भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 9895-9914

9895

कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः ।
तत्संघातो बीजरोहप्रवाहस् त्वन्मायैषा तन्निषेधं प्रपद्ये ॥

9896

कालोपभोगिनः सर्वे नित्यमानन्दिता नराः ।
सर्वे सत्यरता नित्यं सर्वे धर्मपरायणाः ॥
कालोपलब्धं कलहंसनाद- माकर्ण्य कर्णामृतमन्तरिक्षे ।
सलीलमुद्धाटितवारिपूरा सरोजिनी सादरमुज्जगाम ॥

9897

कालोऽभ्युपैति सकृदेव नरं कथंचित् प्राप्नोति तं न स पुनः खलु कालकाङ्क्षी ।
कालेन गोचरगताननपेक्ष्य भक्ष्यान् मन्दक्रमोऽप्यजगरः समुपैति सिद्धिम् ॥

9898

कालो मधुः कुपित एष च पुष्पधन्वा धीरा वहन्ति रतिखेदहराः समीराः ।
केलीवनीयमपि वञ्जुलकुञ्जमञ्जुर् दूरे पतिः कथय किं करणीयमद्य ॥

9899

कालोऽयं भूतमशकघुंधुमानां प्रपातिनाम् ।
ब्रह्माण्डोदुम्बरोत्थानां बृहत्पादपतां गतः ॥

9900

कालो याति गलत्यायुः क्षीयन्ते च मनोरथाः ।
सुकृतं च कृतं किंचित् सतां संस्मरणोचितम् ॥

9901

कालो वा कारणं राज्ञो राजा वा कालकारणम् ।
इति ते संशयो मा भूद् राजा कालस्य कारणम् ॥

9902

कालो विकुरुते भावान् सर्वांल्लोके शुभाशुभान् ।
कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः ॥

9903

कालो हेतुं विकुरुते स्वार्थस् तमनुवर्तते ।
स्वार्थं प्राज्ञोऽभिजानाति प्राज्ञं लोकोऽनुवर्तते ॥

9904

का विद्या कवितां विनार्थिनि जने त्यागं विना श्रीश्च का को धर्मश्च कृपां विना नरपतिः को नाम नीतिं विना ।
कः सूनुर्विनयं विना कुलवधूः का स्वामिभक्तिं विना भोग्यं किं रमणीं विना क्षितितले किं जन्म कीर्तिं विना ॥

9905

का विषमा दैवगतिः किं लष्टं यज्जनो गुणग्राही ।
किं सौख्यं सुकलत्रं किं दुर्ग्राह्यं खलो लोकः ॥

9906

कावेरीं तां समासाद्य विहृतामप्सरोगणैः ।
तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ॥

9907

कावेरी कबरीव भामिनि भुवो देव्याः पुरो दृश्यतां पूगैर्नागलताश्रितैरुपदिशत्याश्लेषविद्याम् इव ।
कर्णाटीजनमज्जनेषु जघनैर्यस्याः पयः प्लावितं पीत्वा नाभिगुहाभिरात्तरुचिभिः प्राचीं दिशं नीयते ॥

9908

कावेरीतीरकर्पूरपरागामोदसोदराः ।
रतिस्वेदलवानेते पुरन्ध्रीणां समीरणाः ॥

9909

कावेरीतीरभूमीरुहभुजगवधूभुक्तमुक्तावशिष्टः कर्णाटीचीनपीनस्तनवसनदशान्दोलनास्प न्दमन्दः ।
लोलल्लाटीललाटालकतिलकलतालास्यलीलाविल् ओलः कष्टं भो दाक्षिणात्य प्रचलति पवनः पान्थ कान्ताकृतान्तः ॥
कावेरीरम्यराजीवविलसद्गन्धबन्धुना ।
मधुमाससमीरेण वर्धते कुत्र कस्य का ॥

9910

कावेरीवारिवेल्लल्लहरिपरिकरक्रीडनक्रान्तशीताः स्फीतश्रीखण्डषण्डभ्रमणभरभव द्भूरिसौरभ्यगर्भाः ।
चोलस्त्रीलोलचेलाञ्चलचलनकलाक्रान्तकान्तास्तनान्त् आ वान्ति प्रेयोवियोगातुरतररमणीवैरिणोऽमी समीराः ॥
कावेरीहृदयाभिरामपुलिने पुण्ये जगन्मङ्गले चन्द्राम्भोजवतीतटे परिसरे धात्रा समाराधिते ।
श्रीरङ्गे भुजगेन्द्रभोगशयने लक्ष्मीमहीसेविते शेते यः पुरुषोत्तमः स भगवान् नारायणः पातु नः ॥
का वेश्या को विरोधोऽयं का प्रशस्तिश्च सङ्गरे ।
वृथा प्राणजिहीर्षूणां मूर्खानामीदृशी मतिः ॥

9911

काव्यं करोति सुकविः सहृदय एव व्यनक्ति तत्तत्त्वम् ।
रत्नं खनिः प्रसूते रचयति शिल्पी तु तत्सुषमान् ॥
काव्यं करोतु परिजल्पतु संस्कृतं वा सर्वाः कलाः समधिगच्छतु वाच्यमानाः ।
लोकस्थितिं यदि न वेत्ति यथानुरूपां सर्वस्य मूर्खनिकरस्य स चक्रवर्ती ॥

9912

काव्यं करोमि न हि चारुतरं करोमि यत्नात् करोमि यदि चारुतरं करोमि ।
भूपालमौलिमणिमण्डितपादपीठ हे साहसाङ्क कवयामि वयामि यामि ॥

9913

काव्यं करोषि किमु ते सुहृदो न सन्ति ये त्वामुदीर्णपवनं विनिवारयन्ति ।
गव्यं घृतं पिब निवातगृहं प्रविश्य वाताधिका हि पुरुषाः कवयो भवन्ति ॥

9914

काव्यं चार्वपि रसिक- प्रीतिकरं भवति नैकरसबद्धम् ।
सुरतमनाहितकलहं हरिणदृशो नाभिनन्दयति ॥
काव्यं चेत् सरसं किमर्थममृतं वक्त्रं कुरङ्गीदृशां चेत् कन्दर्पविपाण्डुगण्डफलकं राकाशशाङ्केन किम् ।
स्वातन्त्र्यं यदि जीवितावधि मुधा स्वर्भूर्भुवो वैभवं वैदर्भी यदि बद्धयौवनभरा प्रीत्या सरत्यापि किम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc