एतिना एवंलूहप्रहाणेन ॥
___तस्य मे भिक्षवः एतद् अभूषि ॥ ये केचिद् भवन्तः श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदना वेदयन्ति एत्तावत् पारमिते इमं पि न केनापि संभुणन्ति ॥ अतीतं भिक्षवः अध्वानं एतरहिं पि भिक्षवः प्रत्युत्पन्ने ये केचिद् भवन्तो श्रमणा वा ब्राह्मणा वा आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदना वेदयन्ति एत्तावत् पारमिते इमं पि न केनापि संभुणन्ति ॥ न खो पुनर् अहं अभिजानामि इमाये दुष्करचारिकाये कंचिद् उत्तरिमनुष्यधर्मं अलमार्यं ज्नानदर्शनं विशेषाधिगमं साक्षात्कर्तुं नायं मार्गं बोधाय ॥ अभिजानामि खलु पुनर् अहं पूर्वे प्रव्रज्यायै अप्रव्रजितो पितुः शाक्यस्य उद्यानभूमीये शीतलायां जम्बुच्छायायां पर्यंकेन निषण्णो विविक्तं कामैः विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरामि ॥ स्यात् खलु पुनः सो मार्गो बोधाय ॥ तस्य मे भिक्षवो वसतो तदनुसारि विज्ञानम् उपासि । स एव मार्गो बोधाये । न खलु पुन सो मार्गो लभ्यो कृशेण वा दुर्बलेन वाक्रान्तकायेन वा सर्वशो वा अनाहारताये प्रतिपन्नेन । यं नूनाहं
[_म्वु_2.131_] औदरिकम् आहारम् आहरेयं . . . . . . . . . . . . . मम पर्तिचारे (?) तेन लूहप्रहाणेन . . . . . . . . . . सचेतनो यापयिष्यसि । वयन्ते रोमकूपविवरान्तरेषु दिव्याम् ओजाम् अध्योहरिष्यामः ॥ तस्य मे भिक्षव एतद् अभूषि ॥ अहं खलु सर्वशो अनाहारं प्रतिजानामि सामन्तकेहि पि मे गोचरग्रामेहि स्त्रियो च पुरुषा च एवं संजानन्ति अनाहारो श्रमणो गौतमो इमा च देवता लूहाधिमुक्ता लूहाभिप्रसन्ना रोमकूपविवरेहि दिव्याम् ओजाम् अध्योकिरेन्सुः सो मम स्यात् संप्रजानमृषवादो ॥ स खल्व् अहं भिक्षवः संप्रजानमृषावादभयभीतो संप्रजानमृषावादं परिवर्जये जुगुप्समानो अलं मेति तां देवतां प्रतिक्षिपित्वा अनुसुखम् औदरिकम् आहारम् आहरेयं ॥ स खल्व् अहं भिक्षवो मुद्गयूषविकृतं भुंजेहं कुलच्छयूषं पि हरेणुकायूषं पि ॥
___स खल्व् अहं भिक्षवः अनुपूर्वेण कायबलस्थामं जानयित्वा सुजाताये ग्रामिकाये मधुपायसं गृहीत्वा नागनन्दीकालसमये येन नदी नैरंजना तेनुपसंक्रमित्वा नद्यां नैरंजनायां गात्राणि शीतलीकृत्वा येन स्वस्तिको यावसिकः तेनोपसंक्रमित्वा स्वस्तिकं यावसिकं तृणमुष्टिं याचित्वा येन बोधियष्टि तेनुपसंक्रमित्वा बोधियष्टिये पुरतो अन्यतराग्रतृणसंस्तरं प्रज्ञपयित्वा बोधियष्टिं त्रिष्कृत्यो प्रदक्षिणीकृत्वा निषीदि पर्यंकम् आभुंजित्वा ऋजु प्राचीनाभिमुखो पुरिमं कायं प्रणिधाय प्रतिमुखां स्मृतिम् उपस्थापयित्वा स खल्व् अहं भिक्षवः विविक्तम् एव कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमध्यानम् उपसंपद्य विहरामि ॥ सवितर्कविचाराणां व्युपसमादध्यात्मसंप्रसादाच् चेतसो एकोतिभावा अवितर्कं अविचारं
[_म्वु_2.132_] समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरामि ॥ स प्रीतेर् विरागाद् उपेक्षकश् च विहरामि स्मृतश् च संप्रजानं सुखं च कायेन प्रतिसंवेदयामि यत्र आर्या आचिक्षन्ति उपेक्षकः स्मृतिमां सुखविहारी तृतीयं ध्यानम् उपसंपद्य विहरामि ॥ स सुखस्य च प्रहाणां दुःखस्य च प्रहाणात् पूर्वे च सौमनस्यदौर्मनस्ययोर् अस्तंगमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरामि ॥ स खल्व् अहं भिक्षवः तथा समाहितेन चित्तेन . . . . . . . अभिनिर्नामयामि । स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्वां पश्यामि च्यवन्तां उपपद्यन्तां सुवर्णां दुर्वर्णां सुगतां दुर्गतां हीनां प्रणीतां यथाकर्मोपगां ॥ सत्वां प्रजानामि इमे भवन्तः सत्वाः कायदुश्चरितेन समन्वागता आर्याणाम् अपवादकाः मिथ्यादृष्टिकाः ते मिथ्यादृष्टिकर्मसमादानहेतोः तद्धेतोः तत्प्रत्ययात् कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषूपपन्ना ॥ इमे पुनर् भवन्तः सत्वा कायसुचरितेन समन्वागताः मनःसुचरितेन समन्वागता आर्याणाम् अनपवादकाः सम्यग्दृष्टिका ते सम्यग्दृष्टिकर्मसमादानहेतोः तद्धेतोः तत्प्रत्ययात् कायस्य भेदात् परं मरणात् सुगतिं स्वर्गं कायं देवेषूपपन्नाः ॥ स खल्व् अहं भिक्षवः तथा समाहितेन चित्तेन परिशुद्धेन पर्यवदातेन अनंगणेन विगतक्लेशेन मृदुना कर्मण्येन स्थितेनानिंज्यप्राप्तेन रात्र्या यामे पूर्वनिवासानुस्मृतिज्ञानिदर्शनप्रतिलाभाये चित्तम् अभिनिर्हरामि अभिनिर्नामयामि अनेकविधं पूर्वनिवासं समनुस्मरामि । सय्यथीदं एकां पि जातिं दुवे पि जाती त्रयो पि जाती चत्वारो पि जातीं पंचापि जातीं दशापि जातीं विंशति जाती त्रिंशति जाती
[_म्वु_2.133_] चत्वारिंशद् वा जातीः पंचाशं वा जातीः जातीशतं वा जातीसहस्रं वा अनेका पि संवर्तकल्पा वा अनेका पि संवर्ता अनेका पि विवर्ता अनेका पि संवर्तविवर्तकल्पा अमुत्राहम् आसी एवंनामा एवंगोत्रो एवंजात्यो एवमाहारो एवमायुःपर्यन्तो एवंसुखदुःखप्रतिसंवेदी । सो ततो च्युतो अमुत्र उपपद्ये ततो च्युतः इच्छत्वम् आगच्छसि इति साकारं सोद्देशं अनेकविधं पूर्वेनिवासम् अनुस्मरामि ॥ स खल्व् अहं भिक्षवः तथ समाहितेन चित्तेन परिशुद्धेन पर्यवदातेन अनंगणेन विगतोपक्लेशेन मृदुना कर्मण्येन स्थितेनानिंज्यप्राप्तेन रात्र्याः पश्चिमे यामे अरुणोद्घाटकालसमये नन्दीमुखायां रजन्यां यत् किंचित् पुरुषनागेन पुरुषसिंहेन पुरुषर्षभेण पुरुषधौरेण पुरुषजानेयेन पुरुषपदुमेन पुरुषपुण्डरीकेन सत्पुरुषेण महापुरुषेण अनुत्तरेण पुरुषदम्यसारथिना गतिमेन स्मृतिमेन मतिमेन धृतिमेन द्युतिमेन सर्वसो सर्वत्रताये ज्ञातव्यं प्राप्तव्यं अभिसंबोद्धव्यं सर्वं तं एकचित्तक्षणसमायुक्तया प्रज्ञया अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो ॥ इदम् अवोचद् भगवान् आत्तमना ते भिक्षवो भगवतो भाषितम् अभ्यनन्देन्सुः ॥
__अथ शुद्धोदनः स्वप्नं पश्यति ॥
पश्यामि पुत्र सुपिने तरनावगाढं
अभ्युत्थितं गजवरं मणिजालच्छन्नं ॥
मध्ये पुरस्य अध्वनावस्थितो च रात्रौ
निर्धावते पुरवरा अभिकम्पमानः ॥
तं दृष्ट्वा मह्य सुपिने विपुलं च हास्यं
अभ्युत्थितं रुदितम् एव च अप्रमेयं ॥
कम्पे च मे संपरितप्तं शरीरम् अन्त-
[_म्वु_2.134_] र्दाहं समुद्धनति किं तु भविष्यते द्य ॥
अथ लोकपाल अवचू मनुजप्रधानं
मा भाय भूमिपति संजनयाहि हर्षं ॥
हन्त शृणोहि फलं यं सुपिनस्य तत्वं
समुत्थितं बहुजनस्य विबोधनार्थं ॥
एषो महागुणधरो विजहित्व राज्यं
दुतियास् तथैव चतुरा स्वजनं च स्फीतं ॥
निःसंशयं वरबलं अनपेक्षमाणो
निर्यास्यते पुरवरा विदितं स भोतु ॥
एतस्मिं निर्गते अनेकविधं ति दुःखं
जायिष्यते सुपिनि यं हसितं ति तत्वं ॥
यं रोदसि सुपिनि दानि सुखं अनन्तं
श्रुत्वा भविष्यति जितं जितशत्रुसंघं ॥
मातुःस्वसापि सुपिनं पश्यति ॥
मातुःस्वसा अवच कांचनराशिवर्ण
पश्यामि पुत्र सुपिने ऋषभं सुजातं ॥
श्वेतं सुचारुककुभं अतिरिक्तशृंगं
शृण्गारसंस्थितगतिं प्रतिपूर्णदेहं ॥
सो गर्जति सुमधुरं कपिलाह्वयातो
निर्धावते हृदयदृष्टिपथं हरन्तः ॥
न च कश्चि तं प्रसहते अभिगर्जमानं
प्रतिगर्जितुं कुमुदराशिनिभं सुजातं ॥
[_म्वु_2.135_] ते देवराज अवचू करुणं रुदन्तं
मा रोद शाक्यकुलनन्दनजातराग ॥
वक्ष्यामि ते अवितथावचनं विजालं
आनन्दजानि उपजानय त्वं सुखानि ॥
अत्यन्तशुद्धचरणं कुशलोपपेतं
एषो नरर्षभ गतीमतिनां विधिज्ञः ॥
हित्वा जनं पुरुषसिंहवरो पुरो च
निर्गम्य ते अभिलषे पुरुषर्षभत्वं ॥
सो पि अमृतं अचलम् अच्युतम् अप्रकम्प्यं
निर्वाणम् अप्रतिसमं प्रतिशुद्धचक्षुः ॥
निर्दिश्य तं पुरुषसिंहरुतं महर्षिः
यं श्रुत्व तीर्थिकगणा दिशतां व्रजन्ति ॥
यशोधरापि सुपिनं पश्यति ॥
अथ राहुलस्य इदम् अब्रवीत् पि
मैत्रोत्तरेण मदनेन निबद्धचित्ता ॥
देव शृणोहि यथ अद्य मयापि दृष्टं
सुपिनं मनोरमं फलं च मे तद् भवेयात्* ॥
शुद्धोदनस्य किल राजकुलं नरेन्द्र
मेघो समन्तं क्षणेन समाददन्तो ॥
लोकत्रयं प्रबलतोयधरो सुघोषो
विद्युत्प्रदीप विप्रद्योतयन्तो बहूनि ॥
[_म्वु_2.136_] सो शीतलं विमलम् अप्रतिमं प्रसन्नं
वारि प्रवृष्य मधुरं अभिगर्जमानो ॥
वर्षेति सागरधरो शयने निदाघं
एषो पि अन्तःसुखितो स सहांपतीको ॥
ब्रह्मा अथ उपगमित्व इदं अवोच
तां राहुलस्य जननीं शृणु मा विषीद ॥
इष्टं फलं तव अयं सुपिनो महार्थो
संपूर्यते चपलम् एव जनेहि प्रीतिं ॥
शुद्धोदनस्य अयम् आत्मजो चारुनेत्रो
लोकत्रयं जलधरो इव वर्षमाणो ॥
प्रल्हादयिष्यति महापरितापतप्तान्*
धर्मं ध्रुवं करुणम् अप्रतिमं जनेत्वा ॥
बोधिसत्वो पि पंच महासुपिनां पश्यति । परमसंबोधिप्राप्तो श्रावस्थां भिक्षूणां व्याकरोति ॥ तथागतो भिक्षवो पूर्वे संबोधिम् अनभिसंबुद्धो पंच महासुपिनानि अद्राक्षीत्* ॥ तथागतस्य कतमानि पंच ॥
___तथागतस्य भिक्षवः पूर्वे सम्बोधिम् अनभिसंबुद्धस्य इयं महापृथिवी उच्चशयनमहाशयनम् अभूषि । सुमेरु पर्वतराजा बिम्बोपधानम् अभूषि । पुरस्तिमे महासमुद्रे वामा बाहा ओहिता अभूषि पश्चिमे च महासमुद्रे दक्षिणा बाहा ओहिता अभूषि । दक्षिणे पि महासमुद्रे उभौ पादतलानि ओहितानि अभून्सुः । तथागतो भिक्षवः पूर्वे संबोधिम् अनभिसंबुद्धो इमं प्रथमं महासुपिनम् अद्राक्षीत्* ॥
[_म्वु_2.137_] तथागतस्य भिक्षवः पूर्वे संबोधिम् अनभिसंबुद्धस्य क्षीरिका नाम तृणजाति नाभिमण्डलाद् अभ्युग्दम्य यावन् नभम् आसद्य अस्थासि ॥ तथागतो भिक्षवः पूर्वे संबोधिम् अनभिसंबुद्धो इमं द्वितीयं महासुपिनम् अद्राक्षीत्* ॥
___तथागतस्य भिक्षवो पूर्वे संबोधिम् अनभिसंबुद्धस्य लोहितका प्राणका कालशीर्षका पादतलेहि यावज् जानुमण्डलानि च्छादयित्वा अस्थान्सुः । तथागतो भिक्षवः पूर्वे सम्बोधिम् अनभिसंबुद्धो इमं तृतीयं महास्वप्नम् अद्राक्षीत्* ॥
___तथागतस्य भिक्षवः पूर्वे संबोधिम् अनभिसंबुद्धस्य चत्वारि नानावर्णां अनेकवर्णा च चतुर्हि दिशाहि वैहायसं गत्वा तथागतस्य पादतलानि उपजिघ्रित्वा सर्वश्वेता अपविध्यिन्सुः । तथागतो भिक्षवः पूर्वे संबोधिम् अनभिसंबुद्धो इमं चतुर्थं महासुपिनम् अद्रक्षीत्* ॥
___तथागतो भिक्षवः पूर्वे संबोधिम् अनभिसंबुद्धो महतो मीढपर्वतस्य उपरिम् अनुपलिप्यमानो चंक्रमं चंक्रमे । तथागतो भिक्षवः पूर्वे संबिधिम् अनभिसंबुद्धो इमं पंचमं महासुपिनम् अद्राक्षीत्* ॥
___तथागतस्य भिक्षवो पूर्वे संबोधिम् अनभिसंबुद्धस्य इयं महापृथिवी उच्चशयनमहाशयनम् अभूषि । सुमेरु पर्वतराजा बिम्बोपधानम् अभूषि । पुरस्तिमे महासमुद्रे वामा बाहा ओहिता अभूषि पश्चिमे महासमुद्रे दक्षिणा बाहा ओहिता अभूषि दक्षिणे महासमुद्रे उभौ पादतलानि ओहितानि अभूषि । यं पि भिक्षवः तथागतो अनुत्तरां सम्यक्संबोधिम् अनभिसंबुद्धो अयं तस्य महास्वप्नस्य विपाको ॥ यं भिक्षवः तथागतस्य पूर्वे संबोधिम नभिसंबुद्धस्य क्षीरिका नाम तृणजाति नाभिमण्डलाद् अभ्युद्गम्य यावन् नभम् आसद्य अस्थासि । यं भिक्षवः तथागतेन इमं च लोकम् अभिज्ञाय
[_म्वु_2.138_] परं च लोकम् अभिज्ञाय सदेवकं लोकं समारकं सब्रह्मकं सश्रमणब्राह्मणीं प्रजां सदेवमनुष्यां वाराणस्यां ऋषिपतने मृगदावे अनुत्तरं धर्मचक्रं प्रवर्तितं त्रिष्परिवर्तं द्वादशारम् अप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा केनचिद् वा पुनः लोके सह धर्मेण यम् इदं चत्वार्य् आर्यसत्यानि । सय्यथीदं दूखं आर्यसत्यं दुःखसमुदयम् आर्यसत्यं दुःखनिरोध आर्यसत्यं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यं । इमां च पुनर् भिक्षवः तथागतस्य एवंरूपां धर्मदेशनां श्रुत्वा भूम्या देवा घोषम् उदीरयेन्सुः एष मारिष भगवता वाराणस्यां ऋषिपतने मृगदावे अनुत्तरं धर्मचक्रं प्रवर्तितं त्रिष्परिवर्ति द्वादशारं अप्रवर्तितं केनचि श्रमणेन वा ब्राह्मणेन वा देवेन वा ब्रह्मेण वा मारेण वा केनचिद् वा पुनर् लोके सह धर्मेण इदं दुःखम् इति अयं दुःखसमुदयो अयं दुःखनिरोधो अयं दुःखनिरोधगामिनी प्रतिपद् इति तं भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च । भूम्यानां देवानां घोषं श्रुत्वा अन्तरीक्षेचरा देवा चातुर्महाराजिका त्रायस्त्रिंशा यामा तुषिता निर्माणरतिपरनिर्मितवशवर्तिन इतो तत्क्षणं तत्मुहूर्तं यावब्रह्मलोकं घोषम् अभ्युद्गम्य एष मारिष भगवता वाराणस्यां ऋषिपतने मृगदावे त्रिपरिवर्तं द्वादशारं अनुत्तरं धर्मचक्रं प्रवर्तितं अप्रवर्तितं केनचित्* श्रमणेन वा ब्राह्मणेण वा देवेन वा मारेण वा केनचिद् वा पुनर् लोके सह धर्मेण इदं दुःखं इति अयं दुःखसमुदयो अयं दुःखनिरोधः अयं दुःखनिरोधगामिनी प्रतिपद् इति । अयं तस्य महासुपिनस्य विपाको ॥ यं भिक्षवः तथागतस्य पूर्वे संबोधिम् अनभिसंबुद्धस्य लोहितकप्राणका कालशीर्षा पादतलेहि यावज् जानुमण्डलानि च्छादयित्वा
[_म्वु_2.139_] अस्थान्सुः बहु एतर्हि भिक्षवः जनता या तथागते अधिकारकर्माणि कृत्वा कायस्य भेदात् परं मरणात् सुगती स्वर्गकाये देवेषूपपद्यन्ति । अयं तस्य स्वप्नस्य विपाको ॥ यं भिक्षवः तथागतस्य पूर्वे संबोधिम् अनभिसंबुद्धस्य चत्वारि शकुन्ता नानावर्णा चतुर्हि दिशाहि वैहायसं समागत्वा तथागतस्य पादतलानि उपजिघ्रित्वा सर्वश्वेताः अपविझिन्सुश् चत्वारिमे भिक्षवः वर्णाः कतमे चत्वारः क्षत्रिया ब्राह्मणा वैश्या शूद्राः ते तथागते ब्रह्मचर्यं चरित्वा अकोप्या चेतोविमुक्तं प्रज्ञाविमुक्तिं साक्षात्कुर्वन्ति । अयं तस्य महास्वप्नस्य विपाको ॥ यं भिक्षवः तथागतो पूर्वे संबोधिम् अनभिसंबुद्धो महतो मीढपर्वतस्य उपरिम् उपलिप्यमानो चंक्रमं चंक्रमे पुरस्तिमायां पि च भिक्षवः दिशायां तथागतो विहरति तत्रापि च सत्कृतो गुरुकृतो मानितो पूजितो अपचायितो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां अनध्यवसितो अनधिमूर्छितो अनुपलिप्तचित्तो । दक्षिणायां पि च भिक्षवो दिशायां तथागतो विहरति तत्रापि च सत्कृतो गुरुकृतो मानितो पूजितो अपचायितो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां अनध्यवसितो अनधिमूर्छितः अनुपलिप्तचित्तः । पश्चिमायां पि च भिक्षवो दिशायां तथागतो विहरति तत्रापि च सत्कृतो गुरुकृतो मानितो पूजितो अपचितो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां अनध्यवसितो अनधिमूर्छितः अनुपलिप्तचित्तः । उत्तरस्यां पि भिक्षवः दिशायां तथागतो विहरति तत्रापि च सत्कृतो गुरुकृतो मानितो पूजितो अपचितो लाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां अनध्यवसितो अनधिमूर्छितः अनुपलिप्तचित्तो । अयं तस्य महास्वप्नस्य विपाको यं तथागतो भिक्षवः पूर्वे संबोधिम् अनभिसंबुद्धो इमां पंच महास्वप्नां अद्राक्षीत्* ॥ इदम् अवोचद् भगवा नात्तमनास् ते च भगवतो भाषितम् अभ्यनन्दे ॥
[_म्वु_2.140_]_____इति श्रीमहावस्तु-अवदाने शुद्धोदनस्य पंच महास्वप्ना समाप्ता ॥
बोधिसत्वस्य दानि एतद् अभूषि । दुष्करम् इदं अगारमध्ये वसन्तेन एकान्तसंलिखितं एकान्तमनवद्यं एकान्तपरिशुद्धं पर्यवदातं ब्रह्मचर्यं चरितुं । यं नूनाहं अगारस्यानगारियं प्रव्रजेयं ॥ बोधिसत्वो राजानम् आमन्त्रयति प्रव्रजिष्यामि ॥ राजा आह ॥
मा दानि मा कमललोचन चारुरूप
शोकं लभे सुविपुलं त्वय विप्रहीणो ॥
माता चहं असुलभं मरणं निगच्छेत्*
ततः कीदृक्षं सुखम् एतं तथा विशिष्टं ॥
यस्य कृतेन मम च स्वजनं स्वराष्ट्रं
स्रजिष्यसि बहुदुःखो हि स विप्रयोगो ॥
पर्याकुला मि दिशता प्रतिभान्ति सर्वे
शितोष्णदंशमशकाक्षतभूमिभागा ॥
त्रसो वनेषु मृगवारणघातिकेषु
भेरण्डभैरवरुतेषु महद्भयेषु ॥
नित्यान्तरेण मनसा कृतमोक्षबुद्धिः
मार्गं व ताव मम पुत्र चर प्रसीद
जीवामि यावद् अहं याव च सा इहैव ॥
किंकारणं तव विनिर्गमनं निशाम्य
तत्वं विनाशम् उपयास्यति मे शरीरं ॥
[_म्वु_2.141_] राज्ञा दानि पंचानां राजान शतानां प्रेषितं । आगच्छथ कुमारो अभिनिष्क्रमितुकामो ॥ ते दानि आगता कुमारं बहुप्रकारं याचन्ति । मा अभिनिष्क्रमाहि त्ति ॥ बोधिसत्वो दानि राजानं च ते च राजानो एतद् अवोचत्* ॥ सचेत्* मम महाराजा चतुर्हि पदेहि प्रतिभुको भवति प्रतिजानामि ते राज न निष्क्रमिष्यं पुरवरातो ॥ राजा आह ॥ भवामि ते प्रतिभुको पदेषु चतुरुषु शीघ्रं पुत्र उदीरेहि पुरा प्राणा जहन्ति ॥ कुमारो आह ॥
यौवने वर्तमानस्मिं जरा मे मा खु आगमे ॥
आरोग्ये वर्तमानस्मिं व्याधि मे मा खु आगमे ॥
जीविते वर्तमानस्मिं मरणं मा खु आगमे ॥
संपत्तीषु रमियासु विपत्ति मा खु आगमे ॥
तदा हिक्कारहक्कारा देवसंघा प्रमुंचिषु ॥
साधु साधु महासत्व साधु अप्रतिपुद्गल ॥
सुभाषितान् ते एतस्मिं सब्रह्मा परिषा इयं ॥
हृष्टा आत्तमना सर्वे प्रीतिसुखसमर्पिता ॥
ततो शुद्धोदनो राजा दुःखशल्यसमर्पितः ॥
अश्रुपूर्णेहि नेत्रेहि बोधिसत्वम् इदम् अब्रवीत्* ॥
स्वयं हि पुत्र जानाहि कस्य एतं न विद्यति ॥
जरा व्याधि मरणं च विपत्तीर् वा न मे गतिः ॥
कुमारो आह ॥
हन्त त्रिषु महाराज पदेषु प्रतिभूर् भव ॥
ततो मया विनाभावो न ते जातु भविष्यति ॥
[_म्वु_2.142_] राजा आह ॥
ददाम् एषु पुत्र पदेषु प्रतिभुताम् अहं तव ॥
ततो निवर्तये चित्तं मूले उदाहरतो भव ॥
कुमारो आह ॥
दिव्या मे भोन्तु कामगुणा ते च भोन्तु सर्वदा सुखा ॥
ते च नित्या भोन्तु अत्र मे प्रतिभूर् भव ॥
अप्सरा मधुरं गगने परिगायेन्सुः वरबुद्धिवरं प्रवरं ॥
मधुरं सलिलं सुखिनं सहितं वरनूपुरमण्डन-आभरणा ॥
न खु रज्यति सत्पुरुषस्य मनो मदनेषु यादृशम् उदाहरति ॥
विजहिष्यति काञ्चनबिम्बनिभां वसुधाम् अनेकलब्धार्थचितां ॥
एवं च दुःखितो राजा कुमारम् एतद् अब्रवीत्* ॥
प्रसीद पुत्र कस्य सुखा कामगुणा तथा शुभाः ॥
कुमारो आह ॥
हन्त अन्यानि वक्ष्यासि द्वे पदानि महीपते ॥
यद् इच्छसि एवं समानं तेषु मे प्रतिभूर् भव ॥
राजा आह ॥
दृढम् अभ्युपगच्छामि प्रतिभूष्यं अहं तव ॥
द्वेहि पदेहि आख्याहि मा च विप्रजहाहि मे ॥
अहंकारं ममकारं मा संजाये कदाचि नो ॥
महन्तो ल्पो वा महीपाल अत्र मे प्रतिभूर् भव ॥
[_म्वु_2.143_] ततो महेश्वरा वाचा व्याहरेन्सु नभे स्थिताः ॥
त्वं खु भेष्यसि संबुद्धो सर्वबन्धनसूदनो ॥
किंकारणं न तेषां हि वचनानां सदेवके ॥
लोके अस्ति उदाहर्ता यानि भाषसि चक्षुमां ॥
ततो शुद्धोदनो राजा दुःखशल्यसमर्पितः ॥
अश्रुपूर्णेहि नेत्रेहि बोधिसत्वम् इदम् अब्रवीत्* ॥
नामाप्य् अहं न जानामि एतेषां पुरुषोत्तम ॥
पदानि यानि कीर्तेसि नात्र प्रतिभुको अहं ॥
कुमारो आह ॥
अलं चिरेण एकस्मिं पदे प्रतिभुको भव ॥
ततो इहैव निवसिष्यं रम्ये कपिलसाह्वये ॥
भवे दानि अहं पुत्र एकस्मिं पदे तव भवे ॥
प्रतिभुको शीघ्रं ब्रूहि उपगतं मया सह ॥
कुमारो आह ॥
इहैव वसतो मह्यं प्रासादवरलोकके ॥
सर्वनीवारणापगतं चित्तं मे वर्ततां वशात्* ॥
ततो देवा च यक्षा च गन्धर्वा च सदानवा ॥
नागराक्षससंघाश् च अहो धर्म उदीरयन्* ॥
अहो परमवादिस्य परमार्थाभिकांक्षिणो ॥
व्यक्तं परमवाक्यानि प्रभवन्ति मुहुर्मुहुः ॥
ततो दीनमनो राजा कुमारम् एतद् अब्रवीत्* ॥
नात्रावासो मह्यं पुत्र अश्रुवेगं प्रमुञ्चति ॥
ततो देवमनुष्याणां प्रामोद्यजननीं गिरां ॥
[_म्वु_2.144_] बोधिसत्वो उदीरेन्तो पितरं समध्यभाषति ॥
अहम् अजरम् आरोग्यम् अमृतं पार्थिवोत्तम ॥
विपत्तिभयनिर्मुक्तं अभिगंस्ये असंस्कृतं ॥
राज यन् नित्यं यत् सुखं यच् छुभं तत्* मया स्वयं ॥
प्राप्तव्यम् इति न सन्देहः परित्यज्य धृतिं लभ ॥
अथ खलु राजा शुद्धोदनो यं कुमारो जम्बुच्छायायां ध्यायति तं दृष्ट्वा चिन्तासागरं प्रविष्टो ॥ यदि कुमारस्य शान्तेहि ध्यानेहि चित्तम् अभिरमति मा हैव तावद् असितस्य ऋषिस्य सत्यं व्याकरणं भविष्यति ॥ यन् नूनाहं कुमारस्य विस्तीर्णम् अन्तःपुरम् उपस्थापयेयं विविधानि उद्यानानि कुर्यात्* यत्र कुमारो क्रीडेय्या रमेय्या प्रविचारेय्या न च अभिनिष्क्रमणे चित्तं करेय्या ॥
___अथ खलु शुद्धोदनेन कुमारस्य विस्तीर्णो अन्तःपुरो उपस्थापितो बहूनि स्त्रीसहस्राणि विविधानि च नानाप्रकाराणि अशोकमण्डपकानि कारापितानि अवसक्तपट्टदामकलापानि मुक्तपुष्पावकीर्णानि यत्र कुमारो क्रीडिष्यति प्रविचारयिष्यति न च नं अभिनिष्क्रमणे चित्तं करिष्यति ॥ राजा दानि शुद्धोदनो अन्तःपुरे सन्दिशति ॥ सुष्टु कुमारम् अभिरमापेथ नाट्यगीतवाद्येन यथा कुमारो अभिनिष्क्रमणे चित्तं न करेय्या ॥ कुमारो पि दानि कामेषु आदीनवदर्शी अनर्थको सर्वकामभोगेहि । एदृशेषु च उद्यानेषु देवभवनसदृशेषु अन्तःपुरेषु अप्सरसदृशेषु रतिं न विन्दति । अभिनिष्क्रमणे चित्तं अभिरमति न च बोधिसत्वो केनचिच् चोदयितव्यो दुःखो यं संसार इति । सर्वधर्मेषु वशवर्ती स्वयम् एव सामतो विरक्तो भवति उद्विग्नमानसो स्वयं चित्तम् उद्वेजयति । अहो संसारो प्रकृतिदुःखम् अपरिमितम् उपद्रवशतानि दर्शयति ॥
[_म्वु_2.145_]___अथ खलु कुमारो उपरिप्रासादसिखरगतो उपविष्टो तम् एव ध्यानं मनसा करोन्तो आसति यं से जम्बुच्छायायं लब्धं । न गीतशब्दा न नृत्यरवशब्दा न प्रमदागणां रूपवन्तां स्वादीयति । तम् एव चिन्तयन्तो आसति ॥ अथ खलु राजा शुद्धोदनो अन्यतरं पुरुषं पृच्छति । किम् इदं भो पुरुष कुमारस्य अन्तर्पुरे न गीतरवशब्दो नृत्यभेरीमृदंगवीणावंशपणवरवशब्दः श्रूयते कुमारस्य किं चित्तस्य दौर्मनस्यं ॥ अथ खलु या लुम्बिनीवने देवता निवासिका सान्तरीक्षे स्थित्वा राजानं शुद्धोदनम् अब्रवीत्* ॥ महाराज कुमारं वितर्कयाहि । विरक्तो तव पुत्रो सर्वकामगुणरतीहि नचिरेण छिन्दिष्यति सर्वतृष्णाबन्धनां निरवशेषां यास्यति तपोवनं सुपरीत्तं भावयिष्यति । इदानिं खलु नृपति सिद्धार्थो राजवंशो प्रासादवरगतो प्रमदागणपरिवृतो अनित्यं दुःखं नैरात्म्यं परिभाषति शरीरे ॥ अथ खलु राजा शुद्धोदनो तं देवतासकाशातो श्रुत्वा परिदीनमुखवर्णो शोकार्दितो कुमारस्य सकाशम् उपसंक्रान्तः इदम् अब्रवीत्* ॥ किम् इदं पुत्र परिदीनवदनो शोकार्दितो उपविष्टो सि मा किंचित् शरीरस्य प्रतिपीडां पश्यसि मा धनक्षयं उपलक्षसि मा परचक्रभयं उपस्थितं आख्याहि मे पुत्र शीघ्रं किमर्थं ॥
___कुमारो आह ॥ अस्ति तात शरीरे प्रतिपीडां पश्यामि व्याधिर् आरोग्यम् आक्रमति मरणं जीवितम् आक्रमति तं तात जीर्णं मृतान्तरं प्रत्यवेक्षामि ॥ क्षीयन्ति सर्वसंस्कारा गिरिनदीजलचंचला परमायासधर्मा ऋतुसंवत्सरं आयुः क्षीयति मरणासन्नं भवति इमां तात शरीरे प्रतिपीडां पश्यामि ॥ अस्ति तात धनक्षयं पश्यामि सर्वधर्मं रिक्तकं तुच्छकं असारकं मायोपमं वंचनीयं विसंवादकं नास्ति धनस्य स्थिति तं
[_म्वु_2.146_] संबाध्यति वा संक्रामति वा परस्परं । इमन् तात धनक्षयं पश्यामि ॥ अस्ति परचक्रभयं दृश्यति धर्मसंस्कारदोषभयं हस्तच्छेदा कर्णच्छेदा शीर्षच्छेदा विविधा नानाप्रकारा अनेकपर्यायेण अस्मिं काये दुःखानि संक्रमन्ति । इमं तात परचक्रभयं पश्यामि ॥ राजा शुद्धोदनो आह ॥ अलं पुत्र मा मैतं चिन्तयाहि । सम्प्रति तरुणो प्रथमयौवनगतो सि राजकृत्यम् अनुभवाहि विस्तीर्णस् ते अन्तःपुरो यौवनसम्पन्नो ताहि सार्धं क्रीडाहि रमाहि प्रविचारेहि मा प्रव्रज्याये चित्तं करोहि ॥ कुमारो आह ॥ यदि मे तात अष्ट वरां अनुप्रयच्छसि ततो अहं न भूयो एतम् अर्थं चिन्तयिष्ये ॥ राजा आह ॥ आख्याहि मे पुत्र शीघ्रं कीदृशामे अष्ट वराणि यानीच्छसि यदि शक्तिर् वा बलं वा अस्ति ततो ते प्रदास्यामि । किं पुत्र मम राज्यं परिहायिष्यति यद् अहं तव पुत्र वरं न प्रदास्यामि ॥
___कुमार आह ॥ इमानि मे तात अष्ट वराणि अनुप्रयच्छाहि ॥ यदि मे यौवनं जरा नाक्रमेया । यदि आरोग्यं व्याधिर् नाक्रमेया । यदि मे जीवितं मरणं न हरेया । यदि मे त्वया सार्धं विप्रयोगो न भवे । एदृशम् अन्तःपुरम् अप्सरसादृशं विस्तीर्णो च ज्ञातिवर्गो न विप्रवेशेया राज्यातो च ऐश्वर्यातो च न विपरिणामान्यार्तीभावो भवेया । ये पि सत्वा मम जातमात्रेण अमृतसुखेन अभिनिमन्त्रिता तेषां पि सर्वेषां क्लेशप्रशमो भवेया । ममापि जातिजरामरणस्य अन्तो बह्वेया ॥ राजा शुद्धोदनो आह ॥ पुत्र कुतो मम एदृशं व शक्तिर् वा बलं वा अस्ति यद् अहं इमां एदृशां अष्ट वरा प्रयच्छेयं । ये पि ते पुत्र पूर्वा राजानो दीर्घायुष्का यथा महासम्मतो राजा महातेजो दृढधनुः शतधनु निशान्तायु युगन्धरप्रभृतयः
[_म्वु_2.147_] कुलराजवंशा ते पि च पुत्र सर्वे अनित्यताबलेन पर्यन्तोपनीता नाममात्रा च शेषाः स्थापिताः । कुतो पुत्र मे बलं शक्तिर् वा अस्ति तव इमे ईदृशान् अष्ट वरान् अनुप्रयच्छितुं ॥ कुमारो आह ॥ यदि तात न उत्सहसि त्वं मम इमान् अष्ट वरान् अनुप्रयच्छितुं अहं च ते निमन्त्रेमि जरामरणस्य अन्तो भवेया ॥ राजा आह ॥ जीर्णो वृद्धो गतयौवनश् च ततो मम मृतस्य पश्चात् प्रव्रज्याहि ॥ कुमार आह ॥ उदग्रं अनुभवाहि तात जीवन्तो पुनर् द्रक्ष्यसि मम इह सर्वगतिविमुक्तं सर्वतृष्णाछिन्नं सर्वदुःखविगतं सर्वज्वलाक्लेशापरीतस्य सर्वबोध्यङ्गरत्ना भावयन्तस्य ॥
___अथ नृपति तस्य प्रमदागणान् उपदर्शयति । इमन् ते पुत्र उदारं वरविमलकमलनयनमणिरुचिरपीनपयोधरा शुक्रनिर्भासगात्रा विचित्राभरणा कठिनशुभवासितकरशणा सुकुमारप्रवरभ्रमरांजनकेशा रक्तांशुकप्रावरणवलयमणिमुक्तिकहारावनद्धा तुलाकोटिवलयनूपुरपंचाङ्गिकतूर्यनिनादां कुर्वन्ति । एताहि पुत्र अभिरमाहि मा प्रव्रज्याम् अभिकांक्षाहि ॥ कुमार आह ॥ पश्य तात स्त्रीसंज्ञो भवेय यो अत्र रज्येया कल्पेया प्रमद्येया ॥ राजा आह ॥ तव कीदृशी संज्ञा भवति ॥ कुमारो आह ॥ ममात्र विपरीतसंज्ञा भवति ॥ राजा आह ॥ कीदृशी ते पुत्र विपरीतसंज्ञा भवति ॥ कुमारो आह ॥ एदृशी मे तात विपरीतसंज्ञा भवति । यथायं कायो यत्र युक्तो आगच्छति गच्छति यत्र स्थाति निषीदति यत्र भावयति तूष्णीं भवति यत्र बाहिरं शून्यं निरीहकं बलं दुर्बलं माया च विसंवादकं सर्वम् एव धर्मकायं प्रवदन्ति ॥ राजा शुद्धोदनो आह ॥ यदि पुत्र रूपेण न रज्यसि किम् इदं निष्पुरुषेण रज्यसि कं त्वं दर्शनम् उपलक्षयसि ॥ कुमारो आह ॥ यद् इदं
[_म्वु_2.148_] तात संशारनाटकम् उपलक्षयामि यन्त्रविज्ञाननटवेदनविकारां जनयति । त्रैधातुकं रंगं स्थानं सत्वानां कृतविकृतिषङ्गतिषु रंगं प्रविशति तृष्णास्नेहवरं च क्लेशशतानां गाभीरता । एवं पुरिमा कोटि न प्रज्ञायति परस्परं नाटकं सत्वानां वंचनग्रहणविपाटकं ॥ नास्ति सो सत्वो वा सत्वकायो वा यो संस्कारेषु न खलीकृतो न वंचितो अथापरं गुरुजनेषु । ततो उदग्रम् अनुभवाहि तात संसारनाटकं विनिवर्तयित्वा समथनिर्वाणपुरम् अनुप्रवेक्ष्यामि यत्र जरामरणं नाक्रामन्ति पूर्वम् एव पदं परिमार्गयिष्ये यन्तं पुरिमकेहि तथागतेहि अर्हन्तेहि सम्यक्संबुद्धेहि परिमार्गितं ॥
___राजा आह ॥ इमं ते पुत्र विमानं देवभवनसदृशं समृद्धं तव चान्तरपुरं त्वं पि पुत्र अभिरूपवां वरलक्षणपुण्यसहस्रचितो किम् इदं पुत्र रतिं न विन्दसि अपि तु निष्क्रमणम् एव अभिकांक्षसि विहाय नगरपुरं ॥ कुमारो आह ॥
गतिषु सन्त्रस्तमानसो शृणोहि
मम तात मे येन न अस्ति रति ॥
जराव्याधि रिपुर् मरणं तृतीयं
अभिमर्दति तेन मे नास्ति रतिः ॥
यदि नित्यसुखं आतुमनो भवे
यदि वात्मनो दुःखबलं न भवे ॥
यदि संस्कृतप्रत्ययम् इदं न भवे
अथ किस्य ममातु रतिर् न भवे ॥
उपलभ्यति कायो करण्डसमो
उपलभ्यति काये च सर्पसमा ॥
[_म्वु_2.149_] उपलभ्यति स्कन्ध अमित्रसमा
अथ किस्य ममातु रतिर् व भवे ॥
यदि कायो करण्डसमो न भवेत्*
यदि वा तत्र सर्पसमा न भवे ॥
यदि स्कन्ध अमित्रसमा न भवे
अथ किस्य ममातु रतिर् न भवेत् ॥
यदि . . . . . . . . . .
. . . . . दुःखक्रिया न भवेत्* ॥
यदि जातिजरामरणं न भवेत्*
अथ किस्य संसाररतिर् न भवेत्* ॥
यदि शून्यग्रामनिलयो न भवे
यदि तं विरागवधको न भवेत्* ॥
संस्कारधातु समयो न भवेत्*
अथ किस्य ममातु रतिर् न भवेत्* ॥
यदि शिष्यप्रतोदम् इदं न भवेत्*
यदि राजकुलस्य भयं न भवेत्* ॥
यदि सर्वभयं त्रिभवे न भवेत्*
अभिनिष्क्रमणे ममतो न रतिः ॥
अथ राजा शुद्धोदनो यदा सर्वोपायेन न शक्नोति कुमारस्य चित्तं विनिवर्तयितुं तदा राज्ञो एवं भवति ॥ यदि न केनचिद् उपायेन शक्नोमि कुमारस्य चित्तं विनिवर्तयितुं यं नूनाहं यत्तिका कपिलवस्तुनगरे कन्या तां सर्वां कुमारस्य उपदर्शयामि न क्वचिज् जनतायाः कन्यायाः कुमारस्य चित्तं अभिरमेत्* ॥
[_म्वु_2.150_]___बोधिसत्वो पितरम् अभिमन्त्रयति उद्यानभूमिं निर्यास्यामीति ॥ राज्ञा शुद्धोदनेन अमात्या आणत्ता ॥ यावद् राजकुलं यावच् च उद्यानभूमिं अत्रान्तरे प्रतिजाग्रथ सिक्तसंसृष्टं विततवितानं चित्रदुष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्ण्णं देशेदेशेषु धूपयन्त्राणि माल्ययन्त्राणि नटनर्तक-ऋल्लमल्लपाणिस्वर्याकुम्भतूणी मानापिकानि रूपशब्दगन्धानि उपस्थापेथ अमानापिकानि उद्वर्तापेथ । यथा कुमारो उद्यानभूमीम् अभिनिष्क्रान्तो न किंचिद् अमनापं पश्येय ॥ एवं राज्ञो वचनमात्रेण अमात्येहि यावच् च राजकुलं यावच् च तां कुमारस्य उद्यानभूमिं यथाणत्तं मार्गं प्रतिजाग्रितं देशेदेशेषु च पुरुषा स्थापिता यथा कुमारस्य पुरतो न किंचिज् जीर्णो वृद्धो व्याधितो वा काणो वा खाडो वा दर्दुरो वा कण्डूलो वा कच्छुलो वा विचर्चिको वा अन्यो वा किंचिद् अमनापं कुमारस्य उद्यानम् अभिनिष्क्रमन्तस्य पुरतो तिष्ठेया ॥ एवं कुमारो महार्हेण सप्तरत्नचित्रेण यानेन महता राजानुभावेन महता राज-ऋद्धीये महतीये विभूषाये उद्यानभूमिं निर्यान्तस्य राजपुरुषा वामदक्षिणेन उत्सारणां करोन्ता गच्छन्ति यथा कुमारो न किंचिद् अमनापं पश्येया ॥ एवं कुमारो मानापिकानि रूपाणि पश्यन्तो मानापिकानि शब्दानि शृण्वन्तो मानापिकानि गन्धानि घ्रायन्तो उभयतो वामदक्षिणेन अंजलीशतसहस्राणि प्रतीछन्तो विविधानि च चूर्णवर्षाणि प्रतीछन्तो कपिलवस्तुतो उद्यानभूमिं निर्धावन्तस्य घटिकारेण कुम्भकारेण शुद्धावासदेवपुत्रभूतेन तथान्येहि च शुद्धावासकायिकेहि देवपुत्रेहि जीर्णो पुरुषो पुरतो अभिनिर्मितो जीर्णो वृद्धो महल्लको अध्वगतं वयमनुप्राप्तो श्वेतशिरो तिलकाहतगात्रो भग्नो गोपानसीवक्रो पुरतोप्राग्भारो दण्डम् अवष्टभ्यमानैर्
[_म्वु_2.151_] गात्रैर् गच्छन्तो ॥ बोधिसत्वो तं दृष्ट्वा सारथिं पृच्छति । किम् इमो पुरुषो एवं प्रतिकूलो जीर्णो वृद्धो महल्लको अध्वगतवयमनुप्राप्तः श्वेतशिरो तिलकाहतगात्रो भग्नो गोपानसीवक्रो पुरतःप्राग्भारो दण्डम् अवष्टभ्य प्रखलमानैर् गात्रैः गच्छति ॥ सारथि आह ॥ कुमारो किंच ते एतेन पृच्छितेन एष पुरुषो जीर्णो नाम वयपरिगतशरीरो । गच्छाम उद्यानभूमिं तहिं देवकुमार पंचहि कामगुणेहि क्रीडाहि रमाहि प्रविचारेहि ॥ कुमारो आह ॥ भो भणे सारथि वयम् अपि जराधर्मा जराधर्मतायाम् अनतीताः । यत्र नाम जातस्य जरा प्रज्ञायति अत्र पण्डितस्य का रति ॥ कुमारो आह ॥ सारथि निवर्तेहि रथं अलं उद्यानगमनाये ॥
___कुमारो पुनर्निवर्तित्वा गृहं प्रविष्टो ॥ राजा शुद्धोदनो अमात्यां पृच्छति ॥ भो भणे किं कुमारो पुनर् निवृत्तो उद्यानभूमिं न निर्गतो ॥ अमात्या आहन्सुः ॥ महाराज कुमारो जीर्णो पुरुषं दृष्ट्वा निर्यातो न भूयो उद्यानभूमिं निर्गतो ॥ राज्ञो भवति । मा हैव यथा असितेन ऋषिणा कुमारो व्याकृतो तथा भविष्यति ॥ राज्ञा कुमारस्य अन्तःपुरं संदिष्टं । सुष्टु कुमारं क्रीडापेथ रमापेथ प्रविचारापेथ नाट्येहि गीतेहि वादितेहि यथा कुमारो गृहे अभिरमेया ॥ यथा देवलोके एवं कुमारस्य एवंरूपा अन्तःपुरे संगीति वर्तन्ति । न च कुमारस्य संगीतिषु मनं गच्छति । तम् एव जीर्णं पुरुषं स्मरति ॥
___अपरकालेन कुमारो आह ॥ उद्यानभूमिं निर्धाविष्यामीति ॥ राजा आह ॥ मानापिकानि रूपशब्दानि उपस्थापेथ यथा कुमारो उद्यानभूमिं अभिनिष्क्रमन्तो न किंचिद् अमनापं पश्येय ॥ एवं राज्ञो वचनमात्रेण अमात्येहि याव च राजकुलं
[_म्वु_2.152_] यावच् च तां कुमारस्य उद्यानभूमिं यथाणत्तं मार्गं प्रतिजाग्रितं देशेदेशेषु च पुरुषा स्थापिता यथा उद्यानभूमिं निर्यान्तस्य पुरतो न क्वचिज् जीर्णो वा वृद्धो वा व्याधितो वा काणो वा खाडो वा द्रदुरो वा कण्डूलो वा कच्छुलो वा विचर्चिको वा अन्यो वा किंचिद् अमनापं कुमारस्य उद्यानभूमिम् अभिनिष्क्रमन्तस्य पुरतो न तिष्ठेया ॥ एवं कुमारो महारहेण सप्तरत्नचित्रेण यानेन महता राजानुभावेन महता राज-ऋद्धीये महतीये विभूषाये उद्यानभूमिं निर्यान्तस्य राजपुरुषा वामदक्षिणेन उत्सारणां कारयन्ता गच्छन्ति यथा कुमारो न केनचिद् अमनापं पश्येया ॥ एवं कुमारो मानापिकानि रूपाणि पश्यन्तो मानापिकानि शब्दानि शृण्वन्तो मानापिकानि गन्धानि घ्रायन्तो उभयतो वामदक्षिणेन अंजलिशतसहस्राणि प्रतीछन्तो विविधानि च पुष्पवर्षाणि संप्रतीछन्तो कपिलवस्तुतो उद्यानभूमिं निर्धावन्तस्य घटिकारेण च कुम्भकारेण शुद्धावासदेवपुत्रभूतेन तथा अन्येहि च शुद्धावासकायिकेहि देवपुत्रेहि व्याधितो पुरतो अभिनिर्मितो शूनहस्तपादो शूनेन मुखेन पीतपाण्डुवर्णो दकोदरिको नाभीये दकधाराये प्रवहन्तीये मक्षिकासस्रेहि खाद्यमाना अद्राक्षणीयो संवेगकारको ॥ बोधिसत्वो तं दृष्ट्वा सारथिं पृच्छति । भो भणे सारथि किम् इमो पुरुषो एवं प्रतिकूलो पीतपाण्डुकवर्णो शूनहस्तपादो भिन्नमुखवर्णो नाभीये दकधाराये श्रवन्तीये मक्षिकासहस्रेहि खाद्यति ॥ सारथि आह ॥ कुमार किन् ते एतेन पृच्छितेन एषो पुरुषो व्याधिना परिगतशरीरो गच्छाम उद्यानभूमिन् तहिं देव क्रीडाहि रमाहि प्रविचारेहि ॥ कुमारो आह ॥ भो भण सारथि वयम् अपि व्याधिधर्मा व्याधिधर्मतायाम् अनतीता ॥ यत्र नाम जातस्य जरा प्रज्ञायति व्याधि च प्रज्ञायति अत्र पण्डितस्य का रतिः । रूपस्य
[_म्वु_2.153_] व्यसनं बलस्य मथनं सर्वेन्द्रियाणां वधः शोकानां प्रभवो रतिव्युपसमो चित्ताश्रयाणां निधि धर्मस्योपशमः गात्राश्रितानां गृहं यो लोकं पिबते वपुश् च ग्रसति व्याधिस्य को नोद्विजेत्* ॥ कुमारो आह ॥ सारथि निवर्तेहि रथं अलं मे उद्यानगमनाये ॥ कुमारो पुनः निवर्तित्वा गृहं प्रविष्टः ॥ राजा शुद्धोदनो अमात्यां पृच्छति ॥ भो भणे किं कुमारो निवृत्तो उद्यानभूमिं न निर्गतो ॥ अमात्या आहन्सुः ॥ महाराज कुमारो व्याधितं पुरुषं दृष्ट्वा निवृत्तो न भूयो उद्यानभूमिं निर्गतो ॥ राज्ञो भवति ॥ मा हेवं यथा असितेन ऋषिणा कुमारो व्याकृतो तथा भविष्यति ॥ राज्ञा कुमारस्य अन्तःपुरं संदिष्टं ॥ सुष्टु कुमारं क्रीडापेथ रामापेथ नाट्येहि गीतेहि वादितेहि यथा कुमारो गृहे अभिरमेया ॥ एवं कुमारस्य यथा देवलोके एवंरूपा अन्तःपुरे संगीति वर्तन्ति । न च कुमारस्य संगीतिषु मनं गच्छति तम् एव जीर्णं च व्याधितं च पुरुषं समनुस्मरति ॥
___अपरकालेन कुमारो भूयो पितरम् आपृच्छति । तात उद्यानभूमिं निर्यास्यामि दर्शनाये ॥ राज्ञा अमात्यानाम् आणत्ति दिन्ना । कुमारो उद्यानभूमिं निर्यास्यति उद्यानभूमिम् अलंकारापेथ मार्गं प्रतिजागरेथ नगरं च अलंकारापेथ यावच् च राजकुलं यावच् च राजकुमारस्य उद्यानभूमिं सिक्तसंसृष्टं विततवितानं चित्रदुष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्णं देशेदेशेषु च पुष्पयन्त्राणि नटनर्तक-ऋल्लमल्लपाणिस्वर्याकुम्भतूणिका मानापिकानि च रूपानि शब्दानि गन्धानि उपस्थापेथ यथा कुमारो उद्यानभूमिं निर्यान्तो न किंचिद् अमनापं पश्येया जीर्णं व्याधितं वा काणं वा खोडं वा दद्रुरं वा कण्डूलं वा कच्छुलं वा अन्धं वा गिलानं वा ॥ यथा कुमारो न किंचिद् अमनापं प्श्येया तथा करोथ ॥ वचनमात्रेण च राज्ञो
[_म्वु_2.154_] अमात्येहि यथाणत्तं प्रतिजाग्रितं वामदक्षिणतो च पुरुषाः स्थापिता ये जनस्य उत्सारणां करोन्ति यथा कुमारो उद्यानभूमिं निर्यान्तो न किंचिद् अमनापं पश्येया ॥ एवं कुमारो सप्तरत्नचित्रेण यानेन विततवितानेन ओसक्तपट्टदामकलापेन हेमजालसंछन्नेन सवैजयन्तेन सनन्दीघोषेण सखुरप्रवालेन उच्छ्रितध्वजपताकेन सामात्यपरिजनो महता राजानुभावेन महता राज-ऋद्धीये महतीये विभूषाये महता समुदयेन उभयतो वामदक्षिणेन अंजलिशतसहस्राणि संप्रतीछन्तो कपिलवस्तुतो उद्यानभूमिं निर्याति । घटिकारेण च कुम्भकारेण शुद्धावासदेवपुत्रभूतेन अन्येहि च शुद्धावासकायिकेहि देवपुत्रेहि मृतको पुरुषो कुमारस्य पुरतो निर्मितो मञ्चके समारोपितो पुरुषेहि नीयते ज्ञातीहि अश्रुकण्ठेहि रुदन्मुखेहि परिकीर्णकेशेहि उरं पीडेन्तेहि करणं प्रलपन्तेहि ॥ कुमारो तं दृष्ट्वा सारथिं पृच्छति ॥ भो भणे सारथि किम् इदं पुरुषो मञ्चकम् आरोपितो विनीयते ज्ञातीहि अश्रुकण्ठेहि रुदन्मुखेहि प्रकीर्णकेशेहि उरं पीडेन्तेहि ॥ सारथि आह ॥ कुमार एषो पुरुषो मृतो ज्ञातीहि मञ्चकम् आरोप्य अश्रुकण्ठेहि रुदन्मुखेहि प्रकीर्णकेशेहि उरं पीडेन्तेहि श्मशानं नीयति ॥ कुमारो आह ॥ भो भणे एष सारथि भूयो पुरुषो पितरं वा मातरं वा भ्रातरं वा भगिनीं वा ज्ञातिमित्रसालोहितं वा चित्रं वा जंबुद्वीपं पश्यति ॥ सारथि आह ॥ आम कुमार न एष भूयो पुरुषो मातरं वा द्रक्ष्यति पितरं वा भ्रातरं वा भगिनीं वा मित्रज्ञातिसालोहितं वा चित्रं वा जम्बुद्वीपं ॥ कुमारो आह ॥
मरणं तव मम च तुल्यं नैव शत्रुः न बन्धु
ऋतु यथ परिवर्तते दुर्जयं दुर्विनीतं ॥
[_म्वु_2.155_] न गणयति कुलीनं न नीचं न नाथवन्तं
दिनकर इव निर्भीतो अत्र मार्गेण याति ॥
सारथि आह ॥
कामां संपत्तिं राजलक्ष्मीं रतिं श्रीं
एतां पृच्छाहि सर्वलोकप्रधानां ॥
किं तुह्यं रौद्रं रोगसंतापमूलं
मृत्युं तं दृष्ट्वा यो विनाशो नराणां ॥
बोधिसत्वो आह ॥
जीर्णातुरं मृतं दृष्ट्वा यो नोद्विजति संसारे ।
शोचेतव्यः स दुर्मेधा अन्धो ध्वनि यथा नष्टः ॥
कुमारो आह ॥ भो भणे सारथि वयम् अपि मरणधर्मा मरणधर्मतायै अनतीता । यत्र नाम जातस्य व्याधि प्रज्ञायति मरणः प्रज्ञायति अत्र पण्डितस्य का रतिः । निवर्तेहि रथं मे उद्यानभूमिगमनाये ॥ कुमारो ततो एवं प्रतिनिवर्तित्वा पुनः गृहं गतो ॥ राजा शुद्धोदनो अमात्यानां पृच्छति । किं कुमारो भूयो प्रतिनिवर्तितः न उद्यानभूमिं निर्गतो ॥ अमात्या आहन्सुः ॥ देव कुमारेण मृतको पुरुषो मंचके समारोपितो ज्ञातीहि अश्रुकण्ठेहि रुदन्मुखेहि प्रकीर्णकेशेहि उरं पीडेन्तेहि आर्तस्वरं रवन्तेहि श्मशानं नीयन्तो दृष्टो । तस्य दृष्ट्वा संवेगो जातं । ततः एव प्रतिनिवृत्तो ॥ राज्ञो शुद्धोदनस्य एतद् अभूषि ॥ मा हैवं निमित्तकानां ब्राह्मणानां सत्यवचनं भविष्यति ये ते एवम् आहन्सुः । प्रव्रजिष्यति कुमारो ॥ राज्ञा दानि कुमारस्य अन्तःपुरं दूतो प्रेषितो । वर्षवरा कंचुकीया च सुष्टु कुमारं
[_म्वु_2.156_] क्रीडापेथ नृत्यगीतवादितेन यथा कुमारो अभिरमेया ॥ ते दानि अन्तःपुरिका कुमारं सुष्टु अभिरमेन्ति नृत्येहि गीतेहि वादितेहि न च कुमारस्य अत्र चित्तं वा मनो वा नान्यत्र तां जीर्णान् आतुरान् मृतां स्मरति ॥
___कुमारो भूयः अपरकालेन पितरम् आपृच्छति । तात उद्यानभूम्यां निर्यास्यामि दर्शनाये ॥ राजा आह ॥ यस्य कुमार कालं मन्यसे ॥ राज्ञा अमात्यानाम् आणत्तं । उद्यानस्य भूमिम् अलंकारापेथ नन्दनवनममिव देवराजस्य नगरं च अलंकारापेथ यावच् च राजकुलं यावच् च राजकुमारस्य उद्यानभूमिं सिक्तसन्सृष्टं कापापेथ विततवितानं चित्रदुष्यपरिक्षिप्तं ओसक्तपट्टदामकलापं धूपितधूपनं मुक्तपुष्पावकीर्णं देशेदेशेषु च पुष्पयन्त्राणि धूपयन्त्राणि नटनर्तक-ऋल्लमल्लपाणिस्वर्याकुम्भतूणिकं प्रतिजागरापेथ मानापिका पि च रूपशब्दगन्धां यथा कुमारो कपिलवस्तुतो उद्यानभूमिं निर्यान्तो न किंचिद् अमनापं पश्येया जीर्णं वा व्याधितं वा मृतं वा अन्धं वा काणं वा खोडं वा दद्रुरं वा कण्डूलं वा कच्छुलं वा विचर्चिकं वा तथा करोथ ॥ अमात्येहि आणत्तमात्रेहि यथा राज्ञो संदेशो तथा सर्वं प्रतिजाग्रितं देशेदेशेषु च पुरुषा स्थापिताः यथा कुमारो कपिलवस्तुतो उद्यानभूमिं निर्यान्तो न किंचिद् अमनापं पश्येया ॥ कुमारो पि दानि सप्तरत्नचित्रेण यानेन हेमजालप्रतिच्छन्नेन स्वलंकृतेन सुविभूषितेन सवैजयन्तीकेन सनन्दिघोषेण सखुरप्रवालेन उच्छ्रितध्वजपताकेन सामात्यो सपरिजनो महता राजनुभावेन महता राज-ऋद्धीये महता वियूहाये महता संवृद्धिये महता विभूषाये कपिलवस्तुतो उद्यानभूमिं निर्यातो ॥ निर्यान्तस्य घटिकारेण कुम्भकारेण शुद्धावासकायदेवपुत्रभूतेन अन्येहि च शुद्धावासकायिकेहि देवपुत्रेहि कुमारस्य
[_म्वु_2.157_] पुरतो प्रव्रजितो निर्मितो काषायाम्बरधरो प्रशान्तेन्द्रियो इरियापथसंपन्नो युगमात्रप्रेक्षमाणो जनसहस्रे कपिलराजमार्गे ॥ सो दानि प्रव्रजितो कुमारेण दृष्टो दृष्ट्वा च पुनर् अस्य मनो प्रसीदे । अहो प्रव्रजितस्य प्रज्ञानं ॥ कुमारो तं प्रव्रजितं दृष्ट्वा पृच्छति ॥ आर्य किमर्थं सो प्रव्रजितो ॥ प्रव्रजितो आह ॥ कुमार आत्मदमशमथपरिनिर्वाणार्थं प्रव्रजितो ॥ कुमारो तं प्रव्रजितस्य वचनं श्रुत्वा प्रीतो संवृत्तो ॥ कुमारो आह ॥ प्रव्रजितो खलु नाम
कषायपटावलम्बितप्रकर्षी वितीर्णो जनविकीर्णे ऐन्द्रमार्गे ।
भूरिकमलरजावकीर्णगात्रो शरवने यथ एकचक्रवाकः ॥
मृगी शाक्यकन्या आनन्दस्य माता । सा कुमारं तादृशीये लक्ष्मीये तादृशाये विभूषाये कपिलवस्तुतो निर्यान्तं दृष्ट्वा गाथाहि कुमारं अभिस्तवति ॥
निर्वृत खलु ते माता पिता पुनः ते निर्वृतो ।
निर्वृता पुनः सा नारी यस्य भर्ता भविष्यसि ॥
बोधिसत्वस्य निर्वाणशब्दं श्रुत्वा निर्वाणस्मिं एव मनं प्रसीदे तिष्ठे संप्रस्कन्दे ॥
निर्वाणघोषं श्रुत्वान निर्वाणे श्रोत्रम् आददे ।
निर्वाणम् अनुत्तरं दृष्ट्वा ध्यायते अकुतोभयं ॥
कुमारेण तं निर्वाणं ध्यायन्तेन मृगी शाक्यकन्या नावलोकिता नाभाष्टा ॥ तस्या दानि मृगीशाक्यकन्याये दौर्मनस्यं संजातं ॥ एत्तकस्य जनकायस्य मध्यतो मया कुमारो अभिस्तुतो न चानेन अहम् अवलोकितापि ॥
___शुद्धोदनेन राजकुमारस्य षड्वालको नाम द्वारो कारापितो पंचपुरुषशतेहि
[_म्वु_2.158_] अपावुरीयति ॥ तस्य अपावुरीयन्तस्य समन्तायोजनं शब्दो गच्छति ॥ पंच राजान शतानि नगरं परिवारेत्वा स्थिता ॥ राजा अभिषेके भाण्डा कारापेति । पुष्यनक्षत्रे कुमारम् अभिषिंचिष्यं ॥ बोधिसत्वस्यापि एवं भवति । पुष्यनक्षत्रे अभिनिष्क्रमिष्यन्ति ॥ शुद्धावासा देवा बोधिसत्वम् आहन्सुः ॥ काले सि महापुरुष तुषितकायाच् च्युतो काले सि मातुः कुक्षिं ओक्रान्तो काले सि जातो कालो च ते अभिनिष्क्रमितुं कालनिर्नामसम्पन्नो चासि महापुरुष । बहु त्वां जनता अभिकांक्षन्ति कर्षका विय उदकपरीक्षया महामेघां ॥ ईश्वरो देवपुत्रो गाथां भाषति ॥
सम्यग्वितर्कय बोधिसत्वैवं वितर्कयन्ति विद्वांसः ।
उत्पन्न ते कुशलस्य मूला यथा वितर्कयसि सप्रज्ञ ॥
महेश्वरो गाथां भाषति ॥
अभिनिष्क्रम महावीर अभिनिष्क्रम महामुने ।
सर्वलोकस्य अर्थाये बुध्याहि अमृतं पदं ॥
महाब्रह्मा आह ॥ सचे द्य महापुरुष नाभिनिष्क्रमिष्यसि सप्तमे दिवसे सप्तरत्नानि प्रादुर्भाविष्यन्ति राजा त्वं भविष्यसि चक्रवर्ती चातुर्द्विपो विजितावि धार्मिको धर्मराजा सप्तरत्नसमन्वागतो । नभतो इमानि सप्त रत्नमयानि प्रादुर्भवन्ति सय्यथीदं चक्ररत्नं हस्तिरत्नं अश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहपतिरत्नं परिणायकरत्नं एवं सप्तमं । पूरं च ते भविष्यति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानां वराणां ॥ सो इमां चत्वारि महाद्वीपां सय्यथीदं जम्बुद्वीपं पूर्वविदेहं अपरगोदानिकं
[_म्वु_2.159_] उत्तरकुरुं सागरगिरिपर्यन्तां अखिलां अकण्टकां अदण्डेन अशस्त्रेण अनुत्पीडेन धर्मेण अभिविजिनित्वा अध्यावसिष्यसि ॥
___राहुलो तुषितभवनाच् च्यवित्वा मातुः कुक्षिम् ओक्रमे अर्धरात्रे समये ॥ बोधिसत्वो प्रतिबुद्धो पश्यति अन्तःपुरम् ओसुप्तं काचिद् वीणाम् उपगुह्य काचिद् वेणु काचिन् नकुलं काचित् सुघोषं काचित् तूणकं काचिच् चन्दीसकं काचित् सम्भारिकां काचित्* महतीं काचिद् विपंचिकां काचिद् ढक्कपटहं काचिद् वल्लकिं काचित्* मृदंगं काचित्* मुकुन्दं काचित् पणवं काचिद्* झर्झरकं काचिद् आलिंगं काचित् परिवादिनीं काचिद् गले हस्तं कृत्वा काचित्* मृदंगं शीर्षे कृत्वा काचित् परस्परस्य उत्संगे शीर्षं कृत्वा काचित् परस्परस्य अंशे बाहां कृत्वा काचित् परस्परस्य उपगृह्य काचिद् वामदक्षिणातो विक्षिप्तगात्रा कासांचित्* मुखातो लाला श्रवति ॥ बोधिसत्वस्य एवं धरणीगतम् अन्तःपुरं प्रतिकण्ठं दृष्ट्वा अन्तेपुरे श्मशानसंज्ञा उत्पन्ना ॥ बोधिसत्वेन पर्यङ्कातो उत्थिहित्वा कशिकसूक्ष्माणि प्रावृतानि करण्डकातो गृह्य छन्दको च नं उपस्थापको उपस्थापितो ॥ उपनामेहि मे छन्दक अश्वं कण्ठकं ॥ छन्दक आह ॥ कुमार अर्धरात्रे समयो किं इमस्मिं देशकाले अश्वकार्यं ॥ वैश्रवणभवनसदृशो वेश्मो अभिरम किं ते अश्वकार्यं इमं देशकालं । अप्सरगणसन्निभं अन्तःपुरं अभिरम किन् ते अश्वकार्यं ॥ एवम् इदानीं बहुप्रकारं छन्दको आलपति । कुमार नायम् अश्वकालो
[_म्वु_2.160_] राजारहेहि कुमार शयनेहि इमं शयनकालं किं इदानीम् अश्वकार्यं ॥ कुमारो आह ॥ छन्दक इदानीं मे अश्वकार्यं उपनामेहि मे कण्ठकं ॥ छन्दकस्य भवति । यथा कुमारो इमस्मिं देशकाले कण्ठकं सुखप्रसुप्तस्य जनस्य नूनं कुमारो अभिनिष्क्रमितुकामो ॥ तेन दानि कण्ठकं पल्लानयन्तेन उच्चेन स्वरेण आरावं मुक्तं यथा राजा बुध्येय जनो च सर्वो कपिलवस्तुस्मिं । छन्दकस्वरेण न दानि ततः कोचिद् विबुध्यति । देवेहि सर्वस्य जनस्य आभ्यन्तरस्य बाहिरस्य ओसोपनं कृतं । कण्ठकेनापि बोधिसत्वस्य उपनामयन्तेन उच्चेन स्वरेण हीषितं मम हीषणशब्देन राजा शुद्धोदनो विबुद्धिष्यति जनकायो च तेन समन्तायोजनं स्वरेण अभिविज्ञापितं न कोचिद् विबुध्यति ॥ देवकोटिसहस्रियो कपिलवस्तुं समागताः गन्धमाल्यम् आदाय बोधिसत्वस्य अभिनिष्क्रमन्तस्य पूजार्थं ॥
___बोधिसत्वो कण्ठकं हयराजं आरूढो देवसहस्रेहि च नभगतेहि पुष्पवर्षं ओसृष्टं मण्डरवाणि महामण्डरवाणि कर्कारवाणि महाकर्कारवाणि रोचमानानि महारोचमानानि मंजूषकाणि महामंजूषकाणि भीष्माणि महाभीष्माणि समन्तगन्धानि महासमन्तगन्धानि पारिजातकानि दिव्यानि सुवर्णपुष्पाणि दिव्यानि रूप्यपुष्पाणि दिव्यानि रत्नपुष्पाणि दिव्यानि चन्दनचूर्णानि दिव्यानि अगुरुचूर्णानि दिव्यानि केशरचूर्णानि दिव्यानि तमालपत्रचूर्णानि दिव्यानि च गन्धोदकशीतलानि कपिलवस्तुनः समन्तेन षष्टि योजनानि जानुमात्रं दिव्यं कुसुमौघं संवृत्तं समन्ताच् च षष्टि योजनानि दिव्यगन्धोदकेन कर्दमं संवृत्तं अभवत्* रुतानि च दिव्यानि कोटिसहस्रनियुता संप्रवाद्येन्सुः दिव्यानि च संगीति निर्वर्तेन्सुः अप्सरसहस्राणि च प्रणद्येन्सुः
[_म्वु_2.161_] च गायेन्सु च । चतुर्हि महाराजेहि कण्ठकस्य पादा गृहीता ॥ कण्ठकजातानुगामी अनुश्रोत्रं पेलवको च निष्क्रान्तो यदि न समजवो तेन भवामि ॥ छन्दकसहजो सुप्रतिष्ठितो नाम यक्षो पंचशतपरिवारो । तेन षड्वालकद्वारम् अपावृतं घोषं च निगृहीतं ॥
___अथ बोधिसत्वो महान्तं हस्तिकायं अवहाय अगाराद् अनगारियम् अभिनिष्क्रामति महान्तं पत्तिकायम् अवहाय महान्तं भोगस्कन्धम् अवहाय महान्तम् ऐश्वर्यम् अवहाय महान्तं ज्ञातिवर्गम् अवहाय अगाराद् अनगारियम् अभिनिष्क्रमति ॥ बोधिसव्तो जातीये अर्त्तीयन्तो जातिसमतिक्रमणं मार्गम् अधिगमनार्थं अगाराद् अनगारियम् अभिनिष्क्रमति । [महान्तम् अश्वपत्तिकायम् अवहाय महान्तं रथकायम् अवहाय महान्तं पत्तिकायम् अवहाय महान्तं भोगस्कन्धम् अवहाय महान्तम् ऐश्वर्यम् अवहाय महान्तं ज्ञातिवर्गम् अवहाय अगाराद् अनगारियं अभिनिष्क्रमति] ॥ बोधिसत्वो [जातीये अर्त्तीयन्तो] मरणेन अर्त्तीयन्तो मरणसमतिक्रमणं मार्गम् अधिगमनार्थाय अगाराद् अनगारियम् अभिनिष्क्रमति ॥ शोकेहि अर्त्तीयन्तो उपायासेहि अर्त्तीयन्तो उपायाससमतिक्रमणं मार्गम् अधिगमनार्थं अगाराद् अनगारियम् अभिनिष्क्रामति ॥ न खलु पुनर् भिक्षवः बोधिसत्वो परिजुञ्ञेन परिजूर्णो अगाराद् अनगारियम् अभिनिष्क्रमति । अथ खलु भिक्षवः बोधिसत्वो अग्रेण परमेण यौवनेन समन्वागतः अगाराद् अनगारियम् अभिनिष्क्रमति ॥ न खलु भिक्षवः बोधिसत्वो व्याधिपरिजुञ्ञेन परिजूर्णो अगाराद् अनगारियं अभिनिष्क्रमति । अथ खलु भिक्षवः बोधिसत्वो अग्रेण परमेण आरोग्येन समन्वागतो अगाराद् अनगारियं अभिनिष्क्रमति ॥ न खलु पुनर् भिक्षवः भोगपरिजुञ्ञेन परिजूर्णो
[_म्वु_2.162_] अगाराद् अनगारियं अभिनिष्क्रमति । अथ खलु भिक्षवः बोधिसत्वो महान्तं भोगस्कन्धम् अवहाय अगाराद् अनगारियं अभिनिष्क्रमति ॥ न खलु पुनर् भिक्षवः बोधिसत्वो ज्ञातिपरिजुञ्ञेन परिजूर्णो अगाराद् अनगारियं अभिनिष्क्रमति । अथ खलु भिक्षवः बोधिसत्वो महान्तं ज्ञातिवर्गम् अवहाय अगाराद् अनगारियं अभिनिष्क्रामति ॥
___शैलाः संधूयेन्सुः सलिला ललेन्सुः सागरो च निरामितो क्षुभ्ये देवा च दिव्यं चन्दनचूर्णम् ओकिरेन्सुः । दिव्यानि अगुरुचूर्णानि दिव्यानि केशरचूर्णानि दिव्यानि तमालपत्रचूर्णानि दिव्यानि मुक्तपुष्पवर्षाणि ओकिरेन्सुः ॥ इयं महापृथिवी अतीव षड्विकारं कंपे प्रकम्पे संप्रकम्पे बोधिसत्वस्यैव तेजेन अप्रमेयस्य च उदारस्य च महतो ओभासस्य लोके प्रादुर्भावो अभूषि । या पि ता लोकान्तरिकाः अन्धकारा अन्धकारार्पिता तमिस्रा तमिस्रार्पिता अघा असंविदितपूर्वा यत्र इमे चन्द्रमसूर्या एवं महर्द्धिका एवं महानुभावा आभया आभां नाभिसंभूणन्ति आलोकेन वा आलोकं न स्फरन्ति ता पि च तेन ओभासेन स्फुटा अभून्सुः । ये पि तत्र सत्वा उपपन्नाः ते पि अन्योन्यं संजानेन्सुः । अन्ये पि किल भो इह सत्वा उपपन्ना । एकान्तसुखसमर्पिता च पुनस् तत्क्षणं तन्मुहूर्तं सर्वसत्वा अभून्सुः ॥ ये पि तत्र अवीचिस्मिं महानरके उपपन्नाः अतिक्रम्यैवं देवानां देवानुभावं नागानां नागानुभावं यक्षाणां यक्षानुभावं । ध्यामानि च अभून्सुः मारभवनानि निष्प्रभानि निस्तेजानि निरभिरम्यानि ॥ क्रोशिकान्य् अप्य् अत्र खण्डानि प्रपतेन्सुः द्विक्रोशिकान्य् अत्र खण्डानि प्रपतेन्सुः त्रिक्रोशिकान्य् अप्य् अत्र खण्डानि प्रपतेन्सुः योजनकान्य् अप्य् अत्र खण्डानि प्रपवेन्सुः ।
[_म्वु_2.163_] ध्वजाग्राण्य् अपि चात्र प्रपतेन्सुः । मारो च पापीमां दुःखी दुर्मना विप्रतिसारी अन्तशल्यपरिदाघजातो अभूषि ॥
___बोधिसत्वो खलु पुनः भिक्षवो अभिनिष्क्रमन्ते अतीव पुरिमा दिशा परिशुद्धा पर्यवदाता अभूषि । अतीव दक्षिणा दिशा परिशुद्धा पर्यवदाता अभूषि । अतीव पश्चिमा दिशा परिशुद्धा पर्यवदाता अभूषि । अतीव उत्तरा दिशा परिशुद्धा पर्यवदाता अभूषि । अतीव हेष्टिमा दिशा अतीवोपरिमा दिशा परिशुद्धा पर्यवदाता अभूषि ॥ अतीव चन्द्रमसूर्याणाम् उद्गमनानि परिशुद्धानि पर्यवदातानि अभून्सुः अतीव पथगमनानि अतीव ओगमनानि परिशुद्धानि पर्यवदातानि अभूषि ॥ अतीव नक्षत्राणि परिशुद्धानि पर्यवदातानि अभूषि । अतीव तारकरूपाणि परिशुद्धानि पर्यवदातानि अभूषि ॥ अतीव चातुर्महाराजिकानां देवानां भवनानि परिशुद्धानि पर्यवदातानि अभूषि । अतीव त्रायस्त्रिंशानां यामानां तुषितानां निर्माणरतीणां परनिर्मितवसवर्तिनां देवानां भवनानि परिशुद्धानि पर्यवदातानि अभूषि ॥ अतीव मारभवनानि ध्यामानि अभून्सुः । दुर्वर्णा निष्प्रभाणि ध्वजाग्राणि मारकायिकानां देवानां मारो च पापीमां दुःखी दुर्मनो विप्रतिसारी ध्यामन्तवर्णो अन्तोशल्यपरिदाघजातो ॥ ब्रह्मकायिकानां देवानां भवनानि परिशुद्धानि पर्यवदातानि अभून्सुः । शुद्धावासानां देवानां भवनानि परिशुद्धानि पर्यवदातानि अभून्सुः । एवं च तेषु शुद्धावासेषु देवेषु परीत्ताभानां सम्यक्संबुद्धानां अधिष्ठितानि चंक्रमा निषद्यानि शय्यानि तानि पि अतीव परिशुद्धानि अभून्सुः पर्यवदाता ॥ शुद्धावासा देवा अतीव हृष्टा अभूषि उदग्रा प्रमुदिता प्रीतिसौमनस्यजाता ॥ बोधिसत्वे खलु पुनर् भिक्षवः अभिनिष्क्रमन्ते यावता नागानाम् अधिपतयो नागराजानो अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका
[_म्वु_2.164_] वा ते महतीं चतुरंगिनीं सेनाम् अभिनिर्मिणित्वा महान्तं हस्तिकायं अश्वकायं रथकायं पत्तिकयम् अभिनिर्मिणित्वा बोधिसत्वम् एव पुरस्करेन्सुः अगाराद् अनगारियं प्रव्रजितुं ॥ बोधिसत्वे खलु पुनर् भिक्षवः अभिनिष्क्रमन्ते यावता सुवर्णाधिपतयो सुवर्णराजानो अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका वा ते महतीं चतुरंगिनीं सेनां अभिनिर्मिणित्वा महान्तं हस्तिकायं अश्वकायं रथकायं पत्तिकायं अभिनिर्मिणित्वा बोधिसत्वम् एव पुरस्करेन्सुः ॥ नगरदेवता बोधिसत्वस्य गच्छतः पुरतः स्थित्वा दीनमना आह ॥
नाग नाग अवलोकयाहि मे
सिंह सिंह अवलोकयाहि मे ॥
सत्वसार अवलोकयाहि मे
सार्थवाह अवलोकयाहि मे ॥
कपिलाह्वयातो निर्गम्य अवलोकिय पुरवरं पुरुषसिंहो शाक्यकुलानन्दजननो इमां गिराम् अभ्युदीरयति ॥
अपि नरकं प्रपतेयं विषं च खादेतुं भोजनं भुंजे ॥
न तु पुनर् इह प्रविश्य अप्राप्य जरामरणपारं ॥
अयं भिक्षवः बोधिसत्वस्य अभिनिष्क्रमणसम्पदा ॥
___बोधिसत्वो देवसहस्रेहि चतुर्हि च महाराजेहि संप्रतिगृहीतो कपिलवस्तुतो दक्षिणेन द्वादश योजनानि नीतो मल्लविषयं अनोमियं नाम अधिष्ठानं वशिष्ठस्य ऋषिस्य आश्रमपदस्य नातिदूरे ॥ तहिं बोधिसत्वो प्रतिष्ठितो छन्दको च ॥ बोधिसत्वो
[_म्वु_2.165_] छन्दकस्य हस्ते आभरणानि च देति कण्ठकं च अश्वं छत्ररत्नं च पितुश् च शुद्धोदनस्य संदिशति महाप्रजापतीये गौतमीये सर्वस्य च ज्ञातिवर्गस्य कौशल्यं जल्पेसि कृतकृत्यो आगमिष्यामि प्रवृत्तवरधर्मचक्रः ॥ छन्दको आह ॥ मातुः पितुः न उत्कण्ठितं स्या ते ॥ बोधिसत्वो आह ॥ छन्दक
इत्यर्थम् एवम् अहं तव दोषदर्शी
भोक्षार्थं मोक्षमति स्वजनं त्यजामि ॥
जातस्य जन्मनि कथं पुनर्भवेया
इष्टेन बान्धवजनेन विप्रयोगः ॥
यदि न मरणं नो जातं स्यान् न रोगजरादयः
यदि च न भवेद् इष्टत्यागो न चाप्रियसंश्रयो ॥
यदि च विफला नो स्याद् आसा सुखं च न चंचलं
विविधविषया मानुष्यस्मिं इमापि रतिर् भवेत्* ॥
छन्दको आह ॥ त्वं नाम आर्यपुत्र निर्दिष्टो सर्वशास्त्रकुशलेहि चातुर्द्वीपगतिर् भविष्यसीति । न तं सत्यं ॥ बोधिसत्वो आह ॥ भो भणे छन्दका किम् अन्यं च भणितं तेहि नैमित्तिकेहि कुशलेहि ॥ वर्तति खु सत्यकालो यदि ते मम गौरवं अस्ति ॥ छन्दको आह ॥ एषो भणामि । अथ वा विजहित्वा मेदिनीं प्रव्रजति भवति भवरागहन्ता अशेषदर्शी इदं द्वितीयं ॥
___बोधिसत्वस्य एतद् अभूषि । कथं प्रव्रज्या च चूडा च ॥ बोधिसत्वेन असिपट्टेन चूडा छिन्ना सा च चूडा शाक्रेण देवानाम् इन्द्रेण प्रतिच्छिता त्रायस्त्रिंशद्भवने पुज्यति
[_म्वु_2.166_] चूडामहं च वर्तति ॥ समसमं कण्ठको बोधिसत्वस्य पादां लिहति । बोधिसत्वो अनपेक्षो प्रक्रमति ॥
प्रव्रज्यां कीर्तयिष्यामि यथा प्रव्रजि चक्षुमां ॥
जीर्णं कालगतं दृष्ट्वा संवेगम् अलभे मुनिः ॥
योनिशो लब्धसंवेगो महाप्रज्ञो विपश्यको ॥
दृष्ट्वा आदीनवं लोके प्रव्रजि अनगारियं ॥
अवहाय मातापितरं ज्ञातिसंगमनं तथा ॥
निर्यासि कपिलवस्तुतो अश्वम् अभिरुह्य कण्ठकं ॥
अवहायाश्वच्छन्दके छित्त्वान गृहबान्धनां ॥
सर्वम् एतम् अवसृज्य अनपेक्षो एव प्रक्रमेत्* ॥
यं दानि बोधिसत्वेन अभिनिष्क्रमित्वा अनोमियातो अधिष्ठानातो वशिष्ठस्य ऋषिस्य आश्रमस्य नातिदूरतो छन्दको निवर्तितः सकण्ठको आभरणानि च विसर्जितानि राज्ञो शुद्धोदनस्य कौशल्यं संदिष्टं महाप्रजापतीये गौतमीये तथान्येषाम् अपि ज्ञातीनां । यशोधराये न संदिशति ॥ यदा भगवां प्रवृत्तवरधर्मचक्रः तं भिक्षूहि श्रुतं । भिक्षू भगवन्तम् आहन्सुः ॥ कथं यशोधराये अनपेक्षो प्रक्रान्तो ॥ भगवान् आह ॥ नाहं भिक्षवः एतरहिं एवानपेक्षो प्रक्रान्तो । अन्यदापि अहं यशोधराये अनपेक्षो प्रक्रान्तः ॥ भिक्षू आहन्सुः ॥ अन्यदापि भगवन्* ॥ भगवान् आह ॥ अन्यदापि भिक्षवः ॥
___भूतपूर्वं भिक्षवो ऽतीतमध्वाने उत्तरापथे तक्षशिला नाम नगरं तत्र वज्रसेनो
[_म्वु_2.167_] नाम श्रेष्ठिपुत्रो अश्ववाणिज्येन तक्षशिलातो वाराणसिं गच्छति अश्वपण्यम् आदाय ॥ सो दानि गच्छन्तो अन्यश् च वाराणसीये सार्थो चोरेहि विप्रहतो । वणिजा हतविहता कृता सर्वे अश्वा हृता ॥ सो दानि सार्थवाहो मृतकेन पुरुषकुणपेन आत्मानं प्रतिच्छादेत्वा शयितो एवं न हतो ॥ यदा ते चोरा तं सार्थवाहं हतविप्रहतं कृत्वा ग्रहणम् आदाय गता तदा सो वज्रसेनो अश्ववाणिजो उदकभ्रमेन वाराणसीं नगरं प्रविशित्वा शून्यागारे शयितो ॥ तां एव दानिं रात्रीं वाराणसीये नगरे चोरेहि राजकुलातो सन्धिं छित्त्वा प्रभूतं द्रव्यं हृतं । प्रभाताये रात्रीये राजकुले सन्धिः छिन्ना अमात्येहि दृष्टा ॥ तेहि राज्ञे {सेनर्त्: राज्ञे} निवेदितं ॥ महाराज राजकुले सन्धिः छिन्ना ॥ राज्ञा आणत्ता ॥ प्रत्यवेक्षथ राजकुलं ॥ अमात्येहि प्रत्यवेक्षन्तेहि दृष्टं प्रभूतं द्रव्यं हृतं ॥ तेहि राज्ञ आरोचितं ॥ महाराज प्रभूतो राजकुलातो द्रव्यं हृतं ॥ राज्ञा अमात्या आणत्ता ॥ मार्गथ तां चोरां ॥ ते राज-आणत्तीये तन्मुहूर्तं वाराणसीये चौरा मार्गीयन्ति सर्वगृहाणि लोलीयन्ति देवागाराणि शून्यागाराणि ॥
___ते राजभट्टा मार्गन्ता तहिं शून्यागारं प्रविष्टा यत्र वज्रसेनो अश्ववाणिजको चौरेहि विप्रहतो शयितो ॥ सो दानि मार्गश्रमेण च रात्रीजागरेण च चिन्ताये च श्रान्तोकान्तो प्रसुप्तो सूर्ये पि उदिते न विबुध्यति ॥ सो तेहि राजभट्टेहि चौरा मार्गन्तेहि दृष्टो रुधिरेण सिक्तावसिक्तगात्रवस्त्रो सद्रव्यो शयितो तेषां राजभट्टानां च दृष्ट्वा एतद् अभूषि ॥ अयं चौरो राजकुलमोषको ॥ सो दानि राजभट्टेन पादेन
[_म्वु_2.168_] प्रहारं दत्त्वा उत्थापितो । उत्तिष्ठ पाप चौर अस्ति नाम त्वं राजकुलं धर्षयसि ॥ सो दानि अश्ववाणिजको भीतो त्रस्तो उत्थितो किम् एतं ति ॥ ते दानि राजभट्टा आहन्सुः ॥ अस्ति नाम त्वं पाप चौर राजकुलं पि धर्षयसि ॥ सो दानि आह ॥ आर्या प्रसीदथ नाहं चौरो अश्ववाणिजको अहं ति ॥ ते दानि राजभट्टा आहन्सुः ॥ एदृशको अश्ववाणिजको भवति यादृशो त्वं पापचौरो त्वं ॥ तेहि स उदीरयन्तो पश्चाद्बाहुं बन्धयित्वा राज्ञो उपनामयितो ॥ एवं देव शून्यागारे शयितो लब्धो ॥ राजा पि चण्डो च उग्रशासनो च । तेन आणत्तं ॥ गच्छथ नं अतिमुक्तकश्मशाने नेत्वा जीवशूलकं करोथ ॥
___सो दानि पश्चाद्बाहुं बन्धनबुद्धो पद्यपानेन पायी वध्यकण्ठगुणेन खरस्वरेण {सेनर्त्. स्वरस्वरेण} पटहेन वाद्यमानेन असिशक्तितोमरधरेहि पुरुषेहि वध्यघाटकेहि परिवृतो जनसहस्रेहि अतिमुक्तकश्मशानं निर्नीयति गणिकावीथिं च संप्राप्तः । तहिं च श्यामा नाम अग्रगणिका आढ्या महाधना महाकोशा प्रभूतजातरूपरजतोपकरणा प्रभूतदासीदासकर्मकरपौरुषेया ॥ सो दानि सार्थवाहः वधं नीयन्तो ताये श्यामाये अग्रगणिकाये दृष्टो । सह दर्शनमात्रेण गणिकाये तस्मिं सार्थवाहे प्रेम्नं निपतितं ॥ यथोक्तं भगवता ॥
पूर्वं वासनिवासेन प्रत्युत्पन्ने हितेन वा ॥
मूल पाठ: Mahāvastu-avādana · Edition: Émile Senart, 3 vols., Paris 1882-1897. Cf. also : Emmanuel Faure, B. Oguibénine, M. Yamazaki, and Y. Ousaka Mahāvastu-avādana, vol.I: word index and reverse word index Tokyo 2003 (Philologica Asiatica, Monograph Series 20) The Chuo Academic Research Institute (Tokyo, 2003 (July)) · Data entry Emmanuel Fauré · GRETIL (Göttingen) · CC BY-NC-SA 4.0