महासुभाषितसंग्रह · श्लोक 9855-9874
कालिन्दीराशिरूर्ध्वं ननु मधुपकुलं मालतीपुञ्जगं वा सन्दोहं वैणनाभेर्जयति शशिमुखीकेशजालं मनोज्ञम् ।
भ्रान्तिं प्राप्नोषि किं त्वं बत गरलधराभोग एष प्रचण्डो लोकं प्रत्यक्षभूतं ग्रसति बत बलाद् यन्न भूयःसुखित्वम् ॥
कालिन्दीवीचिपुञ्जैः कुवलयविपिनैरिन्द्रनीलच्छटाभिः शैवालैः कज्जलौघैरलितिमिरभरैर्बालजीमूतजालैः ।
कस्तूरीकोकिलानां ततिभिरिव सहाचाकचिक्यप्रपञ्चैस् त्रैलोक्यं पूरयन्ती शमयतु विपदः शांभवी कण्ठनाला ॥
कालिन्द्याः पुलिनं प्रदोषमरुतो रम्याः शशाङ्कांशवः सन्तापं न हरन्तु नाम नितरां कुर्वन्ति कस्मात् पुनः ।
सन्दष्टं व्रजयोषितामिह हरेः संशृण्वतोऽन्तःपुरे निःश्वासा प्रसृता चयन्ति रमणीसौभाग्यगर्वच्छिदः ॥
कालिन्द्याः पुलिनेन्द्रनीलशकलश्यामाम्भसोऽन्तर्जले मग्नस्याञ्जनपुञ्जमेचकनिभस्याहेः कुतोऽन्वेषणम् ।
ताराभाः फणचक्रवालमणयो न स्युर् यदि द्योतिनो यैरेवोन्नतिमाप्नुवन्ति गुणिनस् तैरेव यान्त्यापदम् ॥
कालिन्द्याः पुलिनेषु केलिकुपितामुत्सृज्य रासे रसं गच्छन्तीमनुगच्छतोऽश्रुकलुषां कंसद्विषो राधिकाम् ।
तत्पादप्रतिमानिवेशितपदस्योद्भूतरोमोद्गतेर् अक्षुण्णोऽनुनयः प्रसन्नदयितादृप्टस्य पुष्णातु वः ॥
काली कलकलरूपा महिषासुरविनाशिनी वीरा ।
शुम्भादाननिशुम्भा- स्वादनतोषावतु त्वां न् पते ॥
कालीकेलीकलापक्रमकलितकलाकौतुकी कुन्दकान्तिः कल्पान्ते कालकल्पः क्रतुकदनकथाकन्दलीकूटकन्दः ।
काकोलक्रूरकण्ठः कलितकलकलत्क्लान्तकन्दर्पकान्ता- कारुण्याक्रान्तकान्तः कलयतु कुशलं किङ्कराणां कपर्दी ॥
कालीनागग्रहव्यग्रे श्रीकृष्णे यमुनातटे ।
झंपयाधोमुखे जाते विपरीतं जगत्त्रयम् ॥
कालीयकक्षोदविलेपनश्रियं दिशद् दिशामुल्लसदंशुमद्द्युति ।
खातं खुरैर्मुद्गभुजां विपप्रथे गिरेरधः काञ्चनभूमिजं रजः ॥
कालीयैः कुचकाञ्चनाचलचमत्कारः किमुत्सार्यते कीदृक् कुङ्कमकेसरत्विषि मुखे कस्तूरिकालेपनम् ।
स्फीतेऽस्मित् जघने सरोजवदने किं नीलचोलार्पणं कस्मै साहसिनि त्वमिच्छसि विधेर्विन्यासमन्यादृशम् ॥
कालुष्यं जनयञ्जडस्य रचयन् धर्मद्रुमोन्सूलनं क्लिश्यन्नीतिकृपाक्षमाकमलिनीं लोभाम्बुधिं वधैयन् ।
मर्यादातटमुद्रुजञ्छुभमनोहंसप्रवासं दिशन् किं न क्लेशकरः परिग्रहनदीपूरः प्रवृद्धिं गतः ॥
कालुष्यं पयसां विलोक्य शनकैरुड्डीय हंसा गता धाराजर्जरकेसरास्फुटरुचः पद्मा निमग्ना जले ।
सा सर्वर्तुसुखावतारपदवी छन्ना तृणैर्नूतनैः कष्टं तादृगपि स्वभावविमलं वृद्ध्यैव नष्टं सरः ॥
कालुष्यमुद्वीक्ष्य विधुं कलङ्किनं बुधा यदाहुर्मम सङ्गतं न तत् ।
जाने निजाङ्के दयितास्य वर्तते निशीथिनीनाथकलङ्किता नहि ॥
काले काले न किमुपनतं भुञ्जते भोज्यजातं गृह्णन्त्यम्भो न किमथ न किं संविशन्ति क्षपासु ।
पुष्णन्ति स्वान् न किमु पृथुकान् स्त्रीषु किं नो रमन्ते कृत्याकृत्यव्यपगतधियां कस्तिरश्चां च भेदः ॥
काले काले विरेच्यं स्यात् पात्रं पूरयितुं पुनः ।
सज्जीकुर्मो यदावाप्तुं गुर्वीं ग्रहणशीलताम् ।
स्वात्मनोऽन्तस् तदस्माभी रिक्ततैवानुभूयते ॥
काले कथंचिच् चरतां धवानां कान्त्या स्वया कर्दमितेऽन्तरिक्षे ।
अम्भोधराः श्रान्तिजुषामभूवन् आलम्बदण्डा इव वारिधाराः ॥
काले खल्वागता देव्यः पुत्रे मोहमुपागते ।
हस्तस्पर्शो हि मात् णाम् अजलस्य जलाञ्जलिः ॥
काले तरोरनुपकारि फलं फलित्वा लज्जावशादुचित एव विनाशयोगः ।
एतत् तु चित्रमुपकृत्य फलैः परेभ्यः प्राणान् निजान् झटिति यत् कदली जहाति ॥
कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः ।
मृते भर्तरि पुत्रस् तु वाच्यो मातुररक्षिता ॥
काले देशे यथायुक्तं नरः कुर्वन्नुपैति काम् ।
भुक्तवन्तावलप्स्येतां किमन्नमकरिष्यताम् ॥
काले धर्मार्थकामान् यः संमन्त्र्य सचिवैः सह ।
निषेवेतात्मवांल्लोके न स व्यसनमाप्नुयात् ॥
कालेन कृष्णाश्च सिताश्च रात्र्यः कालेन चन्द्रः परिपूर्णबिम्बः ।
नाकालतः पुष्पफलं नगानां नाकालवेगाः सरितो वहन्ति ॥
कालेन क्षितिवारिवह्निपवनव्योमादियुक्तं जगद् ब्रह्माद्याश्च सुराः प्रयान्ति विलयं विद्मो विवारादिति ।
पश्यामोऽपि विनश्यतेऽनवरतं लोकाननेकान् मुधा मायामोहमयीं भवप्रणयिनीं नास्थां जहीमो वयम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0