भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 9975-9979

9975

का स्त्री न प्रणयिवशा का विलसितयो मनोभवविहीनाः ।
को धर्मो निरुपशमः किं सौख्यं वल्लभेन रहितानाम् ॥

9976

कास्विद् अवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या ।
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ॥

9977

काहमस्मि गुहा वक्ति प्रश्नेऽमुष्मिन् किमुत्तरम् ।
कथमुक्तं न जानासि कदर्थयसि यत् सखे ॥

9978

काहर्निशमनुचिन्त्या सम्सारासारता न तु प्रमदा ।
का प्रेयसी विधेया करुणा दाक्षिण्यमथ मैत्री ॥

9979

का हि तुलामधिरोहति भुजगलतायाः प्रतानिनीष्वन्या ।
या खण्डितापि रदनैर् जनयति वदने विचक्षणां सुषमाम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc