महासुभाषितसंग्रह · श्लोक 9955-9974
काष्ठं वह्न्युज्झितमपि भवेच् छीतशान्त्यै कपीनां लोम्नो शुद्ध्यै सलिलमनलश्चाग्निशौचैणकानाम् ।
जन्तोर्भावा विदधति यथाभाविनः कार्यसिद्धिं तत्त्वं तेषां क्वचन सहजं वस्तुतो नास्ति किंचित् ॥
काष्ठं शिरसि संस्थाप्य तथा काष्ठेन ताडयेत् ।
लुप्तस्मृतेः स्मृतिः सद्यो योगिनस् तेन जायते ॥
काष्ठगोलयुगं क्षिप्तं दूरमूर्ध्वपुरःस्थितैः ।
अप्राप्तधारं पृष्ठेन गच्छेत् पुच्छमुखेन हि ॥
काष्ठपाषाणधातूनां कृत्वा भावेन सेवनम् ।
श्रद्धया च तथा सिद्धिस् तस्य विष्णुप्रसादतः ॥
काष्ठमङ्गारतां याति भस्मतां गोमयादिकम् ।
वह्नौ कीर्णं सुवर्णं तु सुवर्णोत्कर्षतां व्रजेत् ॥
काष्ठाग्निं निर्हरेच् चैव तथा कूपांश्च खातयेत् ।
संशोधयेत् तथा कुपान् कृतान् पूर्वं पयोऽर्थिभिः ॥
काष्ठादग्निर्जायते मथ्यमानाद् भूमिस्तोयं खन्यमाना ददाति ।
सोत्साहानां नास्त्यसाध्यं नराणां मार्गारब्धाः सर्वयत्नाः फलन्ति ॥
काष्ठाद्यथाग्निरुत्पन्नः स्वाश्रयं दहति क्षणात् ।
क्रोधाग्निर्देहजस्तद्वत् तमेव दहति ध्रुवम् ॥
काष्ठानुषङ्गात् परिवर्धमाने जाग्रत्प्रतापज्वलने त्वदीये ।
श्रीकार्तवीर्यं प्रसभं पतन्ति प्रत्यर्थिपृथ्वीपतयः पतङ्गाः ॥
काष्ठेऽश्वकेशं संयम्य तत्र बद्ध्वा वराटिकाम् ।
हस्तेन भ्राम्यमाणां च यो हन्ति स धनुर्धरः ॥
का संबुद्धिः सुभट भवतो ब्रूहि पृच्छामि सम्यक् प्रातः कीदृग् भवति विपिनं संप्रबुद्धैर्विहंगैः ।
लोकः कस्मिन् प्रथयति मुदं, का त्वदीया च जैत्री प्रायो लोके स्थितमिह सुखं जन्तुना कीदृशेन ॥
का संसृतिः किमपचारनिबन्धनेयं कीदृग्विधस्य तव किं क्षतमेतयेति ।
प्रश्ने तु नास्मि कुशलः प्रतिवक्तुमेव खेदस्तु मे जननि कोऽप्ययमेवमास्ते ॥
कासश्वासज्वराजीर्णशोकतृष्णास्य पाकयुक् ।
न च कुर्याच्छिरोनेत्रहृत्कर्णामयवानपि ॥
कासांचिद् धवलश्चिरं निवसतां वित्तेपरासां पुनर् नीलो वा कपिलोऽथवा वरवृषो रक्तोऽथवा मेचकः ।
ग्रामीणैरवधीरितोऽपि शिथिलस्कन्धोऽप्यनूर्ध्वश्रवाः स्वान्ते मे परतन्त्रतुन्दिलतनुर्जागर्त्ययं कर्बुरः ॥
... ... ... ... ... ... ॥
कासां हि नापदां हेतुर् अतिलोभान्धबुद्धिता ॥
कासारशोषिणि नवोदयमानमुग्ध- सद्वर्तिकानिवहदाहिनि दारुणेऽपि ।
मध्यन्दिनोष्णकिरणे प्रतिपन्नसख्य- स्मेरं सुखं जयति चित्रचरित्रमब्जम् ॥
कासारे पद्मिनीऽयं मुकुलयुगमनत्यन्तरं यत्र हृद्यम् यस्मिन् सद्यःसमुद्यद्ग्रहपतिकरजव्यापृतिः श्लाघनीया ।
तस्मादेतद् विशेषस्मृतिकलितमिह प्रेक्ष्य साक्षादुपेक्ष्यं वर्यं शौर्यंचनादौ न गमय समयं त्वं व्रजस्त्रीहितज्ञः ॥
कासारेऽपि पयः पिबन्ति पथिका न क्वापि वारि त्वयि क्षारत्वादुदधेः समुद्र इति ते नामैतदेवोचितम् ।
न त्वेतानि निरर्थकानि भवतो नामान्यनर्थान्तराण्य् अम्भोधिर्जलधिः पयोनिधिरुदधिर्वारांनिधिर्वारिधिः ॥
कासारे मदमत्तवारणगणैराकुम्भमग्नं पयः पीतं यत्प्रभवोरुवीचिवलनैर्व्याप्तं समस्तं जगत् ।
तस्मिन्नेव रवेः प्रचण्डकिरणश्रेणीनिपीताम्भसि प्राप्ताः पान्थनखंपचाः प्रतिपदं मध्यस्थलीभूमयः ॥
कासारेषु सरित्सु सिन्धुषु तथा नीचेषु नीरग्रहं धिक् तत्रापि शिरोनतिः किमपरं हेयं भवेन् मानिनाम् ।
इत्यालोच्य विमुच्य चातकयुवा तेषु स्पृहामादराद् उद्ग्रीवस् तव वारिवाह कुरुते धाराधरालोकनम् ॥
कासार्यवर्य कलिताम्बुरुहावतंस मुक्तासमानजलबिन्दुतरङ्गरङ्ग ।
किं भूषणं तव बकैर्बहुभिः कुरार्वैर् हंसैर्विना कलरवैर्नरदेवपूज्यैः ॥
कासि त्वं वद चौर्यकारिणि कुतः, कस्त्वं, पुरोयामिकः किं ब्रूषे, मुषितौ सुवर्णकलशौ भूपस्य, केन, त्वया ।
कुत्र स्तः, प्रकटौ तवाञ्चलतटे, कुत्रेति, तप्तश्यताम् इत्युक्ते धृतवल्लवीकुचयुगस्त्वं पातु पीताम्बरः ॥
कासी विवर्जयेच् चौर्यं निद्रालुश् चर्मंचौरिकाम् ।
जिह्वालौल्यं च रोगाढ्यो जीवितुं योऽत्र वाञ्छति ॥
कासे श्वासे तथा शोषे मन्दाग्नौ विषमज्वरे ।
प्रमेहे मूत्रकृच्छ्रे च सेवयेन्मधुपिप्पलीम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0