महासुभाषितसंग्रह · श्लोक 9875-9894
कालेन याति क्रिमितां महेन्द्रो महेन्द्रभावं क्रिमिरप्युपैति ।
अयं प्रथीयानयमप्रतिष्ठ इत्येष निष्ठानुचितोऽभिमानः ॥
कालेन रिपुणा संधिः काले मित्रेण विग्रहः ।
कार्यकारणमाश्रित्य कालं क्षिपति पण्डितः ॥
कालेन शीघ्राः प्रविवान्ति वाताः कालेन वृष्टिर्जलदानुपैति ।
कालेन पद्मोत्पलवज्जलं च कालेन पुष्पन्ति नगा वनेषु ॥
काले नीलबलाहके सतडिति प्रीतिप्रदे बर्हिणा आश्चर्यं कथयामि वः शृणुत भो यद् वृत्तमस्मिन् गृहे ।
सौभाग्यव्ययशङ्कयैकशयने कान्ताप्रियाभ्यामहो मानिभ्यां बत रात्रिमेव सकलां चीर्णं प्रवासिव्रतम् ॥
कालेऽन्नस्य क्षुधमवहितो दित्समानो विधृत्य नो भोक्तव्यं प्रथममतिथेर्यः सदा तिष्ठतीति ।
तस्याप्राप्तावपि गतमलं पुण्यराशिं श्रयन्तं तं दातारं जिनपतिमते मुख्यमाहुर्जिनेद्राः ॥
काले महत्यनवधावपतन् कदापि क्वाप्यन्तिमे जनुषि कोऽपि गतिं लभेत ।
इत्थं समर्थनविधिः परमागमानां पर्यायसूक्तिविधया नयनं नञर्थे ॥
काले मृदुर्यो भवति काले भवति दारुणः ।
राजा लोकद्वयापेक्षी तस्य लोकद्वयं भवेत् ॥
काले मृदुर्यो भवति काले भवति दारुणः ।
स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च ॥
काले मृदुर्यो भवति काले भवति दारुणः ।
स साधयति कृत्यानि शत्रूंश्चैवाधितिष्ठति ॥
काले भृदुश्च तीक्ष्णश्च नृपः स्याद् यदि सूर्यवत् ।
उदयः क्रियते तस्य मण्डलेनानुरागिणा ॥
काले यथावधिगत- नरपतिकोपाद्यशेषवृत्तान्तः ।
नृपभवने नतमूर्तिः संयतवस्त्रः शनैः प्रविशेत् ॥
काले वाप्यथवाकाले संध्यावन्दनतत्परः ।
अविद्यो वा सविद्यो वा ब्राह्मणो मामकी तनुः ॥
काले वारिधराणाम् अपतितया नैव शक्यते स्थातुम् ।
उत्कण्ठितासि तरले न हि न हि सखि पिच्छिलः पन्थाः ॥
काले विद्युत्प्रभाजाले शिखिताण्डवमण्डिते ।
कान्तः सर्वजनाभीष्टो बालेन्दुः खे न लभ्यते ॥
काले संततवर्षिणो जलमुचः सस्यैः समृद्धा धरा भूपाला निजधर्मपालनपरा विप्रास्त्रयीनिर्भराः ।
स्वादुक्षीरनतोधसः प्रतिदिनं गावो निरस्तापदः सन्तः शान्तिपरा भवन्तु कृतिनः सौजन्यभाजो जनाः ॥
काले सहिष्णुर्गिरिवद् असहिष्णुश्च वह्निवत् ।
स्कन्धेनापि वहेच्छत्रून् प्रियाणि समुदाहरन् ॥
काले हितं मितं ब्रूयाद् अविसंवादि पेशलम् ।
पूर्वाभिभाषी सुमुखः सुशीलः करुणो मृदुः ॥
काले हितमिताहारविहारी विधसाशनः ।
अदीनात्मा च सुस्वप्नः शुचिः स्यात् सर्वदा नरः ॥
का लोकमाता किमु देहमुख्यं रते किमादौ कुरुते मनुष्यः ।
को दैत्यहन्ता वद वै क्रमेण गौरीमुखं चुम्बति वासुदेवः ॥
कालो देशः क्रिया कर्ता करणं कार्यमागमः ।
द्रव्यं फलमिति ब्रह्मन् नवधोक्तोऽजया हरिः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0