महासुभाषितसंग्रह · श्लोक 9915-9934
काव्यं यदीयं गृहमम्बरं वा सुवर्णचित्रोज्ज्वलमाविभाति ।
स नन्दनो नन्दति कुन्दनस्य श्रीकृष्णरामः कविराप्तकामः ॥
काव्यं यद्यपि रसिकं प्रीतिकरं भवति नैकरसबद्धम् ।
सुरतमनाहितकलहं हरिणदृशो नाभिनन्दयति ॥
काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥
काव्यं सुधा रसज्ञानां कामिनां कामिनी सुधा ।
धनं सुधा सलोभानां शान्तिः सन्यसिनां सुधा ॥
काव्यप्रपञ्चचुञ्चू रचयति काव्यं न सारविद् भवति ।
तरवः फलानि सुवते विन्दति सारं पतङ्गसमुदायः ॥
काव्यमय्यो गिरो यावच् चरन्ति विशदा भुवि ।
तावत् सारस्वतं स्थानं कविरासाद्य मोदते ॥
काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥
काव्यस्याक्षरमैत्री- भाजो न च कर्कशा न च ग्राम्याः ।
शब्दा अपि पुरुषा अपि साधव एवार्थबोधाय ॥
काव्यस्याम्रफलस्यापि कोमलस्येतरस्य च ।
बन्धच्छायाविशेषेण रसोऽप्यन्यादृशो भवेत् ॥
काऽव्याकुलिता माद्यति काञ्चनमुद्रां मनोरमामाहुः ।
इह कालिकावतंसित- चन्द्रकला कामिता योग्या ॥
काव्यात्मना मनसि पर्यणमन् पुरा मे पीयूषसारसरसास् तव ये विलासाः ।
तानन्तरेण रमणी रमणीयशीले चेतोहरा सुकविता भविता कथं नः ॥
काव्यामृतं दुर्जनराहुनीतं प्राप्यं भवेन् नो सुमनोजनस्य ।
सच्चक्रमव्याजविराजमान- तैक्ष्ण्यप्रकर्षं यदि नाम न स्यात् ॥
काव्ये गान्धर्वे नृत्तशास्त्रे विधिज्ञं दक्षं दातारं दक्षिणं दाक्षिणात्यम् ।
वेश्या का नेच्छेत् स्वामिनं कोङ्कणानां स्याच्चेदस्य स्त्रीष्वार्जवात् संनिपातः ॥
काव्येन मूर्खधनिनं प्रणयेन नीचं वेश्यां श्रुतेन शठशात्रवमार्जवेन ।
इच्छन्ति ये जगति रञ्जयितुं विमूढास् तेषामरण्यरुदितेन समः प्रयासः ॥
काव्ये भाव्यं गुणैस् तत्र दुर्जना दूषयन्ति यत् ।
न दुर्गतगृहे संधिर् दीयते जातु दस्युभिः ॥
काव्ये भव्यतमेऽपि विज्ञनिवहैरास्वाद्यमाने मुहुर् दोषान्वेषणमेव मत्सरजुषां नैसर्गिको दुर्ग्रहः ।
कासारेऽपि विकासिपङ्कजचये खेलन्मराले पुनः क्रौञ्चश्चञ्चुपुटेन कुञ्चितवपुः शम्बूकमन्वेषते ॥
काव्ये शुभे विरचिते खलु नो खलेभ्यः कश्चिद् गुणो भवति यद्यपि सम्प्रतीह ।
कुर्यां तथापि सुजनार्थमिदं यतः किं यूकाभयेन परिधानविमोक्षणं स्यात् ॥
काव्येषु नाटकं रम्यं तत्रापि च शकुन्तला ।
तत्रापि च चतुर्थोऽङ्कस् तत्र श्लोकचतुष्टयम् ॥
काव्यैकपात्रविलसद्गुणदोषदुग्ध- पाथःसमूहपृथगुद्धरणे विदग्धाः ।
जानन्ति कर्तुमभियुक्ततया विभागं चन्द्रावदातमतयः कविराजहंसाः ॥
काव्यैरुपहता वेदाः पुत्रा जामातृभिर्हताः ।
अश्वैरुपहता गावः पण्यस्त्रीभिः कुलाङ्गनाः ॥
का शम्भुकान्ता किमु चन्द्रकान्तं कान्तामुखं किं कुरुते भुजंगः ।
कः श्रीपतिः का विषमा समस्या गौरीमुखं चुम्बति वासुदेवः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0