महासुभाषितसंग्रह · श्लोक 9935-9954
काशांशुका विकचपद्ममनोज्ञवक्त्रा सोन्मादहंसरवनूपुरनादरम्या ।
आपक्वशालिरुचिरा तनुगात्रयष्टिः प्रात्पा शरन् नववधूरिव रूपरम्या ॥
काशाः काशा इवाभान्ति सरांसीव सरांसि च ।
चेतांस्याचिक्षिपुर्यूनां निम्नगा इव निम्नगाः ॥
काशाः क्षीरनिकाशा दधिशरवर्णानि सप्तपर्णानि ।
नवनीतनिभश्चन्द्रः शरदि च तक्रप्रभा ज्योत्स्ना ॥
काशीयं समलंकृता निरुपमस्वर्गापगासंभव- स्थूलोत्तारतरङ्गबिन्दुविलसन्मुक्ताफलश्रेणिभिः ।
चञ्चच्चञ्चलचञ्चरीकनिकरश्यामाम्बरा राजते कासारस्थविनिद्रपद्मनयना विश्वेश्वरप्रेयसी ॥
का शृङ्गारकथा कुतूहलकथा गीतादिविद्याकया मद्यत्कुम्भिकथा तुरङ्गमकथा कोदण्डदीक्षाकथा ।
एकैवास्ति मिथः पलायनकथा त्वद्भीतरक्षःपतेर् देव श्रीरघुनाथ तस्य नगरे स्वप्नेऽपि नान्या कथा ॥
काशैर्मही शिशिरदीधितिना रजन्यो हंसैर्जलानि सरितां कुमुदैः सरांसि ।
सप्तच्छदैः कुसुमभारनतैर्वनान्ताः शुक्लीकृतान्युपवनानि च मालतीभिः ॥
का शैलपुत्री किमु नेत्ररम्यं शुकार्भकः किं कुरुते फलानि ।
मोक्षस्य दाता स्मरणेन को वा गौरीमुखं चुम्बति वासुदेवः ॥
काश्मर्याः कृतमालमुद्गतदलं कोयष्टिकष्टीकते तीराश्मन्तकशिम्बिचुम्बितमुखा धावन्त्यपः पूर्णिकाः ।
दात्यूहैस्तिनिशस्य कोटरवति स्कन्धे निलीय स्थितं वीरुन्नीडकपोतकूजितमनुक्रन्दन्त्यधः कुक्कुटाः ॥
काश्मीरकर्दमकषायकपोलपाली कह्लारदामकलिकाकमनीयचूली ।
काचिद् विहारविशिखामुपयाति चोली पालीलसत्करतलामलकस्तनाली ॥
काश्मीरगौरवपुषामभिसारिकाणाम् आबद्धरेखमभितो रुचिमञ्जरीभिः ।
एतत् तमालदलनीलतमं तमिस्रं तत्प्रेमहेमनिकषोपलतां तनोति ॥
काश्मीरद्रवगौरि हन्त किमयं भूयोऽङ्गरागे ग्रहः को वा नीलसरोरुहाक्षि नितरां नेत्राञ्जने संभ्रमः ।
रक्ताशोकदलोपमेयचरणे किं लाक्षया दत्तया नो रागान्तरमीहते निजरुचा विभ्राजमानो मणिः ॥
काश्मीरधूलीकलिकाविराजद्- बालेन्दुरेखातिलकाभिरामा ।
कृकाटिकाकीलितकेशपाशा सा वैष्णवी सारसपत्रनेत्रा ॥
काश्मीरपङ्कखचितस्तनपृष्ठताम्र- पट्टावकीर्णदयितार्द्रनखाक्षराली ।
एणीदृशः कुसुमचापनरेन्द्रदत्त- तारुण्यशासनमिव प्रकटीकरोति ॥
काश्मीरीगात्रलेखासु लोलल्लावण्यवीचिषु ।
द्रावयित्वेव विन्यस्तं स्वर्णं षोडशवर्णकम् ॥
काश्मीरेण दिहानमम्बरतलं वामभ्रुवामानन- द्वैराज्यं विदधानमिन्दुदृषदां भिन्दानमम्भःशिराः ।
प्रत्युद्यत्पुरुहूतपत्तनवधूदत्तार्घदूर्वाङ्कुर- क्षीवोत्सङ्गकुरङ्गमैन्दवमिदं तद्विम्बमुज्जृम्भते ॥
काश्यां तिष्ठ सखे सुपर्वनिवहैर्नित्यं नुतायां भज श्रीकण्ठं निजभक्तरक्षणविधौ दक्षं दयावारिधिम् ।
गाङ्गे वारिणि पापहारिणि कुरु स्नानं स्मर श्रीपतिं त्वं कष्टेन विनैव मोक्षपदवीं प्राणात्यये प्राप्स्यसि ॥
काश्यां तु मरणान्मुक्तिर् जननात् कमलालये ।
दर्शनादभ्रसरसः स्मरणादरुणाचले ॥
काश्यां निपातय वपुः श्वपचालये वा स्वर्गं नय त्वमपवर्गमधोगतिं वा ।
अद्यैव वा कुरु दयां पुनरायतौ वा कः संभ्रमो मम, धने धनिनः प्रमाणम् ॥
काश्यामाकृतिमीशितुर्न लभते हृद्याहितातत्त्वधीर् यस्य श्रीरिव साऽऽभवत् प्रियतमा या सर्वदाराधिका ।
शश्वत् तद्रतचेतसस् तव पुरापुण्यान्यगण्यानि यद् ब्रह्माद्वैतसुखेऽपि तद्भजनतो मन्दादरं ते मनः ॥
का श्लाघ्या गुणिनां, क्षमा, परिभवः को, यः स्वकुल्यैः कृतः किं दुःखं, परसंश्रयो, जगति कः श्लाघ्यो, य आश्रीयते ।
को मृत्युर्व्यसनं, शुचं जहति के, यैर्निर्जिताः शत्रवः कैर्विज्ञातमिदं, विराटनगरे छन्नस्थितैः पाण्डवैः ॥
काषायान्न च भोजनादिनियमान्नो वा वने वासतो व्याख्यानादथ वा मुनिव्रतभराच्चित्तोद्भवः क्षीयते ।
किं तु स्फीतकलिन्दशैलतनयातीरेषु विक्रीडतो गोविन्दस्य पदारविन्दभजनारम्भस्य लेशादपि ॥
काष्ठं कल्पतरुः सुमेरुरचलश्चिन्तामणिः प्रस्तरः सूर्यस्तीव्रकरः शशी च विकलः क्षारो हि वारां निधिः ।
कामो नष्टतनुर्बलिर्दितिसुतो नन्दी पशुः कामगो नैतांस्ते तुलयामि भो रघुपते कस्योपमा दीयते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0